अथ तृतीयोऽध्यायः

विकिपुस्तकानि तः
Jump to navigation Jump to search

(सर्गानुसर्गलयप्रादुर्भावनिर्णयः )

अथ तृतीयोऽध्यायः

ओं । जयत्यजोऽखण्डगुणोरुमण्डलः सदोदितो ज्ञानमरीचिमाली ।

स्वभक्तहार्दोच्चतमोनिहन्ता व्यासावतारो हरिरात्मभास्करः । ३.१ ।

जयत्यजोऽक्षीणसुखात्मबिम्बः स्वैश्वर्यकान्तिप्रततः सदोदितः ।

स्वभक्तसन्तापदुरिष्टहन्ता रामावतारो हरिरीशचन्द्रमाः । ३.२ ।

जयत्यसङ्ख्योरुबलाम्बुपूरो गुणोच्चरत्नाकर आत्मवैभवः ।

सदा सदात्मज्ञनदीभिराप्यः कृष्णावतारो हरिरेकसागरः । ३.३ ।

"नारायणं नमस्कृत्य नरं चैव नरोत्तमम् ।

देवीं सरस्वतीं व्यासं ततो जयमुदीरये"६१ । ३.४।

जयो नामेतिहासोऽयं कृष्णद्वैपायनेरितः ।

वायुर्नरोत्तमो नाम देवीति श्रीरुदीरिता । ३.५ ।

नारायणो व्यास इति वाच्यवक्तृस्वरूपकः ।

एकः स भगवानुक्तः साधकेशो नरोत्तमः । ३.६ ।

उपसाधको नरश्चोक्तो देवी भाग्यात्मिका नृणाम् ।

सरस्वती वाक्यरूपा तस्मान्नम्या हि तेऽखिलाः ।

कृष्णौ सत्या भीमपार्थौ कृष्णेत्युक्ता हिभारते । ३.७ ।

सर्वस्य निर्णयसुवाक्यसमुद्धृती तुस्वाध्याययोर्हरिपदस्मरणेन कृत्वा ।

आनन्दतीर्थवरनामवती तृतीया भौमी तनुर्मरुत आह कथाः परस्य । ३.८ ।

व्यूढश्चतुर्धा भगवान् स एको मायां श्रियं सृष्टिविधित्सयाऽर ।

रूपेण पूर्वेण सवासुदेवनाम्ना विरिञ्चं सुषुवे च साऽतः । ३.९ ।

सङ्कर्षणाच्चापि जयातनूजो बभूव साक्षाद्बलसं विदात्मा ।

वायुर्य एवाथ विरिञ्चनामा भविष्य आद्यो न परस्ततो हि । ३.१० ।

६१ ंहा. आदि. १.१ *

xxxइइइ.सूत्रं स वायुः पुरुषो विरिञ्चः प्रद्युम्नतश्चाथ कृतौ स्त्रियौ द्वे ।

प्रजज्ञतुर्यमल्. ए तत्र पूर्वा प्रधानसञ्ज्ञा प्रकृतिर्जनित्री । ३.११ ।

श्रद्धा द्वितीयाऽथ तयोश्च योगो बभूव पुं सैव च सूत्रनाम्ना ।

हरेर्नियोगादथ सम्प्रसूतौ शेषः सुपर्णण्स्च तयोः सहैव । ३.१२ ।

शेषस्तयोरेव हि जीवनामा कालात्मकः सोऽथ सुपर्ण आसीत् ।

तौ वाहनं शयनं चैव विष्णोः काला जयाद्याण्स्च तत प्रसूताः । ३.१३ ।

काला जयाद्या अपि विष्णुपार्षदा यस्मादण्डात्परतः सम्प्रसूताः ।

नीचाः सुरेभ्यस्तत एव तेऽखिला विष्वक्सेनो वायुजः खेन तुल्यः । ३.१४ ।

