सामग्री पर जाएँ

अध्यात्मरामायण/उत्तरकाण्डम्

विकिपुस्तकानि तः

॥ अध्यात्मरामायणे उत्तरकाण्डम् ॥


॥ प्रथमः सर्गः ॥ श्रीमहादेव उवाच । जयति रघुवंशतिलकः कौसल्याहृदयनन्दनो रामः । दशवदननिधनकारी दाशरथिः पुण्डरीकाक्षः ॥ १॥

पार्वत्युवाच । अथ रामः किमकरोत्कौसल्यानन्दवर्धनः । हत्वा मृधे रावणादीन् राक्षसान् भीमविक्रमः ॥ २॥

अभिषिक्तस्त्वयोध्यायां सीतया सह राघवः । मायामानुषतां प्राप्य कति वर्षाणि भूतले ॥ ३॥

स्थितवान् लीलया देवः परमात्मा सनातनः । अत्यजन्मानुषं लोकं कथमन्ते रघूद्वहः ॥ ४॥

एतदाख्याहि भगवन् श्रद्दधत्या मम प्रभो । कथापीयुषमास्वाद्य तृष्णा मेऽतीव वर्धते । रामचन्द्रस्य भगवन् ब्रूहि विस्तरशः कथाम् ॥ ५॥

श्रीमहादेव उवाच । राक्षसानां वधं कृत्वा राज्ये राम उपस्थिते । आययुर्मुनयः सर्वे श्रीराममभिवन्दितुम् ॥ ६॥

विश्वामित्रोऽसितः कण्वो दुर्वासा भृगुरङ्गिराः । कश्यपो वामदेवोऽत्रिस्तथा सप्तर्षयोऽमलाः ॥ ७॥

अगस्त्यः सह शिष्यैश्च मुनिभिः सहितोऽभ्यगात् । द्वारमासाद्य रामस्य द्वारपालमथाब्रवीत् ॥ ८॥

ब्रूहि रामाय मुनयः समागत्य बहिःस्थिताः । अगस्त्यप्रमुखाः सर्वे आशीर्भिरभिनन्दितुम् ॥ ९॥

प्रतीहारस्ततो राममगस्त्यवचनाद् द्रुतम् । नमस्कृत्याब्रवीद्वाक्यं विनयावनतः प्रभुम् ॥ १०॥

कृताञ्जलिरुवाचेदमगस्त्यो मुनिभिः सह । देव त्वद्दर्शनार्थाय प्राप्तो बहिरुपस्थितः ॥ ११॥

तमुवाच द्वारपालं प्रवेशय यथासुखम् । पूजिता विविशुर्वेश्म नानारत्नविभूषितम् ॥ १२॥

दृष्ट्वा रामो मुनीन् शीघ्रं प्रत्युत्थाय कृताञ्जलिः । पाद्यार्घ्यादिभिरापूज्य गां निवेद्य यथाविधि ॥ १३॥

नत्वा तेभ्यो ददौ दिव्यान्यासनानि यथार्हतः । उपविष्टा प्रहृष्टाश्च मुनयो रामपूजिताः ॥ १४॥

सम्पृष्टकुशलाः सर्वे रामं कुशलमब्रुवन् । कुशलं ते महाबाहो सर्वत्र रघुनन्दन ॥ १५॥

दिष्ट्येदानीं प्रपश्यामो हतशत्रुमरिन्दम । न हि भारः स ते राम रावणो राक्षसेश्वरः ॥ १६॥

सधनुस्त्वं हि लोकांस्त्रीन् विजेतुं शक्त एव हि । दिष्ट्या त्वया हताः सर्वे राक्षसा रावणादयः ॥ १७॥

सह्यमेतन्महाबाहो रावणस्य निबर्हणम् । असह्यमेतत्सम्प्राप्तं रावणेर्यन्निषूदनम् ॥ १८॥

अन्तकप्रतिमाः सर्वे कुम्भकर्णादयो मृधे । अन्तकप्रतिमैर्बाणैर्हतास्ते रघुसत्तम ॥ १९॥

दत्ता चेयं त्वयास्माकं पुरा ह्यभयदक्षिणा । हत्वा रक्षोगणान् सङ्ख्ये कृतकृत्योऽद्य जीवसि ॥ २०॥

श्रुत्वा तु भाषितं तेषां मुनीनां भावितात्मनाम् । विस्मयं परमं गत्वा रामः प्राञ्जलिरब्रवीत् ॥ २१॥

रावणादीनतिक्रम्य कुम्भकर्णादिराक्षसान् । त्रिलोकजयिनो हित्वा किं प्रशंसथ रावणिम् ॥ २२॥

ततस्तद्वचनं श्रुत्वा राघवस्य महात्मनः । कुम्भयोनिर्महातेजा रामं प्रीत्या वचोऽब्रवीत् ॥ २३॥

शृणु राम यथा वृत्तं रावणे रावणस्य च । जन्म कर्म वरादानं सङ्क्षेपाद्वदतो मम ॥ २४॥

पुरा कृतयुगे राम पुलस्त्यो ब्रह्मणः सुतः । तपस्तप्तुं गतो विद्वान् मेरोः पार्श्वं महामतिः ॥ २५॥

तृणबिन्दोराश्रमेऽसौ न्यवसन्मुनिपुङ्गवः । तपस्तेपे महातेजाः स्वाध्यायनिरतः सदा ॥ २६॥

तत्राश्रमे महारम्ये देवगन्धर्वकन्यकाः । गायन्त्यो ननृतुस्तत्र हसन्त्यो वादयन्ति च ॥ २७॥

पुलस्त्यस्य तपोविघ्नं चक्रुः सर्वा अनिन्दिताः । ततः क्रुद्धो महातेजा व्याजहार वचो महत् ॥ २८॥

या मे दृष्टिपथं गच्छेत्सा गर्भं धारयिष्यति । ताः सर्वाः शापसंविग्ना न तं देशं प्रचक्रमुः ॥ २९॥

तृणबिन्दोस्तु राजर्षेः कन्या तन्नाशृणोद्वचः । विचचार मुनेरग्रे निर्भया तं प्रपश्यती ॥ ३०॥

बभूव पाण्डुरतनुर्व्यञ्जितान्तःशरीरजा । दृष्ट्वा सा देहवैवर्ण्यं भीता पितरमन्वगात् ॥ ३१॥

तृणबिन्दुश्च तां दृष्ट्वा राजर्षिरमितद्युतिः । ध्यात्वा मुनिकृतं सर्वमवैद्विज्ञानचक्षुषा ॥ ३२॥

तां कन्यां मुनिवर्याय पुलस्त्याय ददौ पिता । तां प्रगृह्याब्रवीत्कन्यां बाढमित्येव स द्विजः ॥ ३३॥

शुश्रूषणपरां दृष्ट्वा मुनिः प्रीतोऽब्रवीद्वचः । दास्यामि पुत्रमेकं ते उभयोर्वंशवर्धनम् ॥ ३४॥

ततः प्रासूत सा पुत्रं पुलस्त्याल्लोकविश्रुतम् । विश्रवा इति विख्यातः पौलस्त्यो ब्रह्मविन्मुनिः ॥ ३५॥

तस्य शीलादिकं दृष्ट्वा भरद्वाजो महामुनिः । भार्यार्थं स्वां दुहितरं ददौ विश्रवसे मुदा ॥ ३६॥

तस्यां तु पुत्रः सञ्जज्ञे पौलस्त्याल्लोकसम्मतः । पितृतुल्यो वैश्रवणो ब्रह्मणा चानुमोदितः ॥ ३७॥

ददौ तत्तपसा तुष्टो ब्रह्मा तस्मै वरं शुभम् । मनोऽभिलषितं तस्य धनेशत्वमखण्डितम् ॥ ३८॥

ततो लब्धवरः सोऽपि पितरं द्रष्टुमागतः । पुष्पकेण धनाध्यक्षो ब्रह्मदत्तेन भास्वता ॥ ३९॥

नमस्कृत्याथ पितरं निवेद्य तपसः फलम् । प्राह मे भगवान् ब्रह्मा दत्त्वा वरमनिन्दितम् ॥ ४०॥

निवासाय न मे स्थानं दत्तवान् परमेश्वरः । ब्रूहि मे नियतं स्थानं हिंसा यत्र न कस्यचित् ॥ ४१॥

विश्रवा अपि तं प्राह लङ्कानाम पुरी शुभा । राक्षसानां निवासाय निर्मिता विश्वकर्मणा ॥ ४२॥

त्यक्त्वा विष्णुभयाद्दैत्या विविशुस्ते रसातलम् । सा पुरी दुष्प्रधर्षान्यैर्मध्येसागरमास्थिता ॥ ४३॥

तत्र वासाय गच्छ त्वं नान्यैः साधिष्ठिता पुरा । पित्रादिष्टस्त्वसौ गत्वा तां पुरीं धनदोऽविशत् ॥ ४४॥

स तत्र सुचिरं कालमुवास पितृसम्मतः । कस्यचित्त्वथ कालस्य सुमाली नाम राक्षसः ॥ ४५॥

रसातलान्मर्त्यलोकं चचार पिशिताशनः । गृहीत्वा तनयां कन्यां साक्षाद्देवीमिव श्रियम् ॥ ४६॥

अपश्यद्धनदं देवं चरन्तं पुष्पकेण सः । हिताय चिन्तयामास राक्षसानां महामनाः ॥ ४७॥

उवाच तनयां तत्र कैकसीं नाम नामतः । वत्से विवाहकालस्ते यौवनं चातिवर्तते ॥ ४८॥

प्रत्याख्यानाच्च भीतैस्त्वं न वरैर्गृह्यसे शुभे । सा त्वं वरय भद्रं ते मुनिं ब्रह्मकुलोद्भवम् ॥ ४९॥

स्वयमेव ततः पुत्रा भविष्यन्ति महाबलाः । ईदृशाः सर्वशोभाढ्या धनदेन समाः शुभे ॥ ५०॥

तथेति साऽऽश्रमं गत्वा मुनेरग्रे व्यवस्थिता । लिखन्ती भुवमग्रेण पादेनाधोमुखी स्थिता ॥ ५१॥

तामपृच्छन्मुनिः का त्वं कन्याऽसि वरवर्णिनि । साब्रवीत्प्राञ्जलिर्ब्रह्मन् ध्यानेन ज्ञातुमर्हसि ॥ ५२॥

ततो ध्यात्वा मुनिः सर्वं ज्ञात्वा तां प्रत्यभाषत । ज्ञातं तवाभिलषितं मत्तः पुत्रानभीप्ससि ॥ ५३॥

दारुणायां तु वेलायामागतासि सुमध्यमे । अतस्ते दारुणौ पुत्रौ राक्षसौ सम्भविष्यतः ॥ ५४॥

साब्रवीन्मुनिशार्दूल त्वत्तोऽप्येवंविधौ सुतौ । तामाह पश्चिमो यस्ते भविष्यति महामतिः ॥ ५५॥

महाभागवतः श्रीमान् रामभक्त्येकतत्परः । इत्युक्ता सा तथा काले सुषुवे दशकन्धरम् ॥ ५६॥

रावणं विंशतिभुजं दशशीर्षं सुदारुणम् । तद्रक्षोजातमात्रेण चचाल च वसुन्धरा ॥ ५७॥

बभूवुर्नाशहेतूनि निमित्तान्यखिलान्यपि । कुम्भकर्णस्ततो जातो महापर्वतसन्निभः ॥ ५८॥

ततः शूर्पणखा नाम जाता रावणसोदरी । ततो विभीषणो जातः शान्तात्मा सौम्यदर्शनः ॥ ५९॥

स्वाध्यायी नियताहारो नित्यकर्मपरायणः । कुम्भकर्णस्तु दुष्टात्मा द्विजान् सन्तुष्टचेतसः ॥ ६०॥

भक्षयन्नृषिसङ्घांश्च विचचारातिदारुणः । रावणोऽपि महासत्त्वो लोकानां भयदायकः । ववृधे लोकनाशाय ह्यामयो देहिनामिव ॥ ६१॥

राम त्वं सकलान्तरस्थमभितो जानासि विज्ञानदृक्

      साक्षी सर्वहृदि स्थितो हि परमो नित्योदितो निर्मलः ।

त्वं लीलामनुजाकृतिः स्वमहिमन् मायागुणैर्नाज्यसे

      लीलार्थं प्रतिचोदितोऽद्य भवता वक्ष्यामि रक्षोद्भवम् ॥ ६२॥

जानामि केवलमनन्तमचिन्त्यशक्तिं

      चिन्मात्रमक्षरमजं विदितात्मतत्त्वम् ।

त्वां राम गूढनिजरूपमनुप्रवृत्तो

      मूढोऽप्यहं भवदनुग्रहतश्चरामि ॥ ६३॥

एवं वदन्तमिनवंशपवित्रकीर्तिः

      कुम्भोद्भवं रघुपतिः प्रहसन् बभाषे ।

मायाश्रितं सकलमेतदनन्यकत्वात्

      मत्कीर्तनं जगति पापहरं निबोध ॥ ६४॥

इति श्रीमदध्यात्मरामायणे उमामहेश्वरसंवादे उत्तरकाण्डे प्रथमः सर्गः ॥ १॥


॥ द्वितीय सर्गः ॥

श्रीमहादेव उवाच ।

श्रीरामवचनं श्रुत्वा परमानन्दनिर्भरः । मुनिः प्रोवाच सदसि सर्वेषां तत्र शृण्वताम् ॥ १॥

अथ वित्तेश्वरो देवस्तत्र कालेन केनचित् । आययौ पुष्पकारूढः पितरं द्रष्टुमञ्जसा ॥ २॥

दृष्ट्वा तं कैकसी तत्र भ्राजमानं महौजसम् । राक्षसी पुत्रसामीप्यं गत्वा रावणमब्रवीत् ॥ ३॥

पुत्र पश्य धनाध्यक्षं ज्वलन्तं स्वेन तेजसा । त्वमप्येवं यथा भूयास्तथा यत्नं कुरु प्रभो ॥ ४॥

तच्छ्रुत्वा रावणो रोषात् प्रतिज्ञामकरोद्द्रुतम् । धनदेन समो वापि ह्यधिको वाचिरेण तु ॥ ५॥

भविष्याम्यम्ब मां पश्य सन्तापं त्यज सुव्रते । इत्युक्त्वा दुष्करं कर्तुं तपः स दशकन्धरः ॥ ६॥

अगमत्फलसिद्ध्यर्थं गोकर्णं तु सहानुजः । स्वं स्वं नियममास्थाय भ्रातरस्ते तपो महत् ॥ ७॥

आस्थिता दुष्करं घोरं सर्वलोकैकतापनम् । दशवर्षसहस्राणि कुम्भकर्णोऽकरोत्तपः ॥ ८॥

विभीषणोऽपि धर्मात्मा सत्यधर्मपरायणः । पञ्चवर्षसहस्राणि पादेनैकेन तस्थिवान् ॥ ९॥

दिव्यवर्षसहस्रं तु निराहारो दशाननः । पूर्णे वर्षसहस्रे तु शीर्षमग्नौ जुहाव सः । एवं वर्षसहस्राणि नव तस्यातिचक्रमुः ॥ १०॥

अथ वर्षसहस्रं तु दशमे दशमं शिरः । छेत्तुकामस्य धर्मात्मा प्राप्तश्चाथ प्रजापतिः । वत्स वत्स दशग्रीव प्रीतोऽस्मीत्यभ्यभाषत ॥ ११॥

वरं वरय दास्यामि यत्ते मनसि काङ्क्षितम् । दशग्रीवोऽपि तच्छ्रुत्वा प्रहृष्टेनान्तरात्मना ॥ १२॥

अमरत्वं वृणोमीश वरदो यदि मे भवान् । सुपर्णनागयक्षाणां देवतानां तथासुरैः । अवध्यत्वं तु मे देहि तृणभूता हि मानुषाः ॥ १३॥

तथास्त्विति प्रजाध्यक्षः पुनराह दशाननम् । अग्नौ हुतानि शीर्षाणि यानि तेऽसुरपुङ्गव ॥ १४॥

भविष्यन्ति यथापूर्वमक्षयाणि च सत्तम ॥ १५॥

एवमुक्त्वा ततो राम दशग्रीवं प्रजापतिः । विभीषणमुवाचेदं प्रणतं भक्तवत्सलः ॥ १६॥

विभीषण त्वया वत्स कृतं धर्मार्थमुत्तमम् । तपस्ततो वरं वत्स वृणीष्वाभिमतं हितम् ॥ १७॥

विभीषणोऽपि तं नत्वा प्राञ्जलिर्वाक्यमब्रवीत् । देव मे सर्वदा बुद्धिर्धर्मे तिष्ठतु शाश्वती । मा रोचयत्वधर्मं मे बुद्धिः सर्वत्र सर्वदा ॥ १८॥

ततः प्रजापतिः प्रीतो विभीषणमथाब्रवीत् । वत्स त्वं धर्मशीलोऽसि तथैव च भविष्यसि ॥ १९॥

अयाचितोऽपि ते दास्ये ह्यमरत्वं विभीषण । कुम्भकर्णमथोवाच वरं वरय सुव्रत ॥ २०॥

वाण्या व्याप्तोऽथ तं प्राह कुम्भकर्णः पितामहम् । स्वप्स्यामि देव षण्मासान् दिनमेकं तु भोजनम् ॥ २१॥

एवमस्त्विति तं प्राह ब्रह्मा दृष्ट्वा दिवौकसः । सरस्वती च तद्वक्त्रान्निर्गता प्रययौ दिवम् ॥ २२॥

कुम्भकर्णस्तु दुष्टात्मा चिन्तयामास दुःखितः । अनभिप्रेतमेवास्यात्किं निर्गतमहो विधिः ॥ २३॥

सुमाली वरलब्धांस्तान् ज्ञात्वा पौत्रान् निशाचरान् । पातालान्निर्भयः प्रायात् प्रहस्तादिभिरन्वितः ॥ २४॥

दशग्रीवं परिष्वज्य वचनं चेदमब्रवीत् । दिष्ट्या ते पुत्र संवृत्तो वाञ्छितो मे मनोरथः ॥ २५॥

यद्भयाच्च वयं लङ्कां त्यक्त्वा याता रसातलम् । तद्गतं नो महाबाहो महद्विष्णुकृतं भयम् ॥ २६॥

अस्माभिः पूर्वमुषिता लङ्केयं धनदेन ते । भ्रात्राक्रान्तामिदानीं त्वं प्रत्यानेतुमिहार्हसि ॥ २७॥

साम्ना वाथ बलेनापि राज्ञां बन्धुः कुतः सुहृत् । इत्युक्तो रावणः प्राह नार्हस्येवं प्रभाषितुम् ॥ २८॥

वित्तेशो गुरुरस्माकमेवं श्रुत्वा तमब्रवीत् । प्रहस्तः प्रश्रितं वाक्यं रावणं दशकन्धरम् ॥ २९॥

शृणु रावण यत्नेन नैवं त्वं वक्तुमर्हसि । नाधीता राजधर्मास्ते नीतिशास्त्रं तथैव च ॥ ३०॥

शूराणां न हि सौभ्रात्रं शृणु मे वदतः प्रभो । कश्यपस्य सुता देवा राक्षसाश्च महाबलाः ॥ ३१॥

परस्परमयुध्यन्त त्यक्त्वा सौहृदमायुधैः । नैवेदानीन्तनं राजन् वैरं देवैरनुष्ठितम् ॥ ३२॥

प्रहस्तस्य वचः श्रुत्वा दशग्रीवो दुरात्मनः । तथेति क्रोधताम्राक्षस्त्रिकूटाचलमन्वगात् ॥ ३३॥

दूतं प्रहस्तं सम्प्रेष्य निष्कास्य धनदेश्वरम् । लङ्कामाक्रम्य सचिवै राक्षसैः सुखमास्थितः ॥ ३४॥

धनदः पितृवाक्येन त्यक्त्वा लङ्कां महायशाः । गत्वा कैलासशिखरं तपसातोषयच्छिवम् ॥ ३५॥

तेन सख्यमनुप्राप्य तेनैव परिपालितः । अलकां नगरीं तत्र निर्ममे विश्वकर्मणा ॥ ३६॥

दिक्पालत्वं चकारात्र शिवेन परिपालितः । रावणो राक्षसैः सार्धमभिषिक्तः सहानुजैः ॥ ३७॥

राज्यं चकारासुराणां त्रिलोकीं बाधयन् खलः । भगिनीं कालखञ्जाय ददौ विकटरूपिणीम् ॥ ३८॥

विद्युज्जिह्वाय नाम्नासौ महामायी निशाचरः । ततो मयो विश्वकर्मा राक्षसानां दितेः सुतः ॥ ३९॥

सुतां मन्दोदरीं नाम्ना ददौ लोकैकसुन्दरीम् । रावणाय पुनः शक्तिममोघां प्रीतमानसः ॥ ४०॥

वैरोचनस्य दौहित्रीं वृत्रज्वालेति विश्रुताम् । स्वयन्दत्तामुदवहत्कुम्भकर्णाय रावणः ॥ ४१॥

गन्धर्वराजस्य सुतां शैलूषस्य महात्मनः । विभीषणस्य भार्यार्थे धर्मज्ञां समुदावहत् ॥ ४२॥

सरमां नाम सुभगां सर्वलक्षणसंयुताम् । ततो मन्दोदरी पुत्रं मेघनादमजीजनत् ॥ ४३॥

जातमात्रस्तु यो नादं मेघवत्प्रमुमोच ह । ततः सर्वेऽब्रुवन्मेघनादोऽयमिति चासकृत् ॥ ४४॥

कुम्भकर्णस्ततः प्राह निद्रा मां बाधते प्रभो । ततश्च कारयामास गुहां दीर्घां सुविस्तराम् ॥ ४५॥

तत्र सुष्वाप मूढात्मा कुम्भकर्णो विघूर्णितः । निद्रिते कुम्भकर्णे तु रावणो लोकरावणः ॥ ४६॥

ब्राह्मणान् ऋषिमुख्यांश्च देवदानवकिन्नरान् । देवश्रियो मनुष्यांश्च निजघ्ने समहोरगान् ॥ ४७॥

धनदोऽपि ततः श्रुत्वा रावणस्याक्रमं प्रभुः । अधर्मं मा कुरुष्वेति दूतवाक्यैर्न्यवारयत् ॥ ४८॥

ततः क्रुद्धो दशग्रीवो जगाम धनदालयम् । विनिर्जित्य धनाध्यक्षं जहारोत्तमपुष्पकम् ॥ ४९॥

ततो यमं च वरुणं निर्जित्य समरेऽसुरः । स्वर्गलोकमगात्तुर्णं देवराजजिघांसया ॥ ५०॥

ततोऽभवन्महद्युद्धमिन्द्रेण सह दैवतैः । ततो रावणमभ्येत्य बबन्ध त्रिदशेश्वरः ॥ ५१॥

तच्छ्रुत्वा सहसागत्य मेघनादः प्रतापवन् । कृत्वा घोरं महद्युद्धं जित्वा त्रिदशपुङ्गवान् ॥ ५२॥

इन्द्रं गृहीत्वा बध्वासौ मेघनादो महाबलः । मोचयित्वा तु पितरं गृहीत्वेन्द्रं ययौ पुरम् ॥ ५३॥

ब्रह्मा तु मोचयामास देवेन्द्रं मेघनादतः । दत्त्वा वरान् बहूंस्तस्मै ब्रह्मा स्वभवनं ययौ ॥ ५४॥

रावणो विजयी लोकान् सर्वान् जित्वा क्रमेण तु । कैलासं तोलयामास बाहुभिः परिघोपमैः ॥ ५५॥

तत्र नन्दीश्वरेणैवं शप्तोऽयं राक्षसेश्वरः । वानरैर्मानुषैश्चैव नाशं गच्छेति कोपिना ॥ ५६॥

शप्तोऽप्यगणयन् वाक्यं ययौ हैहयपत्तनम् । तेन बद्धो दशग्रीवः पुलस्त्येन विमोचितः ॥ ५७॥

ततोऽतिबलमासाद्य जिघांसुर्हरिपुङ्गवम् । धृतस्तेनैव कक्षेण वालिना दशकन्धरः ॥ ५८॥

भ्रामयित्वा तु चतुरः समुद्रान् रावणं हरिः । विसर्जयामास ततस्तेन सख्यं चकार सः ॥ ५९॥

रावणः परमप्रीत एवं लोकान् महाबलः । चकार स्ववशे राम बुभुजे स्वयमेव तान् ॥ ६०॥

एवम्प्रभावो राजेन्द्र दशग्रीवः सहेन्द्रजित् । त्वया विनिहतः सङ्ख्ये रावणो लोकरावणः ॥ ६१॥

मेघनादश्च निहतो लक्ष्मणेन महात्मना । कुम्भकर्णश्च निहतस्त्वया पर्वतसन्निभः ॥ ६२॥

भवान्नारायणः साक्षाज्जगतामादिकृद्विभुः । त्वत्स्वरूपमिदं सर्वं जगत्स्थावरजङ्गमम् ॥ ६३॥

त्वन्नाभिकमलोत्पन्नो ब्रह्मा लोकपितामहः । अग्निस्ते मुखतो जातो वाचा सह रघूत्तम ॥ ६४॥

बाहुभ्यां लोकपालौघाश्चक्षुर्भ्यां चन्द्रभास्करौ । दिशश्च विदिशश्चैव कर्णाभ्यां ते समुत्थिताः ॥ ६५॥

घ्राणात्प्राणः समुत्पन्नश्चाश्विनौ देवसत्तमौ । जङ्घाजानूरुजघनाद्भुवर्लोकादयोऽभवन् ॥ ६६॥

कुक्षिदेशात्समुत्पन्नाश्चत्वारः सागरा हरे । स्तनाभ्यामिन्द्रवरुणौ वालखिल्याश्च रेतसः ॥ ६७॥

मेढ्राद्यमो गुदान्मृत्युर्मन्यो रुद्रस्त्रिलोचनः । अस्थिभ्यः पर्वता जाताः केशेभ्यो मेघसंहतिः ॥ ६८॥

ओषध्यस्तव रोमेभ्यो नखेभ्यश्च खरादयः । त्वं विश्वरूपः पुरुषो मायाशक्तिसमन्वितः ॥ ६९॥

नानारूप इवाभासि गुणव्यतिकरे सति । त्वामाश्रित्यैव विबुधाः पिबन्त्यमृतमध्वरे ॥ ७०॥

त्वया सृष्टमिदं सर्वं विश्वं स्थावरजङ्गमम् । त्वामाश्रित्यैव जीवन्ति सर्वे स्थावरजङ्गमाः ॥ ७१॥

त्वद्युक्तमखिलं वस्तु व्यवहारेऽपि राघव । क्षीरमध्यगतं सर्पिर्यथा व्याप्याखिलं पयः ॥ ७२॥

त्वद्भासा भासतेऽर्कादि न त्वं तेनावभाससे । सर्वगं नित्यमेकं त्वां ज्ञानचक्षुर्विलोकयेत् ॥ ७३॥

नाज्ञानचक्षुस्त्वां पश्येदन्धदृग् भास्करं यथा । योगिनस्त्वां विचिन्वन्ति स्वदेहे परमेश्वरम् ॥ ७४॥

अतन्निरसनमुखैर्वेदशीर्षैरहर्निशम् । त्वत्पादभक्तिलेशेन गृहीता यदि योगिनः ॥ ७५॥

विचिन्वन्तो हि पश्यन्ति चिन्मात्रं त्वां न चान्यथा । मया प्रलपितं किञ्चित्सर्वज्ञस्य तवाग्रतः । क्षन्तुमर्हसि देवेश तवानुग्रहभागहम् ॥ ७६॥

दिग्देशकालपरिहीनमनन्यमेकं

      चिन्मात्रमक्षरमजं चलनादिहीनम् ।

सर्वज्ञमीश्वरमनन्तगुणं व्युदस्त-

      मायं भजे रघुपतिं भजतामभिन्नम् ॥ ७७॥

इति श्रीमदध्यात्मरामायणे उमामहेश्वरसंवादे उत्तरकाण्डे द्वितीयः सर्गः ॥ २॥


॥ तृतीय सर्गः ॥

श्रीराम उवाच ।

वालिसुग्रीवयोर्जन्म श्रोतुमिच्छामि तत्त्वतः । रवीन्द्रौ वानराकारौ जज्ञाताविति नः श्रुतम् ॥ १॥

अगस्त्य उवाच । मेरोः स्वर्णमयस्याद्रेर्मध्यशृङ्गे मणिप्रभे । तस्मिन् सभाऽऽस्ते विस्तीर्णा ब्रह्मणः शतयोजना ॥ २॥

तस्यां चतुर्मुखः साक्षात्कदाचिद्योगमास्थितः । नेत्राभ्यां पतितं दिव्यमानन्दसलिलं बहु ॥ ३॥

तद्गृहीत्वा करे ब्रह्मा ध्यात्वा किञ्चित्तदत्यजत् । भूमौ पतितमात्रेण तस्माज्जातो महाकपिः ॥ ४॥

तमाह द्रुहिणो वत्स किञ्चित्कालं वसात्र मे । समीपे सर्वशोभाढ्ये ततः श्रेयो भविष्यति ॥ ५॥

इत्युक्तो न्यवसत्तत्र ब्रह्मणा वानरोत्तमः । एवं बहुतिथे काले गते ऋक्षाधिपः सुधीः ॥ ६॥

कदाचित्पर्यटन्नद्रौ फलमूलार्थमुद्यतः । अपश्यद्दिव्यसलिलां वापीं मणिशिलान्विताम् ॥ ७॥

पानीयं पातुमागच्छत्तत्र छायामयं कपिम् । दृष्ट्वा प्रतिकपिं मत्वा निपपात जलान्तरे ॥ ८॥

तत्रादृष्ट्वा हरिं शीघ्रं पुनरुत्प्लुत्य वानरः । अपश्यत्सुन्दरीं रामामात्मानं विस्मयं गतः ॥ ९॥

ततः सुरेशो देवेशं पूजयित्वा चतुर्मुखम् । गच्छन् मध्याह्नसमये दृष्ट्वा नारीं मनोरमाम् ॥ १०॥

कन्दर्पशरविद्धाङ्गस्त्यक्तवान् वीर्यमुत्तमम् । तामप्राप्यैव तद्बीजं वालदेशेऽपतद्भुवि ॥ ११॥

वाली समभवत्तत्र शक्रतुल्यपराक्रमः । तस्य दत्त्वा सुरेशानः स्वर्णमालां दिवं गतः ॥ १२॥

भानुरप्यागतस्तत्र तदानीमेव भामिनीम् । दृष्ट्वा कामवशो भूत्वा ग्रीवादेशेऽसृजन्महत् ॥ १३॥

बीजं तस्यास्ततः सद्यो महाकायोऽभवद्धरिः । तस्य दत्त्वा हनूमन्तं सहायार्थं गतो रविः ॥ १४॥

पुत्रद्वयं समादाय गत्वा सा निद्रिता क्वचित् । प्रभातेऽपश्यदात्मानं पूर्ववद्वानराकृतिम् ॥ १५॥

फलमूलादिभिः सार्धं पुत्राभ्यां सहितः कपिः । नत्वा चतुर्मुखस्याग्रे ऋक्षराजः स्थितः सुधीः ॥ १६॥

ततोऽब्रवीत्समाश्वास्य बहुशः कपिकुञ्जरम् । तत्रैकं देवतादूतमाहूयामरसन्निभम् ॥ १७॥

गच्छ दूत मयादिष्टो गृहीत्वा वानरोत्तमम् । किष्किन्धां दिव्यनगरीं निर्मितां विश्वकर्मणा ॥ १८॥

सर्वसौभाग्यवलितां देवैरपि दुरासदाम् । तस्यां सिंहासने वीरं राजानमभिषेचय ॥ १९॥

सप्तद्वीपगता ये ये वानराः सन्ति दुर्जयाः । सर्वे ते ऋक्षराजस्य भविष्यन्ति वशेऽनुगाः ॥ २०॥

यदा नारायणः साक्षाद्रामो भूत्वा सनातनः । भूभारासुरनाशाय सम्भविष्यति भूतले ॥ २१॥

तदा सर्वे सहायार्थे तस्य गच्छन्तु वानराः । इत्युक्तो ब्रह्मणा दूतो देवानां स महामतिः ॥ २२॥

यथाऽऽज्ञप्तस्तथा चक्रे ब्रह्मणा तं हरीश्वरम् । देवदूतस्ततो गत्वा ब्रह्मणे तन्न्यवेदयत् ॥ २३॥

तदादि वानराणां सा किष्किन्धाऽभून्नृपाश्रयः ॥ २४॥

सर्वेश्वरस्त्वमेवासीरिदानीं ब्रह्मणार्थितः । भूमेर्भारो हृतः कृत्स्नस्त्वया लीलानृदेहिना । सर्वभूतान्तरस्थस्य नित्यमुक्तचिदात्मनः ॥ २५॥

अखण्डानन्तरूपस्य कियानेष पराक्रमः । तथापि वर्ण्यते सद्भिर्लीलामानुषरूपिणः ॥ २६॥

यशस्ते सर्वलोकानां पापहत्यै सुखाय च । य इदं कीर्तयेन्मर्त्यो वालिसुग्रीवयोर्महत् ॥ २७॥

जन्म त्वदाश्रयत्वात्स मुच्यते सर्वपातकैः ॥ २८॥

अथान्यां सम्प्रवक्ष्यामि कथां राम त्वदाश्रयाम् । सीता हृता यदर्थं सा रावणेन दुरात्मना ॥ २९॥

पुरा कृतयुगे राम प्रजापतिसुतं विभुम् । सनत्कुमारमेकान्ते समासीनं दशाननः । विनयावनतो भूत्वा ह्यभिवाद्येदमब्रवीत् ॥ ३०॥

को न्वस्मिन् प्रवरो लोके देवानां बलवत्तरः । देवाश्च यं समाश्रित्य युद्धे शत्रुं जयन्ति हि ॥ ३१॥

कं यजन्ति द्विजा नित्यं कं ध्यायन्ति च योगिनः । एतन्मे शंस भगवन् प्रश्नं प्रश्नविदांवर ॥ ३२॥

ज्ञात्वा तस्य हृदिस्थं यत्तदशेषेण योगदृक् । दशाननमुवाचेदं शृणु वक्ष्यामि पुत्रक ॥ ३३॥

भर्ता यो जगतां नित्यं यस्य जन्मादिकं न हि । सुरासुरैर्नुतो नित्यं हरिर्नारायणोऽव्ययः ॥ ३४॥

यन्नाभिपङ्कजाज्जातो ब्रह्मा विश्वसृजां पतिः । सृष्टं येनैव सकलं जगत्स्थावरजङ्गमम् ॥ ३५॥

तं समाश्रित्य विबुधा जयन्ति समरे रिपून् । योगिनो ध्यानयोगेन तमेवानुजपन्ति हि ॥ ३६॥

महर्षेर्वचनं श्रुत्वा प्रत्युवाच दशाननः । दैत्यदानवरक्षांसि विष्णुना निहतानि च ॥ ३७॥

कां वा गतिं प्रपद्यन्ते प्रेत्य ते मुनिपुङ्गव । तमुवाच मुनिश्रेष्ठो रावणं राक्षसाधिपम् ॥ ३८॥

दैवतैर्निहता नित्यं गत्वा स्वर्गमनुत्तमम् । भोगक्षये पुनस्तस्माद्भ्रष्टा भूमौ भवन्ति ते ॥ ३९॥

पूर्वार्जितैः पुण्यपापैर्म्रियन्ते चोद्भवन्ति च । विष्णुना ये हतास्ते तु प्राप्नुवन्ति हरेर्गतिम् ॥ ४०॥

श्रुत्वा मुनिमुखात्सर्वं रावणो हृष्टमानसः । योत्स्येऽहं हरिणा सार्धमिति चिन्तापरोऽभवत् ॥ ४१॥

मनःस्थितं परिज्ञाय रावणस्य महामुनिः । उवाच वत्स तेऽभीष्टं भविष्यति न संशयः ॥ ४२॥

कञ्चित्कालं प्रतीक्षस्व सुखी भव दशानन । एवमुक्त्वा महाबाहो मुनिः पुनरुवाच तम् ॥ ४३॥

तस्य स्वरूपं वक्ष्यामि ह्यरूपस्यापि मायिनः । स्थावरेषु च सर्वेषु नदेषु च नदीषु च ॥ ४४॥

ओङ्कारश्चैव सत्यं च सावित्री पृथिवी च सः । समस्तजगदाधारः शेषरूपधरो हि सः ॥ ४५॥

सर्वे देवाः समुद्राश्च कालः सूर्यश्च चन्द्रमाः । सूर्योदयो दिवारात्री यमश्चैव तथानिलः ॥ ४६॥

अग्निरिन्द्रस्तथा मृत्युः पर्जन्यो वसवस्तथा । ब्रह्मा रुद्रादयश्चैव ये चान्ये देवदानवाः ॥ ४७॥

विद्योतते ज्वलत्येष पाति चात्तीति विश्वकृत् । क्रीडां करोत्यव्ययात्मा सोऽयं विष्णुः सनातनः ॥ ४८॥

तेन सर्वमिदं व्याप्तं त्रैलोक्यं सचराचरम् । नीलोत्पलदलश्यामो विद्युद्वर्णाम्बरावृतः ॥ ४९॥

शुद्धजाम्बूनदप्रख्यां श्रियं वामाङ्कसंस्थिताम् । सदानपायिनीं देवीं पश्यन्नालिङ्ग्य तिष्ठति ॥ ५०॥

द्रष्टुं न शक्यते कैश्चिद्देवदानवपन्नगैः । यस्य प्रसादं कुरुते स चैनं द्रष्टुमर्हति ॥ ५१॥

न च यज्ञतपोभिर्वा न दानाध्ययनादिभिः । शक्यते भगवान् द्रष्टुमुपायैरितरैरपि ॥ ५२॥

तद्भक्तैस्तद्गतप्राणैस्तच्चित्तैर्धूतकल्मषैः । शक्यते भगवान् विष्णुर्वेदान्तामलदृष्टिभिः ॥ ५३॥

अथवा द्रष्टुमिच्छा ते शृणु त्वं परमेश्वरम् । त्रेतायुगे स देवेशो भविता नृपविग्रहः ॥ ५४॥

हितार्थं देवमर्त्यानामिक्ष्वाकूणां कुले हरिः । रामो दाशरथिर्भूत्वा महासत्त्वपराक्रमः ॥ ५५॥

पितुर्नियोगात्स भ्रात्रा भार्यया दण्डके वने । विचरिष्यति धर्मात्मा जगन्मात्रा स्वमायया ॥ ५६॥

एवं ते सर्वमाख्यातं मया रावण विस्तरात् । भजस्व भक्तिभावेन सदा रामं श्रिया युतम् ॥ ५७॥

अगस्त्य उवाच । एवं श्रुत्वासुराध्यक्षो ध्यात्वा किञ्चिद्विचार्य च । त्वया सह विरोधेप्सुर्मुमुदे रावणो महान् ॥ ५८॥

युद्धार्थी सर्वतो लोकान् पर्यटन् समवस्थितः । एतदर्थं महाराज रावणोऽतीव बुद्धिमान् । हृतवान् जानकीं देवीं त्वयात्मवधकाङ्क्षया ॥ ५९॥

इमां कथां यः शृणुयात्पठेद्वा

      संश्रावयेद्वा श्रवणार्थिनां सदा ।

आयुष्यमारोग्यमनन्तसौख्यं

      प्राप्नोति लाभं धनमक्षयं च ॥ ६०॥

इति श्रीमदध्यात्मरामायणे उमामहेश्वरसंवादे उत्तरकाण्डे तृतीयः सर्गः ॥ ३॥


॥ चतुर्थ सर्गः ॥

श्रीमहादेव उवाच ।

एकदा ब्रह्मणो लोकादायान्तं नारदं मुनिम् । पर्यटन् रावणो लोकान् दृष्ट्वा नत्वाब्रवीद्वचः ॥ १॥

भगवन् ब्रूहि मे योद्धुं कुत्र सन्ति महाबलाः । योद्धुमिच्छामि बलिभिस्त्वं ज्ञातासि जगत्त्रयम् ॥ २॥

मुनिर्ध्याऽऽत्वाह सुचिरं श्वेतद्वीपनिवासिनः । महाबला महाकायास्तत्र याहि महामते ॥ ३॥

विष्णुपूजारता ये वै विष्णुना निहताश्च ये । त एव तत्र सञ्जाता अजेयाश्च सुरासुरैः ॥ ४॥

श्रुत्वा तद्रावणो वेगान्मन्त्रिभिः पुष्पकेण तान् । योद्धुकामः समागत्य श्वेतद्वीपसमीपतः ॥ ५॥

तत्प्रभाहततेजस्कं पुष्पकं नाचलत्ततः । त्यक्त्वा विमानं प्रययौ मन्त्रिणश्च दशाननः ॥ ६॥

प्रविशन्नेव तद् द्वीपं धृतो हस्तेन योषिता । पृष्टश्च त्वं कुतः कोऽसि प्रेषितः केन वा वद ॥ ७॥

इत्युक्तो लीलया स्त्रीभिर्हसन्तीभिः पुनः पुनः । कृच्छ्राद्धस्ताद्विनिर्मुक्तस्तासां स्त्रीणां दशाननः ॥ ८॥

आश्चर्यमतुलं लब्ध्वा चिन्तयामास दुर्मतिः । विष्णुना निहतो यामि वैकुण्ठमिति निश्चितः ॥ ९॥

मयि विष्णुर्यथा कुप्येत्तथा कार्यं करोम्यहम् । इति निश्चित्य वैदेहीं जहार विपिनेऽसुरः ॥ १०॥

जानन्नेव परात्मानं स जहारावनीसुताम् । मातृवत्पालयामास त्वत्तः काङ्क्षन् वधं स्वकम् ॥ ११॥

राम त्वं परमेश्वरोऽसि सकलं जानासि विज्ञानदृग् भूतं भव्यमिदं त्रिकालकलनासाक्षी विकल्पोज्झितः । भक्तानामनुवर्तनाय सकलां कुर्वन् क्रियासंहतिं त्वं शृण्वन्मनुजाकृतिर्मुनिवचो भासीश लोकार्चितः ॥ १२॥

स्तुत्वैवं राघवं तेन पूजितः कुम्भसम्भवः । स्वाश्रमं मुनिभिः सार्धं प्रययौ हृष्टमानसः ॥ १३॥

रामस्तु सीतया सार्धं भ्रातृभिः सह मन्त्रिभिः । संसारीव रमानाथो रममाणोऽवसद्गृहे ॥ १४॥

अनासक्तोऽपि विषयान् बुभुजे प्रियया सह । हनुमत्प्रमुखैः सद्भिर्वानरैः परिवेष्टितः ॥ १५॥

पुष्पकं चागमद्राममेकदा पूर्ववत्प्रभुम् । प्राह देव कुबेरेण प्रेषितं त्वामहं ततः ॥ १६॥

जितं त्वं रावणेनादौ पश्चाद्रामेण निर्जितम् । अतस्त्वं राघवं नित्यं वह यावद्वसेद्भुवि ॥ १७॥

यदा गच्छेद्रघुश्रेष्ठो वैकुण्ठं याहि मां तदा । तच्छ्रुत्वा राघवः प्राह पुष्पकं सूर्यसन्निभम् ॥ १८॥

यदा स्मरामि भद्रं ते तदागच्छ ममान्तिकम् । तिष्ठान्तर्धाय सर्वत्र गच्छेदानीं ममाज्ञया ॥ १९॥

इत्युक्त्वा रामचन्द्रोऽपि पौरकार्याणि सर्वशः । भ्रातृभिर्मन्त्रिभिः सार्धं यथान्यायं चकार सः ॥ २०॥

राघवे शासति भुवं लोकनाथे रमापतौ । वसुधा सस्यसम्पन्ना फलवन्तश्च भूरुहाः ॥ २१॥

जना धर्मपराः सर्वे पतिभक्तिपराः स्त्रियः । नापश्यत्पुत्रमरणं कश्चिद्राजनि राघवे ॥ २२॥

समारुह्य विमानाग्र्यं राघवः सीतया सह । वानरैर्भ्रातृभिः सार्धं सञ्चचारावनिं प्रभुः ॥ २३॥

अमानुषाणि कार्याणि चकार बहुशो भुवि । ब्राह्मणस्य सुतं दृष्ट्वा बालं मृतमकालतः ॥ २४॥

शोचन्तं ब्राह्मणं चापि ज्ञात्वा रामो महामतिः । तपस्यन्तं वने शूद्रं हत्वा ब्राह्मणबालकम् ॥ २५॥

जीवयामास शूद्रस्य ददौ स्वर्गमनुत्तमम् । लोकानामुपदेशार्थं परमात्मा रघूत्तमः ॥ २६॥

कोटिशः स्थापयामास शिवलिङ्गानि सर्वशः । सीतां च रमयामास सर्वभोगैरमानुषैः ॥ २७॥

शशास रामो धर्मेण राज्यं परमधर्मवित् । कथां संस्थापयामास सर्वलोकमलापहाम् ॥ २८॥

दशवर्षसहस्राणि मायामानुषविग्रहः । चकार राज्यं विधिवल्लोकवन्द्यपदाम्बुजः ॥ २९॥

एकपत्नीव्रतो रामो राजर्षिः सर्वदा शुचिः । गृहमेधीयमखिलमाचरन् शिक्षयन् जनान् ॥ ३०॥

सीता प्रेम्णानुवृत्त्या च प्रश्रयेण दमेन च । भर्तुर्मनोहरा साध्वी भावज्ञा सा ह्रिया भिया ॥ ३१॥

एकदाक्रीडविपिने सर्वभोगसमन्विते । एकान्ते दिव्यभवने सुखासीनं रघूत्तमम् ॥ ३२॥

नीलमाणिक्यसङ्काशं दिव्याभरणभूषितम् । प्रसन्नवदनं शान्तं विद्युत्पुञ्जनिभाम्बरम् ॥ ३३॥

सीता कमलपत्राक्षी सर्वाभरणभूषिता । राममाह कराभ्यां सा लालयन्ती पदाम्बुजे ॥ ३४॥

देवदेव जगन्नाथ परमात्मन् सनातन । चिदानन्दादिमध्यान्तरहिताशेषकारण ॥ ३५॥

देव देवाः समासाद्य मामेकान्तेऽब्रुवन्वचः । बहुशोऽर्थ्यमानास्ते वैकुण्ठागमनं प्रति ॥ ३६॥

त्वया समेतश्चिच्छक्त्या रामस्तिष्ठति भूतले । विसृज्यास्मान् स्वकं धाम वैकुण्ठं च सनातनम् ॥ ३७॥

आस्ते त्वया जगद्धात्रि रामः कमललोचनः । अग्रतो याहि वैकुण्ठं त्वं तथा चेद्रघूत्तमः ॥ ३८॥

आगमिष्यति वैकुण्ठं सनाथान्नः करिष्यति । इति विज्ञापिताहं तैर्मया विज्ञापितो भवान् ॥ ३९॥

यद्युक्तं तत्कुरुष्वाद्य नाहमाज्ञापये प्रभो । सीतायास्तद्वचः श्रुत्वा रामो ध्यात्वाब्रवीत्क्षणम् ॥ ४०॥

देवि जानामि सकलं तत्रोपायं वदामि ते । कल्पयित्वा मिषं देवि लोकवादं त्वदाशयम् ॥ ४१॥

त्यजामि त्वां वने लोकवादाद्भीत इवापरः । भविष्यतः कुमारौ द्वौ वाल्मीकेराश्रमान्तिके ॥ ४२॥

