सामग्री पर जाएँ

अध्यात्मरामायण/किष्किन्धाकाण्डम्

विकिपुस्तकानि तः

॥ अध्यात्मरामायणे किष्किन्धाकाण्डम् ॥

॥ प्रथमः सर्गः ॥ श्रीमहादेव उवाच । ततः सलक्ष्मणो रामः शनैः पम्पासरस्तटम् । आगत्य सरसां श्रेष्ठां दृष्ट्वा विस्मयमाययौ ॥ १॥

क्रोशमात्रं सुविस्तीर्णमगाधामलशम्बरम् । उत्फुल्लाम्बुजकल्हारकुमुदोत्पलमण्डितम् ॥ २॥

हंसकारण्डवाकीर्णं चक्रवाकादिशोभितम् । जलकुक्कुटकोयष्टिक्रौञ्चनादोपनादितम् ॥ ३॥

नानापुष्पलताकीर्णं नानाफलसमावृतम् । सतां मनःस्वच्छजलं पद्मकिञ्जल्कवासितम् ॥ ४॥

तत्रोपस्पृश्य सलिलं पीत्वा श्रमहरं विभुः । सानुजः सरसस्तीरे शीतलेन पथा ययौ ॥ ५॥

ऋष्यमूकगिरेः पार्श्वे गच्छन्तौ रामलक्ष्मणौ । धनुर्बाणकरौ दान्तौ जटावल्कलमण्डितौ । पश्यन्तौ विविधान् वृक्षान् गिरेः शोभां सुविक्रमौ ॥ ६॥

सुग्रीवस्तु गिरेर्मूर्ध्नि चतुर्भिः सह वानरैः । स्थित्वा ददर्श तौ यान्तावारुरोह गिरेः शिरः ॥ ७॥

भयादाह हनूमन्तं कौ तौ वीरवरौ सखे । गच्छ जानीहि भद्रं ते वटुर्भूत्वा द्विजाकृतिः ॥ ८॥

वालिना प्रेषितौ किंवा मां हन्तुं समुपागतौ । ताभ्यां सम्भाषणं कृत्वा जानीहि हृदयं तयोः ॥ ९॥

यदि तौ दुष्टहृदयौ सन्ज्ञां कुरु कराग्रतः । विनयावनतो भूत्वा एवं जानीहि निश्चयम् ॥ १०॥

तथेति वटुरूपेण हनुमान् समुपागतः । विनयावनतो भूत्वा रामं नत्वेदमब्रवीत् ॥ ११॥

कौ युवां पुरुषव्याघ्रौ युवानौ वीरसम्मतौ । द्योतयन्तौ दिशः सर्वाः प्रभया भास्कराविव ॥ १२॥

युवां त्रैलोक्यकर्ताराविति भाति मनो मम । युवां प्रधानपुरुषौ जगद्धेतू जगन्मयौ ॥ १३॥

मायया मानुषाकारौ चरन्ताविव लीलया । भूभारहरणार्थाय भक्तानां पालनाय च ॥ १४॥

अवतीर्णाविह परौ चरन्तौ क्षत्रियाकृती । जगत्स्थितिलयौ सर्गं लीलया कर्तुमुद्यतौ ॥ १५॥

स्वतन्त्रौ प्रेरकौ सर्वहृदयस्थाविहेश्वरौ । नरनारायणौ लोके चरन्ताविति मे मतिः ॥ १६॥

श्रीरामो लक्ष्मणं प्राह पश्यैनं वटुरूपिणम् । शब्दशास्त्रमशेषेण श्रुतं नूनमनेकधा ॥ १७॥

अनेन भाषितं कृत्स्नं न किञ्चिदपशब्दितम् । ततः प्राह हनूमन्तं राघवो ज्ञानविग्रहः ॥ १८॥

अहं दाशरथी रामस्त्वयं मे लक्ष्मणोऽनुजः । सीतया भार्यया सार्धं पितुर्वचनगौरवात् ॥ १९॥

आगतस्तत्र विपिने स्थितोऽहं दण्डके द्विज । तत्र भार्या हृता सीता रक्षसा केनचिन्मम । तामन्वेष्टुमिहायातौ त्वं को वा कस्य वा वद ॥ २०॥

वटुरुवाच । सुग्रीवो नाम राजा यो वानराणां महामतिः । चतुर्भिर्मन्त्रिभिः सार्धं गिरिमूर्धनि तिष्ठति ॥ २१॥

भ्राता कनियान् सुग्रीवो वालिनः पापचेतसः । तेन निष्कासितो भार्या हृता तस्येह वालिना ॥ २२॥

तद्भयादृष्यमूकाख्यं गिरिमाश्रित्य संस्थितः । अहं सुग्रीवसचिवो वायुपुत्रो महामते ॥ २३॥

हनुमान्नाम विख्यातो ह्यञ्जनीगर्भसम्भवः । तेन सख्यं त्वया युक्तं सुग्रीवेण रघूत्तम ॥ २४॥

भार्यापहारिणं हन्तुं सहायस्ते भविष्यति । इदानीमेव गच्छाम आगच्छ यदि रोचते ॥ २५॥

श्रीराम उवाच । अहमप्यागतस्तेन सख्यं कर्तुं कपीश्वर । सख्युस्तस्यापि यत्कार्यं तत्करिष्याम्यसंशयम् ॥ २६॥

हनुमान् स्वस्वरूपेण स्थितो राममथाब्रवीत् । आरोहतां मम स्कन्धौ गच्छामः पर्वतोपरि ॥ २७॥

यत्र तिष्ठति सुग्रीवो मन्त्रिभिर्वालिनो भयात् । तथेति तस्यारुरोह स्कन्धं रामोऽथ लक्ष्मणः ॥ २८॥

उत्पपात गिरेर्मूर्ध्नि क्षणादेव महाकपिः । वृक्षच्छायां समाश्रित्य स्थितौ तौ रामलक्ष्मणौ ॥ २९॥

हनुमानपि सुग्रीवमुपगम्य कृताञ्जलिः । व्येतु ते भयमायातौ राजन् श्रीरामलक्ष्मणौ ॥ ३०॥

शीघ्रमुत्तिष्ठ रामेण सख्यं ते योजितं मया । अग्निं साक्षिणमारोप्य तेन सख्यं द्रुतं कुरु ॥ ३१॥

ततोऽतिहर्षात्सुग्रीवः समागम्य रघूत्तमम् । वृक्षशाखां स्वयं छित्वा विष्टराय ददौ मुदा ॥ ३२॥

हनूमान्ल्लक्ष्मणायादात्सुग्रीवाय च लक्ष्मणः । हर्षेण महताविष्टाः सर्व एवावतस्थिरे ॥ ३३॥

लक्ष्मणस्त्वब्रवीत्सर्वं रामवृत्तान्तमादितः । वनवासाभिगमनं सीताहरणमेव च ॥ ३४॥

लक्ष्मणोक्तं वचः श्रुत्वा सुग्रीवो राममब्रवीत् । अहं करिष्ये राजेन्द्र सीतायाः परिमार्गणम् ॥ ३५॥

साहाय्यमपि ते राम करिष्ये शत्रुघातिनः । शृणु राम मया दृष्टं किञ्चित्ते कथयाम्यहम् ॥ ३६॥

एकदा मन्त्रिभिः सार्धं स्थितोऽहं गिरिमूर्धनि । विहायसा नीयमानां केनचित्प्रमदोत्तमाम् ॥ ३७॥

क्रोशन्तीं रामरामेति दृष्ट्वास्मान् पर्वतोपरि । आमुच्याभरणान्याशु स्वोत्तरीयेण भामिनी ॥ ३८॥

निरीक्ष्याधः परित्यज्य क्रोशन्ती तेन रक्षसा । नीताहं भूषणान्याशु गुहायामक्षिपं प्रभो ॥ ३९॥

इदानीमपि पश्य त्वं जानीहि तव वा न वा । इत्युक्त्वानीय रामाय दर्शयामास वानरः ॥ ४०॥

विमुच्य रामस्तद्दृष्ट्वा हा सीतेति मुहुर्मुहुः । हृदि निक्षिप्य तत्सर्वं रुरोद प्राकृतो यथा ॥ ४१॥

आश्वास्य राघवं भ्राता लक्ष्मणो वाक्यमब्रवीत् । अचिरेणैव ते राम प्राप्यते जानकी शुभा । वानरेन्द्रसहायेन हत्वा रावणमाहवे ॥ ४२॥

सुग्रीवोऽप्याह हे राम प्रतिज्ञां करवाणि ते । समरे रावणं हत्वा तव दास्यामि जानकीम् ॥ ४३॥

ततो हनूमान् प्रज्वाल्य तयोरग्निं समीपतः । तावुभौ रामसुग्रीवावग्नौ साक्षिणि तिष्ठति ॥ ४४॥

बाहू प्रसार्य चालिङ्ग्य परस्परमकल्मषौ । समीपे रघुनाथस्य सुग्रीवः समुपाविशत् ॥ ४५॥

स्वोदन्तं कथयामास प्रणयाद्रघुनायके । सखे शृणु ममोदन्तं वालिना यत्कृतं पुरा ॥ ४६॥

मयपुत्रोऽथ मायावी नाम्ना परमदुर्मदः । किष्किन्धां समुपागत्य वालिनं समुपाह्वयत् ॥ ४७॥

सिंहनादेन महता वाली तु तदमर्षणः । निर्ययौ क्रोधताम्राक्षो जघान दृढमुष्टिना ॥ ४८॥

दुद्राव तेन संविग्नो जगाम स्वगुहां प्रति । अनुदुद्राव तं वाली मायाविनमहं तथा ॥ ४९॥

ततः प्रविष्टमालोक्य गुहां मायाविनं रुषा । वाली मामाह तिष्ठ त्वं बहिर्गच्छाम्यहं गुहाम् । इत्युक्त्वाविश्य स गुहां मासमेकं न निर्ययौ ॥ ५०॥

मासादूर्ध्वं गुहाद्वारान्निर्गतं रुधिरं बहु । तद्दृष्ट्वा परितप्ताङ्गो मृतो वालीति दुःखितः ॥ ५१॥

गुहाद्वारि शिलामेकां निधाय गृहमागतः । ततोऽब्रवं मृतो वाली गुहायां रक्षसा हतः ॥ ५२॥

