सामग्री पर जाएँ

अथ पञ्चमोऽध्यायः

विकिपुस्तकानि तः

अथ पञ्चमोऽध्यायः

रामचरिते हनूमद्दर्शनम्

ओं । इत्थं विश्वेश्वरेऽस्मिन्नखिल जगदवस्थाप्य सीतासहाये

भूमिष्ठे सर्वलोकास्तुतुषुरनुदिनं वृद्धभक्त्यानितान्तम् ।

राजा राज्याभिषेके प्रकृतिजनवचो मानयन्नात्मनोऽर्थ्यं

दध्रे तन्मन्थरायाः श्रुतिपथमगमद्भूमिगाया अलक्ष्म्याः । ५.१ ।

पूर्वं क्षीराब्धिजाता कथमपि तपसैवाप्सरस्त्वं प्रयाता

तां नेतुं तत्तमोऽन्धं कमलजनिरुवाचाऽशु रामाभिषेकम् ।

भूत्वा दासी विलुम्प स्वगतिमपि ततः कर्मणा प्राप्स्यसे त्वं

सेत्युक्ता मन्थराऽसीत्तदनु कृतवत्येव चैतत्कुकर्म । ५.२ ।

तद्वाक्यात्कैकयी सा पतिगवरबलादाजहारैव राज्यं

रामस्तद्गौरवेण त्रिदशमुनिकृतेऽरण्यमेवाऽविवेश ।

सीतायुक्तोऽनुजेन प्रतिदिनसुविवृद्धोरुभक्त्या समेतः

सं स्थाप्याण्सेषजन्तून् स्वविरहजशुचा त्यक्तसर्वेषणार्थान् । ५.३ ।

वृक्षान् पश्वादिकीटान् पितरमथ सखीन्मातृपूर्वान् विसृज्य

प्रोत्थां गङ्गां स्वपादाद्धर इव गुहेनार्चितः सोऽथ तीर्त्वा ।

देवार्च्यस्यापि पुत्रादृषिगणसहितात्प्राप्य पूजां प्रयातः

शैलेशं चित्रकूटं कतिपयदिनान्यत्र मोदन्नुवास । ५.४ ।

एतस्मिन्नेव काले दशरथनृपतिः स्वर्गतोऽभूद्वियोगाद्

रामस्यैवाथ पुत्रौ विधिसुतसहितैर्मन्त्रिभिः केकयेभ्यः ।

आनीतौ तस्य कृत्वा ण्स्रुतिगणविहितप्रेतकार्याणि सद्यः

शोचन्तौ राममार्गं पुरजनसहितौ जग्मतुर्मातृभिश्च । ५.५ ।

धिक्कुर्वन्तौ नितान्तं सकलदुरितगां मन्थरां कैकयीं च

प्राप्तौ रामस्य पादौ मुनिगणसहितौ तत्र चोवाच नत्वा ।

रामं राजीवनेत्रं भरत इह पुनः प्रीतयेऽस्माकमीश

प्राप्याऽशु स्वामयोध्यामवरजसहितः पालयेमां धरित्रीम् । ५.६ ।

इत्युक्तः कर्तुमीशः सकलसुरगणाप्यायनं रामदेवः

सत्यां कर्तुं च वाणीमवददतितरां नेति सद्भक्तिनम्रम् ।

xल्विइ.भूयोभूयोऽर्थयन्तं द्विगुणितशरदां सप्तके त्वभ्यतीते

कर्तैतत्ते वचोऽहं सुदृढमृतमिदं मे वचो नात्र शङ्का । ५.७ ।

श्रुत्वैतद्रामवाक्यं हुतभुजि पतने स प्रतिज्ञां च कृत्वा

रामोक्तस्यान्यथात्वे न तु पुरमभिवेक्ष्येऽहमित्येव तावत् ।

कृत्वाऽन्यां स प्रतिज्ञामवसदथ बहिर्ग्रामके नन्दिनाम्नि

श्रीशस्यैवास्य कृत्वा ण्सिरसि परमकं पौरटं पादपीठम् । ५.८ ।

समस्तपौरानुगतेऽनुजे गते स चित्रकूटे भगवानुवास ह

अथाऽजगामेन्द्रसुतोऽपि वायसो महासुरेणाऽत्मगतेन चोदितः । ५.९ ।

