अथातो ब्रह्मजिज्ञासा…

विकिपुस्तकानि तः
Jump to navigation Jump to search

प्र. अथातो ब्रह्मजिज्ञासा इति सूत्रे प्रत्येकं पदं न्यायरक्षामणिकारमतेन विवृणुत।

उ.- अथ अत: ब्रह्म-जिज्ञासा इति पदच्छेद:।
अथ – आनन्तर्यमिति अस्यार्थ:।पुष्कलकारणानन्तर्यम् एव अथशब्देन ग्राह्यम्। बहूनां स्नानभोजनशयनादिकानाम् आनन्तर्यं वक्तुं शक्यते तथापि यस्य कस्यापि आनन्तर्यं नाभिप्रेतम्।अत: ‘कर्मकाण्डानन्तरम्’ इत्यपि अर्थ: न कार्य:। सिद्धान्तमते कर्मकाण्डाध्ययनं वा कर्मानुष्ठानं वा ब्रह्मजिज्ञासायै अत्यन्तम् आवश्यकं नास्ति।तद्विनापि ब्रह्मजिज्ञासा उत्पद्यते। ‘साधनचतुष्टयानन्तरम्’ इति अर्थ: अत्र कार्य:।
अत:- हेतुवाचक: शब्द: अयम्।साधनचतुष्टयसम्पदस्ति अत: हेतो:।

आक्षेप:- अथशब्देन एव अयमर्थ: ज्ञात:।पुन: हेत्वर्थकस्य अत: इति शब्दस्य का आवश्यकता ?
समा.-
नित्यानित्यविवेकादय: सम्भवन्ति वा इति आशङ्का सम्भवति तां निराकर्तुम्।
आक्षेप:-
कथं सम्भवेद् आशङ्का ?
समा.-
‘अक्षय्यं ह वै चातुर्मास्ययाजिनां सुखं भवति’ इत्यादिवचनै: एषा शङ्का सम्भवति।
ब्रह्म- प्रत्यगभिन्न-निर्विशेष-निरतिशयबृंहत्व-प्रतिपादकं पदम्।
आक्षेप:-
ननु ब्रह्मशब्दस्य अन्येऽपि अर्था: सन्ति यथा
कर्म ब्रह्मोद्भवं विद्धि ब्रह्माक्षरसमुद्भवम् इत्यत्र ब्रह्मपदेन वेद: इति अर्थ: उच्यते।
समा.-
ब्रह्मशब्दस्य मुख्यार्थ: निरतिशयबृंहत्वयुक्त: पदार्थ:।प्रकरणवशात् उपपदवशात् तत्र तत्र तस्य अर्थस्य सङ्कोच: भवति।प्रकृते तादृशस्य अर्थसङ्कोचस्य किमपि निमित्तं नास्ति। अत: ब्रह्मपदेन पूर्वोक्त: एव अर्थ: ग्राह्य:।
जिज्ञासा- ब्रह्मज्ञानाय।तस्या: ब्रह्मज्ञानं फलम्।ब्रह्मज्ञानं च मोक्षसाधनम्। जिज्ञासापदेन विचार: लक्ष्यते।कस्य विचार: इति आकाङ्क्षायां योग्यतावशात् वेदान्तस्य विचार: इति गम्यते।यतो हि वेदान्तैकगम्यं ब्रह्म।
कर्तव्या इति पदस्य अध्याहार: कर्तव्य:।कुत: इति चेत् तद् विजिज्ञासस्व (तैत्ति.३.१.१) इति श्रुत्यनुरोधसिद्धये।ब्रह्मजिज्ञासा कर्तव्या इति अस्य ब्रह्मविचार: कर्तव्य: इत्यर्थ:।
अथवा
वेदान्तविचार: न विवक्षित:।ब्रह्मविचार: एव कर्तव्य:।ब्रह्मविचारे प्रतिज्ञाते ब्रह्मस्वरूपं ब्रह्मप्रमाणम् इत्यादयो विचारा: अर्थात् लभ्यन्ते।

न्यायरक्षामणिप्रश्नोत्तरसङ्ग्रह: