अङ्गावबद्धाधिकरण...

विकिपुस्तकानि तः

प्र. अङ्गावबद्धाधिकरणमारचयत।
अङ्गावबद्धास्तु न शाखासु हि प्रतिवेदम्।३.३.५५
मन्त्रादिवद्वाविरोध:।३.३.५६
सङ्गति:-
यथा आत्मधर्मा: शरीरे न भवन्ति, तथा वेदस्य शाखाविशेषगता: धर्मा: शाखान्तरे न भवेयु: इति दृष्टान्तसङ्गत्या तृतीयाध्याये तृतीयपादे अधिकरणमारभ्यते।
विषय: -
ओमित्येतदक्षरमुद्गीथमुपासीत।(छा.१.१.१) इति एतादृशानि कर्माङ्गवचनानि।
विशय:-
एतानि अङ्गानि तत्तत्छाखागतेष्वेव कर्मसु सम्बद्धानि अथवा इतरशाखास्वपि?
पूर्वपक्ष:-
एतानि अङ्गानि तत्तत्छाखागतेष्वेव कर्मसु सम्बद्धानि, सन्निधिप्रमाणत:।
उत्तरपक्ष: -
न। सर्वासु शखासु तानि अनुवर्तेरन्, उद्गीथादिश्रुत्यविशेषात्।श्रुति: सन्निधिप्रमाणाद् बलवती।उद्गीथादिश्रुति: अविशेषा। यदि शाखाविशेषे सन्निधिवशात् व्यवस्थाप्यते, तर्हि सा श्रुति: पीड्येत।नैतद् न्याय्यम्।
केचन मन्त्रा: एवं शाखान्तरेऽपि प्रयुज्यन्ते यथा – ‘कुक्कुटोऽसीति अश्मानमादत्ते कुटरूरसीति वा’तथा एवात्र अङ्गानामपि अविरोधो मन्तव्य:।
निर्णय: -
कर्माङ्गानां सर्वत्रानुवृत्ति:।

३.३   ब्रह्मसूत्रशाङ्करभाष्य-प्रश्नोत्तरसङ्ग्रह:
"https://sa.wikibooks.org/w/index.php?title=अङ्गावबद्धाधिकरण...&oldid=5722" इत्यस्माद् प्रतिप्राप्तम्