काम्याधिकरणम्...

विकिपुस्तकानि तः

काम्याधिकरणम्।(३.३.६०)
काम्यास्तु यथाकामं समुच्चीयेरन् न वा पूर्वहेत्वभावात्।(३.३.६०)
अ.सङ्गति:-
पूर्वाधिकरणे अहङ्ग्रहोपासनायां यथा विकल्प: उक्त: तथा प्रतीकोपासनायामपि भवतु इति दृष्टान्तसङ्गत्या तृतीयाध्याये तृतीयपादे अधिकरणारम्भ:।
विषय:-
प्रतीकोपासनाप्रतिपादकानि वचनानि यथा – नाम ब्रह्मेत्युपासीत।
विशय:-
प्रतीकोपासनायामपि विकल्प: भवतु अथवा समुच्चय: भवतु  ?
पू.-
विकल्प: भवतु। यथा अहङ्ग्रहोपासनायां मत:।
उ.-
न विकल्प:। यथाकामं समुच्चयो वा स्यात्।यतो हि ‘अविशिष्टफलत्वात्’ इति पूर्वोक्त: हेतु: अत्र नास्ति।
निर्णय:-
यथाकामं समुच्चय:।

३.३   ब्रह्मसूत्रशाङ्करभाष्य-प्रश्नोत्तरसङ्ग्रह:
"https://sa.wikibooks.org/w/index.php?title=काम्याधिकरणम्...&oldid=5726" इत्यस्माद् प्रतिप्राप्तम्