इयदधिकरणं...

विकिपुस्तकानि तः

प्र.- इयदधिकरणं रचयन्तु।(३.३.३४)
उ.-
अधिकरणसङ्गति:-
पूर्वस्मिन् अधिकरणे वेद्यैकत्वात् विद्यैकत्वम् इति प्रतिपादितम्।अत्र तु वेद्यभेद:। अत: विद्यापि भिन्ना मन्तव्या इति प्रत्युदाहरणसङ्गत्या तृतीयाध्याये तृतीयपादे इदमधिकरणं प्रारभ्यते।अत्र एतत् सूत्रम्-
इयदामननात्।३.३.३४
विषय: -
द्वा सुपर्णा सयुजा सखायौ समानं वृक्षं परिषस्वजाते...।मु.३.१.१
ऋतं पिबन्तौ सुकृतस्य लोके ...।क.३.१
विशय: -
उभयत्र विद्यैकत्वमुत विद्यानानात्वम्?
पूर्वपक्ष:-
विद्यानानात्वं रूपभेदात्।वेद्यं विद्याया: रूपमुच्यते। तदुभयत्र भिन्नम्।
द्वा सुपर्णा इत्यत्र एक: एव (ईश्वर:)वेद्य:। ऋतं पिबन्तौ इत्यत्र उभौ वेद्यौ।
उत्तरपक्ष:-
न रूपभेद: वर्तते, ‘इयत्’ इति द्वयो: अभिन्नत्वेन वेद्यत्वात्। ऋतं पिबन्तौ इत्यत्र ईशस्य भोक्तृत्वं छत्रिन्यायेन, न तु वास्तवम्। वस्तुत: तादात्म्यविवक्षया एव जीवोपादानं, नार्थान्तरविवक्षया।
निर्णय:-
विद्यैकत्वम्।

३.३   ब्रह्मसूत्रशाङ्करभाष्य-प्रश्नोत्तरसङ्ग्रह:
"https://sa.wikibooks.org/w/index.php?title=इयदधिकरणं...&oldid=7146" इत्यस्माद् प्रतिप्राप्तम्