तच्छ्रुत्वा दुःखिताः सर्वे मामनिच्छन्तमप्युत । राज्येऽभिषेचनं चक्रुः सर्वे वानरमन्त्रिणः ॥ ५३॥

शिष्टं तदा मया राज्यं किञ्चित्कालमरिन्दम । ततः समागतो वाली मामाह परुषं रुषा ॥ ५४॥

बहुधा भर्त्सयित्वा मां निजघान च मुष्टिभिः । ततो निर्गत्य नगरादधावं परया भिया ॥ ५५॥

लोकान् सर्वान् परिक्रम्य ऋष्यमूकं समाश्रितः । ऋषेः शापभयात्सोऽपि नायातीमं गिरिं प्रभो ॥ ५६॥

तदादि मम भार्यां स स्वयं भुङ्क्ते विमूढधीः । अतो दुःखेन सन्तप्तो हृतदारो हृताश्रयः ॥ ५७॥

वसाम्यद्य भवत्पादसंस्पर्शात्सुखितोऽस्म्यहम् । मित्रदुःखेन सन्तप्तो रामो राजीवलोचनः ॥ ५८॥

हनिष्यामि तव द्वेष्यं शीघ्रं भार्यापहारिणम् । इति प्रतिज्ञामकरोत्सुग्रीवस्य पुरस्तदा ॥ ५९॥

सुग्रीवोऽप्याह राजेन्द्र वाली बलवतां बली । कथं हनिष्यति भवान् देवैरपि दुरासदम् ॥ ६०॥

शृणु ते कथयिष्यामि तद्बलं बलिनां वर । कदाचिद्दुन्दुभिर्नाम महाकायो महाबलः ॥ ६१॥

किष्किन्धामगमद्राम महामहिषरूपधृक् । युद्धाय वालिनं रात्रौ समाह्वयत भीषणः ॥ ६२॥

तच्छ्रुत्वाऽसहमानोऽसौ वाली परमकोपनः । महिषं शृङ्गयोर्धृत्वा पातयामास भूतले ॥ ६३॥

पादेनैकेन तत्कायमाक्रम्यास्य शिरो महत् । हस्ताभ्यां भ्रामयंश्छित्त्वा तोलयित्वाक्षिपद्भुवि ॥ ६४॥

पपात तच्छिरो राम मातङ्गाश्रमसन्निधौ । योजनात्पतितं तस्मान्मुनेराश्रममण्डले ॥ ६५॥

रक्तवृष्टिः पपातोच्चैर्दृष्ट्वा तां क्रोधमूर्च्छितः । मातङ्गो वालिनं प्राह यद्यागन्तासि मे गिरिम् ॥ ६६॥

इतः परं भग्नशिरा मरिष्यसि न संशयः । एवं शप्तस्तदारभ्य ऋष्यमूकं न यात्यसौ ॥ ६७॥

एतज्ज्ञात्वाहमप्यत्र वसामि भयवर्जितः । राम पश्य शिरस्तस्य दुन्दुभेः पर्वतोपमम् ॥ ६८॥

तत्क्षेपणे यदा शक्तः शक्तस्त्वं वालिनो वधे । इत्युक्त्वा दर्शयामास शिरस्तद्गिरिसन्निभम् ॥ ६९॥

दृष्ट्वा रामः स्मितं कृत्वा पादाङ्गुष्ठेन चाक्षिपत् । दशयोजनपर्यन्तं तदद्भुतमिवाभवत् ॥ ७०॥

साधु साध्विति सम्प्राह सुग्रीवो मन्त्रिभिः सह । पुनरप्याह सुग्रीवो रामं भक्तपरायणम् ॥ ७१॥

एते ताला महासाराः सप्त पश्य रघूत्तम । एकैकं चालयित्वासौ निष्पत्रान् कुरुतेऽञ्जसा ॥ ७२॥

यदि त्वमेकबाणेन विद्ध्वा छिद्रं करोषि चेत् । हतस्त्वया तदा वाली विश्वासो मे प्रजायते । तथेति धनुरादाय सायकं तत्र सन्दधे ॥ ७३॥

बिभेद च तदा रामः सप्त तालान् महाबलः । तालान् सप्त विनिर्भिद्य गिरिं भूमिं च सायकः ॥ ७४॥

पुनरागत्य रामस्य तूणीरे पूर्ववत्स्थितः । ततोऽतिहर्षात्सुग्रीवो राममाहातिविस्मितः ॥ ७५॥

देव त्वं जगतां नाथः परमात्मा न संशयः । मत्पूर्वकृतपुण्यौघैः सङ्गतोऽद्य मया सह ॥ ७६॥

त्वां भजन्ति महात्मानः संसारविनिवृत्तये । त्वां प्राप्य मोक्षसचिवं प्रार्थयेऽहं कथं भवम् ॥ ७७॥

दाराः पुत्रा धनं राज्यं सर्वं त्वन्मायया कृतम् । अतोऽहं देवदेवेश नाकाङ्क्षेऽन्यत्प्रसीद मे ॥ ७८॥

आनन्दानुभवं त्वाद्य प्राप्तोऽहं भाग्यगौरवात् । मृदर्थं यतमानेन निधानमिव सत्पते ॥ ७९॥

अनाद्यविद्यासंसिद्धं बन्धनं छिन्नमद्य नः । यज्ञदानतपःकर्मपूर्तेष्टादिभिरप्यसौ ॥ ८०॥

न जीर्यते पुनर्दार्ढ्यं भजते संसृतिः प्रभो । त्वत्पाददर्शनात्सद्यो नाशमेति न संशयः ॥ ८१॥

क्षणार्धमपि यच्चित्तं त्वयि तिष्ठत्यचञ्चलम् । तस्याज्ञानमनर्थानां मूलं नश्यति तत्क्षणात् ॥ ८२॥

तत्तिष्ठतु मनो राम त्वयि नान्यत्र मे सदा ॥ ८३॥

रामरामेति यद्वाणी मधुरं गायति क्षणम् । स ब्रह्महा सुरापो वा मुच्यते सर्वपातकैः ॥ ८४॥

न काङ्क्षे विजयं राम न च दारसुखादिकम् । भक्तिमेव सदा काङ्क्षे त्वयि बन्धविमोचनीम् ॥ ८५॥

त्वन्मायाकृतसंसारस्त्वदंशोऽहं रघूत्तम । स्वपादभक्तिमादिश्य त्राहि मां भवसङ्कटात् ॥ ८६॥

पूर्वं मित्रार्युदासीनास्त्वन्मायावृतचेतसः । आसन्मेऽद्य भवत्पाददर्शनादेव राघव ॥ ८७॥

सर्वं ब्रह्मैव मे भाति क्व मित्रं क्व च मे रिपुः । यावत्त्वन्मायया बद्धस्तावद्गुणविशेषता ॥ ८८॥

सा यावदस्ति नानात्वं तावद्भवति नान्यथा । यावन्नानात्वमज्ञानात्तावत्कालकृतं भयम् ॥ ८९॥

अतोऽविद्यामुपास्ते यः सोऽन्धे तमसि मज्जति । मायामूलमिदं सर्वं पुत्रदारादिबन्धनम् । तदुत्सारय मायां त्वं दासीं तव रघूत्तम ॥ ९०॥

त्वत्पादपद्मार्पितचित्तवृत्ति-

      स्त्वन्नामसङ्गीतकथासु वाणी ।

त्वद्भक्तसेवानिरतौ करौ मे

      त्वदङ्गसङ्गं लभतां मदङ्गम् ॥ ९१॥

त्वन्मूर्तिभक्तान् स्वगुरुं च चक्षुः

      पश्यत्वजस्रं स शृणोतु कर्णः ।

त्वज्जन्मकर्माणि च पादयुग्मं

      व्रजत्वजस्रं तव मन्दिराणि ॥ ९२॥

अङ्गानि ते पादरजोविमिश्र-

      तीर्थानि बिभ्रत्वहिशत्रुकेतो ।

शिरस्त्वदीयं भवपद्मजाद्यै-

      र्जुष्टं पदं राम नमत्वजस्रम् ॥ ९३॥

इति श्रीमदध्यात्मरामायणे उमामहेश्वरसंवादे किष्किन्धाकाण्डे प्रथमः सर्गः ॥ १॥

________________________________________

॥ द्वितीय सर्गः ॥ इत्थं स्वात्मपरिष्वङ्गनिर्धूताशेषकल्मषम् । रामः सुग्रीवमालोक्य सस्मितं वाक्यमब्रवीत् ॥ १॥

मायां मोहकरीं तस्मिन् वितन्वन् कार्यसिद्धये । सखे त्वदुक्तं यत्तन्मां सत्यमेव न संशयः ॥ २॥

किन्तु लोका वदिष्यन्ति मामेवं रघुनन्दनः । कृतवान् किं कपीन्द्राय सख्यं कृत्वाग्निसाक्षिकम् ॥ ३॥

इति लोकापवादो मे भविष्यति न संशयः । तस्मादाह्वय भद्रं ते गत्वा युद्धाय वालिनम् ॥ ४॥

बाणेनैकेन तं हत्वा राज्ये त्वामभिषेचये । तथेति गत्वा सुग्रीवः किष्किन्धोपवनं द्रुतम् ॥ ५॥

कृत्वा शब्दं महानादं तमाह्वयत वालिनम् । तच्छ्रुत्वा भ्रातृनिनदं रोषताम्रविलोचनः ॥ ६॥

निर्जगाम गृहाच्छीघ्रं सुग्रीवो यत्र वानरः । तमापतन्तं सुग्रीवः शीघ्रं वक्षस्यताडयत् ॥ ७॥

सुग्रीवमपि मुष्टिभ्यां जघान क्रोधमूर्छितः । वाली तमपि सुग्रीव एवं क्रुद्धौ परस्परम् ॥ ८॥

अयुद्ध्येतामेकरूपौ दृष्ट्वा रामोऽतिविस्मितः । न मुमोच तदा बाणं सुग्रीववधशङ्कया ॥ ९॥

ततो दुद्राव सुग्रीवो वमन् रक्तं भयाकुलः । वाली स्वभवनं यातः सुग्रीवो राममब्रवीत् ॥ १०॥

किं मां घातयसे राम शत्रुणा भ्रातृरूपिणा । यदि मद्धनने वाञ्छा त्वमेव जहि मां विभो ॥ ११॥

एवं मे प्रत्ययं कृत्वा सत्यवादिन् रघूत्तम । उपेक्षसे किमर्थं मां शरणागतवत्सल ॥ १२॥

श्रुत्वा सुग्रीववचनं रामः साश्रुविलोचनः । आलिङ्ग्य मा स्म भैषीस्त्वं दृष्ट्वा वामेकरूपिणौ ॥ १३॥

मित्रघातित्वमाशङ्क्य मुक्तवान् सायकं न हि । इदानीमेव ते चिह्नं करिष्ये भ्रमशान्तये ॥ १४॥

गत्वाह्वय पुनः शत्रुं हतं द्रक्ष्यसि वालिनम् । रामोऽहं त्वां शपे भ्रातर्हनिष्यामि रिपुं क्षणात् ॥ १५॥

इत्याश्वास्य स सुग्रीवं रामो लक्ष्मणमब्रवीत् । सुग्रीवस्य गले पुष्पमालामामुच्य पुष्पिताम् ॥ १६॥

प्रेषयस्व महाभाग सुग्रीवं वालिनं प्रति । लक्ष्मणस्तु तदा बद्ध्वा गच्छ गच्छेति सादरम् ॥ १७॥

प्रेषयामास सुग्रीवं सोऽपि गत्वा तथाकरोत् । पुनरप्यद्भुतं शब्दं कृत्वा वालिनमाह्वयत् ॥ १८॥

तच्छ्रुत्वा विस्मितो वाली क्रोधेन महतावृतः । बद्ध्वा परिकरं सम्यग्गमनायोपचक्रमे ॥ १९॥

गच्छन्तं वालिनं तारा गृहीत्वा निषिषेध तम् । न गन्तव्यं त्वयेदानीं शङ्का मेऽतीव जायते ॥ २०॥

इदानीमेव ते भग्नः पुनरायाति सत्वरः । सहायो बलवांस्तस्य कश्चिन्नूनं समागतः ॥ २१॥

वाली तामाह हे सुभ्रु शङ्का ते व्येतु तद्गता । प्रिये करं परित्यज्य गच्छ गच्छामि तं रिपुम् ॥ २२॥

हत्वा शीघ्रं समायास्ये सहायस्तस्य को भवेत् । सहायो यदि सुग्रीवस्ततो हत्वोभयं क्षणात् ॥ २३॥

आयास्ये मा शुचः शूरः कथं तिष्ठेद् गृहे रिपुम् । ज्ञात्वाप्याह्वयमानं हि हत्वायास्यामि सुन्दरि ॥ २४॥

          तारोवाच

मत्तोऽन्यच्छृणु राजेन्द्र श्रुत्वा कुरु यथोचितम् । आह मामङ्गदः पुत्रो मृगयायां श्रुतं वचः ॥ २५॥

अयोध्याधिपतिः श्रीमान् रामो दाशरथिः किल । लक्ष्मणेन सह भ्रात्रा सीतया भार्यया सह ॥ २६॥

आगतो दण्डकारण्यं तत्र सीता हृता किल । रावणेन सह भ्रात्रा मार्गमाणोऽथ जानकीम् ॥ २७॥

आगतो ऋष्यमूकाद्रिं सुग्रीवेण समागतः । चकार तेन सुग्रीवः सख्यं चानलसाक्षिकम् ॥ २८॥

प्रतिज्ञां कृतवान् रामः सुग्रीवाय सलक्ष्मणः । वालिनं समरे हत्वा राजानं त्वां करोम्यहम् ॥ २९॥

इति निश्चित्य तौ यातौ निश्चितं शृणु मद्वचः । इदानीमेव ते भग्नः कथं पुनरुपागतः ॥ ३०॥

अतस्त्वं सर्वथा वैरं त्यक्त्वा सुग्रीवमानय । यौवराज्येऽभिषिञ्चाशु रामं त्वं शरणं व्रज ॥ ३१॥

पाहि मामङ्गदं राज्यं कुलं च हरिपुङ्गव । इत्युक्त्वाश्रुमुखी तारा पादयोः प्रणिपत्य तम् ॥ ३२॥

हस्ताभ्यां चरणौ धृत्वा रुरोद भयविह्वला । तामालिङ्ग्य तदा वाली सस्नेहमिदमब्रवीत् ॥ ३३॥

स्त्रीस्वभावाद्बिभेषि त्वं प्रिये नास्ति भयं मम । रामो यदि समायातो लक्ष्मणेन समं प्रभुः ॥ ३४॥

तदा रामेण मे स्नेहो भविष्यति न संशयः । रामो नारायणः साक्षादवतीर्णोऽखिलप्रभुः ॥ ३५॥

भूभारहरणार्थाय श्रुतं पूर्वं मयानघे । स्वपक्षः परपक्षो वा नास्ति तस्य परात्मनः ॥ ३६॥

आनेष्यामि गृहं साध्वि नत्वा तच्चरणाम्बुजम् । भजतोऽनुभजत्येष भक्तिगम्यः सुरेश्वरः ॥ ३७॥

यदि स्वयं समायाति सुग्रीवो हन्मि तं क्षणात् । यदुक्तं यौवराज्याय सुगीवस्याभिषेचनम् ॥ ३८॥

कथमाहूयमानोऽहं युद्धाय रिपुणा प्रिये । शूरोऽहं सर्वलोकानां सम्मतः शुभलक्षणे ॥ ३९॥

भीतभीतमिदं वाक्यं कथं वाली वदेत्प्रिये । तस्माच्छोकं परित्यज्य तिष्ठ सुन्दरि वेश्मनि ॥ ४०॥

एवमाश्वास्य तारां तां शोचन्तीमश्रुलोचनाम् । गतो वाली समुद्युक्तः सुग्रीवस्य वधाय सः ॥ ४१॥

दृष्ट्वा वालिनमायान्तं सुग्रीवो भीमविक्रमः । उत्पपात गले बद्धपुष्पमालो मतङ्गवत् ॥ ४२॥

मुष्टिभ्यां ताडयामास वालिनं सोऽपि तं तथा । अहन्वाली च सुग्रीवं सुग्रीवो वालिनं तथा ॥ ४३॥

रामं विलोकयन्नेव सुग्रीवो युयुधे युधि । इत्येवं युद्ध्यमानौ तौ दृष्ट्वा रामः प्रतापवान् ॥ ४४॥

बाणमादाय तूणीरादैन्द्रे धनुषि सन्दधे । आकृष्य कर्णपर्यन्तमदृश्यो वृक्षखण्डगः ॥ ४५॥

निरीक्ष्य वालिनं सम्यग्लक्ष्यं तद्धृदयं हरिः । उत्ससर्जाशनिसमं महावेगं महाबलः ॥ ४६॥

बिभेद स शरो वक्षो वालिनः कम्पयन् महीम् । उत्पपात महाशब्दं मुञ्चन् स निपपात ह ॥ ४७॥

तदा मुहूर्त्तं निःसन्ज्ञो भूत्वा चेतनमाप सः । ततो वाली ददर्शाग्रे रामं राजीवलोचनम् । धनुरालम्ब्य वामेन हस्तेनान्येन सायकम् ॥ ४८॥

बिभ्राणं चीरवसनं जटामुकुटधारिणम् । विशालवक्षसं भ्राजद्वनमालाविभूषितम् ॥ ४९॥

पीनचार्वायतभूजं नवदूर्वादलच्छविम् । सुग्रीवलक्ष्मणाभ्यां च पार्श्वयोः परिसेवितम् ॥ ५०॥

विलोक्य शनकैः प्राह वाली रामं विगर्हयन् । किं मयापकृतं राम तव येन हतोऽस्म्यहम् ॥ ५१॥

राजधर्ममविज्ञाय गर्हितं कर्म ते कृतम् । वृक्षखण्डे तिरोभूत्वा त्यजता मयि सायकम् ॥ ५२॥

यशः किं लप्स्यसे राम चोरवत्कृतसङ्गरः । यदि क्षत्रियदायादो मनोर्वंशसमुद्भवः ॥ ५३॥

युद्धं कृत्वा समक्षं मे प्राप्यसे तत्फलं तदा । सुग्रीवेण कृतं किं ते मया वा न कृतं किमु ॥ ५४॥

रावणेन हृता भार्या तव राम महावने । सुग्रीवं शरणं यातस्तदर्थमिति शुश्रुम ॥ ५५॥

बत राम न जानीषे मद्बलं लोकविश्रुतम् । रावणं सकुलं बद्ध्वा ससीतं लङ्कया सह ॥ ५६॥

आनयामि मुहूर्त्तार्द्धाद्यदि चेच्छामि राघव । धर्मिष्ठ इति लोकेऽस्मिन् कथ्यसे रघुनन्दन ॥ ५७॥

वानरं व्याधवद्धत्वा धर्मं कं लप्स्यसे वद । अभक्ष्यं वानरं मांसं हत्वा मां किं करिष्यसि ॥ ५८॥

इत्येवं बहु भाषन्तं वालिनं राघवोऽब्रवीत् । धर्मस्य गोप्ता लोकेऽस्मिंश्चरामि सशरासनः ॥ ५९॥

अधर्मकारिणं हत्वा सद्धर्मं पालयाम्यहम् । दुहिता भगिनी भ्रातुर्भार्या चैव तथा स्नुषा ॥ ६०॥

समा यो रमते तासामेकामपि विमूढधीः । पातकी स तु विज्ञेयः स वध्यो राजभिः सदा ॥ ६१॥

त्वं तु भ्रातुः कनिष्ठस्य भार्यायां रमसे बलात् । अतो मया धर्मविदा हतोऽसि वनगोचर ॥ ६२॥

त्वं कपित्वान्न जानीषे महान्तो विचरन्ति यत् । लोकं पुनानाः सञ्चारैरतस्तान्नातिभाषयेत् ॥ ६३॥

तच्छ्रुत्वा भयसन्त्रस्तो ज्ञात्वा रामं रमापतिम् । वाली प्रणम्य रभसाद्रामं वचनमब्रवीत् ॥ ६४॥

राम राम महाभाग जाने त्वां परमेश्वरम् । अजानता मया किञ्चिदुक्तं तत्क्षन्तुमर्हसि ॥ ६५॥

