सत्यविद्याधिकरणं...

विकिपुस्तकानि तः

सत्यविद्याधिकरणं रचयत।(३.३.३८)
अधिकरणसङ्गति:-
जीवेशयो: व्यतिहारात् द्विरूपा मति: कर्तव्या इति पूर्वतनेऽधिकरणे उक्तम्।तथैव फलद्वैविध्यात् द्विविधा विद्या इति दृष्टान्तसङ्गत्या तृतीयाध्याये तृतीयपादे इदमधिकरणमारभ्यते।
अत्र एतत्सूत्रं विद्यते-
सैव हि सत्यादय:।३.३.३८
विषय:-
महद्यक्षं प्रथमजं वेद सत्यं ब्रह्म।बृहदा. ५.४.१
तद्यत्सत्यमसौ स आदित्य:।बृहदा. ५.५.२
विशय:-
उभयत्र विद्या एका अथवा भिन्ना?
पूर्वपक्ष:-
उभयत्र विद्या भिन्ना, भिन्नफलत्वात्।
महद्यक्षम्... इत्यस्य जयतीमॉंल्लोकान् इति फलम्। तद्यत्सत्यम्... इत्यस्य हन्ति पाप्मानं जहाति च। ‘यत्तद्’ इति प्रकृतापकर्षणेन विद्यैकत्वं न सिद्ध्यति यतो हि तदुपास्यस्य एकत्वाद् उपात्तम्। विद्ये तु भिन्ने एव।
उत्तरपक्ष:-
एका एव सा विद्या, प्रकृतापकर्षणात्।फलभेदस्य उपपत्ति: एवम्-
पापघात: इति अङ्गोपासनाया: फलम्। तत: विद्याभेद: वक्तुं न शक्यते।अङ्गेषु फलश्रुति: अर्थवाद: इति नियमात् तत्फलं न विवक्षितम्। अत्र अधिकारी नोक्त:।अत: स: कल्पनीय: एव।तर्हि लोकजयपापनाशेच्छु: अधिकारी इति कल्पितुं शक्यते।
निर्णय:-
उभयत्र विद्या एका एव।

३.३   ब्रह्मसूत्रशाङ्करभाष्य-प्रश्नोत्तरसङ्ग्रह:
"https://sa.wikibooks.org/w/index.php?title=सत्यविद्याधिकरणं...&oldid=5716" इत्यस्माद् प्रतिप्राप्तम्