स आसुरावेशवशाद्रमास्तने यदा व्यधात्तुण्डमथाभिवीक्षितः ।

जनार्दनेनाऽशु तृणे प्रयोजिते चचार तेन ज्वलताऽनुयातः । ५.१० ।

स्वयम्भुशर्वेन्द्रमुखान्सुरेश्वरान् जिजीविषुस्ताञ्छरणं गतोऽपि ।

बहिष्कृतस्तैर्हरिभक्तिभावतो ह्यलङ्घ्यशक्त्या परमस्य चाक्षमैः । ५.११ ।

पुनः प्रयातः शरणं रघूत्तमं विसर्जितस्तेन निहत्य चासुरम् ।

तदक्षिगं साक्षिकमप्यवध्यं प्रसादतश्चन्द्रविभूषणस्य । ५.१२ ।

स वायसानामसुरोऽखिलानां वरादुमेशस्य बभूव चाक्षिगः ।

निपातितोऽसौ सह वायसाक्षिभिस्तृणेन रामस्य बभूव भस्मसात् । ५.१३ ।

ददुर्हि तस्मै विवरं बलार्थिनो यद्वायसास्तेन तदक्षिपातनम् ।

कृतं रमेशेन तदेकनेत्रा बभूवुरन्येऽपि तु वायसाः सदा । ५.१४ ।

भविष्यतामप्यथ यावदेव द्विनेत्रता काककुलोद्भवानाम् ।

तावत्तदक्ष्यस्य कुरङ्गनाम्नः शिवेन दत्तं दितिजस्य चाक्षयम् । ५.१५ ।

अतः पुनर्भावममुष्य हिन्वन् भविष्यतश्चैकदृशश्चकार ।

स वायसान् राघव आदिपूरुषस्ततो ययौ शक्रसुतस्तदाज्ञया । ५.१६ ।

रामोऽथ दण्डकवनं मुनिवर्यनीतो लोकाननेकश उदारबलैर्निरस्तान् ।

श्रुत्वा खरप्रभृतिभिर्वरतो हरस्य सर्वैरवध्यतनुभिः प्रययौ सभार्यः । ५.१७ ।

xल्विइइ.आसीच्च तत्र शरभङ्ग इति स्म जीर्णो लोकं हरेर्जिगमिषुर्मुनिरुग्रतेजाः ।

तेनाऽदरोपहृतसार्ध्यसपर्यया सप्रीतो ददौ निजपदं परमं रमेशः । ५.१८ ।

धर्मो यतोऽस्य वनगस्य नितान्तशक्तिह्रासे स्वधर्मकरणस्य हुताण्सनादौ ।

देहात्ययः स तत एव तनुं निजाग्नौ सन्त्यज्य रामपुरतः प्रययौ परेशम् । ५.१९ ।

रामोऽपि तत्र ददृशे धनदस्य शापाद्गन्धर्वमुर्वशिरतेरथ यातुधानीम् ।

प्राप्तं दशां सपदि तुम्बुरुनामधेयं नाम्ना विराधमपि शर्ववरादवध्यम् । ५.२० ।

भङ्क्त्वाऽस्य बाहुयुगल्. अं बिलगं चकार सम्मानयन् वचनमम्बुजजन्मनोऽसौ ।

प्रादाच्च तस्य सुगतिं निजगायकस्य भक्षार्थमं सकमितोऽपि सहानुजेन । ५.२१ ।

प्रीतिं विधित्सुरगमद्भवनं निजस्य कुम्भोद्भवस्य परमादरतोऽमुना च।

सम्पूजितो धनुरनेन गृहीतमिन्द्राच्छार्ङ्गं तदादिपुरुषो निजमाजहार । ५.२२ ।

आत्मार्थमेव हि पुरा हरिणा प्रदत्तमिन्द्रे तदिन्द्र उत रामकरार्थमेव ।

प्रादादगस्त्यमुनये तदवाप्य रामो रक्षनृषीनवसदेव स दण्डकेषु । ५.२३ ।

काले तदैव खरदूषणयोर्बलेन रक्षः स्वसा पतिनिमार्गणतत्पराऽसीत् ।

व्यापादिते निजपतौ हि दशाननेन प्रामादिकेन विधिनाऽभिससार रामम् । ५.२४ ।

साऽनुज्ञयैव रजनीचरभर्तुरुग्रा भ्रातृद्वयेन सहिता वनमावसन्ती ।

रामं समेत्य भव मे पतिरित्यवोचद्भानुं यथा तम उपेत्य सुयोगकामम् । ५.२५ ।

तां तत्र हास्यकथया जनकासुताग्रे गच्छानुजं म इह मेति वचः स उक्त्वा ।

तेनैव दुष्टचरितां हि विकर्णनासां चक्रे समस्तरजनीचरनाण्सहेतोः । ५.२६ ।

तत्प्रेरितान् सपदि भीमबलान् प्रयातां स्तस्याः खरत्रिशिरदूषणमुख्यबन्धून् ।

जघ्ने चतुर्दशसहस्रमवारणीयकोदण्डपाणिरखिलस्य सुखं विधातुम् । ५.२७ ।

दत्तेऽभये रघुवरेण महामुनीनां दत्ते भये च रजनीचरमण्डलस्य ।

रक्षः पतिः स्वसृमुखादविकम्पनाच्च श्रुत्वा बलं रघुपतेः परमाप चिन्ताम् । ५.२८ ।

स त्वाण्सु कार्यमवमृश्य जगाम तीरे क्षेत्रं नदीनदपतेः श्रवणं धरित्र्याः ।

मारीचमत्र तपसि प्रतिवर्तमानं भीतं शराद्रघुपतेर्नितरां ददर्श । ५.२९ ।

xलिx.तेनार्थितः सपदि राघववञ्चनार्थे मारीच आह शरवेगममुष्य जानन् ।

शक्यो न ते रघुवरेण हि विग्रहोऽत्र जानामि सं स्पर्शमस्य शरस्य पूर्वम् । ५.३० ।

इत्युक्तवन्तमथ रावण आह खड्गं निष्कृष्य हन्मि यदि मे न करोषि वाक्यम् ।

तच्छुश्रुवान् भययुतोऽथ निसर्गतश्च पापो जगाम रघुवर्यसकाण्समाण्सु । ५.३१ ।

स प्राप्य हैममृगतां बहुरत्नचित्रः सीतासमीप उरुधा विचचार शीघ्रम् ।

निर्दोषनित्यवरसं विदपि स्म देवी रक्षोवधाय जनमोहकृते तथाऽह । ५.३२ ।

देवेममाण्सु परिगृह्य च देहि मे त्वं क्रीडामृगं त्विति तयोदित एव रामः ।

अन्वक्ससार ह शरासनबाणपाणिर्मायामृगं निशिचरं निजघान जानन् । ५.३३ ।

तेनाऽहतः शरवरेण भृशं ममार विक्रुश्य लक्ष्मणमुरुव्यथया सपापः ।

श्रुत्वैव लक्ष्मणमचूचुददुग्रवाक्यैः सोऽप्याप रामपथमेव सचापबाणः । ५.३४ ।

यां यां परेश उरुधैव करोति लीलां तां तां करोत्यनु तथैव रमापि देवी ।

नैतावताऽस्य परमस्य तथा रमाया दोषोऽणुरप्यनुविचिन्त्य उरुप्रभू यत् । ५.३५ ।

क्वाज्ञानमापदपि मन्दकटाक्षमात्रसर्गस्थितिप्रल्. अयसं सृतिमोक्षहेतोः ।

देव्या हरेः किमु विडम्बनमात्रमेतद्विक्रीडतोः सुरनरादिवदेव तस्मात् । ५.३६ ।

देव्याः समीपमथ रावण आससाद साऽदृश्यतामगमदप्यविषह्यशक्तिः ।

सृष्ट्वाऽत्मनः प्रतिकृतिं प्रययौ च शीघ्रं कैलासमर्चितपदा न्यवसच्छिवाभ्याम् । ५.३७ ।

तस्यास्तु तां प्रतिकृतिं प्रविवेश शक्रो देव्याण्स्च सन्निधियुतां व्यवहारसिद्ध्यै ।

आदाय तामथ ययौ रजनीचरेन्द्रो हत्वा जटायुषमुरुश्रमतो निरुद्धः । ५.३८ ।

मार्गे व्रजन्तमभियाय ततो हनूमान् सं वारितो रविसुतेन च जानमानः ।

दैवं तु कार्यमथ कीर्तिमभीप्समानो रामस्य नैनमहनद्वचनाद्धरेश्च । ५.३९ ।

प्राप्यैव राक्षस उताऽत्मपुरीं स तत्र सीताकृतिं प्रतिनिधाय ररक्ष चाथ ।

रामोऽपि तत्तु विनिहत्य सुदुष्टरक्षः प्राप्याऽश्रमं स्वदयितां नहि पश्यतीव । ५.४० ।

अन्वेषमाण इव तं च ददर्श गृध्रं सीतारिरक्षिषुमथो रिपुणा विशस्तम् ।

ल्.मन्दात्मचेष्टममुनोक्तमरेश्च कर्म श्रुत्वा मृतं तमदहत्स्वगतिं तथाऽदात् । ५.४१ ।

अन्यत्र चैव विचरन् सहितोऽनुजेन प्राप्तः करौ स सहसाऽथ कबन्धनाम्नः ।

धातुर्वरादखिलजायिन उज्झितस्य मृत्योश्च वज्रपतनादतिकुञ्चितस्य । ५.४२ ।

छित्वाऽस्य बाहुयुगल्. अं सहितोऽनुजेन तं पूर्ववत्प्रतिविधाय सुरेन्द्रभृत्यम् ।

नाम्ना दनुं त्रिजटयैव पुराऽभिजातं गन्धर्वमाण्सु च ततोऽपि तदर्चितोऽगात् । ५.४३ ।

दृष्ट्वा तमेव शबरी परमं हरिं च ज्ञात्वा विवेश दहनं पुरतोऽस्य तस्यै ।

प्रादात्स्वलोकमिममेव हि सा प्रतीक्ष्य पूर्वं मतङ्गवचनेन वनेऽत्र साऽभूत् । ५.४४ ।

शापाद्वराप्सरसमेव हि तां विमुच्य शच्या कृतात्पतिपुरस्त्वतिदर्पहेतोः ।

गत्वा ददर्श पवनात्मजमृश्यमूके स ह्येक एनमवगच्छति सम्यगीशम् । ५.४५ ।

देहेऽपि यत्र पवनोऽत्र हरिर्यतोऽसौ तत्रैव वायुरिति वेदवचः प्रसिद्धम् ।

कस्मिन्न्वहं त्विति तथैव हि सोऽवतारे तस्मात्स मारुतिकृते रविजं ररक्ष । ५.४६ ।

एवं स कृष्णतनुरर्जुनमप्यरक्षद्भीमार्थमेव तदरिं रविजं निहत्य ।

पूर्वं हि मारुतिमवाप रवेः सुतोऽयं तेनास्य वालिनमहन् रघुपः प्रतीपम् । ५.४७ ।

एवं सुराण्स्च पवनस्य वशे यतोऽतः सुग्रीवमत्र तु परत्र च शक्रसूनुम् ।

सर्वे श्रिता हनुमतस्तदनुग्रहाय तत्रागमद्रघुपतिः सह लक्ष्मणेन । ५.४८ ।

यत्पादपङ्कजरजः शिरसा विभर्ति श्रीरब्जजश्च गिरिशः सह लोकपालैः ।

सर्वेश्वरस्य परमस्य हि सर्वशक्तेः किं तस्य शत्रुहनने कपयः सहायाः । ५.४९ ।

समागते तु राघवे प्लवङ्गमाः ससूर्यजाः ।

विपुप्लुवुर्भयार्दिता न्यवारयच्च मारुतिः । ५.५० ।

सं स्थाप्याऽशु हरीन्द्रान् जानन् विष्णोर्गुणाननन्तान् सः ।

साक्षाद्ब्रह्मपिताऽसावित्येनेनास्य पादयोः पेते । ५.५१ ।

इति श्रीमदानन्दतीर्थभगवत्पादाचार्यविरचिते

श्रीमहाभारततात्पर्यनिर्णये

रामचरिते हनूमद्दर्शनं न्îअम पञ्चमोऽध्यायः

लि.(समुद्रतरणनिश्चयः )

"https://sa.wikibooks.org/w/index.php?title=अथ_पञ्चमोऽध्यायः&oldid=4914" इत्यस्माद् प्रतिप्राप्तम्