साक्षात्त्वच्छरघातेन विशेषेण तवाग्रतः । त्यजाम्यसून् महायोगिदुर्लभं तव दर्शनम् ॥ ६६॥

यन्नाम विवशो गृह्णन् म्रियमाणः परं पदम् । याति साक्षात्स एवाद्य मुमूर्षोर्मे पुरः स्थितः ॥ ६७॥

देव जानामि पुरुषं त्वां श्रियं जानकीं शुभाम् । रावणस्य वधार्थाय जातं त्वां ब्रह्मणार्थितम् ॥ ६८॥

अनुजानीहि मां राम यान्तं त्वत्पदमुत्तमम् । मम तुल्यबले बाले अङ्गदे त्वं दयां कुरु ॥ ६९॥

विशल्यं कुरु मे राम हृदयं पाणिना स्पृशन् । तथेति बाणमुद्धृत्य रामः पस्पर्श पाणिना । त्यक्त्वा तद्वानरं देहममरेन्द्रोऽभवत्क्षणात् ॥ ७०॥

वाली रघूत्तमशराभिहतो विमृष्टो

          रामेण शीतलकरेण सुखाकरेण ।

सद्यो विमुच्य कपिदेहमनन्यलभ्यं

          प्राप्तं पदं परमहंसगणैर्दुरापम् ॥ ७१॥

इति श्रीमदध्यात्मरामायणे उमामहेश्वरसंवादे किष्किन्धाकाण्डे द्वितीयः सर्गः ॥ २॥

________________________________________

॥ तृतीय सर्गः ॥ निहते वालिनि रणे रामेण परमात्मना । दुद्रुवुर्वानराः सर्वे किष्किन्धां भयविह्वलाः ॥ १॥

तारामूचुर्महाभागे हतो वाली रणाजिरे । अङ्गदं परिरक्षाद्य मन्त्रिणः परिनोदय ॥ २॥

चतुर्द्वारकपाटादीन् बद्ध्वा रक्षामहे पुरीम् । वानराणां तु राजानमङ्गदं कुरु भामिनि ॥ ३॥

निहतं वालिनं श्रुत्वा तारा शोकविमूर्छिता । अताडयत्स्वपाणिभ्यां शिरो वक्षश्च भूरिशः ॥ ४॥

किमङ्गदेन राज्येन नगरेण धनेन वा । इदानीमेव निधनं यास्यामि पतिना सह ॥ ५॥

इत्युक्त्वा त्वरिता तत्र रुदती मुक्तमूर्धजा । ययौ ताराऽतिशोकार्ता यत्र भर्तृकलेवरम् ॥ ६॥

पतितं वालिनं दृष्ट्वा रक्तैः पांसुभिरावृतम् । रुदती नाथनाथेति पतिता तस्य पादयोः ॥ ७॥

करुणं विलपन्ती सा ददर्श रघुनन्दनम् । राम मां जहि बाणेन येन वाली हतस्त्वया ॥ ८॥

गच्छामि पतिसालोक्यं पतिर्मामभिकाङ्क्षते । स्वर्गेऽपि न सुखं तस्य मां विना रघुनन्दन ॥ ९॥

पत्नीवियोगजं दुःखमनुभूतं त्वयानघ । वालिने मां प्रयच्छाशु पत्नीदानफलं भवेत् ॥ १०॥

सुग्रीव त्वं सुखं राज्यं दापितं वालिघातिना । रामेण रुमया सार्धं भुङ्क्ष्व सापत्नवर्जितम् ॥ ११॥

इत्येवं विलपन्तीं तां तारां रामो महामनाः । सान्त्वयामास दयया तत्त्वज्ञानोपदेशतः ॥ १२॥

किं भीरु शोचसि व्यर्थं शोकस्याविषयं पतिम् । पतिस्तवायं देहो वा जीवो वा वद तत्त्वतः ॥ १३॥

पञ्चात्मको जडो देहस्त्वङ्मांसरुधिरास्थिमान् । कालकर्मगुणोत्पन्नः सोऽप्यास्तेऽद्यापि ते पुरः ॥ १४॥

मन्यसे जीवमात्मानं जीवस्तर्हि निरामयः । न जायते न म्रियते न तिष्ठति न गच्छति ॥ १५॥

न स्त्री पुमान्वा षण्ढो वा जीवः सर्वगतोऽव्ययः । एक एवाद्वितीयोऽयमाकाशवदलेपकः । नित्यो ज्ञानमयः शुद्धः स कथं शोकमर्हति ॥ १६॥

        तारोवाच

देहोऽचित्काष्ठवद्राम जीवो नित्यश्चिदात्मकः । सुखदुःखादिसम्बन्धः कस्य स्याद्राम मे वद ॥ १७॥

        श्रीराम उवाच ।

अहङ्कारादिसम्बन्धो यावद्देहेन्द्रियैः सह । संसारस्तावदेव स्यादात्मनस्त्वविवेकिनः ॥ १८॥

मिथ्यारोपितसंसारो न स्वयं विनिवर्तते । विषयान् ध्यायमानस्य स्वप्ने मिथ्यागमो यथा ॥ १९॥

अनाद्यविद्यासम्बन्धात्तत्कार्याहङ्कृतेस्तथा । संसारोऽपार्थकोऽपि स्याद्रागद्वेषादिसङ्कुलः ॥ २०॥

मन एव हि संसारो बन्धश्चैव मनः शुभे । आत्मा मनःसमानत्वमेत्य तद्गतबन्धभाक् ॥ २१॥

यथा विशुद्धः स्फटिकोऽलक्तकादिसमीपगः । तत्तद्वर्णयुगाभाति वस्तुतो नास्ति रञ्जनम् ॥ २२॥

बुद्धीन्द्रियादिसामीप्यादात्मनः संसृतिर्बलात् । आत्मा स्वलिङ्गं तु मनः परिगृह्य तदुद्भवान् ॥ २३॥

कामान् जुषन् गुणैर्बद्धः संसारे वर्ततेऽवशः । आदौ मनोगुणान् सृष्ट्वा ततः कर्माण्यनेकधा ॥ २४॥

शुक्ललोहितकृष्णानि गतयस्तत्समानतः । एवं कर्मवशाज्जीवो भ्रमत्याभूतसम्प्लवम् ॥ २५॥

सर्वोपसंहृतौ जीवो वासनाभिः स्वकर्मभिः । अनाद्यविद्यावशगस्तिष्ठत्यभिनिवेशतः ॥ २६॥

सृष्टिकाले पुनः पूर्ववासनामानसैः सह । जायते पुनरप्येवं घटीयन्त्रमिवावशः ॥ २७॥

यदा पुण्यविशेषेण लभते सङ्गतिं सताम् । मद्भक्तानां सुशान्तानां तदा मद्विषया मतिः ॥ २८॥

मत्कथाश्रवणे श्रद्धा दुर्लभा जायते ततः । ततः स्वरूपविज्ञानमनायासेन जायते ॥ २९॥

तदाचार्यप्रसादेन वाक्यार्थज्ञानतः क्षणात् । देहेन्द्रियमनःप्राणाहङ्कृतिभ्यः पृथक् स्थितम् ॥ ३०॥

स्वात्मानुभवतः सत्यमानन्दात्मानमद्वयम् । ज्ञात्वा सद्यो भवेन्मुक्तः सत्यमेव मयोदितम् ॥ ३१॥

एवं मयोदितं सम्यगालोचयति योऽनिशम् । तस्य संसारदुःखानि न स्पृशन्ति कदाचन ॥ ३२॥

त्वमप्येतन्मया प्रोक्तमालोचय विशुद्धधीः । न स्पृश्यसे दुःखजालैः कर्मबन्धाद्विमोक्ष्यसे ॥ ३३॥

पूर्वजन्मनि ते सुभ्रु कृता मद्भक्तिरुत्तमा । अतस्तव विमोक्षाय रूपं मे दर्शितं शुभे ॥ ३४॥

ध्यात्वा मद्रूपमनिशमालोचय मयोदितम् । प्रवाहपतितं कार्यं कुर्वन्त्यपि न लिप्यसे ॥ ३५॥

श्रीरामेणोदितं सर्वं श्रुत्वा तारातिविस्मिता । देहाभिमानजं शोकं त्यक्त्वा नत्वा रघूत्तमम् ॥ ३६॥

आत्मानुभवसन्तुष्टा जीवन्मुक्ता बभूव ह । क्षणसङ्गममात्रेण रामेण परमात्मना ॥ ३७॥

अनादिबन्धं निर्धूय मुक्ता सापि विकल्मषा । सुग्रीवोऽपि च तच्छ्रुत्वा रामवक्त्रात्समीरितम् ॥ ३८॥

जहावज्ञानमखिलं स्वस्थचित्तोऽभवत्तदा । ततः सुग्रीवमाहेदं रामो वानरपुङ्गवम् ॥ ३९॥

भ्रातुर्ज्येष्ठस्य पुत्रेण यदुक्तं साम्परायिकम् । कुरु सर्वं यथान्यायं संस्कारादि ममाज्ञया ॥ ४०॥

तथेति बलिभिर्मुख्यैर्वानरैः परिणीय तम् । वालिनं पुष्पके क्षिप्त्वा सर्वराजोपचारकैः ॥ ४१॥

भेरीदुन्दुभिनिर्घोषैर्ब्राह्मणैर्मन्त्रिभिः सह । यूथपैर्वानरैः पौरैस्तारया चाङ्गदेन च ॥ ४२॥

गत्वा चकार तत्सर्वं यथाशास्त्रं प्रयत्नतः । स्नात्वा जगाम रामस्य समीपं मन्त्रिभिः सह ॥ ४३॥

नत्वा रामस्य चरणौ सुग्रीवः प्राह हृष्टधीः । राज्यं प्रशाधि राजेन्द्र वानराणां समृद्धिमत् ॥ ४४॥

दासोऽहं ते पादपद्मं सेवे लक्ष्मणवच्चिरम् । इत्युक्तो राघवः प्राह सुग्रीवं सस्मितं वचः ॥ ४५॥

त्वमेवाहं न सन्देहः शीघ्रं गच्छ ममाज्ञया । पुरराज्याधिपत्ये त्वं स्वात्मानमभिषेचय ॥ ४६॥

नगरं न प्रवेक्ष्यामि चतुर्दश समाः सखे । आगमिष्यति मे भ्राता लक्ष्मणः पत्तनं तव ॥ ४७॥

अङ्गदं यौवराज्ये त्वमभिषेचय सादरम् । अहं समीपे शिखरे पर्वतस्य सहानुजः ॥ ४८॥

वत्स्यामि वर्षदिवसांस्ततस्त्वं यत्नवान् भव । किञ्चित्कालं पुरे स्थित्वा सीतायाः परिमार्गणे ॥ ४९॥

साष्टाङ्गं प्रणिपत्याह सुग्रीवो रामपादयोः । यदाज्ञापयसे देव तत्तथैव करोम्यहम् ॥ ५०॥

अनुज्ञातश्च रामेण सुग्रीवस्तु सलक्ष्मणः । गत्वा पुरं तथा चक्रे यथा रामेण चोदितः ॥ ५१॥

सुग्रिवेण यथान्यायं पूजितो लक्ष्मणस्तदा । आगत्य राघवं शीघ्रं प्रणिपत्योपतस्थिवान् ॥ ५२॥

ततो रामो जगामाशु लक्ष्मणेन समन्वितः । प्रवर्षणगिरेरूर्ध्वं शिखरं भूरिविस्तरम् ॥ ५३॥

तत्रैकं गह्वरं दृष्ट्वा स्फाटिकं दीप्तिमच्छुभम् । वर्षवातातपसहं फलमूलसमीपगम् । वासाय रोचयामास तत्र रामः सलक्ष्मणः ॥ ५४॥

दिव्यमूलफलपुष्पसंयुते मौक्तिकोपमजलौघपल्वले । चित्रवर्णमृगपक्षिशोभिते पर्वते रघुकुलोत्तमोऽवसत् ॥ ५५॥

इति श्रीमदध्यात्मरामायणे उमामहेश्वरसंवादे किष्किन्धाकाण्डे तृतीयः सर्गः ॥ ३॥

________________________________________

॥चतुर्थ सर्गः ॥ तत्र वार्षिकदिनानि राघवो लीलया मणिगुहासु सञ्चरन् । पक्वमूलफलभोगतोषितो लक्ष्मणेन सहितोऽवसत्सुखम् ॥ १॥

वातनुन्नजलपूरितमेघानन्तरस्तनितवैद्युतगर्भान् । वीक्ष्य विस्मयमगाद्गजयूथान् यद्वदाहितसुकाञ्चनकक्षान् ॥ २॥

नवघासं समास्वाद्य हृष्टपुष्टमृगद्विजाः । धावन्तो परितो रामं वीक्ष्य विस्फारितेक्षणाः ॥ ३॥

न चलन्ति सदा ध्याननिष्ठा इअव मुनीश्वराः । रामं मानुषरूपेण गिरिकाननभूमिषु ॥ ४॥

चरन्तं परमात्मानं ज्ञात्वा सिद्धगणा भुवि । मृगपक्षिगणा भूत्वा राममेवानुसेविरे ॥ ५॥

सौमित्रिरेकदा राममेकान्ते ध्यानतत्परम् । समाधिविरमे भक्त्या प्रणयाद्विनयान्वितः ॥ ६॥

अब्रवीद्देव ते वाक्यात्पूर्वोक्ताद्विगतो मम । अनाद्यविद्यासम्भूतः संशयो हृदि संस्थितः ॥ ७॥

इदानीं श्रोतुमिच्छामि क्रियामार्गेण राघव । भवदाराधनं लोके यथा कुर्वन्ति योगिनः ॥ ८॥

इदमेव सदा प्राहुर्योगिनो मुक्तिसाधनम् । नारदोऽपि तथा व्यासो ब्रह्मा कमलसम्भवः ॥ ९॥

ब्रह्मक्षत्रादिवर्णानामाश्रमाणां च मोक्षदम् । स्त्रीशूद्राणां च राजेन्द्र सुलभं मुक्तिसाधनम् । तव भक्ताय मे भ्रात्रे ब्रूहि लोकोपकारकम् ॥ १०॥

        श्रीराम उवाच ।

मम पूजाविधानस्य नान्तोऽस्ति रघुनन्दन । तथापि वक्ष्ये सङ्क्षेपाद्यथावदनुपूर्वशः ॥ ११॥

स्वगृह्योक्तप्रकारेण द्विजत्वं प्राप्य मानवः । सकाशात्सद्गुरोर्मन्त्रं लब्ध्वा मद्भक्तिसंयुतः ॥ १२॥

तेन सन्दर्शितविधिर्मामेवाराधयेत्सुधीः । हृदये वाऽनले वार्चेत्प्रतिमादौ विभावसौ ॥ १३॥

शालग्रामशिलायां वा पूजयेन्मामतन्द्रितः । प्रातःस्नानं प्रकुर्वीत प्रथमं देहशुद्धये ॥ १४॥

वेदतन्त्रोदितैर्मन्त्रैर्मृल्लेपनविधानतः । सन्ध्यादि कर्म यन्नित्यं तत्कुर्याद्विधिना बुधः ॥ १५॥

सङ्कल्पमादौ कुर्वीत सिद्ध्यर्थं कर्मणां सुधीः । स्वगुरुं पूजयेद्भक्त्या मद्बुद्ध्या पूजको मम ॥ १६॥

शिलायां स्नपनं कुर्यात्प्रतिमासु प्रमार्जनम् । प्रसिद्धैर्गन्धपुष्पाद्यैर्मत्पूजा सिद्धिदायिका ॥ १७॥

अमायिकोऽनुवृत्त्या मां पूजयेन्नियतव्रतः । प्रतिमादिष्वलङ्कारः प्रियो मे कुलनन्दन ॥ १८॥

अग्नौ यजेत हविषा भास्करे स्थण्डिले यजेत् । भक्तेनोपहृतं प्रीत्यै श्रद्धया मम वार्यपि ॥ १९॥

किं पुनर्भक्ष्यभोज्यादि गन्धपुष्पाक्षतादिकम् । पूजाद्रव्याणि सर्वाणि सम्पाद्यैवं समारभेत् ॥ २०॥

चैलाजिनकुशैः सम्यगासनं परिकल्पयेत् । तत्रोपविश्य देवस्य सम्मुखे शुद्धमानसः ॥ २१॥

ततो न्यासं प्रकूर्वीत मातृकाबहिरान्तरम् । केशवादि ततः कुर्यात्तत्त्वन्यासं ततः परम् ॥ २२॥

मन्मूर्तिपञ्जरन्यासं मन्त्रन्यासं ततो न्यसेत् । प्रतिमादावपि तथा कुर्यान्नित्यमतन्द्रितः ॥ २३॥

कलशं स्वपुरो वामे क्षिपेत्पुष्पादि दक्षिणे । अर्घ्यपाद्यप्रदानार्थं मधुपर्कार्थमेव च ॥ २४॥

तथैवाचमनार्थं तु न्यसेत्पात्रचतुष्टयम् । हृत्पद्मे भानुविमले मत्कलां जीवसन्ज्ञिताम् ॥ २५॥

ध्यायेत्स्वदेहमखिलं तया व्याप्तमरिन्दम । तामेवावाहयेन्नित्यं प्रतिमादिषु मत्कलाम् ॥ २६॥

पाद्यार्घ्याचमनीयाद्यैः स्नानवस्त्रविभूषणैः । यावच्छक्योपचारैर्वा त्वर्चयेन्माममायया ॥ २७॥

विभवे सति कर्पूरकुङ्कुमागरुचन्दनैः । अर्चयेन्मन्त्रवन्नित्यं सुगन्धकुसुमैः शुभैः ॥ २८॥

दशावरणपूजां वै ह्यागमोक्तां प्रकारयेत् । नीराजनैर्धूपदीपैर्नैवेद्यैर्बहुविस्तरैः ॥ २९॥

श्रद्धयोपहरेन्नित्यं श्रद्धाभुगहमीश्वरः । होमं कुर्यात्प्रयत्नेन विधिना मन्त्रकोविदः ॥ ३०॥

अगस्त्येनोक्तमार्गेण कुण्डेनागमवित्तमः । जुहुयान्मूलमन्त्रेण पुंसूक्तेनाथवा बुधः ॥ ३१॥

अथवौपासनाग्नौ वा चरुणा हविषा तथा । तप्तजाम्बूनदप्रख्यं दिव्याभरणभूषितम् ॥ ३२॥

ध्यायेदनलमध्यस्थं होमकाले सदा बुधः । पार्षदेभ्यो बलिं दत्त्वा होमशेषं समापयेत् ॥ ३३॥

ततो जपं प्रकुर्वीत ध्यायेन्मां यतवाक् स्मरन् । मुखवासं च ताम्बूलं दत्त्वा प्रीतिसमन्वितः ॥ ३४॥

मदर्थे नृत्यगीतादि स्तुतिपाठादि कारयेत् । प्रणमेद्दण्डवद्भूमौ हृदये मां निधाय च ॥ ३५॥

शिरस्याधाय मद्दत्तं प्रसादं भावनामयम् । पाणिभ्यां मत्पदे मूर्ध्नि गृहीत्वा भक्तिसंयुतः ॥ ३६॥

रक्ष मां घोरसंसारादित्युक्त्वा प्रणमेत्सुधीः । उद्वासयेद्यथापूर्वं प्रत्यग्ज्योतिषि संस्मरन् ॥ ३७॥

एवमुक्तप्रकारेण पूजयेद्विधिवद्यदि । इहामूत्र च संसिद्धिं प्राप्नोति मदनुग्रहात् ॥ ३८॥

मद्भक्तो यदि मामेवं पूजां चैव दिने दिने । करोति मम सारूप्यं प्राप्नोत्येव न संशयः ॥ ३९॥

इदं रहस्यं परमं च पावनं

        मयैव साक्षात्कथितं सनातनम् ।

पठत्यजस्रं यदि वा शृणोति यः

        स सर्वपूजाफलभाङ् न संशयः ॥ ४०॥

एवं परात्मा श्रीरामः क्रियायोगमनुत्तमम् । पृष्टः प्राह स्वभक्ताय शेषांशाय महात्मने ॥ ४१॥

पुनः प्राकृतवद्रामो मायामालम्ब्य दुःखितः । हा सीतेति वदन्नैव निद्रां लेभे कथञ्चन ॥ ४२॥

एतस्मिन्नन्तरे तत्र किष्किन्धायां सुबुद्धिमान् । हनूमान् प्राह सुग्रीवमेकान्ते कपिनायकम् ॥ ४३॥

शृणु राजन् प्रवक्ष्यामि तवैव हितमुत्तमम् । रामेण ते कृतः पूर्वमुपकारो ह्यनुत्तमः ॥ ४४॥

कृतघ्नवत्त्वया नूनं विस्मृतः प्रतिभाति मे । त्वत्कृते निहतो वाली वीरस्त्रैलोक्यसम्मतः ॥ ४५॥

राज्ये प्रतिष्ठितोऽसि त्वं तारां प्राप्तोऽसि दुर्लभाम् । स रामः पर्वतस्याग्रे भ्रात्रा सह वसन् सुधीः ॥ ४६॥

त्वदागमनमेकाग्रमीक्षते कार्यगौरवात् । त्वं तु वानरभावेन स्त्रीसक्तो नावबुद्ध्यसे ॥ ४७॥

करोमीति प्रतिज्ञाय सीतायाः परिमार्गणम् । न करोषि कृतघ्नस्त्वं हन्यसे वालिवद्द्रुतम् ॥ ४८॥

हनूमद्वचनं श्रुत्वा सुग्रीवो भयविह्वलः । प्रत्युवाच हनूमन्तं सत्यमेव त्वयोदितम् ॥ ४९॥

शीघ्रं कुरु ममाज्ञां त्वं वानराणां तरस्विनाम् । सहस्राणि दशेदानीं प्रेषयाशु दिशो दश ॥ ५०॥

सप्तद्वीपगतान् सर्वान् वानरानानयन्तु ते । पक्षमध्ये समायान्तु सर्वे वानरपुङ्गवाः ॥ ५१॥

ये पक्षमतिवर्तन्ते ते वध्या मे न संशयः । इत्याज्ञाप्य हनूमन्तं सुग्रीवो गृहमाविशत् ॥ ५२॥

सुग्रीवाज्ञां पुरस्कृत्य हनूमान् मन्त्रिसत्तमः । तत्क्षणे प्रेषयामास हरीन् दश दिशः सुधीः ॥ ५३॥

अगणितगुणसत्त्वान् वायुवेगप्रचारान्

        वनचरगणमुख्यान् पर्वताकाररूपान् ।

पवनहितकुमारः प्रेषयामास दूता-

        नतिरभसतरात्मा दानमानादितृप्तान् ॥ ५४॥

इति श्रीमदध्यात्मरामायणे उमामहेश्वरसंवादे किष्किन्धाकाण्डे चतुर्थः सर्गः ॥ ४॥

________________________________________

॥पञ्चम सर्गः ॥ रामस्तु पर्वतस्याग्रे मणिसानौ निशामुखे । सीताविरहजं शोकमसहन्निदमब्रवीत् ॥ १॥

पश्य लक्ष्मण मे सीता राक्षसेन हृता बलात् । मृताऽमृता वा निश्चेतुं न जानेऽद्यापि भामिनीम् ॥ २॥

जीवतीति मम ब्रूयात्कश्चिद्वा प्रियकृत् स मे । यदि जानामि तां साध्वीं जीवन्तीं यत्र कुत्र वा ॥ ३॥

हठादेवाहरिष्यामि सुधामिव पयोनिधेः । प्रतिज्ञां शृणु मे भ्रातर्येन मे जनकात्मजा ॥ ४॥

नीता तं भस्मसात्कुर्यां सपुत्रबलवाहनम् । हे सीते चन्द्रवदने वसन्ती राक्षसालये ॥ ५॥

दुःखार्त्ता मामपश्यन्ती कथं प्राणान् धरिष्यसि । चन्द्रोऽपि भानुवद्भाति मम चन्द्राननां विना ॥ ६॥

चन्द्र त्वं जानकीं स्पृष्ट्वा करैर्मां स्पृश शीतलैः । सुग्रीवोऽपि दयाहीनो दुःखितं मां न पश्यति ॥ ७॥

राज्यं निष्कण्टकं प्राप्य स्त्रीभिः परिवृतो रहः । कृतघ्नो दृश्यते व्यक्तं पानासक्तोऽतिकामुकः ॥ ८॥

नायाति शरदं पश्यन्नपि मार्गयितुं प्रियाम् । पूर्वोपकारिणं दुष्टः कृतघ्नो विस्मृतो हि माम् ॥ ९॥

हन्मि सुग्रीवमप्येवं सपुरं सहबान्धवम् । वाली यथा हतो मेऽद्य सुग्रीवोऽपि तथा भवेत् ॥ १०॥

इति रुष्टं समालोक्य राघवं लक्ष्मणोऽब्रवीत् । इदानीमेव गत्वाहं सुग्रीवं दुष्टमानसम् ॥ ११॥

मामाज्ञापय हत्वा तमायास्ये राम तेऽन्तिकम् । इत्युक्त्वा धनुरादाय स्वयं तूणीरमेव च ॥ १२॥

गन्तुमभ्युद्यतं वीक्ष्य रामो लक्ष्मणमब्रवीत् । न हन्तव्यस्त्वया वत्स सुग्रीवो मे प्रियः सखा ॥ १३॥

किन्तु भीषय सुग्रीवं वालिवत्त्वं हनिष्यसे । इत्युक्त्वा शीघ्रमादाय सुग्रीवप्रतिभाषितम् ॥ १४॥

आगत्य पश्चाद्यत्कार्यं तत्करिष्याम्यसंशयम् । तथेति लक्ष्मणोऽगच्छत्त्वरितो भीमविक्रमः ॥ १५॥

किष्किन्धां प्रति कोपेन निर्दहन्निव वानरान् । सर्वज्ञो नित्यलक्ष्मीको विज्ञानात्मापि राघवः ॥ १६॥

सीतामनुशुशोचार्त्तः प्राकृतः प्राकृतामिव । बुद्ध्यादिसाक्षिणस्तस्य मायाकार्यातिवर्तिनः ॥ १७॥

रागादिरहितस्यास्य तत्कार्यं कथमुद्भवेत् । ब्रह्मणोक्तमृतं कर्तुं राज्ञो दशरथस्य हि ॥ १८॥

तपसः फलदानाय जातो मानुषवेषधृक् । मायया मोहिताः सर्वे जना अज्ञानसंयुताः ॥ १९॥

कथमेषां भवेन्मोक्ष इति विष्णुर्विचिन्तयन् । कथां प्रथयितुं लोके सर्वलोकमलापहाम् ॥ २०॥

रामायणाभिधां रामो भूत्वा मानुषचेष्टकः । क्रोधं मोहं च कामं च व्यवहारार्थसिद्धये ॥ २१॥

तत्तत्कालोचितं गृह्णन् मोहयत्यवशाः प्रजाः । अनुरक्त इवाशेषगुणेषु गुणवर्जितः ॥ २२॥

विज्ञानमूर्तिर्विज्ञानशक्तिः साक्ष्यगुणान्वितः । अतः कामादिभिर्नित्यमविलिप्तो यथा नभः ॥ २३॥

विन्दन्ति मुनयः केचिज्जानन्ति जनकादयः । तद्भक्ता निर्मलात्मानः सम्यग् जानन्ति नित्यदा । भक्तचित्तानुसारेण जायते भगवानजः ॥ २४॥

लक्ष्मणोऽपि तदा गत्वा किष्किन्धानगरान्तिकम् । ज्याघोषमकरोत्तीव्रं भीषयन् सर्ववानरान् ॥ २५॥

तं दृष्ट्वा प्राकृतास्तत्र वानरा वप्रमूर्धनि । चक्रुः किलकिलाशब्दं धृतपाषाणपादपाः ॥ २६॥

तान् दृष्ट्वा क्रोधताम्राक्षो वानरान् लक्ष्मणस्तदा । निर्मूलान् कर्तुमुद्युक्तो धनुरानम्य वीर्यवान् ॥ २७॥

ततः शीघ्रं समाप्लुत्य ज्ञात्वा लक्ष्मणमागतम् ॥ २८॥

निवार्य वानरान् सर्वानङ्गदो मन्त्रिसत्तमः । गत्वा लक्ष्मणसामीप्यं प्रणनाम स दण्डवत् ॥ २९॥

ततोऽङ्गदं परिष्वज्य लक्ष्मणः प्रियवर्धनः । उवाच वत्स गच्छ त्वं पितृव्याय निवेदय ॥ ३०॥

मामागतं राघवेण चोदितं रौद्रमूर्तिना । तथेति त्वरितं गत्वा सुग्रीवाय न्यवेदयत् ॥ ३१॥

लक्ष्मणः क्रोधताम्राक्षः पुरद्वारि बहिः स्थितः । तच्छ्रुत्वातीव सन्त्रस्तः सुग्रीवो वानरेश्वरः ॥ ३२॥

आहूय मन्त्रिणां श्रेष्ठं हनूमन्तमथाब्रवीत् । गच्छ त्वमङ्गदेनाशु लक्ष्मणं विनयान्वितः ॥ ३३॥

सान्त्वयन् कोपितं वीरं शनैरानय सादरम् । प्रेषयित्वा हनूमन्तं तारामाह कपीश्वरः ॥ ३४॥

त्वं गच्छ सान्त्वयन्ती तं लक्ष्मणं मृदुभाषितैः । शान्तमन्तःपुरं नीत्वा पश्चाद्दर्शय मेऽनघे ॥ ३५॥

भवत्विति ततस्तारा मध्यकक्षं समाविशत् । हनुमानङ्गदेनैव सहितो लक्ष्मणान्तिकम् ॥ ३६॥

गत्वा ननाम शिरसा भक्त्या स्वागतमब्रवीत् । एहि वीर महाभाग भवद्गृहमशङ्कितम् ॥ ३७॥

प्रविश्य राजदारादीन् दृष्ट्वा सुग्रीवमेव च । यदाज्ञापयसे पश्चात्तत्सर्वं करवाणि भोः ॥ ३८॥

इत्युक्त्वा लक्ष्मणं भक्त्या करे गृह्य स मारुतिः । आनयामास नगरमध्याद्राजगृहं प्रति ॥ ३९॥

पश्यंस्तत्र महासौधान् यूथपानां समन्ततः । जगाम भवनं राज्ञः सुरेन्द्रभवनोपमम् ॥ ४०॥

मध्यकक्षे गता तत्र तारा ताराधिपानना । सर्वाभरणसम्पन्ना मदरक्तान्तलोचना ॥ ४१॥

उवाच लक्ष्मणं नत्वा स्मितपूर्वाभिभाषिणी । एहि देवर भद्रं ते साधुस्त्वं भक्तवत्सलः ॥ ४२॥

किमर्थं कोपमाकार्षीर्भक्ते भृत्ये कपीश्वरे । बहुकालमनाश्वासं दुःखमेवानुभूतवान् ॥ ४३॥

इदानीं बहुदुःखौघाद्भवद्भिरभिरक्षितः । भवत्प्रसादात्सुग्रीवः प्राप्तसौख्यो महामतिः ॥ ४४॥

कामासक्तो रघुपतेः सेवार्थं नागतो हरिः । आगमिष्यन्ति हरयो नानादेशगताः प्रभो ॥ ४५॥

प्रेषितो दशसाहस्रा हरयो रघुसत्तम । आनेतुं वानरान् दिग्भ्यो महापर्वतसन्निभान् ॥ ४६॥

सुग्रीवः स्वयमागत्य सर्ववानरयूथपैः । वधयिष्यति दैत्यौघान् रावणं च हनिष्यति ॥ ४७॥

त्वयैव सहितोऽद्यैव गन्ता वानरपुङ्गवः । पश्यान्तर्भवनं तत्र पुत्रदारसुहृद्वृतम् ॥ ४८॥

दृष्ट्वा सुग्रीवमभयं दत्त्वा नय सहैव ते । ताराया वचनं श्रुत्वा कृशक्रोधोऽथ लक्ष्मणः ॥ ४९॥

जगामान्तःपुरं यत्र सुग्रीवो वानरेश्वरः । रुमामालिङ्ग्य सुग्रीवः पर्यङ्के पर्यवस्थितः ॥ ५०॥

दृष्ट्वा लक्ष्मणमत्यर्थमुत्पपातातिभीतवत् । तं दृष्ट्वा लक्ष्मणः क्रुद्धो मदविह्वलितेक्षणम् ॥ ५१॥

सुग्रीवं प्राह दुर्वृत्त विस्मृतोऽसि रघूत्तमम् । वाली येन हतो वीरः स बाणोऽद्य प्रतीक्षते ॥ ५२॥

त्वमेव वालिनो मार्गं गमिष्यसि मया हतः । एवमत्यन्तपरुषं वदन्तं लक्ष्मणं तदा ॥ ५३॥

उवाच हनुमान् वीरः कथमेवं प्रभाषसे । त्वत्तोऽधिकतरो रामे भक्तोऽयं वानराधिपः ॥ ५४॥

रामकार्यार्थमनिशं जागर्ति न तु विस्मृतः । आगताः परितः पश्य वानराः कोटिशः प्रभो ॥ ५५॥

गमिष्यन्त्यचिरेणैव सीतायाः परिमार्गणम् । साधयिष्यति सुग्रीवो रामकार्यमशेषतः ॥ ५६॥

श्रुत्वा हनुमतो वाक्यं सौमित्रिर्लज्जितोऽभवत् । सुग्रीवोऽप्यर्घ्यपाद्याद्यैर्लक्ष्मणं समपूजयत् ॥ ५७॥

आलिङ्ग्य प्राह रामस्य दासोऽहं तेन रक्षितः । रामः स्वतेजसा लोकान् क्षणार्द्धेनैव जेष्यति ॥ ५८॥

सहायमात्रमेवाहं वानरैः सहितः प्रभो । सौमित्रिरपि सुग्रीवं प्राह किञ्चिन्मयोदितम् ॥ ५९॥

तत्क्षमस्व महाभाग प्रणयाद्भाषितं मया । गच्छामोऽद्यैव सुग्रीव रामस्तिष्ठति कानने ॥ ६०॥

एक एवातिदुःखार्त्तो जानकीविरहात्प्रभुः । तथेति रथमारुह्य लक्ष्मणेन समन्वितः ॥ ६१॥

वानरैः सहितो राजा राममेवान्वपद्यत ॥ ६२॥

भेरीमृदङ्गैर्बहुऋक्षवानरैः श्वेतातपत्रैर्व्यजनैश्च शोभितः । नीलाङ्गदाद्यैर्हनुमत्प्रधानैः समावृतो राघवमभ्यगाद्धरिः ॥ ६३॥

इति श्रीमदध्यात्मरामायणे उमामहेश्वरसंवादे किष्किन्धाकाण्डे पञ्चमः सर्गः ॥ ५॥

________________________________________

॥ षष्ठ सर्गः ॥ दृष्ट्वा रामं समासीनं गुहाद्वारि शिलातले । चैलाजिनधरं श्यामं जटामौलिविराजितम् ॥ १॥

विशालनयनं शान्तं स्मितचारुमुखाम्बुजम् । सीताविरहसन्तप्तं पश्यन्तं मृगपक्षिणः ॥ २॥

रथाद्दूरात्समुत्पत्य वेगात्सुग्रीवलक्ष्मणौ । रामस्य पादयोरग्रे पेततुर्भक्तिसंयुतौ ॥ ३॥

रामः सुग्रीवमालिङ्ग्य पृष्ट्वानामयमन्तिके । स्थापयित्वा यथान्यायं पूजयामास धर्मवित् ॥ ४॥

ततोऽब्रवीद्रघुश्रेष्ठं सुग्रीवो भक्तिनम्रधीः । देव पश्य समायान्तीं वानराणां महाचमूम् ॥ ५॥

कुलाचलाद्रिसम्भूता मेरुमन्दरसन्निभाः । नानाद्वीपसरिच्छैलवासिनः पर्वतोपमाः ॥ ६॥

असङ्ख्याताः समायान्ति हरयः कामरूपिणः । सर्वे देवांशसम्भूताः सर्वे युद्धविशारदाः ॥ ७॥

अत्र केचिद्गजबलाः केचिद्दशगजोपमाः । गजायुतबलाः केचिदन्येऽमितबलाः प्रभो ॥ ८॥

केचिदञ्जनकूटाभाः केचित्कनकसन्निभाः । केचिद्रक्तान्तवदना दीर्घवालास्तथापरे ॥ ९॥

शुद्धस्फटिकसङ्काशाः केचिद्राक्षससन्निभाः । गर्जन्तः परितो यान्ति वानरा युद्धकाङ्क्षिणः ॥ १०॥

त्वदाज्ञाकारिणः सर्वे फलमूलाशनाः प्रभो । ऋक्षाणामधिपो वीरो जाम्बवान्नाम बुद्धिमान् ॥ ११॥

एष मे मन्त्रिणां श्रेष्ठः कोटिभल्लूकवृन्दपः । हनूमानेष विख्यातो महासत्त्वपराक्रमः ॥ १२॥

वायुपुत्रोऽतितेजस्वी मन्त्री बुद्धिमतां वरः । नलो नीलश्च गवयो गवाक्षो गन्धमादनः ॥ १३॥

शरभो मैन्दवश्चैव गजः पनस एव च । वलीमुखो दधिमुखः सुषेणस्तार एव च ॥ १४॥

केसरी च महासत्त्वः पिता हनुमतो बली । एते ते यूथपा राम प्राधान्येन मयोदिताः ॥ १५॥

महात्मानो महावीर्याः शक्रतुल्यपराक्रमाः । एते प्रत्येकतः कोटिकोटिवानरयूथपाः ॥ १६॥

तवाज्ञाकारिणः सर्वे सर्वे देवांशसम्भवाः । एष वालिसुतः श्रीमानङ्गदो नाम विश्रुतः ॥ १७॥

वालितुल्यबलो वीरो राक्षसानां बलान्तकः । एते चान्ये च बहवस्त्वदर्थे त्यक्तजीविताः ॥ १८॥

योद्धारः पर्वताग्रैश्च निपुणाः शत्रुघातने । आज्ञापय रघुश्रेष्ठ सर्वे ते वशवर्तिनः ॥ १९॥

रामः सुग्रीवमालिङ्ग्य हर्षपूर्णाश्रुलोचनः । प्राह सुग्रीव जानासि सर्वं त्वं कार्यगौरवम् ॥ २०॥

मार्गणार्थं हि जानक्या नियुङ्क्ष्व यदि रोचते । श्रुत्वा रामस्य वचनं सुग्रीवः प्रीतमानसः ॥ २१॥

प्रेषयामास बलिनो वानरान् वानरर्षभः । दिक्षु सर्वासु विविधान् वानरान् प्रेष्य सत्वरम् ॥ २२॥

दक्षिणां दिशमत्यर्थं प्रयत्नेन महाबलान् । युवराजं जाम्बवन्तं हनूमन्तं महाबलम् ॥ २३॥

नलं सुषेणं शरभं मैन्दं द्विविदमेव च । प्रेषयामास सुग्रीवो वचनं चेदमब्रवीत् ॥ २४॥

विचिन्वन्तु प्रयत्नेन भवन्तो जानकीं शुभाम् । मासादर्वाङ्निवर्तध्वं मच्छासनपुरःसराः ॥ २५॥

सीतामदृष्ट्वा यदि वो मासादूर्ध्वं दिनं भवेत् । तदा प्राणान्तिकं दण्डं मत्तः प्राप्स्यथ वानराः ॥ २६॥

इति प्रस्थाप्य सुग्रीवो वानरान् भीमविक्रमान् । रामस्य पार्श्वे श्रीरामं नत्वा चोपविवेश सः ॥ २७॥

गच्छन्तं मारुतिं दृष्ट्वा रामो वचनमब्रवीत् । अभिज्ञानार्थमेतन्मे ह्यङ्गुलीयकमुत्तमम् ॥ २८॥

मन्नामाक्षरसंयुक्तं सीतायै दीयतां रहः । अस्मिन् कार्ये प्रमाणं हि त्वमेव कपिसत्तम । जानामि सत्त्वं ते सर्वं गच्छ पन्थाः शुभस्तव ॥ २९॥

एवं कपीनां राज्ञा ते विसृष्टाः परिमार्गणे । सीताया अङ्गदमुखा बभ्रमुस्तत्र तत्र ह ॥ ३०॥

भ्रमन्तो विन्ध्यगहने ददृशुः पर्वतोपमम् । राक्षसं भीषणाकारं भक्षयन्तं मृगान् गजान् ॥ ३१॥

