सामग्री पर जाएँ

अद्वैतप्रकरणे जीवब्रह्मणोः अद्वैतम्...

विकिपुस्तकानि तः

अद्वैतप्रकरणे जीवब्रह्मणोः अद्वैतं कथं कृतम्?

प्रथमे ओङ्कारनिर्णयप्रकरणे आत्मा अद्वयः इति प्रतिज्ञातम्।तस्य तर्केण सिद्धिः करणीया इति इदम् अद्वैतप्रकरणम् आरब्धम्।अस्मिन् प्रकरणे हेतुना दृष्टान्तेन च जीवब्रह्मणोः अद्वैतं प्रतिपाद्यते।
अत्र दृष्टान्त-दार्ष्टान्तिकयोः व्यवस्था एवमस्ति-
दृष्टान्तः --- --- दार्ष्टान्तिकः
महदाकाशः --- --- परमात्मा
घटः --- --- देहाद्युपाधिः
घटाकाशः --- --- जीवः<br>
आत्मा ह्याकाशवत् जीवैर्घटाकाशैरिवोदितः। घटादिवच्च सङ्घातैः जातावेतद् निदर्शनम्॥३.३

आकाशात् घटाकाशः जायते।अत्र घटाकाशस्य जातिः न परमार्थतः।घटोपाधिकृतः घटाकाशः।न तु घटाकाश-महदाकाशयोः स्वरूपतः कश्चिद् भेदः अस्ति।तयोः अद्वैतम् एव पारमार्थिकं, भेदः औपाधिकः।अनेन दृष्टान्तेन जीवब्रह्मणोः ऐक्यम् अवगन्तव्यम्।
महदाकाशस्थानीयः परमात्मा। घटस्थानीयः देहाद्युपाधिः।घटाकाशस्थानीयः जीवः । अयं जीवः परमात्मनः जायते। एषा जातिः देहाद्युपाधिकृता, न पारमार्थिकी।अतः स्वरूपतः जीवब्रह्मणोः अद्वैतम् एव तत्त्वम्।भेदस्तु उपाधिनिमित्तः।

घटादिषु प्रलीनेषु घटाकाशादयो यथा।आकाशे सम्प्रलीयन्ते तद्वज्जीवा इहात्मनि॥४॥<br> यदा घटः विनष्टः भवति, तदा घटाकाशः महदाकाशे विलीनः भवति।तथैव देहाद्युपाधिः यदा विनष्टः भवति, तदा जीवः अपि ब्रह्मणि विलीनः भवति।

जीवब्रह्मणोः अद्वैतंम् आगमेन १ -
जीवब्रह्मणोः अद्वैतं श्रुतौ अपि प्रतिपादितम् ।तद् आगमप्रमाणत्वेन वदति ग्रन्थकारः।
... यश्चायमस्यां पृथिव्यां तेजोमयोऽमृतमयः पुरुषः,यश्चायमध्यात्मः शारीरः तेजोमयोऽमृतमयः पुरुषः, अयमेव सः..... ।-बृहदारण्यकोपनिषदि मधुब्राह्मणे।
अत्र जीवात्मनोः ऐक्यम् ‘अयमेव सः’ इति वचनेन स्पष्टतया प्रतिपादितम्।

जीवब्रह्मणोः अद्वैतंम् आगमेन २
तैत्तिरीयोपनिषदि अन्नमयाद्याः पञ्च कोशाः उक्ताः।तेषाम् अन्तरतमः आत्मा।तमुद्दिश्य एवोक्तम् -
ब्रह्म पुच्छं प्रतिष्ठा – तैत्ति.५.१
इति। अस्माद्वचनादपि ज्ञायते यद् पञ्चानां कोशानामन्तः प्रतिष्ठितः यः जीवः स एव सर्वस्य प्रतिष्ठाभूतं ब्रह्म इति।एतद् वचनं जीवब्रह्मणोः अभेदं ज्ञापयति।

जीवब्रह्मणोः अद्वैतंम् आगमेन ३
जीवात्मनोः भेदस्य श्रुत्या निन्दा कृता, यथा -
न तु तद् द्वितीयम् अस्ति
द्वितीयाद् वै भयं भवति
जीवात्मनोः अभेदस्य श्रुत्या प्रशंसा कृता यथा-
इदं सर्वं यदयमात्मा।

जीवब्रह्मणोः अद्वैते द्वैतिनाम् आक्षेपः १ -
एकम् एव ब्रह्म जीवरूपेण नाना देहेषु व्यवस्थितं, तर्हि एकस्य जनन-मरण-सुख-दुःखैः सर्वेषां जनन-मरण-सुख-दुःखानि स्युः।क्रियाफलसाङ्कर्यम् अपि स्यात् इति अत्र द्वैतिनाम् आक्षेपः भवति।तस्य उत्तरं दत्तं-

यथैकस्मिन् घटाकाशे रजोधूमादिभिर्वृते।न सर्वे सम्प्रयुज्यन्ते, तद्वज्जीवाः सुखादिभिः॥५॥
एकस्मिन् घटाकाशे रजः सञ्चितं चेत् सर्वे घटाकाशाः रजोयुताः न भवन्ति।एकस्मिन् घटाकाशे धूमः सञ्चितः चेत् सर्वे घटाकाशाः धूमिलाः न भवन्ति।तथा एव एकस्य जीवस्य सुखादिभिः सर्वे जीवाः सुखादिमन्तः न भवन्ति।

जीवब्रह्मणोः अद्वैते द्वैतिनाम् आक्षेपः २ -
जीवः ब्रह्मस्वरूपः ,तयोः भेदः देहाद्युपाधिजन्यः इति अनेन दृष्टान्तेन ज्ञातं। तथापि तदर्थं देहाद्युपाधयः अभ्युपगन्तव्याः।तेन अद्वैतहानिप्रसङ्गः।

अस्य उत्तरं ‘घटादिवच्च सङ्घातैः’ तथा ‘सङ्घाताः स्वप्नवत् सर्वे आत्ममायाविसर्जिताः’ इति आचार्येण दत्तम्।यथा रज्ज्वां सर्पः रज्ज्वज्ञानेन परिकल्पितः, तथा देहाद्युपाधयः अपि आत्मनि आत्माज्ञानेन परिकल्पिताः।कल्पितपदार्थस्य स्वतन्त्रम् अस्तित्वं नास्ति अतः अद्वैतहानि-प्रसङ्गः नास्ति।

जीवब्रह्मणोः अद्वैते द्वैतिनाम् आक्षेपः ३
श्रुतौ जीवब्रह्मणोः द्वैतम् अपि प्रतिपादितम्।यदि अद्वैतं परमार्थः इति अङ्गीकुर्मः तर्हि द्वैतप्रतिपादिकानां श्रुतीनां व्याकोपः स्यात्

अस्योत्तरमुक्तं ग्रन्थकारेण ‘भविष्यद्वृत्तिम् आश्रित्य’ इति।कर्मकाण्डे तथा ज्ञानकाण्डे अपि नैकत्र द्वैतप्रतिपादनं दृश्यते इति सत्यम्।तथापि तस्य प्रतिपादने श्रुतेः तात्पर्यं नास्ति।द्वैतं तु सर्वैः अविद्यावद्भिः प्राणिभिः अनुभूयते एव।तस्य प्रतिपादनं श्रुतिः न करोति।‘अज्ञाते शास्त्रम् अर्थवत्’ इति न्यायः।अद्वैतप्रतिपादनेन एव श्रुतेः अज्ञातार्थज्ञापकत्वं सिद्ध्यति, न तु द्वैत-प्रतिपादनेन। अतः श्रुत्या सर्वप्राणिनां द्वैतानुभवस्य अनुवादः कृतः, अद्वैतस्य प्रतिपादनं कृतम् इत्येव उभयोः समञ्जनं करणीयम्।एवं च अद्वैतपरवचनानां प्राधान्यं द्वैतपरवचनानां गौणत्वं सिद्ध्यति।
‘देवदत्तः ओदनं पचति’ इति प्रयोगः भवति।वस्तुतः अत्र ओदनः न पच्यते, तण्डुलाः पच्यन्ते।तथापि तण्डुलाः पाके पूर्णे सति ओदनरूपाः भविष्यन्ति इति ध्रुवम्।अतः तण्डुलानां भविष्यद्वृत्तिम् उद्दिश्य प्रयोगः भवति ‘ओदनं पचति’ इति।तथैव अत्र यद्यपि द्वैतानुभवः इदानीम् अस्ति तथापि उपनिषत्सु जीवात्मैक्यप्रतिपादनं भविष्यति इति भविष्यद्वृत्तिम् आश्रित्य भेददृष्टेः अनुवादः कृतः ।
एवं सविस्तरं जीवत्मनः अभेदस्य प्रतिपादनं कृत्वा गौडपादाचार्यः निर्णयं वदति –
अद्वैतं परमार्थो हि द्वैतं तद्भेद उच्यते


गौडपादकारिका-प्रश्नोत्तरसङ्ग्रहः     गौडपादकारिका-लघूत्तरप्रश्नाः     गौडपादकारिका-दीर्घोत्तरप्रश्नाः