व्यूहात्तृतीयात्पुनरेव विष्णोर्देवां श्चतुर्वर्णगतान् समस्तान् ।

सङ्गृह्य बीजात्मतयाऽनिरुद्धो न्यधत्त शान्त्यां त्रिगुणात्मिकायाम् । ३.१५ ।

ततो महत्तत्त्वतनुर्विरिञ्चः स्थूलात्मनैवाजनि वाक्च देवी ।

तस्यामहङ्कारतनुं स रुद्रं ससर्ज बुद्धिं च तदर्द्धदेहाम् । ३.१६ ।

बुद्ध्यामुमायां स शिवस्त्रिरूपो मनश्च वैकारिकदेवसङ्घान् ।

दशेन्द्रियाण्येव च तैजसानि क्रमेण खादीन् विषयैश्च सार्द्धम् । ३.१७ ।

पुं सः प्रकृत्यां च पुनर्विरिञ्चाच्छिवोऽथ तस्मादखिलाः सुरेशाः ।

जाताः सशक्राः पुनरेव सूत्राच्छ्रद्धा सुतानाप सुरप्रवीरान् ।

शेषं शिवं चेन्द्रमथेन्द्रतश्च सर्वे सुरा यज्ञगणाण्स्च जाताः । ३.१८ ।

पुनश्च माया त्रिविधा बभूव सत्त्वादिरूपैरथ वासुदेवात् ।

सत्त्वात्मिकायां स बभूव तस्मात्स विष्णुनामैव निरन्तरोऽपि ।

रजस्तनौ चैव विरिञ्च आसीत्तमस्तनौ शर्व इति त्रयोऽस्मात् । ३.१९ ।

एते हि देवाः पुनरण्डसृष्टावशक्नुवन्तो हरिमेत्य तुष्टुवुः ।

त्वं नो जगच्चित्रविचित्रसर्गनिस्सीमशक्तिः कुरु सन्निकेतम् । ३.२० ।

इति स्तुतस्तैः पुरुषोत्तमोऽसौ स विष्णुनामा ण्स्रियमाप सृष्टये ।

सुषाव सैवाण्डमधोक्षजस्य शुष्मं हिरण्यात्मकमम्बुमध्ये । ३.२१ ।

xxxइव्.तस्मिन् प्रविष्टा हरिणैव सार्द्धं सर्वे सुरास्तस्य बभूव नाभेः ।

लोकात्मकं पद्मममुष्य मध्ये पुनर्विरिञ्चोऽजनि सद्गुणात्मा । ३.२२ ।

तस्मात्पुनः सर्वसुराः प्रसूतास्ते जानमाना अपि निर्णयाय ।

निस्सृत्य कायादुत पद्मयोनेः सम्प्राविशन् क्रमशो मारुतान्ताः । ३.२३ ।

पपात वायोर्गमनाच्छरीरं तस्यैव चाऽवेशत उत्थितं पुनः ।

तस्मात्स एको विबुधप्रधान इत्याण्स्रिता देवगणास्तमेव ।

हरेर्विरिञ्चस्य च मध्यसं स्थितेस्तदन्यदेवाधिपतिः स मारुतः । ३.२४ ।

ततो विरिञ्चो भुवनानि सप्त ससप्तकान्याण्सु चकार सोऽब्जात् ।

तस्माच्च देवा ऋषयः पुनश्च वैकारिकाद्याः सशिवा बभूवुः । ३.२५ ।

अग्रे शिवोऽहम्भव एव बुद्धेरुमा मनोजौ सह शक्रकामौ ।

गुरुर्मनुर्दक्ष उतानिरुद्धः सहैव पश्चान्मनसः प्रसूताः । ३.२६ ।

चक्षुः श्रुतिभ्यां स्पर्शात्सहैव रविः शशी धर्म इमे प्रसूताः ।

जिह्वाभवो वारिपतिर्नसोश्च नासत्यदस्रौ क्रमशः प्रसूताः । ३.२७ ।

ततः सनाद्याण्स्च मरीचिमुख्या देवाण्स्च सर्वे क्रमशः प्रसूताः ।

ततोऽसुराद्या ऋषयो मनुष्या जगद्विचित्रं च विरिञ्चतोऽभूत् । ३.२८ ।

उक्तक्रमात्पूर्वभवस्तु यो यः श्रेष्ठः स स ह्यासुरकानृते च ।

पूर्वस्तु पश्चात्पुनरेव जातो नाण्स्रेष्ठतामेति कथञ्चिदस्य ।

गुणास्तु कालात्पितृमातृदोषात्स्वकर्मतो वाऽभिभवं प्रयान्ति । ३.२९ ।

लयो भवेद्व्युत्क्रमतो हि तेषां ततो हरिः प्रल्. अये श्रीसहायः ।

शेतेनिजानन्दममन्दसान्द्रसन्दोहमेकोऽनुभवन्ननन्तः । ३.३० ।

अनन्तशीर्षास्यकरोरुपादः सोऽनन्तमूर्तिः स्वगुणाननन्तान् ।

अनन्तशक्तिः परिपूर्णभोगो भुञ्जन्नजस्रं निजरूप आस्ते । ३.३१ ।

एवं पुनः सृजते सर्वमेतदनाद्यनन्तो हि जगत्प्रवाहः ।

नित्याण्स्च जीवाः प्रकृतिश्च नित्या कालश्च नित्यः किमु देवदेवः । ३.३२ ।

xxxव्.यथा समुद्रात्सरितः प्रजाताः पुनस्तमेव प्रविशन्ति शश्वत् ।

एवं हरेर्नित्यजगत्प्रवाहस्तमेव चासौ प्रविशत्यजस्रम् । ३.३३ ।

एवं विदुर्ये परमामनन्तामजस्य शक्तिं पुरुषोत्तमस्य ।

तस्य प्रसादादथ दग्धदोषास्तमाप्नुवन्त्याण्सु परं सुरेशम् । ३.३४ ।

देवानिमान्मुक्तसमस्तदोषान् स्वसन्निधाने विनिवेश्य देवः ।

पुनस्तदन्यानधिकारयोग्यां स्तत्तद्गणानेव पदे नियुङ्क्ते । ३.३५ ।

पुनश्च मारीचत एव देवा जाता आदित्यामसुराण्स्च दित्याम् ।

गावो मृगाः पक्ष्युरगादिसत्त्वा दाक्षायणीष्वेव समस्तशोऽपि । ३.३६ ।

ततः स मग्नामलयो लयोदधौ महीं विलोक्याऽशु हरिर्वराहः ।

भूत्वा विरिञ्चार्थ इमां सशैलामुद्धृत्य वारामुपरि न्यधात्स्थिरम् । ३.३७ ।

अथाब्जनाभप्रतिहारपालौ शापात्त्रिशो भूमितल्. एऽभिजातौ ।

दित्यां हिरण्यावथ राक्षसौ च पैतृष्वसेयौ च हरेः परस्तात् । ३.३८ ।

हतो हिरण्याक्ष उदारविक्रमो दितेः सुतो योऽवरजः सुरार्थे ।

धात्राऽर्थितेनैव वराहरूपिणा धरोद्धृतौ पूर्वहतोऽब्जजोद्भवः । ३.३९ ।

अथो विधातुर्मुखतो विनिः सृतान् वेदान् हयास्यो जगृहेऽसुरेन्द्रः ।

निहत्य तं मत्स्यवपुर्जुगोप मनुं मुनीं स्तां श्च ददौ विधातुः । ३.४० ।

मन्वन्तरप्रल्. अये मत्स्यरूपो विद्यामदान्मनवे देवदेवः ।