इदानीं दृश्यते गर्भः पुनरागत्य मेऽन्तिकम् । लोकानां प्रत्ययार्थं त्वं कृत्वा शपथमादरात् ॥ ४३॥

भूमेर्विवरमात्रेण वैकुण्ठं यास्यसि द्रुतम् । पश्चादहं गमिष्यामि एष एव सुनिश्चयः ॥ ४४॥

इत्युक्त्वा तां विसृज्याथ रामो ज्ञानैकलक्षणः । मन्त्रिभिर्मन्त्रतत्त्वज्ञैर्बलमुख्यैश्च संवृतः ॥ ४५॥

तत्रोपविष्टं श्रीरामं सुहृदः पर्युपासत । हास्यप्रौढकथासुज्ञा हासयन्तः स्थिता हरिम् ॥ ४६॥

कथाप्रसङ्गात्पप्रच्छ रामो विजयनामकम् । पौरा जानपदा मे किं वदन्तीह शुभाशुभम् ॥ ४७॥

सीतां वा मातरं वा मे भ्रातॄन्वा कैकयीमथ । न भेतव्यं त्वया ब्रूहि शापितोऽसि ममोपरि ॥ ४८॥

इत्युक्तः प्राह विजयो देव सर्वे वदन्ति ते । कृतं सुदुष्करं सर्वं रामेण विदितात्मना ॥ ४९॥

किन्तु हत्वा दशग्रीवं सीतामाहृत्य राघवः । अमर्षं पृष्ठतः कृत्वा स्वं वेश्म प्रत्यपादयत् ॥ ५०॥

कीदृशं हृदये तस्य सीतासम्भोगजं सुखम् । या हृता विजनेऽरण्ये रावणेन दुरात्मना ॥ ५१॥

अस्माकमपि दुष्कर्म योषितां मर्षणं भवेत् । यादृग्भवति वै राजा तादृश्यो नियतं प्रजाः ॥ ५२॥

श्रुत्वा तद्वचनं रामः स्वजनान् पर्यपृच्छत । तेऽपि नत्वाब्रुवन् राममेवमेतन्न संशयः ॥ ५३॥

ततो विसृज्य सचिवान् विजयं सुहृदस्तथा । आहूय लक्ष्मणं रामो वचनं चेदमब्रवीत् ॥ ५४॥

लोकापवादस्तु महान् सीतामाश्रित्य मेऽभवत् । सीतां प्रातः समानीय वाल्मीकेराश्रमान्तिके ॥ ५५॥

त्यक्त्वा शीघ्रं रथेन त्वं पुनरायाहि लक्ष्मण । वक्ष्यसे यदि वा किञ्चित्तदा मां हतवानसि ॥ ५६॥

इत्युक्तो लक्ष्मणो भीत्या प्रातरुत्थाय जानकीम् । सुमन्त्रेण रथे कृत्वा जगाम सहसा वनम् ॥ ५७॥

वाल्मीकेराश्रमस्यान्ते त्यक्त्वा सीतामुवाच सः । लोकापवादभीत्या त्वां त्यक्तवान् राघवो वने ॥ ५८॥

दोषो न कश्चिन्मे मातर्गच्छाश्रमपदं मुनेः । इत्युक्त्वा लक्ष्मणः शीघ्रं गतवान् रामसन्निधिम् ॥ ५९॥

सीतापि दुःखसन्तप्ता विललापातिमुग्धवत् । शिष्यैः श्रुत्वा च वाल्मीकिः सीतां ज्ञात्वा स दिव्यदृक् ॥ ६०॥

अर्घ्यादिभिः पूजयित्वा समाश्वास्य च जानकीम् । ज्ञात्वा भविष्यं सकलमार्पयन् मुनियोषिताम् ॥ ६१॥

तास्तां सम्पूजयन्ति स्म सीतां भक्त्या दिने दिने । ज्ञात्वा परात्मनो लक्ष्मीं मुनिवाक्येन योषितः । सेवां चक्रुः सदा तस्या विनयादिभिरादरात् ॥ ६२॥

रामोऽपि सीतारहितः परात्मा विज्ञानदृक्केवल आदिदेवः । सन्त्यज्य भोगानखिलान् विरक्तो मुनिव्रतोऽभून्मुनिसेविताङ्घ्रिः ॥ ६३॥

इति श्रीमदध्यात्मरामायणे उमामहेश्वरसंवादे उत्तरकाण्डे चतुर्थः सर्गः ॥ ४॥


॥ पञ्चम सर्गः ॥

श्रीमहादेव उवाच ।

ततो जगन्मङ्गलमङ्गलात्मना

      विधाय रामायणकीर्तिमुत्तमाम् ।

चचार पूर्वाचरितं रघूत्तमो

      राजर्षिवर्यैरभिसेवितं यथा ॥ १॥

सौमित्रिणा पृष्ट उदारबुद्धिना

      रामः कथाः प्राह पुरातनीः शुभाः ।

राज्ञः प्रमत्तस्य नृगस्य शापतो

      द्विजस्य तिर्यक्त्वमथाह राघवः ॥ २॥

कदाचिदेकान्त उपस्थितं प्रभुं

      रामं रमालालितपादपङ्कजम् ।

सौमित्रिरासादितशुद्धभावनः

      प्रणम्य भक्त्या विनयान्वितोऽब्रवीत् ॥ ३॥

त्वं शुद्धबोधोऽसि हि सर्वदेहिना-

      मात्मास्यधीशोऽसि निराकृतिः स्वयम् ।

प्रतीयसे ज्ञानदृशां महामते

      पादाब्जभृङ्गाहितसङ्गसङ्गिनाम् ॥ ४॥

अहं प्रपन्नोऽस्मि पदाम्बुजं प्रभो

      भवापवर्गं तव योगिभावितम् ।

यथाञ्जसाऽज्ञानमपारवारिधिं

      सुखं तरिष्यामि तथानुशाधि माम् ॥ ५॥

श्रुत्वाथ सौमित्रिवचोऽखिलं तदा

      प्राह प्रपन्नार्तिहरः प्रसन्नधीः ।

विज्ञानमज्ञानतमःप्रशान्तये

      श्रुतिप्रपन्नं क्षितिपालभूषणः ॥ ६॥

आदौ स्ववर्णाश्रमवर्णिताः क्रियाः

      कृत्वा समासादितशुद्धमानसः ।

समाप्य तत्पूर्वमुपात्तसाधनः

      समाश्रयेत्सद्गुरुमात्मलब्धये ॥ ७॥

क्रिया शरीरोद्भवहेतुरादृता

      प्रियाप्रियौ तौ भवतः सुरागिणः ।

धर्मेतरौ तत्र पुनः शरीरकं

      पुनः क्रिया चक्रवदीर्यते भवः ॥  ८॥

अज्ञानमेवास्य हि मूलकारणं

      तद्ध्यानमेवात्र विधौ विधीयते ।

विद्यैव तन्नाशविधौ पटीयसी

      न कर्म तज्जं सविरोधमीरितम् ॥ ९॥

नाज्ञानहानिर्न च रागसङ्क्षयो

      भवेत्ततः कर्म सदोषमुद्भवेत् ।

ततः पुनः संसृतिरप्यवारिता

      तस्माद्बुधो ज्ञानविचारवान् भवेत् ॥ १०॥

ननु क्रिया वेदमुखेन चोदिता

      तथैव विद्या पुरुषार्थसाधनम् ।

कर्तव्यता प्राणभृतः प्रचोदिता

      विद्यासहायत्वमुपैति सा पुनः ॥ ११॥

कर्माकृतौ दोषमपि श्रुतिर्जगौ

      तस्मात्सदा कार्यमिदं मुमुक्षुणा ।

ननु स्वतन्त्रा ध्रुवकार्यकारिणी

      विद्या न किञ्चिन्मनसाप्यपेक्षते ॥ १२॥

न सत्यकार्योऽपि हि यद्वदध्वरः

      प्रकाङ्क्षतेऽन्यानपि कारकादिकान् ।

तथैव विद्या विधितः प्रकाशितैः

      विशिष्यते कर्मभिरेव मुक्तये ॥ १३॥

केचिद्वदन्तीति वितर्कवादिन-

      स्तदप्यसद्दृष्टविरोधकारणात् ।

देहाभिमानादभिवर्धते क्रिया

      विद्या गताहङ्कृतितः प्रसिद्ध्यति ॥ १४॥

विशुद्धविज्ञानविरोचनाञ्चिता

      विद्यात्मवृत्तिश्चरमेति भण्यते ।

उदेति कर्माखिलकारकादिभिः

      निहन्ति विद्याखिलकारकादिकम् ॥ १५॥

तस्मात्त्यजेत्कार्यमशेषतः सुधीः

      विद्याविरोधान्न समुच्चयो भवेत् ।

आत्मानुसन्धानपरायणः सदा

      निवृत्तसर्वेन्द्रियवृत्तिगोचरः ॥ १६॥

यावच्छरीरादिषु माययात्मधी-

      स्तावद्विधेयो विधिवादकर्मणाम् ।

नेतीति वाक्यैरखिलं निषिध्य तत्

      ज्ञात्वा परात्मानमथ त्यजेत्क्रियाः ॥ १७॥

यदा परात्मात्मविभेदभेदकं

      विज्ञानमात्मन्यवभाति भास्वरम् ।

तदैव माया प्रविलीयतेऽञ्जसा

      सकारका कारणमात्मसंसृतेः ॥ १८॥

श्रुतिप्रमाणाभिविनाशिता च सा

      कथं भविष्यत्यपि कार्यकारिणी ।

विज्ञानमात्रादमलाद्वितीयत-

      स्तस्मादविद्या न पुनर्भविष्यति ॥ १९॥

यदि स्म नष्टा न पुनः प्रसूयते

      कर्ताहमस्येति मतिः कथं भवेत् ।

तस्मात्स्वतन्त्रा न किमप्यपेक्षते

      विद्या विमोक्षाय विभाति केवला ॥ २०॥

सा तैत्तिरीयश्रुतिराह सादरं

      न्यासं प्रशस्ताखिलकर्मणां स्फुटम् ।

एतावदित्याह च वाजिनां श्रुतिः

      ज्ञानं विमोक्षाय न कर्म साधनम् ॥ २१॥

विद्यासमत्वेन तु दर्शितस्त्वया

      क्रतुर्न दृष्टान्त उदाहृतः समः ।

फलैः पृथक्त्वाद्बहुकारकैः क्रतुः

      संसाध्यते ज्ञानमतो विपर्ययम् ॥ २२॥

सप्रत्यवायो ह्यहमित्यनात्मधी-

      रज्ञप्रसिद्धा न तु तत्त्वदर्शिनः ।

तस्माद्बुधैस्त्याज्यमविक्रियात्मभिः

      विधानतः कर्म विधिप्रकाशितम् ॥ २३॥

श्रद्धान्वितस्तत्त्वमसीति वाक्यतो

      गुरोः प्रसादादपि शुद्धमानसः ।

विज्ञाय चैकात्म्यमथात्मजीवयोः

      सुखी भवेन्मेरुरिवाप्रकम्पनः ॥ २४॥

आदौ पदार्थावगतिर्हि कारणं

      वाक्यार्थविज्ञानविधौ विधानतः ।

तत्त्वम्पदार्थौ परमात्मजीवका-

      वसीति चैकात्म्यमथानयोर्भवेत् ॥ २५॥

प्रत्यक्परोक्षादिविरोधमात्मनोः

      विहाय सङ्गृह्य तयोश्चिदात्मताम् ।

संशोधितां लक्षणया च लक्षितां

      ज्ञात्वा स्वमात्मानमथाद्वयो भवेत् ॥ २६॥

एकात्मकत्वाज्जहती न सम्भवेत्

      तथाऽजहल्लक्षणता विरोधतः ।

सोऽयम्पदार्थाविव भागलक्षणा

      युज्येत तत्त्वम्पदयोरदोषतः ॥ २७॥

रसादिपञ्चीकृतभूतसम्भवं

      भोगालयं दुःखसुखादिकर्मणाम् ।

शरीरमाद्यन्तवदादिकर्मजं

      मायामयं स्थूलमुपाधिमात्मनः ॥ २८॥

सूक्ष्मं मनोबुद्धिदशेन्द्रियैर्युतं

      प्राणैरपञ्चीकृतभूतसम्भवम् ।

भोक्तुः सुखादेरनुसाधनं भवेत्

      शरीरमन्यद्विदुरात्मनो बुधाः ॥ २९॥

अनाद्यनिर्वाच्यमपीह कारणं

      मायाप्रधानं तु परं शरीरकम् ।

उपाधिभेदात्तु यतः पृथक् स्थितं

      स्वात्मानमात्मन्यवधारयेत्क्रमात् ॥ ३०॥

कोशेष्वयं तेषु तु तत्तदाकृतिः

      विभाति सङ्गात् स्फटिकोपलो यथा ।

असङ्गरूपोऽयमजो यतोऽद्वयो

      विज्ञायतेऽस्मिन् परितो विचारिते ॥ ३१॥

बुद्धेस्त्रिधा वृत्तिरपीह दृश्यते

      स्वप्नादिभेदेन गुणत्रयात्मनः ।

अन्योन्यतोऽस्मिन् व्यभिचारतो मृषा

      नित्ये परे ब्रह्मणि केवले शिवे ॥ ३२॥

देहेन्द्रियप्राणमनश्चिदात्मनां

      सङ्घादजस्रं परिवर्तते धियः ।

वृत्तिस्तमोमूलतयाज्ञलक्षणा

      यावद्भवेत्तावदसौ भवोद्भवः ॥ ३३॥

नेतिप्रमाणेन निराकृताखिलो

      हृदा समास्वादितचिद्घनामृतः ।

त्यजेदशेषं जगदात्तसद्रसं

      पीत्वा यथाम्भः प्रजहाति तत्फलम् ॥ ३४॥

कदाचिदात्मा न मृतो न जायते

      न क्षीयते नापि विवर्धतेऽनवः ।

निरस्तसर्वातिशयः सुखात्मकः

      स्वयम्प्रभः सर्वगतोऽयमद्वयः ॥ ३५॥

एवंविधे ज्ञानमये सुखात्मके

      कथं भवो दुःखमयः प्रतीयते ।

अज्ञानतोऽध्यासवशात्प्रकाशते

      ज्ञाने विलीयेत विरोधतः क्षणात् ॥ ३६॥

यदन्यदन्यत्र विभाव्यते भ्रमा-

      दध्यासमित्याहुरमुं विपश्चितः ।

असर्पभूतेऽहिविभावनं यथा

      रज्ज्वादिके तद्वदपीश्वरे जगत् ॥ ३७॥

विकल्पमायारहिते चिदात्मके-

      ऽहङ्कार एष प्रथमः प्रकल्पितः ।

अध्यास एवात्मनि सर्वकारणे

      निरामये ब्रह्मणि केवले परे ॥ ३८॥

इच्छादिरागादिसुखादिधर्मिकाः

      सदा धियः संसृतिहेतवः परे ।

यस्मात्प्रसुप्तौ तदभावतः परः

      सुखस्वरूपेण विभाव्यते हि नः ॥ ३९॥

अनाद्यविद्योद्भवबुद्धिबिम्बितो

      जीवः प्रकाशोऽयमितीर्यते चितः ।

आत्मा धियः साक्षितया पृथक् स्थितो

      बुद्ध्यापरिच्छिन्नपरः स एव हि ॥ ४०॥

चिद्बिम्बसाक्ष्यात्मधियां प्रसङ्गत-

      स्त्वेकत्र वासादनलाक्तलोहवत् ।

अन्योन्यमध्यासवशात्प्रतीयते

      जडाजडत्वं च चिदात्मचेतसोः ॥ ४१॥

गुरोः सकाशादपि वेदवाक्यतः ।

      सञ्जातविद्यानुभवो निरीक्ष्य तम् ।

स्वात्मानमात्मस्थमुपाधिवर्जितं

      त्यजेदशेषं जडमात्मगोचरम् ॥ ४२॥

प्रकाशरूपोऽहमजोऽहमद्वयो-

      ऽसकृद्विभातोऽहमतीव निर्मलः ।

विशुद्ध विज्ञानघनो निरामयः

      सम्पूर्ण आनन्दमयोऽहमक्रियः ॥ ४३॥

सदैव मुक्तोऽहमचिन्त्यशक्तिमान्

      अतीन्द्रियज्ञानमविक्रियात्मकः ।

अनन्तपारोऽहमहर्निशं बुधैः

      विभावितोऽहं हृदि वेदवादिभिः ॥ ४४॥

एवं सदात्मानमखण्डितात्मना

      विचारमाणस्य विशुद्धभावना ।

हन्यादविद्यामचिरेण कारकै

      रसायनं यद्वदुपासितं रुजः ॥ ४५॥

विविक्त आसीन उपारतेन्द्रियो

      विनिर्जितात्मा विमलान्तराशयः ।

विभावयेदेकमनन्यसाधनो

      विज्ञानदृक्केवल आत्मसंस्थितः ॥ ४६॥

विश्वं यदेतत्परमात्मदर्शनं

      विलापयेदात्मनि सर्वकारणे ।

पूर्णश्चिदानन्दमयोऽवतिष्ठते

      न वेद बाह्यं न च किञ्चिदान्तरम् ॥ ४७॥

पूर्वं समाधेरखिलं विचिन्तये-

      दोङ्कारमात्रं सचराचरं जगत् ।

तदेव वाच्यं प्रणवो हि वाचको

      विभाव्यतेऽज्ञानवशान्न बोधतः ॥ ४८॥

अकारसञ्ज्ञः पुरुषो हि विश्वको

      ह्युकारकस्तैजस ईर्यते क्रमात् ।

प्राज्ञो मकारः परिपठ्यतेऽखिलैः

      समाधिपूर्वं न तु तत्त्वतो भवेत् ॥ ४९॥

विश्वं त्वकारं पुरुषं विलापये-

      दुकारमध्ये बहुधा व्यवस्थितम् ।

ततो मकारे प्रविलाप्य तैजसं

      द्वितीयवर्णं प्रणवस्य चान्तिमे ॥ ५०॥

मकारमप्यात्मनि चिद्घने परे

      विलापयेद्प्राज्ञमपीह कारणम् ।

सोऽहं परं ब्रह्म सदा विमुक्तिम-

      द्विज्ञानदृङ्मुक्त उपाधितोऽमलः ॥ ५१॥

एवं सदा जातपरात्मभावनः

      स्वानन्दतुष्टः परिविस्मृताखिलः ।

आस्ते स नित्यात्मसुखप्रकाशकः

      साक्षाद्विमुक्तोऽचलवारिसिन्धुवत् ॥ ५२॥

एवं सदाभ्यस्तसमाधियोगिनो

      निवृत्तसर्वेन्द्रियगोचरस्य हि ।

विनिर्जिताशेषरिपोरहं सदा

      दृश्यो भवेयं जितषड्गुणात्मनः ॥ ५३॥

ध्यात्वैवमात्मानमहर्निशं मुनि-

      स्तिष्ठेत्सदा मुक्तसमस्तबन्धनः ।

प्रारब्धमश्नन्नभिमानवर्जितो

      मय्येव साक्षात्प्रविलीयते ततः ॥ ५४॥

आदौ च मध्ये च तथैव चान्ततो

      भवं विदित्वा भयशोककारणम् ।

हित्वा समस्तं विधिवादचोदितं

      भजेत्स्वमात्मानमथाखिलात्मनाम् ॥ ५५॥

आत्मन्यभेदेन विभावयन्निदं

      भवत्यभेदेन मयात्मना तदा ।

यथा जलं वारिनिधौ यथा पयः

      क्षीरे वियद्व्योम्न्यनिले यथानिलः ॥ ५६॥

इत्थं यदीक्षेत हि लोकसंस्थितो

      जगन्मृषैवेति विभावयन्मुनिः ।

निराकृतत्वाच्छ्रुतियुक्तिमानतो

      यथेन्दुभेदो दिशि दिग्भ्रमादयः ॥ ५७॥

यावन्न पश्येदखिलं मदात्मकं

      तावन्मदाराधनतत्परो भवेत् ।

श्रद्धालुरत्यूर्जितभक्तिलक्षणो

      यस्तस्य दृश्योऽहमहर्निशं हृदि ॥ ५८॥

रहस्यमेतच्छ्रुतिसारसङ्ग्रहं

      मया विनिश्चित्य तवोदितं प्रिय ।

यस्त्वेतदालोचयतीह बुद्धिमान्

      स मुच्यते पातकराशिभिः क्षणात् ॥ ५९॥

भ्रातर्यदीदं परिदृश्यते जग-

      न्मायैव सर्वं परिहृत्य चेतसा ।

मद्भावनाभावितशुद्धमानसः

      सुखी भवानन्दमयो निरामयः ॥ ६०॥

यः सेवते मामगुणं गुणात्परं

      हृदा कदा वा यदि वा गुणात्मकम् ।

सोऽहं स्वपादाञ्चितरेणुभिः स्पृशन्

      पुनाति लोकत्रितयं यथा रविः ॥ ६१॥

विज्ञानमेतदखिलं श्रुतिसारमेकं

      वेदान्तवेद्यचरणेन मयैव गीतम् ।

यः श्रद्धया परिपठेद् गुरुभक्तियुक्तो

      मद्रूपमेति यदि मद्वचनेषु भक्तिः ॥ ६२॥

इति श्रीमदध्यात्मरामायणे उमामहेश्वरसंवादे उत्तरकाण्डे पञ्चमः सर्गः ॥ ५॥


॥ षष्ठः सर्गः ॥

श्रीमहादेव उवाच । एकदा मुनयः सर्वे यमुनातीरवासिनः । आजग्मू राघवं द्रष्टुं भयाल्लवणरक्षसः ॥ १॥

कृत्वाग्रे तु मुनिश्रेष्ठं भार्गवं च्यवनं द्विजाः । असङ्ख्याताः समायाता रामादभयकाङ्क्षिणः ॥ २॥

तान् पूजयित्वा परया भक्त्या रघुकुलोत्तमः । उवाच मधुरं वाक्यं हर्षयन् मुनिमण्डलम् ॥ ३॥

करवाणि मुनिश्रेष्ठाः किमागमनकारणम् । धन्योऽस्मि यदि यूयं मां प्रीत्या द्रष्टुमिहागताः ॥ ४॥

दुष्करं चापि यत्कार्यं भवतां तत्करोम्यहम् । आज्ञापयन्तु मां भृत्यं ब्राह्मणा दैवतं हि मे ॥ ५॥

तच्छ्रुत्वा सहसा हृष्टश्च्यवनो वाक्यमब्रवीत् । मधुनामा महादैत्यः पुरा कृतयुगे प्रभो ॥ ६॥

आसीदतीव धर्मात्मा देवब्राह्मणपूजकः । तस्य तुष्टो महादेवो ददौ शूलमनुत्तमम् ॥ ७॥

प्राह चानेन यं हंसि स तु भस्मीभविष्यति । रावणस्यानुजा भार्या तस्य कुम्भीनसी श्रुता ॥ ८॥

तस्यां तु लवणो नाम राक्षसो भीमविक्रमः । आसीद्दुरात्मा दुर्धर्षो देवब्राह्मणहिंसकः ॥ ९॥

पीडितास्तेन राजेन्द्र वयं त्वां शरणं गताः । तच्छ्रुत्वा राघवोऽप्याह मा भीर्वो मुनिपुङ्गवाः ॥ १०॥

लवणं नाशयिष्यामि गच्छन्तु विगतज्वराः । इत्युक्त्वा प्राह रामोऽपि भ्रातॄन् को वा हनिष्यति ॥ ११॥

लवणं राक्षसं दद्यात् ब्राह्मणेभ्योऽभयं महत् । तच्छ्रुत्वा प्राञ्जलिः प्राह भरतो राघवाय वै ॥ १२॥

अहमेव हनिष्यामि देवाज्ञापय मां प्रभो । ततो रामं नमस्कृत्य शत्रुघ्नो वाक्यमब्रवीत् ॥ १३॥

लक्ष्मणेन महत्कार्यं कृतं राघव संयुगे । नन्दिग्रामे महाबुद्धिर्भरतो दुःखमन्वभूत् ॥ १४॥

अहमेव गमिष्यामि लवणस्य वधाय च । त्वत्प्रसादाद्रघुश्रेष्ठ हन्यां तं राक्षसं युधि ॥ १५॥

तच्छ्रुत्वा स्वाङ्कमारोप्य शत्रुघ्नं शत्रुसूदनः । प्राहाद्यैवाभिषेक्ष्यामि मथुराराज्यकारणात् ॥ १६॥

आनाय्य च सुसम्भारान् लक्षमणेनाभिषेचने । अनिच्छन्तमपि स्नेहादभिषेकमकारयत् ॥ १७॥

दत्त्वा तस्मै शरं दिव्यं रामः शत्रुघ्नमब्रवीत् । अनेन जहि बाणेन लवणं लोककण्टकम् ॥ १८॥

स तु सम्पूज्य तच्छूलं गेहे गच्छति काननम् । भक्षणार्थं तु जन्तूनां नानाप्राणिवधाय च ॥ १९॥

स तु नायाति सदनं यावद्वनचरो भवेत् । तावदेव पुरद्वारि तिष्ठ त्वं धृतकार्मुकः ॥ २०॥

योत्स्यते स त्वया क्रुद्धस्तदा वध्यो भविष्यति । तं हत्वा लवणं क्रूरं तद्वनं मधुसञ्ज्ञितम् ॥ २१॥

निवेश्य नगरं तत्र तिष्ठ त्वं मेऽनुशासनात् । अश्वानां पञ्चसाहस्रं रथानां च तदर्धकम् ॥ २२॥

गजानां षट् शतानीह पत्तीनामयुतत्रयम् । आगमिष्यति पश्चात्त्वमग्रे साधय राक्षसम् ॥ २३॥

इत्युक्त्वा मूर्ध्न्यवघ्राय प्रेषयामास राघवः । शत्रुघ्नं मुनिभिः सार्धमाशीर्भिरभिनन्द्य च ॥ २४॥

शत्रुघ्नोऽपि तथा चक्रे यथा रामेण चोदितः । हत्वा मधुसुतं युद्धे मथुरामकरोत्पुरीम् ॥ २५॥

स्फीतां जनपदां चक्रे मथुरां दानमानतः । सीतापि सुषुवे पुत्रौ द्वौ वाल्मीकेरथाश्रमे ॥ २६॥

मुनिस्तयोर्नाम चक्रे कुशो ज्येष्ठोऽनुजो लवः । क्रमेण विद्यासम्पन्नौ सीतापुत्रौ बभूवतुः ॥ २७॥

उपनीतौ च मुनिना वेदाध्ययनतत्परौ । कृत्स्नं रामायणं प्राह काव्यं बालकयोर्मुनिः ॥ २८॥

शङ्करेण पुरा प्रोक्तं पार्वत्यै पुरहारिणा । वेदोपबृंहनार्थाय तावग्राहयत प्रभुः ॥ २९॥

कुमारौ स्वरसम्पन्नौ सुन्दरावश्विनाविव । तन्त्रीतालसमायुक्तौ गायन्तौ चेरतुर्वने ॥ ३०॥

तत्र तत्र मुनीनां तौ समाजे सुररूपिणौ । गायन्तावभितो दृष्ट्वा विस्मिता मुनयोऽब्रुवन् ॥ ३१॥

गन्धर्वेष्विव किन्नरेषु भुवि वा देवेषु देवालये पातालेष्वथवा चतुर्मुखगृहे लोकेषु सर्वेषु च । अस्माभिश्चिरजीविभिश्चिरतरं दृष्ट्वा दिशः सर्वतो नाज्ञायीदृशगीतवाद्यगरिमा नादर्शि नाश्रावि च ॥ ३२॥

एवं स्तुवद्भिरखिलैर्मुनिभिः प्रतिवासरम् । आसाते सुखमेकान्ते वाल्मीकेराश्रमे चिरम् ॥ ३३॥

अथ रामोऽश्वमेधादींश्चकार बहुदक्षिणान् । यज्ञान् स्वर्णमयीं सीतां विधाय विपुलद्युतिः ॥ ३४॥

तस्मिन् विताने ऋषयः सर्वे राजर्षयस्तथा । ब्राह्मणाः क्षत्रिया वैश्याः समाजग्मुर्दिदृक्षवः ॥ ३५॥

वाल्मीकिरपि सङ्गृह्य गायन्तौ तौ कुशीलवौ । जगाम ऋषिवाटस्य समीपं मुनिपुङ्गवः ॥ ३६॥

तत्रैकान्ते स्थितं शान्तं समाधिविरमे मुनिम् । कुशः पप्रच्छ वाल्मीकिं ज्ञानशास्त्रं कथान्तरे ॥ ३७॥

भगवन् श्रोतुमिच्छामि सङ्क्षेपाद्भवतोऽखिलम् । देहिनः संसृतिर्बन्धः कथमुत्पद्यते दृढः ॥ ३८॥

कथं विमुच्यते देही दृढबन्धाद्भवाभिधात् । वक्तुमर्हसि सर्वज्ञ मह्यं शिष्याय ते मुने ॥ ३९॥

वाल्मीकिरुवाच । शृणु वक्ष्यामि ते सर्वं सङ्क्षेपाद्बन्धमोक्षयोः । स्वरूपं साधनं चापि मत्तः श्रुत्वा यथोदितम् ॥ ४०॥

तथैवाचर भद्रं ते जीवन्मुक्तो भविष्यसि । देह एव महागेहमदेहस्य चिदात्मनः ॥ ४१॥

तस्याहङ्कार एवास्मिन्मन्त्री तेनैव कल्पितः । देहगेहाभिमानं स्वं समारोप्य चिदात्मनि ॥ ४२॥

तेन तादात्म्यमापन्नः स्वचेष्टितमशेषतः । विदधाति चिदानन्दे तद्वासितवपुः स्वयम् ॥ ४३॥

तेन सङ्कल्पितो देही सङ्कल्पनिगडावृतः । पुत्रदारगृहादीनि सङ्कल्पयति चानिशम् ॥ ४४॥

सङ्कल्पयन् स्वयं देही परिशोचति सर्वदा । त्रयस्तस्याहमो देहा अधमोत्तममध्यमाः ॥ ४५॥

तमः सत्त्वरजः सञ्ज्ञा जगतः कारणं स्थितेः । तमोरूपाद्धि सङ्कल्पान्नित्यं तामसचेष्टया ॥ ४६॥

अत्यन्तं तामसो भूत्वा कृमिकीटत्वमाप्नुयात् । सत्त्वरूपो हि सङ्कल्पो धर्मज्ञानपरायणः ॥ ४७॥

अदूरमोक्षसाम्राज्यः सुखरूपो हि तिष्ठति । रजोरूपो हि सङ्कल्पो लोके स व्यवहारवान् ॥ ४८॥

परितिष्ठति संसारे पुत्रदारानुरञ्जितः । त्रिविधं तु परित्यज्य रूपमेतन्महामते ॥ ४९॥

सङ्कल्पं परमाप्नोति पदमात्मपरिक्षये । दृष्टीः सर्वाः परित्यज्य नियम्य मनसा मनः ॥ ५०॥

सबाह्याभ्यन्तरार्थस्य सङ्कल्पस्य क्षयं कुरु । यदि वर्षसहस्राणि तपश्चरसि दारुणम् ॥ ५१॥

पातालस्थस्य भूस्थस्य स्वर्गस्थस्यापि तेऽनघ । नान्यः कश्चिदुपायोऽस्ति सङ्कल्पोपशमादृते ॥ ५२॥

अनाबाधेऽविकारे स्वे सुखे परमपावने । सङ्कल्पोपशमे यत्नं पौरुषेण परं कुरु ॥ ५३॥

सङ्कल्पतन्तौ निखिला भावाः प्रोताः किलानघ । छिन्ने तन्तौ न जानीमः क्व यान्ति विभवाः पराः ॥ ५४॥

