गतेरर्थवत्त्वाधिकरणं...

विकिपुस्तकानि तः

प्र. गतेरर्थवत्त्वाधिकरणं रचयत।
उ.
गतेरर्थवत्त्वमुभयथान्यथा हि विरोध:।३.३.९
उपपन्नस्तल्लक्षणार्थोपलब्धेर्लोकवत्।३.३.२९
विषय:-
पुण्यपापहानसन्निधौ देवयान: पन्था: यत्र श्रूयते तानि वचनानि तथा
पुण्यपापहानसन्निधौ देवयान: पन्था: यत्र न श्रूयते तानि वचनानि।
विशय:-
हानौ अविशेषेण देवयानपन्था: संनिपतति अथवा विभागेन (क्वचित् संनिपतति क्वचित् न )?
पूर्वपक्ष:-
अविभागेन सर्वत्र संनिपतति। यथा हानौ उपायनस्य अनुवृत्ति: सर्वत्र तथैव गतेरपि।
उत्तरपक्ष:-
देवयानगते: सार्थता उभयथा (सगुणोपासनायां गति: अस्ति, निर्गुणोपासनायां गति: नास्ति इति) एव भवति।अन्यथा पुण्यपापे विधूय निरञ्जन: परमं साम्यमुपैति (मु.३.१.३) इत्यनेन वचनेन विरोध: जायते।
अयमुभयथाभाव: उपपन्न:।तत् गति:।लक्षणं कारणम्।गति: यत्र कारणं तादृश: अर्थ: सगुणोपासनायाम् उपलभ्यते, न निर्गुणोपासनायाम्। लोके ग्रामप्राप्त्यर्थं मार्ग: आवश्यक: भवति, न तु स्वास्थप्राप्त्यर्थम्।
निर्णय: -
मार्ग: व्यवस्थित:।

३.३   ब्रह्मसूत्रशाङ्करभाष्य-प्रश्नोत्तरसङ्ग्रह: