वेधाद्यधिकरण...

विकिपुस्तकानि तः

प्र वेधाद्यधिकरणमारचयत।
उ.-
अधिकरणसङ्गति:- पूर्वस्मिन् अधिकरणे?
विषय:
सर्वं प्रविध्य हृदयं प्रविध्य...इत्यदय: मन्त्रा:।
विशय:-
एष मन्त्र: आथर्वणिकानाम् उपनिषदारम्भे पठित:। अस्य विद्याङ्गत्वमस्ति अथवा नास्ति?
पूर्वपक्ष:-
अस्य विद्याकर्मत्वमस्ति, सान्निद्ध्यात्।
उत्तरपक्ष:-
अस्य विद्याकर्मत्वं नास्ति,वेधाद्यर्थभेदात्।अत्र हृदयवेधनादि कर्मोक्तम्।तच्चा लिङ्गप्रमाणेन अभिचाराङ्गम्।लिङ्गप्रमाणं सन्निधिप्रमाणस्यापेक्षया सबलम्।अत: अस्य अभिचाराङ्गत्वमेव मन्तव्यं, न तु विद्याङ्गत्वम्।
निर्णय: -
सर्वं प्रविध्य इत्यदीनां मन्त्राणां विद्याङ्गत्वं नास्ति अत: विद्यायां तेषामुपसंहार: नास्ति।

३.३   ब्रह्मसूत्रशाङ्करभाष्य-प्रश्नोत्तरसङ्ग्रह:
"https://sa.wikibooks.org/w/index.php?title=वेधाद्यधिकरण...&oldid=5705" इत्यस्माद् प्रतिप्राप्तम्