आत्मगृहीत्यधिकरण...
प्र. -आत्मगृहीत्यधिकरणमारचयत।
अधिकरणसङ्गति: -
तृतीयाध्याये तृतीयपादे पूर्वतनाधिकरणे वाक्यभेदप्रसङ्ग: उक्त:।अत्रापि तथैव वाक्यभेद: सम्भवति इति दृष्टान्तसङ्गत्या आरभ्यते इदमधिकरणम्।
विषय: -
आत्मा वा अरे इदमग्र आसीत्।
विशय:-
प्रकृते आत्मशब्देन हिरण्यगर्भ: ग्राह्य: अथवा ईश्वर:।
पूर्वपक्ष:-
हिरण्यगर्भ: ग्राह्य: यतो हि
१ पूर्ववाक्ये प्रजापते रेतो देवा: इति उल्लेख: अस्ति। तत्र प्रजापतिशब्द: हिरण्यगर्भस्य कृते प्रयुक्त:।तमेवोद्दिश्य प्रतिपाद्यते आत्मा वा अरे इदमग्र आसीत् इति मन्तव्यम्। अन्यथा वाक्यं भिद्यते।
२ गामानयत् इति अत्र वचनं विद्यते। अशरीरस्य परमेश्वरस्य गवानयनादि कर्म न सम्भवति।
३ प्रकृते भूतसृष्टे: उल्लेख: नास्ति।सहसा लोकसृष्टि: प्रतिपादिता। अन्यत्र भूतसृष्टिरूपं कर्म परमेश्वरस्य उक्तम्।
उत्तरपक्ष:-अत्र आत्मशब्देन परमेश्वर एव ग्राह्य:यतो हि-
१ उत्तरत्र स ईक्षत लोकान्नु सृजा इति स लोकानसृजत इति तस्य विशेषणं कृतम्। ईक्षणमिति परमेश्वरस्य एव सम्भवति।
२ यद्यपि अत्र भूतसृष्टे: उल्लेख: नास्ति तथापि आत्मा वा इदमेक एवाग्र आसीत् इति अवधारणात् परमेश्वरस्य एव लोकसृष्टि: इति एतत् कार्यं मन्तव्यम्।अत्र भूतसृष्टि: नोक्ता चेत् अन्यत्रोक्तस्य भूतकर्तृत्वस्यात्र उपसंहार: कार्य:।
३ गवानयनादिकर्म भूतार्थवाद:। न तस्य स्वार्थे तात्पर्यम्।न च गवानयनादिकर्मवेदनस्य किमपि पुरुषार्थरूपं प्रयोजनं विद्यते।
४ गवानयनादिकर्म अर्थवादत्वेन स्वीकृतं चेदपि विवक्षितार्थहानि: न भवति यतो हि लोकसृष्टिप्रतिपादनं विवक्षितं नास्ति जीवब्रह्मैक्यमत्र विवक्षितमस्ति। अत्र उपक्रम: आत्मा वै इति तथा उपसंहार: स एतमेव पुरुषं ब्रह्म ततममपश्यत् प्रज्ञानं ब्रह्म इति।
निर्णय: -
अत: प्रकृते आत्मशब्देन परमातमा एव ग्राह्य:।
३.३ ब्रह्मसूत्रशाङ्करभाष्य-प्रश्नोत्तरसङ्ग्रह: