अतिदेशः

विकिपुस्तकानि तः
अत्र गम्यताम् : सञ्चरणम्, अन्वेषणम्

परिचयः[सम्पाद्यताम्]

‘ एकत्र श्रुतस्य अन्यत्र अन्वयः । ’ इति एतस्याः तन्त्रयुक्तेः स्वरूपम् ।यथा वाग्भटाचार्येण सकला हेमन्तचर्या वर्णिता।अनन्तरम् उक्तम्–
अयमेव विधिः कार्यः शिशिरेऽपि........ अ. हृ. सू. ३.१७
अनेन वचनेन ‘हेमन्तचर्यायाः अन्वयः शिशिरचर्यायां भवति’ इति निर्णयः अस्माकं जायते ।एषः निर्णयः नाम अतिदेशतन्त्रयुक्त्या प्राप्तः बोधः। एतस्याः तन्त्रयुक्तेः प्रयोगार्थम अतिदेशवाक्यम् आवश्यकं भवति ।
‘यथा एतद् , तथा तत् ।’ अथवा
‘यथा तत् तथा एतद् ।’
इति अतिदेशवाक्यस्य स्वरूपं भवति । उपरितने उदाहरणे ,
अयमेव विधिः कार्यः शिशिरेऽपि........ अ. हृ. सू. ३.१७
इति एतद् अतिदेशवाक्यम् अस्ति ।
अतिदेशेन यदा अर्थः क्रियते तदा तस्याः तन्त्रयुक्तेः त्रयः घटकाः विचारणीयाः।
१) उक्तार्थः - यथा हेमन्तचर्या ।
२) अतिदेशवाक्यम् - यथा अयमेव विधिः कार्यः शिशिरेऽपि.......अ. हृ. सू. ३.१७
३) अनुक्तार्थः - यथा शिशिरचर्या ।
अ.हृ.सूत्रस्थाने यानि अतिदेशवाक्यानि सन्ति तेषां सङ्कलनम् अत्र प्रस्तूयते । एतस्मिन् अतिदेशवाक्यानां सङ्कलने प्रत्येकं सन्दर्भः नाम अतिदेश-तन्त्रयुक्तेः प्रयोगार्थम् अवसरः ।

अतिदेशवाक्यानि[सम्पाद्यताम्]

अतिदेशवाक्यम्- अयमेव विधिः कार्यः शिशिरोऽपि विशेषतः । अ.हृ.सू.०३.०
उक्तार्थः- हेमन्तचर्या
अनुक्तार्थः- शिशिरचर्या।

अतिदेशवाक्यम् -हिध्मावत्तत्र भेषजम् अ.हृ.सू.०४.००८
उक्तार्थः -हिध्माचिकित्सा
अनुक्तार्थः- उद्गाररोधजन्यानां विकाराणां चिकित्सा।

अतिदेशवाक्यम् हितं विश्रमणं तत्र वातघ्नश्च क्रियाक्रमः । अ.हृ.सू.०४.०१५
उक्तार्थः वातघ्नः क्रियाक्रमः
अनुक्तार्थः श्रमश्वासधारणजन्यानां विकाराणां चिकित्सा।

अतिदेशवाक्यम् सर्वकर्मस्वयं प्रायो व्याधिक्षीणेषु च क्रमः ।
उक्तार्थः स्नेहपरिहारः
अनुक्तार्थः १) कर्मसु विहारनियमः
अनुक्तार्थः २) व्याधिक्षीणे विहारनियमः ।

अतिदेशवाक्यम् तज्जांस्तु तैरेवोत्क्रमयोजितैः ।
उक्तार्थः लंघनम्
अनुक्तार्थः वातक्षयजविकाराणां चिकित्सा

अतिदेशवाक्यम् तज्जांस्तु तैरेवोत्क्रमयोजितैः ।
उक्तार्थः बृंहणम्
अनुक्तार्थः वातवृध्दिजन्यविकाराणां चिकित्सा

अतिदेशवाक्यम्- कार्योऽत्र कासहा सुतरां विधिः । अ.हृ.सू.०४.०१४
उक्तार्थः- कासचिकित्सा
अनुक्तार्थः- कासवेगरोधजन्यानां विकाराणां चिकित्सा।

अतिदेशवाक्यम्- जृम्भायाः क्षववद्रोगाः... । अ.हृ.सू.०४.०१५
उक्तार्थः- क्षवथुधारणजन्याः रोगाः।
अनुक्तार्थः- जृम्भाधारणजन्याः रोगाः

अतिदेशवाक्यम्- सर्वश्चानिलजिद्विधिः... अ.हृ.सू.०४.०१५
उक्तार्थः- वातस्य सामान्या चिकित्सा।
अनुक्तार्थः- जृम्भाधारणजन्यानां रोगाणां चिकित्सा।

अतिदेशवाक्यम्- अथर्वविहिता शान्तिः ... । अ.हृ.सू.०४.०३३
उक्तार्थः- अथर्वविहितं शान्तिकर्म
अनुक्तार्थः- अनुत्पन्नानां विकाराणाम् अनुत्पत्यै तथा उत्पन्नानां विकाराणां शान्तये चिकित्सा।

अतिदेशवाक्यम्-तैलं स्वयोनिवत् । अ.हृ.सू.०५.०५५
उक्तार्थः -तैलयोनिगुणाः
अनुक्तार्थः- तैलगुणाः

अतिदेशवाक्यम्- मांसानुगस्वरूपौ च विद्यान्मेदोऽपि ताविव । अ.हृ.सू.०५.०६२
उक्तार्थः- मांसगुणाः
अनुक्तार्थः- वसामेदोमज्जगुणाः

अतिदेशवाक्यम्- यथाद्रव्यगुणोऽरिष्टः । अ.हृ.सू.०५.०७०
उक्तार्थः- द्रव्यगुणाः
अनुक्तार्थः- तज्जारिष्टगुणः ।

अतिदेशवाक्यम्- तद्विद्यात्तदासुतम् । अ.हृ.सू.०५.०७८
उक्तार्थः -कन्दमूलफलकाष्ठत्वकपत्रगुणाः
अनुक्तार्थः- तदासुतगुणाः

अतिदेशवाक्यम्- एभिरेव गुणैर्युक्ते सौवीरकतुषोदको । अ.हृ.सू.०५.०८०
उक्तार्थः- धान्याम्लगुणाः
अनुक्तार्थः- सौवीरकगुणाः । तुषोदकगुणाः

अतिदेशवाक्यम्- इति द्रव्यक्रियाः अ.हृ.सू.०६.०३२
उक्तार्थः- द्रव्यादिफलम्
अनुक्तार्थः- कृतान्नगुणाः

अतिदेशवाक्यम्- यथाद्रव्यगुणानुगाः । अ.हृ.सू.०६.०४१
उक्तार्थः- मुद्गादिगुणाः
अनुक्तार्थः- तज्जवेसवारगुणाह्

अतिदेशवाक्यम्- तद्वच्च कुक्कुटो ... । अ.हृ.सू.०६.०५९
उक्तार्थः- मयूरगुणाः
अनुक्तार्थः -कुक्कुटगुणाः।

अतिदेशवाक्यम्-...सा वास्तुकसमा मता । अ.हृ.सू.०६.०९६
उक्तार्थः- वास्तुकशाकगुणाः
अनुक्तार्थः- चिल्लीशाकगुणाः ।

अतिदेशवाक्यम्- तद्वदमलकम् ... । अ.हृ.सू.०६.१५८
उक्तार्थः -हरीतकीगुणाः
अनुक्तार्थः- आमलकगुणाः ।

अतिदेशवाक्यम्- अक्षमीषच्च तद्गुणम् । अ.हृ.सू.०६.१५८
उक्तार्थः- हरीतक्यामलकगुणाः
अनुक्तार्थः- बिभीतकगुणाः ।

अतिदेशवाक्यम्- तद्वत् आर्द्रकम्.. । अ.हृ.सू.०६.१६४
उक्तार्थः- शुण्ठ्याः गुणकर्माणि।
अनुक्तार्थः- आर्द्रकस्य गुणकर्माणि

अतिदेशवाक्यम्- मरिचाल्पान्तरगुणं । अ.हृ.सू.०६.१६५
उक्तार्थः- मरीचगुणाः
अनुक्तार्थः -चविकागुणाः । पिप्पलीमूलगुणाः ।

अतिदेशवाक्यम्- तद्वदार्द्रकम् । अ.हृ.सू.०६.१६५
उक्तार्थः- शुण्ठीगुणाः
अनुक्तार्थः- आर्द्रकगुणाः ।

अतिदेशवाक्यम्- सर्वं च विषजिद्धितम् । अ.हृ.सू.०७. ०२१
उक्तार्थः- विषजित् प्रतिसारणादिकम्
अनुक्तार्थः- वक्त्रगतविषचिकित्सा ।

अतिदेशवाक्यम्- गरेऽप्येष विधिः स्मृतः । अ.हृ.सू.०७. ०३०
उक्तार्थः- विषचिकित्सा
अनुक्तार्थः- गरचिकित्सा

अतिदेशवाक्यम्- एभिरेव च निद्राया नाशः अ.हृ.सू.०७. ०६३
उक्तार्थः- अतिनिद्राचिकित्सा
अनुक्तार्थः-- निद्रानाशहेतवः ।

अतिदेशवाक्यम्- रोगाश्च वातजाः । अ.हृ.सू.०७. ०६४
उक्तार्थः- वातजरोगाः
अनुक्तार्थः- निद्रानाशजाः रोगाः ।

अतिदेशवाक्यम्- विरिक्तवदुपाचरेत् । अ.हृ.सू.०८.०१७
उक्तार्थः--विरेचनपश्चात्क्रमः
अनुक्तार्थः- विषूचीकाचिकित्सा

अतिदेशवाक्यम्- एवम् अन्यानपि व्याधीन् । अ.हृ.सू.०८.०२२
उक्तार्थः- सन्तर्पणोत्थरोगाणां चिकित्सा स्वनिदानविपर्ययः
अनुक्तार्थः- अन्यव्याधिनां चिकित्सा स्वनिदानविपर्ययः ।

अतिदेशवाक्यम्- तत्समाधना । अ.हृ.सू.०८.०२८
उक्तार्थः- आमचिकित्सा
अनुक्तार्थः- विलम्बिकाचिकित्सा

अतिदेशवाक्यम्- रसोऽपि श्लेष्मवत् अ.हृ.सू.११.००८
उक्तार्थः- वृद्धकफस्य लक्षणानि।
अनुक्तार्थः- वृद्धकफस्य लक्षणानि।

अतिदेशवाक्यम्- तद्वन्मेदः । अ.हृ.सू.११.०१०
उक्तार्थः- मांसवृध्दिलक्षणानि ।
अनुक्तार्थः- मेदोवृध्दिलक्षणानि ।

अतिदेशवाक्यम्- तथा श्लेष्मवृध्द्युक्तामयसम्भवः अ.हृ.सू.११.०१५
उक्तार्थः- श्लेष्मवृध्दिजाः रोगाः
अनुक्तार्थः- वातक्षयजाः रोगाः

अतिदेशवाक्यम्- वृध्दिक्षयसमुद्भवान् । विकारान् साधयेच्छीघ्रं क्रमाल्लंघनबृहणैः अ.हृ.सू.११.०२९
उक्तार्थः -लंघनं
अनुक्तार्थः- धातुवृध्दिजरोग चिकित्सा

अतिदेशवाक्यम्- वृध्दिक्षयसमुद्भवान् । विकारान् साधयेच्छीघ्रं क्रमाल्लंघनबृहणैः। अ.हृ.सू.११.०२९
उक्तार्थः -बृहणं
अनुक्तार्थः- धातुक्षयजरोगचिकित्सा

अतिदेशवाक्यम्- स्थौल्यकार्श्योपचारेण मेदोजान् अ.हृ.सू.११.०३१
उक्तार्थः- स्थौल्य चिकित्सा
अनुक्तार्थः- मेदोवृध्दिजन्यविकार चिकित्सा

अतिदेशवाक्यम्- स्थौल्यकार्श्योपचारेण मेदोजान् अ.हृ.सू.११.०३१
उक्तार्थः- कार्श्यचिकित्सा
अनुक्तार्थः- मेदःक्षयजन्यविकाराणां चिकित्सा

अतिदेशवाक्यम्- विडवृध्दिजानतीसार-क्रियया । अ.हृ.सू.११.०३२
उक्तार्थः- अतीसारचिकित्सा
अनुक्तार्थः- पुरीषवृध्दिजरोगाणां चिकित्सा

अतिदेशवाक्यम्- मूत्रवृध्दिक्षयोत्थांश्च मेहकृच्छचिकित्सा । अ.हृ.सू.११.०३३
उक्तार्थः- मेहचिकित्सा
अनुक्तार्थः- मूत्रवृध्दिजन्यरोगाणां चिकित्सा

अतिदेशवाक्यम्- मूत्रवृध्दिक्षयोत्थांश्च मेहकृच्छचिकित्सा । अ.हृ.सू.११.०३३
उक्तार्थः- मूत्रकृच्छचिकित्सा
अनुक्तार्थः- मूत्रक्षयोत्थविकाराणां चिकित्सा

अतिदेशवाक्यम्- विद्यादेवं मलानपि । अ.हृ.सू.१२.०६१
उक्तार्थः- रोगेषु स्वातन्त्र्यपारतन्त्र्ये
अनुक्तार्थः -दोषेषु स्वातन्त्र्यपारतन्त्र्ये ।

अतिदेशवाक्यम्- ग्रैष्मः प्रायो मरुत्पित्ते अ.हृ.सू.१३.०१४
उक्तार्थः- ग्रीष्मचर्या
अनुक्तार्थः -वातपित्तजरोगाणां चिकित्सा

अतिदेशवाक्यम्- वासन्तः कफमारूते। मरूतो योगवाहित्वात्, अ.हृ.सू.१३.०१४
उक्तार्थः- वसन्तचर्या
अनुक्तार्थः- कफवातजरोगाणां चिकित्सा

अतिदेशवाक्यम्- मरूतो योगवाहित्वात्, कफपित्ते तु शारदः अ.हृ.सू.१३.०१४
उक्तार्थः- शरच्चर्या
अनुक्तार्थः- कफपित्तजरोगाणां चिकित्सा

अतिदेशवाक्यम् - वचाद्यैश्च। अ.हृ.सू. १७.८
उक्तार्थः - उपनाहद्रव्यानि ।
अनुक्तार्थः - द्रवस्वेदद्रव्याणि ।

अतिदेशवाक्यम् - ततः स्नेहविधिं भजेत् । अ.हृ.सू. १७.१५
उक्तार्थः - स्नेहविधिः
अनुक्तार्थः - स्वेदनोत्तरहारविहारः ।

अतिदेशवाक्यम् - वाम्याश्च कुष्ठमेहाद्याः । अ.हृ.सू.१८.१०
उक्तार्थः - वाम्याः
अनुक्तार्थः - विरेच्याः ।

अतिदेशवाक्यम् - स्नेहाचारमयादिशेत् । अ..हृ.सू.१८.२७
उक्तार्थः - स्नेहाचारः
अनुक्तार्थः - वमनाचारः, विरेचनाचारः

अतिदेशवाक्यम् - तथातिवमनामयाः । अ.हृ.सू. १८.४२
उक्तार्थः - अतिवमनामयः
अनुक्तार्थः - अतिविरेचनामयाः

अतिदेशवाक्यम् - ततो वमितवानिवा । अ.हृ.सू.१८.४२
उक्तार्थः - वान्तस्य भोजनम
अनुक्तार्थः - विरिक्तस्य भोजनम्

अतिदेशवाक्यम् - वमनोक्तेन योजयेत् ।अ.हृ.सू.१८.४२
उक्तार्थः - वमनोत्तरविधिः
अनुक्तार्थः - विरेचनोत्तरविधिः

अतिदेशवाक्यम् - अस्थाप्या एव चान्वास्याः । अ.हृ.सू.१९.६
उक्तार्थः - अस्थाप्याः
अनुक्तार्थः - अन्वास्याः

अतिदेशवाक्यम् - नानुवास्यास्त एव च ।येऽनास्थाप्याः पाण्डुकामलामेहपीनसाः ॥७॥। अ. हृ. सू. १९.७
उक्तार्थः - अनास्थाप्याः
अनुक्तार्थः - न अनुवास्याः ।

अतिदेशवाक्यम् - विरिक्तवच्च योगादिन् विद्यात् ।
उक्तार्थः
विरिक्तस्य समयोगलक्षणानि
विरिक्तस्य अतियोगलक्षणानि
विरिक्तस्य हीनयोगलक्षणानि
अनुक्तार्थः
निरुढस्य समयोगलक्षणानि
निरुहस्य अतियोगलक्षनाणि
निरुढस्य हीनयोगलक्षणानि ।

अतिदेशवाक्यम् - सम्यग्धीनातियोगाश्च तस्य स्युः स्नेहपीतवत्
उक्तार्थः - स्नेहपानस्य सम्यग्योगः, हीनयोगः , अतियोगः ।
अनुक्तार्थः - अनुवासनस्य सम्यग्योगः, हीनयोगः, अतियोगः ।

अतिदेशवाक्यम् - अनुवासनवच्छेषं सर्वमेवास्य चिन्तयेत् ।
उक्तार्थः - अनुवासने परिहारः , औषधकल्पनम् ।
अनुक्तार्थः - उत्तरबस्तेः परिहारः औषधकल्पनम् ।

अतिदेशवाक्यम् - शमनं योजयेत्पूर्वैः । अ.हृ.सू. २०.६
उक्तार्थः - बृंहणस्य द्रव्याणि ।
अनुक्तार्थः - शमननस्य द्रव्याणि ।

अतिदेशवाक्क्यम् – बस्तिनेत्रसमं द्रव्यं त्रिकोशं कारयेद्रुजु ॥७॥मूलाग्रेऽङ्गुष्ठकोलास्थिप्रवेशं धूमनेत्रकम् ।
उक्तार्थः - बस्तिनेत्रद्रव्याणि ।
अनुक्तार्थः - धूमनेत्रद्रव्याणि

अतिदेशवाक्यम - योगास्तत्र च तृप्तिवत् ।
उक्तार्थः - तर्पणस्य सम्यग्योगातियोगायोगाः सम्यग्योगातियोगायोगाः ।
अनुक्तार्थः - पुटपाकस्य सम्यग्योगातियोगायोगाः ।

अतिदेशवाक्यम् - तर्पणं पुटपाकं च नस्यानर्हे न योजयेत् ।
उक्तार्थः - नस्यानर्हाः ।
अनुक्तार्थः - तर्पण -अनर्हाः, पुटपाक् - अनर्हाः ।

अतिदेशवाक्यम् - नाडीरेवंविधाश्चान्या द्रष्टुं शल्यानि कारयेत् ।
उक्तार्थः - वारङ्ग नाडी यन्त्रम् ।
अनुक्तार्थः - अन्याः नाड्यः ।

अतिदेशवाक्यम् - तद्वद् घटी । अ.हृ.सू. २५.२८
उक्तार्थः - अलाबुयन्त्रम् ।
अनुक्तार्थः - घटीयन्त्रम् ।

अतिदेशवाक्यम् - तद्वदन्तर्मुखम् । अ.हृ.सू. २६.१०
उक्तार्थः - कुशाटाशस्त्ररूपम् ।
अनुक्तार्थः - अन्तर्मुखशस्त्ररूपम् ।

अतिदेशवाक्यम् - योगतो वृध्दिपत्रेण मण्डलाग्रेण वा समम् ।
उक्तार्थः - वृध्दिपत्र संस्थानं , मण्डाग्रसंस्थानम् ।
अनुक्तार्थः - अङ्गुलिशस्त्रसंस्थानम् ।

अतिदेशवाक्यम् - पेश्यन्तरगते मांसप्राप्तवत् श्वयथुं विना।
उक्तार्थः - मांसगतशल्यलक्षणानि ।
अनुक्तार्थः - पेश्यन्तरगतशल्यलक्षणानि ।

अतिदेशवाक्यम् - तद्वच्च सन्धिगे । अ.हृ.सू. २८.८
उक्तार्थः - अस्थिगतशल्यलक्षणम् ।
अनुक्तार्थः - सन्धिगतशल्यलक्षणम् ।

अतिदेशवाक्यम् -विद्यान्मर्मगतं शल्यं मर्मविध्दोपलक्षणैः।अ.हृ.सू. २८.९
उक्तार्थः - मर्मविध्दलक्षणम् ।
अनुक्तार्थः - मर्मगतशल्यलक्षणम् ।

अतिदेशवाक्यम् - त्द्वदेव च ॥१३पेश्यास्थिसन्धिकोष्ठेषु नष्टम् ।
उक्तार्थः मांसप्रणष्टशल्यलक्षणानि ।
अनुक्तार्थः - पेशीप्रणष्टशल्यलक्षणानि ।
अस्थिप्रणष्ट्शल्यलक्षणानि ।
सन्धिप्रणष्टशल्यलक्षणानि ।
कोष्ठप्रणष्टशल्यलक्षणानि ।

अतिदेशवाक्यम् - सन्धिनष्टं तथास्थिवत् । अ.हृ.सू. २८.१५
उक्तार्थः - अस्थिनष्टशल्यलक्षणानि ।
अनुक्तार्थः -सन्धिनष्टशल्यलक्षणानि ।

अतिदेशवाक्यम् - अन्यतोऽप्येवमाहरेत् । अ.हृ.सू. २८.२७
उक्तार्थः - हृत्स्थशल्याहरणविधिः ।
अनुक्तार्थः - अन्यत्स्थशल्याहरणविधिः ।

अतिदेशवाक्यम् - युञ्ज्याद् बन्धादि पूर्ववत् । अ.हृ.सू. २९.५५
उक्तार्थः - बन्धनकर्म
अनुक्तार्थः - सीवनकर्म

अतिदेशवाक्यम् - तद्वदर्शसि कर्णजे । अ.हृ.सू.३०.३०
उक्तार्थः - घ्राणार्बुदे क्षारप्रयोगः ।
अनुक्तार्थः - कर्णार्शसि क्षारप्रयोगः ।

अतिदेशवाक्यम् - पित्तविद्रधिवत्क्रिया ।अ.हृ.सू. ३०.५१
उक्तार्थः - पित्तविद्रधिचिकित्सा ।
अनुक्तार्थः - सम्यग्दग्धचिकित्सा ।

अतिदेशवाक्यम्-अतिदग्धे द्रुतं कुर्यात् सर्वं पित्तविसर्पवत्।अ.हृ.सू. ३०.५२
उक्तार्थः - पित्तविसर्पचिकित्सा ।
अनुक्तार्थः - अतिदग्धचिकित्सा ।

अतिदेशवाक्यम् -यथास्वं प्रतिरोगं च स्नेहव्यापदि साधनम् ।
उक्तार्थः - तत्तद्रोगचिकित्सा
अनुक्तार्थः - स्नेहव्यापच्चिकित्सा ।

अतिदेशवाक्यम् - विरूक्षणे लङ्घनवत् कृतातिकृतलक्षणम् ।
उक्तार्थः - १) सम्यक् लङ्घनलक्षणम् ।
अनुक्तार्थः - १) सम्यग्रूक्षणलक्षणम् ।
उक्तार्थः - २) अतिलङ्घितलक्षणम् ।
अनुक्तार्थः - २) अतिरूक्षणलक्षणम् ।

हेत्वर्थ - अतिदेशयोः भेदः[सम्पाद्यताम्]

ननु हेत्वर्थतन्त्रयुक्तेः स्वरूपम् अपि ‘ एकत्र उक्तस्य अन्यत्र प्रयोगः’ इति अस्ति।
‘समानगुणाभ्यासो हि धातूनां वृध्दिकारणम् ।’
एतत् सूत्रं वातविषये अस्ति । तथापि रसादि धातूनां विषये अपि तस्य अन्वयः भवति । एषा हेत्वर्थ-तन्त्रयुक्तिः । अतः हेत्वर्थ -अतिदेशयोः भेदः कः ?
समाधानम्-
अतिदेशवाक्यस्य उपस्थितिः अथवा अनुपस्थितिः इति अनयोः तन्त्रयुक्त्योः भेदः। हेत्वर्थतत्रयुक्तौ अतिदेशवाक्यं नापेक्षितम्, अतिदेशतन्त्रयुक्तौ तु अनिवार्यम् ।


आयुर्वेदोक्ता: तन्त्रयुक्तय:
"https://sa.wikibooks.org/w/index.php?title=अतिदेशः&oldid=6005" इत्यस्माद् पुनः प्राप्तिः