निःसङ्कल्पो यथाप्राप्तव्यवहारपरो भव । क्षये सङ्कल्पजालस्य जीवो ब्रह्मत्वमाप्नुयात् ॥ ५५॥

अधिगतपरमार्थतामुपेत्य प्रसभमपास्य विकल्पजालमुच्चैः । अधिगमय पदं तदद्वितीयं विततसुखाय सुषुप्तचित्तवृत्तिः ॥ ५६॥

इति श्रीमदध्यात्मरामायणे उमामहेश्वरसंवादे उत्तरकाण्डे षष्ठः सर्गः ॥ ६॥


॥ सप्तम सर्गः ॥

श्रीमहादेव उवाच ।

वाल्मीकिना बोधितोऽसौ कुशः सद्योगतभ्रमः । अन्तर्मुक्तो बहिः सर्वमनुकुर्वंश्चकार सः ॥ १॥

वाल्मीकिरपि तौ प्राह सीतापुत्रौ महाधियौ । तत्र तत्र च गायन्तौ पुरे वीथिषु सर्वतः ॥ २॥

रामस्याग्रे प्रगायेतं शुश्रूषुर्यदि राघवः । न ग्राह्यं वै युवाभ्यां तद्यदि किञ्चित्प्रदास्यति ॥ ३॥

इति तौ चोदितौ तत्र गायमानौ विचेरतुः । यथोक्तमृषिणा पूर्वं तत्र तत्राभ्यगायताम् ॥ ४॥

तां स शुश्राव काकुत्स्थः पूर्वचर्यां ततस्ततः । अपूर्वपाठजातिं च गेयेन समभिप्लुताम् ॥ ५॥

बालयो राघवः श्रुत्वा कौतूहलमुपेयिवान् । अथ कर्मान्तरे राजा समाहूय महामुनीन् ॥ ६॥

राज्ञश्चैव नरव्याघ्रः पण्डितांश्चैव नैगमान् । पौराणिकान् शब्दविदो ये च वृद्धा द्विजातयः ॥ ७॥

एतान् सर्वान् समाहूय गायकौ समवेशयत् । ते सर्वे हृष्टमनसो राजानो ब्राह्मणादयः ॥ ८॥

रामं तौ दारकौ दृष्ट्वा विस्मिताः ह्यनिमेषणाः । अवोचन् सर्व एवैते परस्परमथागताः ॥ ९॥

इमौ रामस्य सदृशौ बिम्बाद्बिम्बमिवोदितौ । जटिलौ यदि न स्यातां न च वल्कलधारिणौ ॥ १०॥

विशेषं नाधिगच्छामो राघवस्यानयोस्तदा । एवं संवदतां तेषां विस्मितानां परस्परम् ॥ ११॥

उपचक्रमतुर्गातुं तावुभौ मुनिदारकौ । ततः प्रवृत्तं मधुरं गान्धर्वमतिमानुषम् ॥ १२॥

श्रुत्वा तन्मधुरं गीतमपराह्णे रघूत्तमः । उवाच भरतं चाभ्यां दीयतामयुतं वसु ॥ १३॥

दीयमानं सुवर्णं तु न तज्जगृहतुस्तदा । किमनेन सुवर्णेन राजन्नौ वन्यभोजनौ ॥ १४॥

इति सन्त्यज्य सन्दत्तं जग्मतुर्मुनिसन्निधिम् । एवं श्रुत्वा तु चरितं रामः स्वस्यैव विस्मितः ॥ १५॥

ज्ञात्वा सीताकुमारौ तौ शत्रुघ्नं चेदमब्रवीत् । हनूमन्तं सुषेणं च विभीषणमथाङ्गदम् ॥ १६॥

भगवन्तं महात्मानं वाल्मीकिं मुनिसत्तमम् । आनयध्वं मुनिवरं ससीतं देवसम्मितम् ॥ १७॥

अस्यास्तु पर्षदो मध्ये प्रत्ययं जनकात्मजा । करोतु शपथं सर्वे जानन्तु गतकल्मषाम् ॥ १८॥

सीतां तद्वचनं श्रुत्वा गताः सर्वेऽतिविस्मिताः । ऊचुर्यथोक्तं रामेण वाल्मीकिं रामपार्षदाः ॥ १९॥

रामस्य हृद्गतं सर्वं ज्ञात्वा वाल्मीकिरब्रवीत् । श्वः करिष्यति वै सीता शपथं जनसंसदि ॥ २०॥

योषितां परमं दैवं पतिरेव न संशयः । तच्छ्रुत्वा सहसा गत्वा सर्वे प्रोचुर्मुनेर्वचः ॥ २१॥

राघवस्यापि रामोऽपि श्रुत्वा मुनिवचस्तथा । राजानो मुनयः सर्वे शृणुध्वमिति चाब्रवीत् ॥ २२॥

सीतायाः शपथं लोका विजानन्तु शुभाशुभम् । इत्युक्ता राघवेणाथ लोकाः सर्वे दिदृक्षवः ॥ २३॥

ब्राह्मणाः क्षत्रिया वैश्याः शूद्राश्चैव महर्षयः । वानराश्च समाजग्मुः कौतूहलसमन्विताः ॥ २४॥

ततो मुनिवरस्तूर्णं ससीतः समुपागमत् । अग्रतस्तमृषिं कृत्वाऽऽयान्ती किञ्चिदवाङ्मुखी ॥ २५॥

कृताञ्जलिर्बाष्पकण्ठा सीता यज्ञं विवेश तम् । दृष्ट्वा लक्ष्मीमिवायान्तीं ब्रह्माणमनुयायिनीम् ॥ २६॥

वाल्मीकेः पृष्ठतः सीतां साधुवादो महानभूत् । तदा मध्ये जनौघस्य प्रविश्य मुनिपुङ्गवः ॥ २७॥

सीतासहायो वाल्मीकिरिति प्राह च राघवम् । इयं दाशरथे सीता सुव्रता धर्मचारिणी ॥ २८॥

अपापा ते पुरा त्यक्ता ममाश्रमसमीपतः । लोकापवादभीतेन त्वया राम महावने ॥ २९॥

प्रत्ययं दास्यते सीता तदनुज्ञातुमर्हसि । इमौ तु सीतातनयाविमौ यमलजातकौ ॥ ३०॥

सुतौ तु तव दुर्धर्षौ तथ्यमेतद्ब्रवीमि ते । प्रचेतसोऽहं दशमः पुत्रो रघुकुलोद्वह ॥ ३१॥

अनृतं न स्मराम्युक्तं तथेमौ तव पुत्रकौ । बहून् वर्षगणान् सम्यक् तपश्चर्या मया कृता ॥ ३२॥

नोपाश्नीयां फलं तस्या दुष्टेयं यदि मैथिली । वाल्मीकिनैवमुक्तस्तु राघवः प्रत्यभाषत ॥ ३३॥

एवमेतन्महाप्राज्ञ यथा वदसि सुव्रत । प्रत्ययो जनितो मह्यं तव वाक्यैरकिल्बिषैः ॥ ३४॥

लङ्कायामपि दत्तो मे वैदेह्या प्रत्ययो महान् । देवानां पुरतस्तेन मन्दिरे सम्प्रवेशिता ॥ ३५॥

सेयं लोकभयाद्ब्रह्मन्नपापाऽपि सती पुरा । सीता मया परित्यक्ता भवांस्तत्क्षन्तुमर्हति ॥ ३६॥

ममैव जातौ जानामि पुत्रावेतौ कुशीलवौ । शुद्धायां जगतीमध्ये सीतायां प्रीतिरस्तु मे ॥ ३७॥

देवाः सर्वे परिज्ञाय रामाभिप्रायमुत्सुकाः । ब्रह्माणमग्रतः कृत्वा समाजग्मुः सहस्रशः ॥ ३८॥

प्रजाः समागमन् हृष्टाः सीता कौशेयवासिनी । उदङ्मुखी ह्यधोदृष्टिः प्राञ्जलिर्वाक्यमब्रवीत् ॥ ३९॥

रामादन्यं यथाहं वै मनसापि न चिन्तये । तथा मे धरणी देवी विवरं दातुमर्हति ॥ ४०॥

तथा शपन्त्याः सीतायाः प्रादुरासीन्महाद्भुतम् । भूतलाद्दिव्यमत्यर्थं सिंहासनमनुत्तमम् ॥ ४१॥

नागेन्द्रैर्ध्रियमाणं च दिव्यदेहै रविप्रभम् । भूदेवी जानकीं दोर्भ्यां गृहीत्वा स्नेहसंयुता ॥ ४२॥

स्वागतं तामुवाचैनामासने संन्यवेशयत् । सिंहासनस्थां वैदेहीं प्रविशन्तीं रसातलम् ॥ ४३॥

निरन्तरा पुष्पवृष्टिर्दिव्या सीतामवाकिरत् । साधुवादश्च सुमहान् देवानां परमाद्भुतः ॥ ४४॥

ऊचुश्च बहुधा वाचो ह्यन्तरिक्षगताः सुराः । अन्तरिक्षे च भूमौ च सर्वे स्थावरजङ्गमाः ॥ ४५॥

वानराश्च महाकायाः सीताशपथकारणात् । केचिच्चिन्तापरास्तस्य केचिद्ध्यानपरायणाः ॥ ४६॥

केचिद्रामं निरीक्षन्तः केचित्सीतामचेतसः । मुहूर्तमात्रं तत्सर्वं तूष्णीम्भूतमचेतनम् ॥ ४७॥

सीताप्रवेशनं दृष्ट्वा सर्वं सम्मोहितं जगत् । रामस्तु सर्वं ज्ञात्वैव भविष्यत्कार्यगौरवम् ॥ ४८॥

अजानन्निव दुःखेन शुशोच जनकात्मजाम् । ब्रह्मणा ऋषिभिः सार्धं बोधितो रघुनन्दनः ॥ ४९॥

प्रतिबुद्ध इव स्वप्नाच्चकारानन्तराः क्रियाः । विससर्ज ऋषीन् सर्वानृत्विजो ये समागताः ॥ ५०॥

तान् सर्वान् धनरत्नाद्यैस्तोषयामास भूरिशः । उपादाय कुमारौ तावयोध्यामगमत्प्रभुः ॥ ५१॥

तदादि निःस्पृहो रामः सर्वभोगेषु सर्वदा । आत्मचिन्तापरो नित्यमेकान्ते समुपस्थितः ॥ ५२॥

एकान्ते ध्याननिरते एकदा राघवे सति । ज्ञात्वा नारायणं साक्षात्कौसल्या प्रियवादिनी ॥ ५३॥

भक्त्यागत्य प्रसन्नं तं प्रणता प्राह हृष्टधीः । राम त्वं जगतामादिरादिमध्यान्तवर्जितः ॥ ५४॥

परमात्मा परानन्दः पूर्णः पुरुष ईश्वरः । जातोऽसि मे गर्भगृहे मम पुण्यातिरेकतः ॥ ५५॥

अवसाने ममाप्यद्य समयोऽभूद्रघूत्तम । नाद्याप्यबोधजः कृत्स्नो भवबन्धो निवर्तते ॥ ५६॥

इदानीमपि मे ज्ञानं भवबन्धनिवर्तकम् । यथा सङ्क्षेपतो भूयात्तथा बोधय मां विभो ॥ ५७॥

निर्वेदवादिनीमेवं मातरं मातृवत्सलः । दयालुः प्राह धर्मात्मा जराजर्जरितां शुभाम् ॥ ५८॥

मार्गास्त्रयो मया प्रोक्ताः पुरा मोक्षाप्तिसाधकाः । कर्मयोगो ज्ञानयोगो भक्तियोगश्च शाश्वतः ॥ ५९॥

भक्तिर्विभिद्यते मातस्त्रिविधा गुणभेदतः । स्वभावो यस्य यस्तेन तस्य भक्तिर्विभिद्यते ॥ ६०॥

यस्तु हिंसां समुद्दिश्य दम्भं मात्सर्यमेव वा । भेददृष्टिश्च संरम्भी भक्तो मे तामसः स्मृतः ॥ ६१॥

फलाभिसन्धिर्भोगार्थी धनकामो यशस्तथा । अर्चादौ भेदबुद्ध्या मां पूजयेत्स तु राजसः ॥ ६२॥

परस्मिन्नर्पितं यस्तु कर्मनिर्हरणाय वा । कर्तव्यमिति वा कुर्याद्भेदबुद्ध्या स सात्त्विकः ॥ ६३॥

मद्गुणाश्रयणादेव मय्यनन्तगुणालये । अविच्छिन्ना मनोवृत्तिर्यथा गङ्गाम्बुनोऽम्बुधौ ॥ ६४॥

तदेव भक्तियोगस्य लक्षणं निर्गुणस्य हि । अहैतुक्यव्यवहिता या भक्तिर्मयि जायते ॥ ६५॥

सा मे सालोक्यसामीप्यसार्ष्टिसायुज्यमेव वा । ददात्यपि न गृह्णन्ति भक्ता मत्सेवनं विना ॥ ६६॥

स एवात्यन्तिको योगो भक्तिमार्गस्य भामिनि । मद्भावं प्राप्नुयात्तेन अतिक्रम्य गुणत्रयम् ॥ ६७॥

महता कामहीनेन स्वधर्माचरणेन च । कर्मयोगेन शस्तेन वर्जितेन विहिंसनात् ॥ ६८॥

मद्दर्शनस्तुतिमहापूजाभिः स्मृतिवन्दनैः । भूतेषु मद्भावनया सङ्गेनासत्यवर्जनैः ॥ ६९॥

बहुमानेन महतां दुःखिनामनुकम्पया । स्वसमानेषु मैत्र्या च यमादीनां निषेवया ॥ ७०॥

वेदान्तवाक्यश्रवणान्मम नामानुकीर्तनात् । सत्सङ्गेनार्जवेनैव ह्यहमः परिवर्जनात् ॥ ७१॥

काङ्क्षया मम धर्मस्य परिशुद्धान्तरो जनः । मद्गुणश्रवणादेव याति मामञ्जसा जनः ॥ ७२॥

यथा वायुवशाद्गन्धः स्वाश्रयाद्घ्राणमाविशेत् । योगाभ्यासरतं चित्तमेवमात्मानमाविशेत् ॥ ७३॥

सर्वेषु प्राणिजातेषु ह्यहमात्मा व्यवस्थितः । तमज्ञात्वा विमूढात्मा कुरुते केवलं बहिः ॥ ७४॥

क्रियोत्पन्नैर्नैकभेदैर्द्रव्यैर्मे नाम्ब तोषणम् । भूतावमानिनार्चायामर्चितोऽहं न पूजितः ॥ ७५॥

तावन्मामर्चयेद्देवं प्रतिमादौ स्वकर्मभिः । यावत्सर्वेषु भूतेषु स्थितं चात्मनि न स्मरेत् ॥ ७६॥

यस्तु भेदं प्रकुरुते स्वात्मनश्च परस्य च । भिन्नदृष्टेर्भयं मृत्युस्तस्य कुर्यान्न संशयः ॥ ७७॥

मामतः सर्वभूतेषु परिच्छिन्नेषु संस्थितम् । एकं ज्ञानेन मानेन मैत्र्या चार्चेदभिन्नधीः ॥ ७८॥

चेतसैवानिशं सर्वभूतानि प्रणमेत्सुधीः । ज्ञात्वा मां चेतनं शुद्धं जीवरूपेण संस्थितम् ॥ ७९॥

तस्मात्कदाचिन्नेक्षेत भेदमीश्वरजीवयोः । भक्तियोगो ज्ञानयोगो मया मातरुदीरितः ॥ ८०॥

आलम्ब्यैकतरं वापि पुरुषः शुभमृच्छति । ततो मां भक्तियोगेन मातः सर्वहृदि स्थितम् ॥ ८१॥

पुत्ररूपेण वा नित्यं स्मृत्वा शान्तिमवाप्स्यसि । श्रुत्वा रामस्य वचनं कौसल्याऽऽनन्दसंयुता ॥ ८२॥

रामं सदा हृदि ध्यात्वा छित्त्वा संसारबन्धनम् । अतिक्रम्य गतीस्तिस्रोऽप्यवाप परमां गतिम् ॥ ८३॥