वैवस्वतायोत्तमसं विदात्मा विष्णोः स्वरूपप्रतिपत्तिरूपाम् । ३.४१ ।

अथो दितेर्ज्येष्ठसुतेन शश्वत्प्रपीडिता ब्रह्मवरात्सुरेशाः ।

हरिं विरिञ्चेन सहोपजग्मुर्दौरात्म्यमस्यापि शशं सुरस्मै । ३.४२ ।

अभिष्टुतस्तैर्हरिरुग्रवीर्यो नृसिं हरूपेण सआविरासीत् ।

हत्वा हिरण्यं च सुताय तस्य दत्वाऽभयं देवगणानतोषयत् । ३.४३ ।

सुरासुराणामुदधिं विमथ्नतां दधार पृष्ठेन गिरिं स मन्दरम् ।

xxxवि.वरप्रदानादपरैरधार्यं हरस्य कूर्मो बृहदण्डवोढा । ३.४४ ।

वरादजेयत्वमवाप दैत्यराट्चतुर्मुखस्यैव बलिर्यदा तदा ।

अजायतेन्द्रावरजोऽदितेः सुतो महानजोऽप्यब्जभवादिसं स्तुतः । ३.४५ ।

स वामनात्माऽसुरभूभृतोऽध्वरं जगाम "गां सन्नमयन् पदे पदे"६२ ।

जहार चास्माच्छलतस्त्रिविष्टपं त्रिभिः क्रमैस्तच्च ददौ निजाग्रजे । ३.४६ ।

पितामहेनास्य पुरा हियाचितो बलेः कृते केशव आह यद्वचः ।

नायाञ्चयाऽहं प्रतिहन्मि तं बलिं शुभाननेत्येव ततोऽभ्ययाचत । ३.४७ ।

बभूविरे चन्द्रललामतो वरात्पुरा ह्यजेया असुरा धरातल्. ए ।

तैरर्दिता वासवनायकाः सुराः पुरो निधायाब्जजमस्तुवन् हरिम् । ३.४८ ।

विरिञ्चसृष्टैर्नितरामवध्यौ वराद्विधातुर्दितिजौ हिरण्यकौ ।

तथा हयग्रीव उदारविक्रमस्त्वया हता ब्रह्मपुरातनेन । ३.४९ ।

स चासुरान् रुद्रवरादवध्यानिमान् समस्तैरपि देवदेव ।

निः सीमशक्त्यैव निहत्य सर्वान् हृदम्बुजे नो निवसाथ शश्वत् । ३.५० ।

इत्यादरोक्तस्त्रिदशैरजेयः स शार्ङ्गधन्वाऽथ भृगूद्वहोऽभूत् ।

रामो निहत्यासुरपूगमुग्रं नदाननादिर्विदधेऽसृजैव । ३.५१ ।

ततः पुलस्त्यस्य कुले प्रसूतौ तावादिदैत्यौ जगदेकशत्रू ।

परैरवध्यौ वरतः पुरा हरेः सुरैरजेयौ च वराद्विधातुः । ३.५२ ।

सर्वैरजेयः स च कुम्भकर्णः पुरातने जन्मनि धातुरेव ।

वरान्नरादीनृत एव रावणस्तदातनात्तौ त्रिदशानबाधताम् । ३.५३ ।

तदाऽब्जजं शूलिनमेव चाग्रतो निधाय देवाः पुरुहूतपूर्वकाः ।

पयोम्बुधौ भोगिपभोगशायिनं समेत्य योग्यां स्तुतिमभ्ययोजयन् । ३.५४ ।

त्वमेक ईशः परमः स्वतन्त्रस्त्वमादिरन्तो जगतो नियोक्ता ।

६२ Bहा. ড়ु. ८.१७.२०

xxxविइ.त्वदाज्ञयैवाखिलमम्बुजोद्भवा वितेनिरेऽग्र्याण्स्चरमाण्स्च येऽन्ये । ३.५५ ।

