अजन्मानो लोका:...

विकिपुस्तकानि तः

मूलम्
अजन्मानो लोकाः किमवयववन्तोऽपि जगतां।
अधिष्ठातारं किं भवविधिरनादृत्य भवति।।
अनीशो वा कुर्याद् भुवनजनने कः परिकरो।
यतो मन्दास्त्वां प्रत्यमरवर संशेरत इमे।। ६।।

पदच्छेदः-
अजन्मानः लोकाः किम् अवयववन्तः अपि जगताम्।अधिष्ठातारं किं भवविधिः अनादृत्य भवति।।
अनीशः वा कुर्याद् भुवनजनने कः परिकरः।यतः मन्दाः त्वां प्रति अमरवर संशेरते इमे।। ६।।

अन्वयः
हे अमरवर, अवयववन्तः अपि लोकाः अजन्मानः किम् ?भवविधिः जगताम् अधिष्ठातारम् अनादृत्य भवति किम्:?अनीशः (जगत्) कुर्याद् वा ? भुवनजनने (अनीशस्य) परिकरः कः ?यतः इमे मन्दाः, (अतः) त्वां प्रति संशेरते ।। ६।।

सरलार्थः-
हे अमरवर, यस्य अवयवाः सन्ति, तस्य जन्म अपि अस्ति।इमे लोकाः सावयवाः तथापि ते जन्मरहिताः इति मन्तव्यं किम्?निर्माणार्थं यः यः व्यापारः, सः सः सकर्तृकः भवति।एवं चेत् जगन्निर्माणार्थं यः व्यापारः सः जगतः अधिष्ठातारं विना स्यात् किम्?यस्य ईशानसामर्थ्यं (कर्तुमकर्तुम् अन्यथाकर्तुं स्वातन्त्र्यं) नास्ति, सः त्रिभुवनं रचयितुं प्रभवेत् किम्? यदि वा कश्चिद् अनीशः जगद् रचयति, तर्हि तस्य सामग्री का? एवं विचारितं चेत् तव त्रिभुवननिर्माणसामर्थ्यं सिद्ध्यति।तथापि एते जनाः मन्दाः अतः तव सामर्थ्यविषये शङ्कां कुर्वन्ति।६


शिवस्तोत्राणि शिवमहिम्न: स्तोत्रं सपदच्छेदान्वयार्थम्
"https://sa.wikibooks.org/w/index.php?title=अजन्मानो_लोका:...&oldid=6161" इत्यस्माद् प्रतिप्राप्तम्