कैकेयी चापि योगं रघुपतिगदितं पूर्वमेवाधिगम्य श्रद्धाभक्तिप्रशान्ता हृदि रघुतिलकं भावयन्ती गतासुः । गत्वा स्वर्गं स्फुरन्ती दशरथसहिता मोदमानावतस्थे माता श्रीलक्ष्मणस्याप्यतिविमलमतिः प्राप भर्तुः समीपम् ॥ ८४॥

इति श्रीमदध्यात्मरामायणे उमामहेश्वरसंवादे उत्तरकाण्डे सप्तमः सर्गः ॥ ७॥


॥ अष्टम सर्गः ॥

श्रीमहादेव उवाच ।

अथ काले गते कस्मिन् भरतो भीमविक्रमः । युधाजिता मातुलेन ह्याहूतोऽगात्ससैनिकः ॥ १॥

रामाज्ञया गतस्तत्र हत्वा गन्धर्वनायकान् । तिस्रः कोटीः पुरे द्वे तु निवेश्य रघुनन्दनः ॥ २॥

पुष्करं पुष्करावत्यां तक्षं तक्षशिलाह्वये । अभिषिच्य सुतौ तत्र धनधान्यसुहृद्वृतौ ॥ ३॥

पुनरागत्य भरतो रामसेवापरोऽभवत् । ततः प्रीतो रघुश्रेष्ठो लक्ष्मणं प्राह सादरम् ॥ ४॥

उभौ कुमारौ सौमित्रे गृहीत्वा पश्चिमां दिशम् । तत्र भिल्लान् विनिर्जित्य दुष्टान् सर्वापकारिणः ॥ ५॥

अङ्गदश्चित्रकेतुश्च महासत्त्वपराक्रमौ । द्वयोर्द्वे नगरे कृत्वा गजाश्वधनरत्नकैः ॥ ६॥

अभिषिच्य सुतौ तत्र शीघ्रमागच्छ मां पुनः । रामस्याज्ञां पुरस्कृत्य गजाश्वबलवाहनः ॥ ७॥

गत्वा हत्वा रिपून् सर्वान् स्थापयित्वा कुमारकौ । सौमित्रिः पुनरागत्य रामसेवापरोऽभवत् ॥ ८॥

ततस्तु काले महति प्रयाते

      रामं सदा धर्मपथे स्थितं हरिम् ।

द्रष्टुं समागादृषिवेषधारी

      कालस्ततो लक्ष्मणमित्युवाच ॥ ९॥

निवेदयस्वातिबलस्य दूतं

      मां द्रष्टुकामं पुरुषोत्तमाय ।

रामाय विज्ञापनमस्ति तस्य

      महर्षिमुख्यस्य चिराय धीमन् ॥ १०॥

तस्य तद्वचनं श्रुत्वा सौमित्रिस्त्वरयान्वितः । आचचक्षेऽथ रामाय स सम्प्राप्तं तपोधनम् ॥ ११॥

एवं ब्रुवन्तं प्रोवाच लक्ष्मणं राघवो वचः । शीघ्रं प्रवेश्यतां तात मुनिः सत्कारपूर्वकम् ॥ १२॥

लक्ष्मणस्तु तथेत्युक्त्वा प्रावेशयत तापसम् । स्वतेजसा ज्वलन्तं तं घृतसिक्तं यथानलम् ॥ १३॥

सोऽभिगम्य रघुश्रेष्ठं दीप्यमानः स्वतेजसा । मुनिर्मधुरवाक्येन वर्धस्वेत्याह राघवम् ॥ १४॥

तस्मै स मुनये रामः पूजां कृत्वा यथाविधि । पृष्ट्वानामयमव्यग्रो रामः पृष्टोऽथ तेन सः ॥ १५॥

दिव्यासने समासीनो रामः प्रोवाच तापसम् । यदर्थमागतोऽसि त्वमिह तत्प्रापयस्व मे ॥ १६॥

वाक्येन चोदितस्तेन रामेणाह मुनिर्वचः । द्वन्द्वमेव प्रयोक्तव्यमनालक्ष्यं तु तद्वचः ॥ १७॥

नान्येन चैतच्छ्रोतव्यं नाख्यातव्यं च कस्यचित् । शृणुयाद्वा निरीक्षेद्वा यः स वध्यस्त्वया प्रभो ॥ १८॥

तथेति च प्रतिज्ञाय रामो लक्ष्मणमब्रवीत् । तिष्ठ त्वं द्वारि सौमित्रे नायात्वत्र जनो रहः ॥ १९॥

यद्यागच्छति को वापि स वध्यो मे न संशयः । ततः प्राह मुनिं रामो येन वा त्वं विसर्जितः ॥ २०॥

यत्ते मनीषितं वाक्यं तद्वदस्व ममाग्रतः । ततः प्राह मुनिर्वाक्यं शृणु राम यथातथम् ॥ २१॥

ब्रह्मणा प्रेषितोऽस्मीश कार्यार्थे तेऽन्तिकं प्रभो । अहं हि पूर्वजो देव तव पुत्रः परन्तप ॥ २२॥

मायासङ्गमजो वीर कालः सर्वहरः स्मृतः । ब्रह्मा त्वामाह भगवान् सर्वदेवर्षिपूजितः ॥ २३॥

रक्षितुं स्वर्गलोकस्य समयस्ते महामते । पुरा त्वमेक एवासीर्लोकान् संहृत्य मायया ॥ २४॥

भार्यया सहितस्त्वं मामादौ पुत्रमजीजनः । तथा भोगवतं नागमनन्तमुदकेशयम् ॥ २५॥

मायया जनयित्वा त्वं द्वौ ससत्त्वौ महाबलौ । मधुकैटभकौ दैत्यौ हत्वा मेदोऽस्थिसञ्चयम् ॥ २६॥

इमां पर्वतसम्बद्धां मेदिनीं पुरुषर्षभ । पद्मे दिव्यार्कसङ्काशे नाभ्यामुत्पाद्य मामपि ॥ २७॥

मां विधाय प्रजाध्यक्षं मयि सर्वं न्यवेदयत् । सोऽहं संयुक्तसम्भारस्त्वामवोचं जगत्पते ॥ २८॥

रक्षां विधत्स्व भूतेभ्यो ये मे वीर्यापहारिणः । ततस्त्वं कश्यपाज्जातो विष्णुर्वामनरूपधृक् ॥ २९॥

हृतवानसि भूभारं वधाद्रक्षोगणस्य च । सर्वासूत्सार्यमाणासु प्रजासु धरणीधर ॥ ३०॥

रावणस्य वधाकाङ्क्षी मर्त्यलोकमुपागतः । दशवर्षसहस्राणि दशवर्षशतानि च ॥ ३१॥

कृत्वा वासस्य समयं त्रिदशेष्वात्मनः पुरा । स ते मनोरथः पूर्णः पूर्णे चायुषि ते नृषु ॥ ३२॥

कालस्तापसरूपेण त्वत्समीपमुपागमत् । ततो भूयश्च ते बुद्धिर्यदि राज्यमुपासितुम् ॥ ३३॥

तत्तथा भव भद्रं ते एवमाह पितामहः । यदि ते गमने बुद्धिर्देवलोकं जितेन्द्रिय ॥ ३४॥

सनाथा विष्णुना देवा भजन्तु विगतज्वराः । चतुर्मुखस्य तद्वाक्यं श्रुत्वा कालेन भाषितम् ॥ ३५॥

हसन् रामस्तदा वाक्यं कृत्स्नस्यान्तकमब्रवीत् । श्रुतं तव वचो मेऽद्य ममापीष्टतरं तु तत् ॥ ३६॥

सन्तोषः परमो ज्ञेयस्त्वदागमनकारणात् । त्रयाणामपि लोकानां कार्यार्थं मम सम्भवः ॥ ३७॥

भद्रं तेऽस्त्वागमिष्यामि यत एवाहमागतः । मनोरथस्तु सम्प्राप्तो न मेऽत्रास्ति विचारणा ॥ ३८॥

मत्सेवकानां देवानां सर्वकार्येषु वै मया । स्थातव्यं मायया पुत्र यथा चाह प्रजापतिः ॥ ३९॥

एवं तयोः कथयतोर्दुर्वासा मुनिरभ्यगात् । राजद्वारं राघवस्य दर्शनापेक्षया द्रुतम् ॥ ४०॥

मुनिर्लक्ष्मणमासाद्य दुर्वासा वाक्यमब्रवीत् । शीघ्रं दर्शय रामं मे कार्यं मेऽत्यन्तमाहितम् ॥ ४१॥

तच्छ्रुत्वा प्राह सौमित्रिर्मुनिं ज्वलनतेजसम् । रामेण कार्यं किं तेऽद्य किं तेऽभीष्टं करोम्यहम् ॥ ४२॥

राजा कार्यान्तरे व्यग्रो मुहूर्तं सम्प्रतीक्ष्यताम् । तच्छ्रुत्वा क्रोधसन्तप्तो मुनिः सौमित्रिमब्रवीत् ॥ ४३॥

अस्मिन् क्षणे तु सौमित्रे न दर्शयसि चेद्विभुम् । रामं सविषयं वंशं भस्मीकुर्यां न संशयः ॥ ४४॥

श्रुत्वा तद्वचनं घोरमृषेर्दुर्वाससो भृशम् । स्वरूपं तस्य वाक्यस्य चिन्तयित्वा स लक्ष्मणः ॥ ४५॥

सर्वनाशाद्वरं मेऽद्य नाशो ह्येकस्य कारणात् । निश्चित्यैवं ततो गत्वा रामाय प्राह लक्ष्मणः ॥ ४६॥

सौमित्रेर्वचनं श्रुत्वा रामः कालं व्यसर्जयत् । शीघ्रं निर्गम्य रामोऽपि ददर्शात्रेः सुतं मुनिम् ॥ ४७॥

रामोऽभिवाद्य सम्प्रीतो मुनिं पप्रच्छ सादरम् । किं कार्यं ते करोमीति मुनिमाह रघूत्तमः ॥ ४८॥

तच्छ्रुत्वा रामवचनं दुर्वासा राममब्रवीत् । अद्य वर्षसहस्राणामुपवाससमापनम् ॥ ४९॥

अतो भोजनमिच्छामि सिद्धं यत्ते रघूत्तम । रामो मुनिवचः श्रुत्वा सन्तोषेण समन्वितः ॥ ५०॥

स सिद्धमन्नं मुनये यथावत्समुपाहरत् । मुनिर्भुक्त्वान्नममृतं सन्तुष्टः पुनरभ्यगात् ॥ ५१॥

स्वमाश्रमं गते तस्मिन् रामः सस्मार भाषितम् । कालेन शोकदुःखार्तो विमनाश्चातिविह्वलः ॥ ५२॥

अवाङ्मुखो दीनमना न शशाकाभिभाषितुम् । मनसा लक्ष्मणं ज्ञात्वा हतप्रायं रघूद्वहः ॥ ५३॥

अवाङ्मुखो बभूवाथ तूष्णीमेवाखिलेश्वरः । ततो रामं विलोक्याह सौमित्रिर्दुःखसम्प्लुतम् ॥ ५४॥

तूष्णीम्भूतं चिन्तयन्तं गर्हन्तं स्नेहबन्धनम् । मत्कृते त्यज सन्तापं जहि मां रघुनन्दन ॥ ५५॥

गतिः कालस्य कलिता पूर्वमेवेदृशी प्रभो । त्वयि हीनप्रतिज्ञे तु नरको मे ध्रुवं भवेत् ॥ ५६॥

मयि प्रीतिर्यदि भवेद्यद्यनुग्राह्यता तव । त्यक्त्वा शङ्कां जहि प्राज्ञ मा मा धर्मं त्यज प्रभो ॥ ५७॥

सौमित्रिणोक्तं तच्छ्रुत्वा रामश्चलितमानसः । आहूय मन्त्रिणः सर्वान् वसिष्ठं चेदमब्रवीत् ॥ ५८॥

मुनेरागमनं यत्तु कालस्यापि हि भाषितम् । प्रतिज्ञामात्मनश्चैव सर्वमावेदयत्प्रभुः ॥ ५९॥

श्रुत्वा रामस्य वचनं मन्त्रिणः सपुरोहिताः । ऊचुः प्राञ्जलयः सर्वे राममक्लिष्टकारिणम् ॥ ६०॥

पूर्वमेव हि निर्दिष्टं तव भूभारहारिणः । लक्ष्मणेन वियोगस्ते ज्ञातो विज्ञानचक्षुषा ॥ ६१॥

त्यजाशु लक्ष्मणं राम मा प्रतिज्ञां त्यज प्रभो । प्रतिज्ञाते परित्यक्ते धर्मो भवति निष्फलः ॥ ६२॥

धर्मे नष्टेऽखिले राम त्रैलोक्यं नश्यति ध्रुवम् । त्वं तु सर्वस्य लोकस्य पालकोऽसि रघूत्तम ॥ ६३॥

त्यक्त्वा लक्ष्मणमेवैकं त्रैलोक्यं त्रातुमर्हसि । रामो धर्मार्थसहितं वाक्यं तेषामनिन्दितम् ॥ ६४॥

सभामध्ये समाश्रुत्य प्राह सौमित्रिमञ्जसा । यथेष्टं गच्छ सौमित्रे मा भूद्धर्मस्य संशयः ॥ ६५॥

परित्यागो वधो वापि सतामेवोभयं समम् । एवमुक्ते रघुश्रेष्ठे दुःखव्याकुलितेक्षणः ॥ ६६॥

रामं प्रणम्य सौमित्रिः शीघ्रं गृहमगात्स्वकम् । ततोऽगात्सरयूतीरमाचम्य स कृताञ्जलिः ॥ ६७॥

नव द्वाराणि संयम्य मूर्ध्नि प्राणमधारयत् । यदक्षरं परं ब्रह्म वासुदेवाख्यमव्ययम् ॥ ६८॥

पदं तत्परमं धाम चेतसा सोऽभ्यचिन्तयत् । वायुरोधेन संयुक्तं सर्वे देवाः सहर्षयः ॥ ६९॥

साग्नयो लक्ष्मणं पुष्पैस्तुष्टुवुश्च समाकिरन् । अदृश्यं विबुधैः कैश्चित्सशरीरं च वासवः ॥ ७०॥

गृहीत्वा लक्ष्मणं शक्रः स्वर्गलोकमथागमत् । ततो विष्णोश्चतुर्भागं तं देवं सुरसत्तमाः । सर्वे देवर्षयो दृष्ट्वा लक्ष्मणं समपूजयन् ॥ ७१॥

लक्ष्मणे हि दिवमागते हरौ सिद्धलोकगतयोगिनस्तदा । ब्रह्मणा सह समागमन्मुदा द्रष्टुमाहितमहाहिरूपकम् ॥ ७२॥

इति श्रीमदध्यात्मरामायणे उमामहेश्वरसंवादे उत्तरकाण्डे अष्टमः सर्गः ॥ ८॥


॥ नवम सर्गः ॥

श्री महादेव उवाच ।

लक्ष्मणं तु परित्यज्य रामो दुःखसमन्वितः । मन्त्रिणो नैगमांश्चैव वसिष्ठं चेदमब्रवीत् ॥ १॥

अभिषेक्ष्यामि भरतमधिराज्ये महामतिम् । अद्य चाहं गमिष्यामि लक्ष्मणस्य पदानुगः ॥ २॥

एवमुक्ते रघुश्रेष्ठे पौरजानपदास्तदा । द्रुमा इवच्छिन्नमूला दुःखार्ताः पतिता भुवि ॥ ३॥

मूर्च्छितो भरतो वापि श्रुत्वा रामाभिभाषितम् । गर्हयामास राज्यं स प्राहेदं रामसन्निधौ ॥ ४॥

सत्येन च शपे नाहं त्वां विना दिवि वा भुवि । काङ्क्षे राज्यं रघुश्रेष्ठ शपे त्वत्पादयोः प्रभो ॥ ५॥

इमौ कुशलवौ राजन्नभिषिञ्चस्व राघव । कोसलेषु कुशं वीरमुत्तरेषु लवं तथा ॥ ६॥

गच्छन्तु दूतास्त्वरितं शत्रुघ्नानयनाय हि । अस्माकमेतद्गमनं स्वर्वासाय शृणोतु सः ॥ ७॥

भरतेनोदितं श्रुत्वा पतितास्ताः समीक्ष्य तम् । प्रजाश्च भयसंविग्ना रामविश्लेषकातराः ॥ ८॥

वसिष्ठो भगवान् राममुवाच सदयं वचः । पश्य तातादरात्सर्वाः पतिता भूतले प्रजाः ॥ ९॥

तासां भावानुगं राम प्रसादं कर्तुमर्हसि । श्रुत्वा वसिष्ठवचनं ताः समुत्थाप्य पूज्य च ॥ १०॥

सस्नेहो रघुनाथस्ताः किं करोमीति चाब्रवीत् । ततः प्राञ्जलयः प्रोचुः प्रजा भक्त्या रघूद्वहम् ॥ ११॥

गन्तुमिच्छसि यत्र त्वमनुगच्छामहे वयम् । अस्माकमेषा परमा प्रीतिर्धर्मोऽयमक्षयः ॥ १२॥

तवानुगमने राम हृद्गता नो दृढा मतिः । पुत्रदारादिभिः सार्धमनुयामोऽद्य सर्वथा ॥ १३॥

तपोवनं वा स्वर्गं वा पुरं वा रघुनन्दन । ज्ञात्वा तेषां मनोदार्ढ्यं कालस्य वचनं तथा ॥ १४॥

भक्तं पौरजनं चैव बाढमित्याह राघवः । कृत्वैव निश्चयं रामस्तस्मिन्नेवाहनि प्रभुः ॥ १५॥

प्रस्थापयामास च तौ रामभद्रः कुशीलवौ । अष्टौ रथसहस्राणि सहस्रं चैव दन्तिनाम् ॥ १६॥

षष्टिं चाश्वसहस्राणामेकैकस्मै ददौ बलम् । बहुरत्नौ बहुधनौ हृष्टपुष्टजनावृतौ ॥ १७॥

अभिवाद्य गतौ रामं कृच्छ्रेण तु कुशीलवौ । शत्रुघ्नानयने दूतान् प्रेषयामास राघवः ॥ १८॥

ते दूतास्त्वरितं गत्वा शत्रुघ्नाय न्यवेदयन् । कालस्यागमनं पश्चादत्रिपुत्रस्य चेष्टितम् ॥ १९॥

लक्ष्मणस्य च निर्याणं प्रतिज्ञां राघवस्य च । पुत्राभिषेचनं चैव सर्वं रामचिकीर्षितम् ॥ २०॥

श्रुत्वा तद्दूतवचनं श्त्रुघ्नः कुलनाशनम् । व्यथितोऽपि धृतिं लब्ध्वा पुत्रावाहूय सत्वरः । अभिषिच्य सुबाहुं वै मथुरायां महाबलः ॥ २१॥

यूपकेतुं च विदिशानगरे शत्रुसूदनः । अयोध्यां त्वरितं प्रागात्स्वयं रामदिदृक्षया ॥ २२॥

ददर्श च महात्मानं तेजसा ज्वलनप्रभम् । दुकूलयुगसंवीतं ऋषिभिश्चाक्षयैर्वृतम् ॥ २३॥

अभिवाद्य रमानाथं शत्रुघ्नो रघुपुङ्गवम् । प्राञ्जलिर्धर्मसहितं वाक्यं प्राह महामतिः ॥ २४॥

अभिषिच्य सुतौ तत्र राज्ये राजीवलोचन । तवानुगमने राजन् विद्धि मां कृतनिश्चयम् ॥ २५॥

त्यक्तुं नार्हसि मां वीर भक्तं तव विशेषतः । शत्रुघ्नस्य दृढां बुद्धिं विज्ञाय रघुनन्दनः ॥ २६॥

सज्जीभवतु मध्याह्ने भवानित्यब्रवीद्वचः । अथ क्षणात्समुत्पेतुर्वानराः कामरूपिणः ॥ २७॥

ऋक्षाश्च राक्षसाश्चैव गोपुच्छाश्च सहस्रशः । ऋषीणां देवतानां च पुत्रा रामस्य निर्गमम् ॥ २८॥

श्रुत्वा प्रोचू रघुश्रेष्ठं सर्वे वानरराक्षसाः । तवानुगमने विद्धि निश्चितार्थान् हि नः प्रभो ॥ २९॥

एतस्मिन्नन्तरे रामं सुग्रीवोऽपि महाबलः । यथावदभिवाद्याह राघवं भक्तवत्सलम् ॥ ३०॥

अभिषिच्याङ्गदं राज्ये आगतोऽस्मि महाबलम् । तवानुगमने राम विद्धि मां कृतनिश्चयम् ॥ ३१॥

श्रुत्वा तेषां दृढं वाक्यं ऋक्षवानररक्षसाम् । विभीषणमुवाचेदं वचनं मृदु सादरम् ॥ ३२॥

धरिष्यति धरा यावत्प्रजास्तावत्प्रशाधि मे । वचनाद्राक्षसं राज्यं शापितोऽसि ममोपरि ॥ ३३॥

न किञ्चिदुत्तरं वाच्यं त्वया मत्कृतकारणात् । एवं विभीषणं तूक्त्वा हनूमन्तमथाब्रवीत् ॥ ३४॥

मारुते त्वं चिरञ्जीव ममाज्ञां मा मृषा कृथाः । जाम्बवन्तमथ प्राह तिष्ठ त्वं द्वापरान्तरे । ३५॥

मया सार्धं भवेद्युद्धं यत्किञ्चित्कारणान्तरे । ततस्तान् राघवः प्राह ऋक्षराक्षसवानरान् । सर्वानेव मया सार्धं प्रयातेति दयान्वितः ॥ ३६॥

ततः प्रभाते रघुवंशनाथो

      विशालवक्षाः सितकञ्जनेत्रः ।

पुरोधसं प्राह वसिष्ठमार्यं

      यान्त्वग्निहोत्राणि पुरो गुरो मे । ३७॥

ततो वसिष्ठोऽपि चकार सर्वं

      प्रास्थानिकं कर्म महद्विधानात् ।

क्षौमाम्बरो दर्भपवित्रपाणिः

      महाप्रयाणाय गृहीतबुद्धिः ॥ ३८॥

निष्क्रम्य रामो नगरात्सिताभ्रा-

      च्छशीव यातः शशिकोटिकान्तिः ।

रामस्य सव्ये सितपद्महस्ता

      पद्मा गता पद्मविशालनेत्रा ॥ ३९॥

पार्श्वेऽथ दक्षेऽरुणकञ्जहस्ता

      श्यामा ययौ भूरपि दीप्यमाना ।

शास्त्राणि शस्त्राणि धनुश्च बाणा

      जग्मुः पुरस्ताद्धृतविग्रहास्ते ॥ ४०॥

वेदाश्च सर्वे धृतविग्रहाश्च

      ययुश्च सर्वे मुनयश्च दिव्याः ।

माता श्रुतीनां प्रणवेन साध्वी

      ययौ हरिं व्याहृतिभिः समेता ॥ ४१॥

गच्छन्तमेवानुगता जनास्ते

      सपुत्रदाराः सह बन्धुवर्गैः ।

अनावृतद्वारमिवापवर्गं

      रामं व्रजन्तं ययुराप्तकामाः ।

सान्तःपुरः सानुचरः सभार्यः

      शत्रुघ्नयुक्तो भरतोऽनुयातः ॥ ४२॥

गच्छन्तमालोक्य रमासमेतं

      श्रीराघवं पौरजनाः समस्ताः ।

सबालवृद्धाश्च ययुर्द्विजाग्र्याः

      सामात्यवर्गाश्च समन्त्रिणो ययुः ॥ ४३॥

सर्वे गताः क्षत्रमुखाः प्रहृष्टा

      वैश्याश्च शूद्राश्च तथा परे च ।

सुग्रीवमुख्या हरिपुङ्गवाश्च

      स्नाता विशुद्धाः शुभशब्दयुक्ताः ॥ ४४॥

न कश्चिदासीद्भवदुःखयुक्तो

      दीनोऽथवा बाह्यसुखेषु सक्तः ।

आनन्दरूपानुगता विरक्ता

      ययुश्च रामं पशुभृत्यवर्गैः ॥ ४५॥

भूतान्यदृश्यानि च यानि तत्र

      ये प्राणिनः स्थावरजङ्गमाश्च ।

साक्षात्परात्मानमनन्तशक्तिं

      जग्मुर्विमुक्ताः परमेकमीशम् ॥ ४६॥

नासीदयोध्यानगरे तु जन्तुः

      कश्चित्तदा राममना न यातः ।

शून्यं बभूवाखिलमेव तत्र

      पुरं गते राजनि रामचन्द्रे ॥ ४७॥

ततोऽतिदूरं नगरात्स गत्वा

      दृष्ट्वा नदीं तां हरिनेत्रजाताम् ।

ननन्द रामः स्मृतपावनोऽतो

      ददर्श चाशेषमिदं हृदिस्थम् ॥ ४८॥

अथागतस्तत्र पितामहो महान्

      देवाश्च सर्वे ऋषयश्च सिद्धाः ।

विमानकोटीभिरपारपारं

      समावृतं खं सुरसेविताभिः ॥ ४९॥

रविप्रकाशाभिरभिस्फुरत्स्वं

      ज्योतिर्मयं तत्र नभो बभूव ।

स्वयम्प्रकाशैर्महतां महद्भिः

      समावृतं पुण्यकृतां वरिष्ठैः ॥ ५०॥

ववुश्च वाताश्च सुगन्धवन्तो

      ववर्ष वृष्टिः कुसुमावलीनाम् ।

उपस्थिते देवमृदङ्गनादे

      गायत्सु विद्याधरकिन्नरेषु ॥ ५१॥

रामस्तु पद्भ्यां सरयूजलं सकृत्

      स्पृष्ट्वा परिक्रामदनन्तशक्तिः ।

ब्रह्मा तदा प्राह कृताञ्जलिस्तं

      रामं परात्मन् परमेश्वरस्त्वम् ॥ ५२॥

विष्णुः सदानन्दमयोऽसि पूर्णो

      जानासि तत्त्वं निजमैशमेकम् ।

तथापि दासस्य ममाखिलेश कृतं

      वचो भक्तपरोऽसि विद्वन् ॥ ५३॥

त्वं भ्रातृभिर्वैष्णवमेवमाद्यं

      प्रविश्य देहं परिपाहि देवान् ।

यद्वा परो वा यदि रोचते तं

      प्रविश्य देहं परिपाहि नस्त्वम् ॥ ५४॥

त्वमेव देवाधिपतिश्च विष्णुः

      जानन्ति न त्वां पुरुषा विना माम् ।

सहस्रकृत्वस्तु नमो नमस्ते

      प्रसीद देवेश पुनर्नमस्ते ॥ ५५॥

पितामहप्रार्थनया स रामः

      पश्यत्सु देवेषु महाप्रकाशः ।

मुष्णंश्च चक्षूंषि दिवौकसां तदा

      बभूव चक्रादियुतश्चतुर्भुजः ॥ ५६॥

शेषो बभूवेश्वरतल्पभूतः

      सौमित्रिरत्यद्भुतभोगधारी ।

बभूवतुश्चक्रदरौ च दिव्यौ

      कैकेयिसूनुर्लवणान्तकश्च ॥ ५७॥

सीता च लक्ष्मीरभवत्पुरेव

      रामो हि विष्णुः पुरुषः पुराणः ।

सहानुजः पूर्वशरीरकेण

      बभूव तेजोमयदिव्यमूर्तिः ॥ ५८॥

विष्णुं समासाद्य सुरेन्द्रमुख्या

      देवाश्च सिद्धा मुनयश्च दक्षाः ।

पितामहाद्याः परितः परेशं

      स्तवैर्गृणन्तः परिपूजयन्तः ॥ ५९॥

आनन्दसम्प्लावितपूर्णचित्ता

      बभूविरे प्राप्तमनोरथास्ते ।

तदाह विष्णुर्द्रुहिणं महात्मा

      एते हि भक्ता मयि चानुरक्ताः ॥ ६०॥

यान्तं दिवं मामनुयान्ति सर्वे

      तिर्यक्षरीरा अपि पुण्ययुक्ताः ।

वैकुण्ठसाम्यं परमं प्रयान्तु

      समाविशस्वाशु ममाज्ञया त्वम् ॥ ६१॥

श्रुत्वा हरेर्वाक्यमथाब्रवीत्कः

      सान्तानिकान् यान्तु विचित्रभोगान् ।

लोकान्मदीयोपरि दीप्यमानान्

      त्वद्भावयुक्ताः कृतपुण्यपुञ्जाः ॥ ६२॥

ये चापि ते राम पवित्रनाम

      गृणन्ति मर्त्या लयकाल एव ।

अज्ञानतो वापि भजन्तु लोकान्

      तानेव योगैरपि चाधिगम्यान् ॥ ६३॥

ततोऽतिहृष्टा हरिराक्षसाद्याः

      स्पृष्ट्वा जलं त्यक्तकलेवरास्ते ।

प्रपेदिरे प्राक्तनमेव रूपं

      यदंशजा ऋक्षहरीश्वरास्ते ॥ ६४॥

प्रभाकरं प्राप हरिप्रवीरः

      सुग्रीव आदित्यजवीर्यवत्त्वात् ।

ततो विमग्नाः सरयूजलेषु

      नराः परित्यज्य मनुष्यदेहम् ॥ ६५॥

आरुह्य दिव्याभरणा विमानं

      प्रापुश्च ते सान्तनिकाख्यलोकान् ।

तिर्यक्प्रजाता अपि रामदृष्टा

      जलं प्रविष्टा दिवमेव याताः ॥ ६६॥

दिदृक्षवो जानपदाश्च लोका

      रामं समालोक्य विमुक्तसङ्गाः ।

स्मृत्वा हरिं लोकगुरुं परेशं

      स्पृष्ट्वा जलं स्वर्गमवापुरञ्जः ॥ ६७॥

एतावदेवोत्तरमाह शम्भुः

      श्रीरामचन्द्रस्य कथावशेषम् ।

यः पादमप्यत्र पठेत्स पापाद्-

      विमुच्यते जन्मसहस्रजातात् ॥ ६८॥

दिने दिने पापचयं प्रकुर्वन्

      पठेन्नरः श्लोकमपीह भक्त्या ।

विमुक्तसर्वाघचयः प्रयाति

      रामस्य सालोक्यमनन्यलभ्यम् ॥ ६९॥

आख्यानमेतद्रघुनायकस्य

      कृतं पुरा राघवचोदितेन ।

महेश्वरेणाप्तभविष्यदर्थं

      श्रुत्वा तु रामः परितोषमेति ॥ ७०॥

रामायणं काव्यमनन्तपुण्यं

      श्रीशङ्करेणाभिहितं भवान्यै ।

भक्त्या पठेद्यः शृणुयात् स पापैः

      विमुच्यते जन्मशतोद्भवैश्च ॥ ७१॥

अध्यात्मरामं पठतश्च नित्यं

      श्रोतुश्च भक्त्या लिखितुश्च रामः ।

अतिप्रसन्नश्च सदा समीपे

      सीतासमेतः श्रियमातनोति ॥ ७२॥

रामायणं जनमनोहरमादिकाव्यं

      ब्रह्मादिभिः सुरवरैरपि संस्तुतं च ।

श्रद्धान्वितः पठति यः शृणुयात्तु नित्यं

      विष्णोः प्रयाति सदनं स विशुद्धदेहः ॥ ७३॥

इति श्रीमदध्यात्मरामायणे उमामहेश्वरसंवादे उत्तरकाण्डे नवमः सर्गः ॥ ९॥

॥ समाप्तमिदमुत्तरकाण्डम् ॥

॥ सम्पूर्णम् इति अध्यात्मरामायणम् ॥