मनुष्यमानात्त्रिशतं सषष्टिकं दिवौकसामेकमुशन्ति वत्सरम् ।

द्विषट्सहस्रैरपि तैश्चतुर्युगं त्रेतादिभिः पादश एव हीनैः । ३.५६ ।

सहस्त्रवृत्तं तदहः स्वयम्भुवो निशा च तन्मानमितं शरच्छतम् ।

त्वदाज्ञया स्वाननुभूय भोगानुपैति सोऽपि त्वरितस्त्वदन्तिकम् । ३.५७ ।

त्वया पुरा कर्णपुटाद्विनिर्मितौ महासुरौ तौ मधुकैटभाख्यौ ।

प्रभञ्जनावेशवशात्तवाऽज्ञया बलोद्धतावाण्सु जले व्यवर्धताम् । ३.५८ ।

त्वदाज्ञया ब्रह्मवरादवध्यौ चिक्रीडिषासम्भवया मुखोद्गतान् ।

स्वयम्भुवो वेदगणानहार्षतां तदाऽभवस्त्वं हयशीर्ष ईश्वरः । ३.५९ ।

आहृत्य वेदानखिलान् प्रदाय स्वयम्भुवे तौ च जघन्थ दस्यू ।

निष्पीड्य तावूरुतल्. ए कराभ्यां तन्मेदसैवाऽशु चकर्थ मेदिनीम् । ३.६० ।

एवं सुराणां च निसर्गजं बलं तथाऽसुराणां वरदानसम्भवम् ।

वशे तवैतद्द्वयमप्यतो वयं निवेदयामः पितुरेव तेऽखिलम् । ३.६१ ।

इमौ च रक्षोऽधिपती वरोद्धतौ जहि स्ववीर्येण नृषु प्रभूतः ।

इतीरिते तैरखिलैः सुरेश्वरैर्बभूव रामो जगतीपतिः प्रभुः । ३.६२ ।

स कश्यपस्यादितिगर्भजन्मनो विवस्वतस्तन्तुभवस्य भूभृतः ।

गृहे दशस्यन्दननामिनोऽभूत्कौसल्यकानाम्नि तदर्थिनेष्टः । ३.६३ ।

तदाज्ञया देवगणा बभूविरे पुरैव पश्चादपि तस्य भूम्नः ।

निषेवणायोरुगुणस्य वानरेष्वथो नरेष्वेव च पश्चिमोद्भवाः । ३.६४ ।

स देवतानां प्रथमो गुणाधिको बभूव नाम्ना हनुमान् प्रभञ्जनः ।

स्वसम्भवः केसरिणो गृहे प्रभुर्बभूव वाली स्वत एव वासवः । ३.६५ ।

सुग्रीव आसीत्परमेष्ठितेजसा युतो रविः स्वात्मत एव जाम्बवान् ।

य एव पूर्वं परमेष्ठिवक्षसस्त्वगुद्भवो धर्म इहाऽस्यतोऽभवत् । ३.६६ ।

xxxविइइ.य एव सूर्यात्पुनरेव सञ्ज्ञया नाम्ना यमो दक्षिणदिक्प आसीत् ।

स जाम्बवान् दैवतकार्यदर्शिना पुरैव सृष्टो मुखतः स्वयम्भुवा । ३.६७ ।

ब्रह्मोद्भवः सोम उतास्य सूनोरत्रेरभूत्सोऽङ्गद एव जातः ।

बृहस्पतिस्तार उतो शची चशक्रस्य भार्यैव बभूव तारा । ३.६८ ।

बृहस्पतिर्ब्रह्मसुतोऽपि पूर्वं सहैव शच्या मनसोऽभिजातः ।

ब्रह्मोद्भवस्याङ्गिरसः सुतोऽभून्मारीचजस्यैव शची पुलोम्नः । ३.६९ ।

स एव शच्या सह वानरोऽभूत्स्वसम्भवो देवगुरुर्बृहस्पतिः ।

अभूत्सुषेणो वरुणोऽश्विनौ च बभूवतुस्तौ विविदश्च मैन्दः । ३.७० ।

ब्रह्मोद्भवौ तौ पुनरेव सूर्याद्बभूवतुस्तत्र कनीयसस्तु ।

आवेश ऐन्द्रो वरदानतोऽभूत्ततो बलीयान् विविदो हि मैन्दात् । ३.७१ ।

नीलोऽग्निरासीत्कमलोद्भवोत्थः कामः पुनः श्रीरमणाद्रमायाम् ।

प्रद्युम्ननामाऽभवदेवमीशात्स स्कन्दतामाप स चक्रतां च । ३.७२ ।

पूर्वं हरेश्चक्रमभूद्धि दुर्गा तमः स्थिता ण्स्रीरिति यां वदन्ति ।

सत्त्वात्मिका ण्सङ्खमथो रजस्था भूर्नामिका पद्ममभूद्धरेर्हि । ३.७३ ।

गदा तुवायुर्बलसं विदात्मा ण्सार्ङ्गश्च विद्येति रमैव खड्गः ।

दुर्गात्मिका सैव च चर्मनाम्नी पञ्चात्मको मारुत एव बाणाः । ३.७४ ।

एवं स्थितेष्वेव पुरातनेषु वराद्रथाङ्गत्वमवाप कामः ।

तत्सूनुतामाप च सोऽनिरुद्धो ब्रह्मोद्भवः शङ्खतनुः पुमात्मा । ३.७५ ।

तावेव जातौ भरतश्च नाम्ना ण्सत्रुघ्न इत्येव च रामतोऽनु ।

पूर्वं सुमित्रातनयश्च शेषः स लक्ष्मणो नाम रघूत्तमादनु । ३.७६ ।

कौसल्यकापुत्र उरुक्रमोऽसावेकस्तथैको भरतस्य मातुः ।

उभौ सुमित्रातनयौ नृपस्य चत्वार एते ह्यमरोत्तमा सुताः । ३.७७ ।

सङ्कर्षणाद्यैस्त्रिभिरेव रूपैराविष्ट आसीत्त्रिषु तेषु विष्णुः ।

इन्द्रोऽङ्गदे चैव ततोऽङ्गदो हि बली नितान्तं स बभूव शश्वत् । ३.७८ ।

xxxइx.येऽन्ये च भूपाः कृतवीर्यजाद्या बलाधिकाः सन्ति सहस्रशोऽपि ।

सर्वे हरेः सन्निधिभावयुक्ता धर्मप्रधानाण्स्च गुणप्रधानाः । ३.७९ ।

स्वयं रमा सीरत एव जाता सीतेति रामार्थमनूपमा या ।

विदेहराजस्य हि यज्ञभूमौ सुतेति तस्यैव ततस्तु साऽभूत् । ३.८० ।

इत्यादिकल्पोत्थित एष सर्गो मया समस्तागमनिर्णयात्मकः ।

सहानुसर्गः कथितोऽत्र पूर्वो यो यो गुणैर्नित्यमसौ वरो हि । ३.८१ ।

पाण्स्चात्त्यकल्पेष्वपि सर्गभेदाः श्रुतौ पुराणेष्वपि चान्यथोक्ताः ।

नोत्कर्षहेतुः प्रथमत्वमेषु विशेषवाक्यैरवगम्यमेतत् । ३.८२ ।

इति श्रीमदानन्दतीर्थभगवत्पादाचार्यविरचिते

श्रीमहाभारततात्पर्यनिर्णये

सर्गानुसर्गलयप्रादुर्भावनिर्णयो नाम तृतीयोऽध्यायः

"https://sa.wikibooks.org/w/index.php?title=अथ_तृतीयोऽध्यायः&oldid=4911" इत्यस्माद् पुनः प्राप्तिः