अत्यन्ताभावप्रतियोगित्व-प्रागभावप्रतियोगित्वयो: विरोध:?

विकिपुस्तकानि तः

प्र.- अत्यन्ताभावप्रतियोगित्वं तथा प्रागभावप्रतियोगित्वम् इति अनयो: विरोध: अस्ति न वा? चर्चां कुरुत।
उ.-
सन्दर्भ:-
चतुर्थमिथ्यात्वनिरूपणे तथा च अंशित्वहेतुनिरूपणे अयं प्रश्न: उपस्थित:।
१ चतुर्थमिथ्यात्वनिरूपणे प्रश्न: एवमुपस्थित: -
चतुर्थमिथ्यात्वलक्षणमेवम् - स्वाश्रयनिष्ठात्यन्ताभावप्रतियोगित्वं मिथ्यात्वम्।स्वशब्देन घट: ग्राह्य:। तस्याश्रय: कपाल:। कपालनिष्ठात्यन्ताभावप्रतियोगित्वं घटे अस्ति इति सिद्धान्तमतम्। कपाले घटप्रागभाव: अस्ति इति तु प्रसिद्धमेव। तत्रैव घटात्यन्ताभाव: न शक्य: इति पूर्वपक्षिणा अत्र आक्षिप्यते। घटप्रागभाव: घटात्यन्ताभावानधिकरण:,घटप्रागभावविरोधित्वात् प्रतियोगिघटवत्।

२ अंशित्वहेतुनिरूपणे प्रश्न: एवमुपस्थित: -
अंशित्वहेतुना पटे तन्तुसमवेतत्वं सिद्ध्यति।यत्र तन्तुसमवेतत्वं तत्र तन्तुनिष्ठप्रागभावप्रतियोगित्वम् इत्यनया व्याप्त्या तन्तुनिष्ठप्रागभावप्रतियोगित्वं पटे सिद्ध्यति।
एवं पटे तन्तुनिष्ठात्यन्ताभावाप्रतियोगित्वं तथा तन्तुनिष्ठप्रागभावप्रतियोगित्वंमिति उभयं प्राप्तम्।तच्च न युक्तम्।यतो हि उभयो: विरोध: अस्तीति पूर्वपक्षस्य आशय:।तदर्थं तेनोक्तमनुमानमेवम्-
घटप्रागभाव: घटात्यन्ताभावानधिकरण:,घटप्रागभावविरोधित्वात् प्रतियोगिघटवत्।

अत्र समाधामतिदेशेन करोति ग्रन्थकार:।यथा पूर्वं चतुर्थमिथ्यात्वनिरूपणावसरे समाधानमुक्तं, तथैवात्र अनुसन्धेयमिति।
पूर्वं समाधानमेवमुक्तम्-
नायं नियम:।इदानीं काले घटोऽस्ति।इदानीं भूतले घटो नास्ति।इति कालिकसम्बन्धेन घटप्रागभावात्यन्ताभावयो:सामानाधिकरण्यं दृश्यते।अत: उपरितने पूर्वपक्षस्यानुमाने हेतु: सव्यभिचार:। .....................................

दीर्घोत्तरप्रश्ना: