यथाश्रयभावाधिकरणम्...

विकिपुस्तकानि तः

यथाश्रयभावाधिकरणम् आरचयत।
अधिकरणसङ्गति:-
पूर्वस्मिन् अधिकरणे उक्तं यद् प्रतीकोपासना: स्वतन्त्रा: अत: तासां यथाकामम् समुच्चयेन अनुष्ठानं सम्भवति।अत्र अङ्गाश्रितोपासना: अङ्गतन्त्रा: अत: तासां यथाकामम् अनुष्ठानं न सम्भवति इति प्रत्युदाहरणसङ्गत्या तृतीयाध्याये तृतीयपादे अधिकरणमिदमारब्धम्।
विषय: -
अङ्गाश्रितोपासनापराणि वचनानि।
विशय:-
कर्माङ्गोद्गीथाश्रयाणाम् उपासनानां समुच्चयेन अनुष्ठानं कार्यमथवा यथाकामम्?
पूर्वपक्ष:-
१ अङ्गेषु यथाश्रयभाव:।३.३.६१
यथा यज्ञस्य अङ्गेषु समुच्चयस्य नियम: वर्तते तथा अङ्गाश्रितानाम् उपासनानामपि समुच्चयस्य नियम: अस्ति।
२ शिष्टेश्च।३.३.६२
यथा प्रधानस्य विधानं भवति, तथा अङ्गानाम् अपि विधानं शिष्टम् (शासितम्, उक्तमिति यावत्)। अत: समुच्चयस्य नियम: अस्ति।
३ समाहारात्।३.३.६३
उद्गातु: उद्गीथस्य दोषसमाहरणं होत्रा क्रियते।एवम् ऋग्वेदोक्त: प्रणव: तथा सामवेदोक्त: उद्गीथ: इति एतयो: विद्ययो: समुच्चय: दृश्यते।अस्माद् एव लिङ्गात् सर्वासाम् उपासनानां समुच्चय: ज्ञायते।
४ गुणसाधारण्यश्रुतेश्च।३.३.६४
ओङ्कार: इति त्रिषु अपि वेदेषु सर्वेषु कर्मसु साधारण: गुण:।अस्मात् लिङ्गादपि उपासनानां समुच्चय: ज्ञायते।
उत्तरपक्ष:-
अङ्गाश्रितानाम् उपासनानां समुच्चयस्य नियम: नास्ति।यतो हि -
१ न वा तत्सहभावाश्रुते:। ३.३.६५
अङ्गानां समुच्चय: श्रूयते परं तस्य अङ्गाश्रितोपासनानां समुच्चयस्य क्वापि श्रवणं नास्ति।
२ दर्शनाच्च।३.३.६६
एवंविद् ह वै ब्रह्मा यज्ञं यजमानं सर्वांश्च ऋत्विजोऽभिरक्षति (छा.४.१७.१०)
निर्णय:-
अङ्गाश्रितोपासनानां समुच्चयस्य नियमो नास्ति।

३.३   ब्रह्मसूत्रशाङ्करभाष्य-प्रश्नोत्तरसङ्ग्रह:
"https://sa.wikibooks.org/w/index.php?title=यथाश्रयभावाधिकरणम्...&oldid=5727" इत्यस्माद् प्रतिप्राप्तम्