अनियमाद्यधिकरणं...

विकिपुस्तकानि तः

प्र.- अनियमाद्यधिकरणं रचयत।(३.३.२१)
सङ्गति:-
तृतीयाध्याये तृतीयपादे पूर्वस्मिन् अधिकरणे सगुणोपासनायां मार्गस्य सद्भाव:
निर्गुणोपासनायां मार्गस्याभाव: इति व्यवस्था कृता।
तथैव अत्रापि सगुणे क्वचित् मार्गस्य भाव: क्वचिदभाव: अस्तु इति दृष्टान्तसङ्गत्या इदमधिकरणम् आरभ्यते।अत्र इदं सूत्रम्।
अनियम: सर्वासामविरोध: शब्दानुमानाभ्याम्।३.३.२१
विषय:-
पूर्वपक्ष:-
मार्ग: श्रुतस्थलेषु एव नाश्रुतेषु प्रकरणात्।
छान्दोग्ये पञ्चाग्निविद्यायां उपकोसलविद्यायां च मार्ग:पठ्यते अन्यत्र क्वचित् न पठ्यते इति एतद् अनर्थकं स्यात्।
उत्तरपक्ष:-
मार्गस्य सगुणोपासनेषु अनियम:-
१ श्रुते:।ये चेमे अरण्ये श्रद्धा तप इत्युपासते तेऽर्चिषमभिसंभवन्ति।(छा.१०.५.१)।एतेन अन्यशाखिनामपि एषा गति: इति ज्ञायते।
२ स्मृते:।शुक्लकृष्णे गती ह्येते जगत: शाश्वती मते (भ.गी.८.२६)
३ द्विवारं गतिप्रतिपादनम् उपास्यचिन्तनार्थम्।
निर्णय:-
सगुणोपासनेषु मार्गस्य अनियम:।

३.३   ब्रह्मसूत्रशाङ्करभाष्य-प्रश्नोत्तरसङ्ग्रह:
"https://sa.wikibooks.org/w/index.php?title=अनियमाद्यधिकरणं...&oldid=5709" इत्यस्माद् प्रतिप्राप्तम्