सामग्री पर जाएँ

अथ षष्ठोऽध्यायः

विकिपुस्तकानि तः

अथ षष्ठोऽध्यायः

ओं । उत्थाप्य चैनमरविन्ददलायताक्षण्स्चक्राङ्कितेन वरदेन कराम्बुजेन ।

कृत्वा च सं विदमनेन नुतोऽस्य चां सं प्रीत्याऽरुरोह स हसन् सह लक्ष्मणेन । ६.१ ।

आरोप्य चां सयुगल्. अं भगवन्तमेनं तस्यानुजं च हनुमान् प्रययौ कपीन्द्रम् ।

सख्यं चकार हुतभुक्प्रमुखे च तस्य रामेण ण्साण्स्वतनिजार्तिहरेण ण्सीघ्रम् । ६.२ ।

श्रुत्वाऽस्य दुःखमथ देववरः प्रतिज्ञां चक्रे स वालिनिधनाय हरीश्वरोऽपि ।

सीतानुमार्गणकृतेऽथ स वालिनैव क्षिप्तां हि दुन्दुभितनुं समदर्शयच्च । ६.३ ।

वीक्ष्यैव तां निपतितामथ रामदेवः सोऽङ्गुष्ठमात्रचलनादतिलीलयैव ।

सम्प्रास्य योजनशतेऽथ तयैव चोर्वीं सर्वां विदार्य दितिजानहनद्रसास्थान् । ६.४ ।

शर्वप्रसादजबलाद्दितिजानवध्यान् सर्वान्निहत्य कुणपेन पुनश्च सख्या ।

भीतेन वालिबलतः कथितः स्म सप्त सालान् प्रदर्श्य दितिजान् सुदृढां श्च वज्रात् । ६.५ ।

एकैकमेषु स विकम्पयितुं समर्थः पत्राणि लोप्तुमपि तूत्सहते न शक्तः ।

विष्वक्स्थितान् यदि भवान् प्रतिभेत्स्यतीमानेकेषुणा तर्हि वालिवधे समर्थः । ६.६ ।

जेतुं चतुर्गुणबलो हि पुमान् प्रभुः स्याद्धन्तुं शताधिकबलोऽतिबलं सुशक्तः ।

तस्मादिमान् हरिहयात्मजबाह्वलोप्यपत्रान् विभिद्य मम सं शयमाण्सु भिन्धि । ६.७ ।

श्रुत्वाऽस्य वाक्यमवमृश्य दितेः सुतां स्तान् धातुर्वरादखिलपुम्भिरभेद्यरूपान् ।

ब्रह्मत्वमाप्तुमचलं तपसि प्रवृत्तानेकेषुणा सपदि तान् प्रविभेद रामः । ६.८ ।

सन्धाय कार्मुकवरे निशिते तु बाणेऽथाऽकृष्य दक्षिणभुजेन तदा प्रमुक्ते ।

रामेण सत्वरमनन्तबलेन सर्वे चूर्णीकृताः सपदि ते तरवो रवेण । ६.९ ।

भित्त्वा चतान् सगिरिकुं भगवत्प्रमुक्तः पाताल्. असप्तकमथात्र च ये त्ववध्याः ।

नाम्नाऽसुराः कुमुदिनोऽब्जजवाक्यरक्षाः सर्वां श्च तानदहदाण्सु शरः स एकः । ६.१० ।

नैतद्विचित्रममितोरुबलस्य विष्णोर्यत्प्रेरणात्सपवनस्य भवेत्प्रवृत्तिः ।

लोकस्य सप्रकृतिकस्य सरुद्रकाल कर्मादिकस्य तदपीदमनन्यसाध्यम् । ६.११ ।

लिइ.दृष्ट्वा बलं भगवतोऽथ हरीश्वरोऽसावग्रे निधाय तमयात्पुरमग्रजस्य ।

आण्स्रुत्य रावमनुजस्य बिलात्स चाऽगादभ्येनमाण्सु दयिताप्रतिवारितोऽपि । ६.१२ ।

तन्मुष्टिभिः प्रतिहतः प्रययावशक्तः सुग्रीव आण्सु रघुपोऽपि हि धर्ममीक्षन् ।

नैनं जघान विदिताखिललोकचेष्टोऽप्येनं स आह युधि वां न मया विविक्तौ । ६.१३ ।

सौभ्रात्रमेष यदि वाञ्छति वालिनैव नाहं निरागसमथाग्रजनिं हनिष्ये ।

दीर्घः सहोदरगतो न भवेद्धि कोपो दीर्घोऽपि कारणमृते विनिवर्तते च । ६.१४ ।

कोपः सहोदरजने पुनरन्तकाले प्रायो निवृत्तिमुपगच्छति तापकश्च ।

एकस्य भङ्ग इति नैव झटित्यपास्तदोषो निहन्तुमिह योग्य इति स्म मेने । ६.१५ ।

तस्मान्न बन्धुजनगे जनिते विरोधे कार्यो वधस्तदनुबन्धिभिराण्स्वितीह ।

धर्मं प्रदर्शयितुमेव रवेः सुतस्य भावी न ताप इति विच्च न तं जघान । ६.१६ ।

यः प्रेरकः सकलषेमुषिसन्ततेश्च तस्याज्ञता कुत इहेशवरस्य विष्णोः ।

तेनोदितोऽथ सुदृढं पुनरागतेन वज्रोपमं शरममूमुचदिन्द्रसूनोः । ६.१७ ।

रामाज्ञयैव लतया रविजे विभक्ते वायोः सुतेन रघुपेण ण्सरे च मुक्ते ।

श्रुत्वाऽस्य शब्दमतुलं हृदि तेन विद्ध इन्द्रात्मजो गिरिरिवापतदाण्सु सन्नः । ६.१८ ।

भक्तो ममैष यदि मामभिपश्यतीह पादौ ध्रुवं मम समेष्यति निर्विचारः ।

योग्यो वधो नहि जनस्य पदानतस्य राज्यार्थिना रविसुतेन वधोऽर्थितश्च । ६.१९ ।

कार्यं ह्यभीष्टमपि तत्प्रणतस्य पूर्वं शस्तो वधो न पदयोः प्रणतस्य चैव ।

तस्माददृश्यतनुरेव निहन्मि शक्रपुत्रं त्वितीह तमदृष्टतया जघान । ६.२० ।

यः प्रेरकः सकललोकबलस्य नित्यं पूर्णाव्ययोच्चबलवीर्यतनुः स्वतन्त्रः ।

किं तस्य दृष्टिपथगस्य च वानरोऽयं कर्तैशचापमपि येन पुरा विभग्नम् । ६.२१ ।

सन्नेऽथ वालिनि जगाम च तस्य पार्श्वं प्राहैनमार्द्रवचसा यदि वाञ्छसि त्वम् ।

उज्जीवयिष्य इति नैच्छदसौ त्वदग्रे को नाम नेच्छति मृतिं पुरुषोत्तमेति । ६.२२ ।

कार्याणि तस्य चरमाणि विधाय पुत्रं त्वग्रे निधाय रविजः कपिराज्य आसीत् ।

लिइइ.रामोऽपि तद्गिरिवरे चतुरोऽथ मासान् दृष्ट्वा घनागममुवास सलक्ष्मणोऽसौ । ६.२३ ।

अथातिसक्ते क्षितिपे कपीनां प्रविस्मृते रामकृतोपकारे ।

प्रसह्य तं बुद्धिमतां वरिष्ठो रामाङ्घ्रिभक्तो हनुमानुवाच । ६.२४ ।

न विस्मृतिस्ते रघुवर्यकार्ये कार्या कथञ्चित्स हि नोऽभिपूज्यः ।

न चेत्स्वयं कर्तुमभीष्टमद्य ते ध्रुवं बलेनापि हि कारयामि । ६.२५ ।

स एवमुक्त्वा हरिराजसन्निधौ द्वीपेषु सप्तस्वपि वानरान् प्रति ।

सम्मेल्. अनायाऽशुगतीन् स्म वानरान् प्रस्थापयामास समस्तशः प्रभुः । ६.२६ ।

हरीश्वराज्ञाप्रणिधानपूर्वकं हनूमता ते प्रहिता हिवानराः ।

समस्तशैलद्रुमषण्डसं स्थितान् हरीन् समादाय तदाऽभिजग्मुः । ६.२७ ।

तदैव रामोऽपि हि भोगसक्तं प्रमत्तमालक्ष्य कपीश्वरं प्रभुः ।

जगाद सौमित्रिमिदं वचो मे प्लवङ्गमेशाय वदाऽशु याहि । ६.२८ ।

यदि प्रमत्तोऽसि मदीयकार्ये नयाम्यहं त्वेन्द्रसुतस्य मार्गम् ।

प्रायः स्वकार्ये प्रतिपादिते हि मदोद्धता न प्रतिकर्तुमीशते । ६.२९ ।

इतीड्यरामेण समीरिते तदा ययौ सबाणः सधनुः स लक्ष्मणः ।

दृष्ट्वैव तं तेन सहैव तापनिर्भयाद्ययौ रामपदान्तिकं त्वरन् । ६.३० ।

हनूमतः साधुवचोभिराण्सु प्रसन्नचेतस्यधिपे कपीनाम् ।

समागते सर्वहरिप्रवीरैः सहैव तं वीक्ष्य ननन्द राघवः । ६.३१ ।

ससम्भ्रमं तं पतितं पदाब्जयोस्त्वरन् समुत्थाप्य समाण्स्लिषत्प्रभुः ।

स चोपविष्टो जगदीशसन्निधौ तदाज्ञयैवाऽदिशदाण्सु वानरान् । ६.३२ ।

समस्तदिक्षु प्रहितेषु तेन प्रभुर्हनूमन्तमिदं बभाषे ।

न कश्चिदीशस्त्वदृतेऽस्ति साधने समस्तकार्यप्रवरस्य मेऽस्य । ६.३३ ।

अतस्त्वमेव प्रतियाहि दक्षिणां दिशं समादाय मदङ्गुलीयकम् ।

इतीरितोऽसौ पुरुषोत्तमेन ययौ दिशं तां युवराजयुक्तः । ६.३४ ।

लिव्.समस्तदिक्षु प्रतियापिता हि ते हरीश्वराज्ञामुपधार्य मासतः ।

समाययुस्तेऽङ्गदजाम्बवन्मुखाः सुतेन वायोः सहिता नचाऽययुः । ६.३५ ।

समस्तदुर्गप्रवरं दुरासदं विमार्गतां विन्ध्यगिरिं महात्मनाम् ।

गतः स कालो हरिराडुदीरितः समासदं श्चाथ बिलं महाद्भुतम् । ६.३६ ।

कृतं मयेनातिविचित्रमुत्तमं समीक्ष्य तत्तार उवाच चाङ्गदम् ।

वयं न यामो हरिराजसन्निधिं विलङ्घितो नः समयो यतोऽस्य । ६.३७ ।

दुरासदोऽसावतिचण्डण्सासनो हनिष्यति त्वामपि किं मदादिकान् ।

अगम्यमेतद्बिलमाप्य तत्सुखं वसाम सर्वे किमसाविहाऽचरेत् । ६.३८ ।

न चैव रामेण सलक्ष्मणेन प्रयोजनं नो वनचारिणां सदा ।

न चेह नः पीडयितुं स च क्षमस्ततो ममेयं सुविनिश्चिता मतिः । ६.३९ ।

इतीरितं मातुलवाक्यमाण्सु स आददे वालिसुतोऽपि सादरम् ।

उवाच वाक्यं च न नो हरीश्वरः क्षमी भवेल्लङ्घितशासनानाम् । ६.४० ।

राज्यार्थिना येन हि घातितोऽग्रजो हृताण्स्च दाराः सुनृशं सकेन ।

स नः कथं रक्षति शासनातिगान्निराण्स्रयान् दुर्बलकान् बले स्थितः । ६.४१ ।

इतीरिते शक्रसुतात्मजेन तथेति होचुः सह जाम्बवन्मुखाः ।

सर्वेऽपि तेषामथ चैकमत्यं दृष्ट्वा हनूमानिदमाबभाषे । ६.४२ ।

विज्ञातमेतद्धि मयाऽङ्गदस्य राज्याय ताराभिहितं हि वाक्यम् ।

साध्यं न चैतन्नहि वायुसूनू रामप्रतीपं वचनं सहेत । ६.४३ ।

न चाहमाक्रष्टुमुपायतोऽपि शक्यः कथञ्चित्सकलैः समेतैः ।

सन्मार्गतो नैव च राघवस्य दुरन्तशक्तेर्बिलमप्रधृष्यम् । ६.४४ ।

वचो ममैतद्यदि चाऽदरेण ग्राह्यं भवेद्वस्तदतिप्रियं मे ।

न चेद्बलादप्यनये प्रवृत्तान् प्रशास्य सन्मार्गगतान् करोमि । ६.४५ ।

इतीरितं तत्पवनात्मजस्य श्रुत्वाऽतिभीता धृतमूकभावाः ।

सर्वेऽनुजग्मुस्तमथाद्रिमुख्यं महेन्द्रमासेदुरगाधबोधाः । ६.४६ ।

ल्व्.निरीक्ष्य ते सागरमप्रधृष्यमपारमेयं सहसा विषण्णाः ।

दृढं निराण्साण्स्च मतिं हि दध्रुः प्रायोपवेशाय तथा च चक्रुः । ६.४७ ।

प्रायोपविष्टाण्स्च कथा वदन्तो रामस्य सं सारविमुक्तिदातुः ।

जटायुषः पातनमूचुरेतत्सम्पातिनाम्नः श्रवणं जगाम । ६.४८ ।

तस्याग्रजोऽसावरुणस्य सूनुः सूर्यस्य बिम्बं सह तेन यातः ।

जवं परीक्षन्नथ तं सुतप्तं गुप्त्वा पतत्रक्षयमाप्य चापतत् । ६.४९ ।

स दग्धपक्षः सवितृप्रतापाच्छ्रुत्वैव रामस्य कथां सपक्षः ।

भूत्वा पुनश्चापि मृतिं जटायुषः शुश्राव पृष्ट्वा पुनरेव सम्यक् । ६.५० ।

स रावणस्याथ गतिं सुतोक्तां निवेद्य दृष्ट्वा जनकात्मजाकृतिम् ।

स्वयं तथाऽशोकवने निषण्णामवोचदेभ्यो हरिपुङ्गवेभ्यः । ६.५१ ।

ततस्तु ते ब्रह्मसुतेन पृष्टा न्यवेदयन्नात्मबलं पृथक्पृथक् ।

दशैव चाऽरभ्य दशोत्तरस्य क्रमात्पथो योजनतोऽतियाने । ६.५२ ।

सनीलमैन्दद्विविदाः सताराः सर्वेऽप्यशीत्याः परतो न शक्ताः ।

गन्तुं यदाऽथाऽत्मबलं स जाम्बवान् जगाद तस्मात्पुनरष्टमां शम् । ६.५३ ।

बलेर्यदा विष्णुरवाप लोकां स्त्रिभिः क्रमैर्नन्दिरवं प्रकुर्वता ।

तदा मया भ्रान्तमिदं जगत्त्रयं सवेदनं जानु ममाऽस मेरुतः । ६.५४ ।

अतो जवो मे नहि पूर्वसम्मितः पुरा त्वहं षण्णवतिप्लवोऽस्मि ।

ततः कुमारोऽङ्गद आह चास्माच्छतं प्लवेयं न ततोऽभिजाने । ६.५५ ।

अपूरिते तैः सकलैः शतस्य गमागमे शत्रुबलं च वीक्ष्य ।

सुदुर्गमत्वं च निशाचरेशपुर्याः स धातुः सुत आबभाषे । ६.५६ ।

अयं हि गृध्रः शतयोजनं गिरिं त्रिकूटमाहेत उतात्र विघ्नाः ।

भवेयुरन्येऽपि ततो हनूमानेकः समर्थो न परोऽस्ति कश्चित् । ६.५७ ।

उक्त्वा स इत्थं पुनराह सूनुं प्राणस्य निः सीमबलं प्रशं सयन् ।

ल्वि.त्वमेक एवात्र परं समर्थः कुरुष्व चैतत्परिपाहि वानरान् । ६.५८ ।

इतीरितोऽसौ हनुमान्निजेप्सितं तेषामशक्तिं प्रकटां विधाय ।

अवर्धताऽशु प्रविचिन्त्य रामं सुपूर्णण्सक्तिं चरितोस्तदाज्ञाम् । ६.५९ ।

इति श्रीमदानन्दतीर्थभगवत्पादाचार्यविरचिते

श्रीमहाभारततात्पर्यनिर्णये

श्रीरामचरिते समुद्रतरणनिश्चयो नाम षष्ठोऽध्यायः

"https://sa.wikibooks.org/w/index.php?title=अथ_षष्ठोऽध्यायः&oldid=4916" इत्यस्माद् प्रतिप्राप्तम्