अतिशयोक्त्यलङ्कारे विषयितावच्छेदकद्वैविध्यम्

विकिपुस्तकानि तः

प्र.- स्पष्टीकुरुत-अतिशयोक्त्यलङ्कारे विषयितावच्छेदकद्वैविध्यम्॥
उत्तरम् –
सन्दर्भः-
रसगङ्गाधरे द्वितीयम् अननम्।
अतिशयोक्तिलक्षणम्-
विषयिणा विषयस्य निगरणम् अतिशयः।तस्योक्तिः अतिशयोक्तिः।
विषयी उपमानम्।विषयः उपमेयम्।निगरणशब्दस्य अर्थः भक्षणम्। उपमानम् उपमेयं भक्षयति इति अतिशयशब्दस्य अर्थः।एतद् निगरणं कीदृशम् इति ग्रन्थकारेण अग्रे विवृतम्-
तत्र स्ववाचकपदेन शक्यतावच्छेदकरूपेण एव अन्यस्य बोधनं निगरणम्।
अत्र स्वपदेन उपमानं ग्राह्यम्।स्ववाचकपदमिति उपमानवाचकपदम्। अन्यस्य इति उपमेयस्य।उपमानवाचकपदेन उपमेयस्य बोधः भवति इति अर्थः। अयं च बोधः कथं भवति इति उक्तं ‘शक्यतावच्छेदकरूपेण इति पदेन।
अत्रेदम् उदाहरणम्-
पुरेऽस्मिन् सौधशिखरे चन्द्रराजी विराजते
इति अतिशयोक्तेः उदाहरणम्। अत्र उपमानं चन्द्रराजी। उपमेयं मुखम्।मुखस्य बोधः स्वतन्त्रतया मुखवाचकपदात् न भवति। चन्द्रराजीपदादेव मुखस्य बोधः भवतीति उपमानेन उपमेयस्य निगरणम्।एतस्य निगरण्स्य उक्तिः अत्र विद्यते अतः अयम् अतिशयोक्तिः अलङ्कारः।
चन्द्रशब्देन मुखस्य बोधः भवति।स च शक्यतावच्छेदकरूपेण भवति। चन्द्रशब्दस्य शक्यार्थः शशी।शक्यतावच्छेदकं चन्द्रत्वम्।चन्द्रत्वेन रूपेण एव मुखस्य बोधः भवतीति उक्तं शक्यतावच्छेदकरूपेण इति पदेन।लक्षणया बोधः अत्र नाभिप्रेतः अतः लक्षणाव्यवच्छेदार्थं ‘शक्यतावच्छेदकरूपेण एव’ इति एवकारः प्रयुक्तः।लक्षणया चन्द्रपदस्य अर्थः मुखम् इति भवति।परं तत्र लक्ष्यार्थः मुखम्। लक्ष्यार्थस्य अवच्छेदकं भवति मुखत्वम्।तादृशी अर्थप्रतीतिः अत्र नाभिप्रेता। मुखस्य मुखत्वेन भाने अतिशयोक्तिः न भवति।मुखस्य चन्द्रतुल्यम् इति भानेऽपि सा प्रतीतिः न भवति। मुखस्य चन्द्रत्वेन भानं भवति चेद् एव तत्र अतिशयोक्तिः भवति।
मुखे चन्द्रपदस्य लक्षणा भवति।तथापि तत्र चन्द्रत्वप्रकारक-मुखविशेष्यक-बोधः भवति। अत्र चन्द्रस्य असाधारणधर्मः चन्द्रत्वम्। तस्य भानं भवति।मुखस्यासाधारणधर्मः मुखत्वम्।तस्य भानं न भवति।एतद् एव अतिशयोक्त्यलङ्कारस्य कार्यं यद् मुखस्य चन्द्रत्वेन बोधनम्।

अतिशयोक्तेः रूपकाद् भेदः
मुखं चन्द्रः इति अत्र रूपकालङ्कारः।अत्र उपमानं चन्द्रः। उपमेयं मुखम्। उभयोः वाचके पृथक् पदे स्तः।तेन मुखम् इति उद्देश्यम्।चन्द्रः इति विधेयम् इति उद्देश्यविधेयभावः वक्तुं शक्यते।
चन्द्रः विराजते इति अतिशयोक्त्यलङ्कारः।अत्र उपमानं चन्द्रः। उपमेयं मुखम्।तथापि मुखवाचकं पदं पृथग् नोपस्थितम्।अतः चन्द्रः इति एकेन पदेन एव उभयोः भानं भवति।तेन उद्देश्यविधेयभावः एव न सम्भवति।उद्देश्यविधेयभावस्य बोधार्थं पृथक् पदद्वयम् आवश्यकम्। अयमेव भेदः रूपकातिशयोक्त्योः।

जगन्नाथेन अतिशयोक्तेः दत्तमुदाहरणम् एवम्।
कलिन्दगिरिनन्दिनीतटवनान्तरं भासयन्। सदा पथि गतागतक्लमभरं हरन् प्राणिनाम्॥
स्फुरत्कनककान्तिभिर्नवलताभिरावेष्टितो। ममाशु हरतु श्रमानतितमां तमालद्रुमः॥
अत्र उपमानं तमालद्रुमः।उपमेयं श्रीकृष्णः।श्रीकृष्णवाचकपदस्य उल्लेखः एव नास्ति। तमालद्रुमशब्देन तस्य निगरणं कृतम्।अतः अतिशयोक्तिः अलङ्कारः।
अत्र कानिचन विशेषणानि उपात्तानि।तानि विषयिण: तमालस्य अपि धर्माः, विषयस्य श्रीकृष्णस्य अपि धर्माः इति वक्तुं शक्यते।
१ वनभासनम्।
२ पथिकक्लमहरणम्
३ नवलतावेष्टितत्वम्
४ कविश्रमहरणम्
तमालशब्देन श्रीकृष्णशब्दस्य कृतं निगरणं मुख्यभूतम्।अस्य निगरणस्य उत्कटताम् वर्धयितुं कविना अन्ये अपि द्वे अतिशयोक्ती अत्र उक्ते यथा-
१ गतागतशब्देन जननमरणरूपेण पुनः पुनः आवर्तमानानां संसारिणां जीवानां निगरणं कृतम्।
२ कनककान्तिलताशब्देन गोपीशब्दस्य निगरणं कृतम्।
एवं मुख्यातिशयोक्तेः अवयवभूते एते द्वे। एताभ्यां मुख्या अतिशयोक्तिः दृढा भवति।अतः सावयवातिशयोक्तिः इयम्।

अतिशयोक्तौ विषयितावच्छेदकद्वैविध्यम्।
अतिशयोक्तौ विषयस्य (उपमेयस्य) उल्लेखः नास्ति। विषयिणः (उपमानस्य) उल्लेखः अस्ति। विषययिणः कतिपयानि विशेषणानि अपि सन्ति।तैः विशेषणैः विषयिणः धर्माः उच्यन्ते।एते धर्माः एव विषयितावच्छेदकधर्माः।यथा प्रेक्षणीयः चन्द्रः विराजते।अत्र चन्द्रस्य विशेषणम् प्रेक्षणीयः इति।प्रेक्षणीयत्वम् इति चन्द्रधर्मः।एतेन धर्मेण युक्तः चन्द्रः अत्र विषयिरूपेण अभिप्रेतः अतः चन्द्रस्य विषयिता प्रेक्षणीयत्वधर्मेण अवच्छिन्ना।विषयितावच्छेदकः धर्मः प्रेक्षणीयत्वम्।
एवं ये के विषयितावच्छेदकधर्माः कविना सूचिताः, तेषु कतिपये धर्माः विषयिणि प्रसिद्धाः, कतिपये अप्रसिद्धाः परं कविना कल्पिताः। एतद् एव विषयितावच्छेदकधर्माणां द्वैविध्यम्।प्रेक्षणीयः चन्द्रः राजते इत्यत्र प्रेक्षणीयत्वं विषयितावच्छेदकधर्मः इत्युक्तम्।स च चन्द्रे प्रसिद्धः। अत: एतत् प्रथमकोटिकम् विषयितावच्छेदकम्
कलिन्दगिरिनन्दिनीत्यत्र उदाहरणे -
१ वनभासनम्।
२ पथिकक्लमहरणम्
३ नवलतावेष्टितत्वम्
४ कविश्रमहरणम्
इति तमालद्रुमस्य धर्माः। ते विषयितावच्छेदकधर्माः।ते सर्वे तमालद्रुमे प्रसिद्धाः ।अतः अत्र प्रथमा विषयितावच्छदेकता ।
द्वितीयायां विषयितावच्छेकतायां विषयितावच्छेदकधर्माः विषयिणि प्रसिद्धाः न सन्ति। ते विषयिणि कविना कल्पिताः सन्ति।यथा स्मृतापि तरुणातपं हरति कापि कादम्बिनी
अत्र भगवन्मूर्तिः विषयः।कादम्बिनी इति विषयी।स्मृता अपि तापं हरति इति विषयितावच्छेदकधर्मः। एषः धर्मः भगवन्मूर्तौ तु प्रसिद्धः परं कादम्बिन्यां न प्रसिद्धः। सा तु स्पर्शेन स्नानेन पूजनेन तापं हरति, न स्मरणमात्रेण।तथापि स्मरणमात्रेण तापहरणम् इति अयं धर्मः कविना कादम्बिन्यां कल्पितः। अतः एषा द्वितीया विषयितावच्छेकता


रसगङ्गाधर-प्रश्नोत्तरसङ्ग्रह: