अक्षरध्यधिकरणम्...

विकिपुस्तकानि तः

अक्षरध्यधिकरणम् ।(३.३.३३)
अधिकरणसङ्गति:-
अधिकारिणां देहान्तरलाभेऽपि तेषां देहान्तरनिमित्तं कर्म नास्ति।तथैव अन्यत्र पठितानां विशेषनिषेधपरश्रुतीनां ब्रह्मज्ञानहेतुत्वं नास्तीति दृष्टान्तसङ्गति:।
विषय: -
अस्थूलमनण्वह्रस्वम्...(बृ.२.८.८) यत्तदद्रेश्यमग्राह्यम् (मु.१.१.६)
विशय:-
अन्यत्र श्रुतानां विशेषनिषेधवचनानां व्यावस्था वा उपसंहारो वा?
पू.- व्यवस्था, श्रुते:।
१ न आनन्दादिवत् एतेषाम् आत्मलक्षणत्वम्।

उ.- उपसंहार:।
१ श्रुतोपसंहृतनिषेधानां समानता
२ सर्वेषां निषेधानां तद्भाव: (तत् ब्रह्म) ब्रह्मप्रतिपादकत्वम् अस्ति।
३ दार्ढ्यार्थम्।
अक्षरधियां त्वविरोध: सामान्यतद्भावाभ्यामौपसदवत्तदुक्तम्।(३.३.३३)

३.३   ब्रह्मसूत्रशाङ्करभाष्य-प्रश्नोत्तरसङ्ग्रह:
"https://sa.wikibooks.org/w/index.php?title=अक्षरध्यधिकरणम्...&oldid=5712" इत्यस्माद् प्रतिप्राप्तम्