हान्यधिकरण...
प्र.- हान्यधिकरणमारचयत।
उ.-
अधिरणसङ्गति:-
तृतीयाध्याये तृतीयपादे पूर्वस्मिन् वेधाद्यधिकरणे उक्तं यद् विद्याप्रकरणे पठितस्यापि गुणस्य विद्यानुपकारे सति अनुपसंहार:।एवमेव हानसन्निधौ पठितस्यापि उपायनस्य अनुपसंहार: भवतु इति दृष्टान्तसङ्गत्या आरभ्यते इदमधिकरणम्।
विषय:
१ तस्य पुत्रा दायमुपयन्ति सुहृद: साधुकृत्यां द्विषन्त: पापकृत्याम्।-शाट्यायनिशाखा
२ अश्व इव रोमाणि विधूय पापम्...।-ताण्ड्यशाखा
३ तदा विद्वान् पुण्यपापे विधूय... आथर्वणिका:
विशय:-
आथर्वणिका: तदा विद्वान् पुण्यपापे विधूय इति हानमात्रं पठन्ति ।तत्र पुत्रादिभि: कृतमुपायनम् उपसंहरणीयं न वा?
पूर्वपक्ष:-
नोपसंहरणीयम्, यतो हि तेन उपसंहारेण न कोऽपि उपकारो भवति प्रकृतस्य हानस्य।अत: अनुपकारित्वात् नोपसंहरणीयम्।
उत्तरपक्ष:-
हानौ उपायनम् उपसंहरणीयम्, उपायनशब्दशेषत्वात्।
१ तत् सुकृतदुष्कृते विधूनुते।तस्य प्रिया ज्ञातय: सुकृतमुपयन्ति अप्रिया दुष्कृतम्...।कौ.१.७
इति अत्र विधूनुते इति पदेन हानमुक्तम्। तस्य वाक्यशेषे उपयन्ति इति पदेन उपायनमुक्तम्। अत: अन्यत्रापि हानस्थले उपायनस्योपसंहारो न्याय्य:।
२ हानौ इतरेण तदुपादानमावश्यकम् अतोऽपि हानस्थले उपायनस्योपसंहारो न्याय्य:।
३ शाखागतानां विशेषाणां शाखान्ते उपसंहार: अन्यत्रापि दृश्यते यथा कुशविषये, छन्दोविषये, स्तुतिविषये उपगानविषये च।
• यथा कुशविषये – एकत्र कुशा: वानस्पत्य: इति सामान्यं वचनं श्रूयते। अन्यत्र औदुम्बरा: कुशा: इति विशेष: श्रूयते। तदा अस्य विशेषस्यान्यत्र उपसंहार: भवति।
• छन्दोविषये- एकत्र देवच्छन्दसां तथा आसुरच्छन्दसां गानं सामान्येन श्रूयते। अपरत्र ‘देवच्छन्दांसि पूर्वाणि’ इति विशेष: श्रूयते। अत: सामान्यश्रुतिस्थाने अस्य विशेषस्य उपसंहार: भवति।
• इ) स्तुतिविषये षोडशीस्तोत्रे कालविशेषवचनं नास्ति।परमन्यत्र ऋग्वेदे ‘समयाध्युषिते सूर्ये’ इति कालविशेषवचनमस्ति।अस्य कालविशेषस्य अन्यत्रोपसंहार: भवति।
• उ) उपगानविषये – केचन अविशेषेण उपगानं समामनन्ति, केचन विशेषेण।तदा विशेषोपगानस्य अन्यत्रोपसंहारो भवति।
४ श्रुत्यन्तरगत: विशेष: यदि श्रुत्यन्तरे नोपसंह्रियते तर्हि सर्वत्र विकल्प: स्यात्। स च अष्टदोषदूषित:। उपसंहारेण व्यवस्था भवति चेत् विकल्प: परिहरणीय:।
निर्णय:।-
हानौ उपायनमुपसंहरणीयम्।
३.३ ब्रह्मसूत्रशाङ्करभाष्य-प्रश्नोत्तरसङ्ग्रह: