यावदधिकाराधिकरणम्...

विकिपुस्तकानि तः

प्र.- यावदधिकाराधिकरणम् आरचयितव्यम्।(३.३.३२)
अधिकरणसङ्गति: -
तृतीयाध्याये तृतीयपादे
यावदधिकारमवस्थितिरधिकारिणाम्।(३.३.३२)
विषय: - तस्य तावदेव ...
विशय: - विद्याया: पाक्षिकं मोक्षहेतुत्वम् अहेतुत्वं वा?

पूर्वपक्ष:- पाक्षिकं मोक्षहेतुत्वं यतो हि व्यासादीनां विद्यावतामपि देहान्तरोत्पत्ति: पुराणेषु स्मर्यते।
उत्तरपक्ष: - व्यासादयोऽधिकारिण:।सत्यपि सम्यग्दर्शने तेषां देहान्तरोत्पत्ति: अधिकारवशात्। यावदधिकारं तेषां देहोत्पाद:।सकृत्प्रवृत्तेऽपि देहे देहान्तरकारणं कर्मान्तरं तेषां नोत्पद्यते।
विद्याया: पाक्षिकं मोक्षहेतुत्वं नास्तीति श्रुतिरपि वदति- भिद्यते हृदयग्रन्थि: छिद्यन्ते सर्वसंशया:।लीयन्ते चास्य कर्माणि तस्मिन् दृष्टे परावरे॥ (मुण्ड.२.२०.८)
विद्याया: पाक्षिकं मोक्षहेतुत्वं नास्तीति स्मृतिरपि वदति- यथैधांसि समिद्धोऽग्नि: भस्मसात् कुरुतेऽर्जुन।ज्ञानाग्नि: सर्वकर्माणि भस्मसात् कुरुते तथा॥(भ.गी.४.३७)

३.३   ब्रह्मसूत्रशाङ्करभाष्य-प्रश्नोत्तरसङ्ग्रह:
"https://sa.wikibooks.org/w/index.php?title=यावदधिकाराधिकरणम्...&oldid=5711" इत्यस्माद् प्रतिप्राप्तम्