रावणोऽयमिति ज्ञात्वा केचिद्वानरपुङ्गवाः । जघ्नुः किलकिलाशब्दं मुञ्चन्तो मुष्टिभिः क्षणात् ॥ ३२॥

नायं रावण इत्युक्त्वा ययुरन्यन्महद्वनम् । तृषार्ता सलिलं तत्र नाविन्दन् हरिपुङ्गवाः ॥ ३३॥

विभ्रमन्तो महारण्ये शुष्ककण्ठोष्ठतालुकाः । ददृशुर्गह्वरं तत्र तृणगुल्मावृतं महत् ॥ ३४॥

आर्द्रपक्षान् क्रौञ्चहंसान्निःसृतान् ददृशुस्ततः । अत्रास्ते सलिलं नूनं प्रविशामो महागुहाम् ॥ ३५॥

इत्युक्त्वा हनुमानग्रे प्रविवेश तमन्वयुः । सर्वे परस्परं धृत्वा बाहून् बाहुभिरुत्सुकाः ॥ ३६॥

अन्धकारे महद्दूरं गत्वापश्यन् कपीश्वराः । जलाशयान् मणिनिभतोयान् कल्पद्रुमोपमान् ॥ ३७॥

वृक्षान् पक्वफलैर्नम्रान् मधुद्रोणसमन्वितान् । गृहान् सर्वगुणोपेतान् मणिवस्त्रादिपूरितान् ॥ ३८॥

दिव्यभक्ष्यान्नसहितान् मानुषैः परिवर्जितान् । विस्मितास्तत्र भवने दिव्ये कनकविष्टरे ॥ ३९॥

प्रभया दीप्यमानां तु ददृशुः स्त्रियमेककाम् । ध्यायन्तीं चीरवसनां योगिनीं योगमास्थिताम् ॥ ४०॥

प्रणेमुस्तां महाभागां भक्त्या भीत्या च वानराः । दृष्ट्वा तान् वानरान् देवी प्राह यूयं किमागताः ॥ ४१॥

कुतो वा कस्य दूता वा मत्स्थानं किं प्रधर्षथ । तच्छ्रुत्वा हनुमानाह शृणु वक्ष्यामि देवि ते ॥ ४२॥

अयोध्याधिपतिः श्रीमान् राजा दशरथः प्रभुः । तस्य पुत्रो महाभागो ज्येष्ठो राम इति श्रुतः ॥ ४३॥

पितुराज्ञां पुरस्कृत्य सभार्यः सानुजो वनम् । गतस्तत्र हृता भार्या तस्य साध्वी दुरात्मना ॥ ४४॥

रावणेन ततो रामः सुग्रीवं सानुजो ययौ । सुग्रीवो मित्रभावेन रामस्य प्रियवल्लभाम् ॥ ४५॥

मृगयध्वमिति प्राह ततो वयमुपागताः । ततो वनं विचिन्वन्तो जानकीं जलकाङ्क्षिणः ॥ ४६॥

प्रविष्टा गह्वरं घोरं दैवादत्र समागताः । त्वं वा किमर्थमत्रासि का वा त्वं वद नः शुभे ॥ ४७॥

योगिनी च तथा दृष्ट्वा वानरान् प्राह हृष्टधीः । यथेष्टं फलमूलानि जग्ध्वा पीत्वामृतं पयः ॥ ४८॥

आगच्छत ततो वक्ष्ये मम वृत्तान्तमादितः । तथेति भुक्त्वा पीत्वा च हृष्टास्ते सर्ववानराः ॥ ४९॥

देव्याः समीपं गत्वा ते बद्धाञ्जलिपुटाः स्थिताः । ततः प्राह हनूमन्तं योगिनी दिव्यदर्शना ॥ ५०॥

हेमा नाम पुरा दिव्यरूपिणी विश्वकर्मणः । पुत्री महेशं नृत्येन तोषयामास भामिनी ॥ ५१॥

तुष्टो महेशः प्रददाविदं दिव्यपुरं महत् । अत्र स्थिता सा सुदती वर्षाणामयुतायुतम् ॥ ५२॥

तस्या अहं सखी विष्णुतत्परा मोक्षकाङ्क्षिणी । नाम्ना स्वयम्प्रभा दिव्यगन्धर्वतनया पुरा ॥ ५३॥

गच्छन्ती ब्रह्मलोकं सा मामाहेदं तपश्चर । अत्रैव निवसन्ती त्वं सर्वप्राणिविवर्जिते ॥ ५४॥

त्रेतायुगे दाशरथिर्भूत्वा नारायणोऽव्ययः । भूभारहरणार्थाय विचरिष्यति कानने ॥ ५५॥

मार्गन्तो वानरास्तस्य भार्यामायान्ति ते गुहाम् । पूजयित्वाथ तान् नत्वा रामं स्तुत्वा प्रयत्नतः ॥ ५६॥

यातासि भवनं विष्णोर्योगिगम्यं सनातनम् । इतोऽहं गन्तुमिच्छामि रामं द्रष्टुं त्वरान्विता ॥ ५७॥

यूयं पिदध्वमक्षीणि गमिष्यथ बहिर्गुहाम् । तथैव चक्रुस्ते वेगाद्गताः पूर्वस्थितं वनम् ॥ ५८॥

सापि त्यक्त्वा गुहां शीघ्रं ययौ राघवसन्निधिम् । तत्र रामं ससुग्रीवं लक्ष्मणं च ददर्श ह ॥ ५९॥

कृत्वा प्रदक्षिणं रामं प्रणम्य बहुशः सुधीः । आह गद्गदया वाचा रोमाञ्चिततनूरुहा ॥ ६०॥

दासी तवाहं राजेन्द्र दर्शनार्थमिहागता । बहुवर्षसहस्राणि तप्तं मे दुश्चरं तपः ॥ ६१॥

गुहायां दर्शनार्थं ते फलितं मेऽद्य तत्तपः । अद्य हि त्वां नमस्यामि मायायाः परतः स्थितम् ॥ ६२॥

सर्वभूतेषु चालक्ष्यं बहिरन्तरवस्थितम् । योगमायाजवनिकाच्छन्नो मानुषविग्रहः ॥ ६३॥

न लक्ष्यसेऽज्ञानदृशां शैलूष इव रूपधृक् । महाभागवतानां त्वं भक्तियोगविधित्सया ॥ ६४॥

अवतीर्णोऽसि भगवन् कथं जानामि तामसी । लोके जानातु यः कश्चित्तव तत्त्वं रघूत्तम ॥ ६५॥

ममैतदेव रूपं ते सदा भातु हृदालये । राम ते पादयुगलं दर्शितं मोक्षदर्शनम् ॥ ६६॥

अदर्शनं भवार्णानां सन्मार्गपरिदर्शनम् । धनपुत्रकलत्रादिविभूतिपरिदर्पितः । अकिञ्चनधनं त्वाद्य नाभिधातुं जनोऽर्हति ॥ ६७॥

निवृत्तगुणमार्गाय निष्किञ्चनधनाय ते ॥ ६८॥

नमः स्वात्माभिरामाय निर्गुणाय गुणात्मने । कालरूपिणमीशानमादिमध्यान्तवर्जितम् ॥ ६९॥

समं चरन्तं सर्वत्र मन्ये त्वां पुरुषं परम् । देव ते चेष्टितं कश्चिन्न वेद नृविडम्बनम् ॥ ७०॥

न तेऽस्ति कश्चिद्दयितो द्वेष्यो वाऽपर एव च । त्वन्मायापिहितात्मानस्त्वां पश्यन्ति तथाविधम् ॥ ७१॥

अजस्याकर्तुरीशस्य देवतिर्यङ्नरादिषु । जन्मकर्मादिकं यद्यत्तदत्यन्तविडम्बनम् ॥ ७२॥

त्वामाहुरक्षरं जातं कथाश्रवणसिद्धये । केचित्कोसलराजस्य तपसः फलसिद्धये ॥ ७३॥

कौसल्यया प्रार्थ्यमानं जातमाहुः परे जनाः । दुष्टराक्षसभूभारहरणायार्थितो विभुः ॥ ७४॥

ब्रह्मणा नररूपेण जातोऽयमिति केचन । शृण्वन्ति गायन्ति च ये कथास्ते रघुनन्दन ॥ ७५॥

पश्यन्ति तव पादाब्जं भवार्णवसुतारणम् । त्वन्मायागुणबद्धाहं व्यतिरिक्तं गुणाश्रयम् ॥ ७६॥

कथं त्वां देव जानीयां स्तोतुं वाविषयं विभुम् । नमस्यामि रघुश्रेष्ठं बाणासनशरान्वितम् । लक्ष्मणेन सह भ्रात्रा सुग्रीवादिभिरन्वितम् ॥ ७७॥

एवं स्तुतो रघुश्रेष्ठः प्रसन्नः प्रणताघहृत् । उवाच योगिनीं भक्तां किं ते मनसि काङ्क्षितम् ॥ ७८॥

सा प्राह राघवं भक्त्या भक्तिं ते भक्तवत्सल । यत्र कुत्रापि जाताया निश्चलां देहि मे प्रभो ॥ ७९॥

त्वद्भक्तेषु सदा सङ्गो भूयान्मे प्राकृतेषु न । जिह्वा मे रामरामेति भक्त्या वदतु सर्वदा ॥ ८०॥

मानसं श्यामलं रूपं सीतालक्ष्मणसंयुतम् । धनुर्बाणधरं पीतवाससं मुकुटोज्ज्वलम् ॥ ८१॥

अङ्गदैर्नूपुरैर्मुक्ताहारैः कौस्तुभकुण्डलैः । भान्तं स्मरतु मे राम वरं नान्यं वृणे प्रभो ॥ ८२॥

        श्रीराम उवाच ।

भवत्वेवं महाभागे गच्छ त्वं बदरीवनम् । तत्रैव मां स्मरन्ती त्वं त्यक्त्वेदं भूतपञ्चकम् । मामेव परमात्मानमचिरात्प्रतिपद्यसे ॥ ८३॥

श्रुत्वा रघूत्तमवचोऽमृतसारकल्पं

      गत्वा तदैव बदरीतरुखण्डजुष्टम् ।

तीर्थं तदा रघुपतिं मनसा स्मरन्ती

      त्यक्त्वा कलेवरमवाप परं पदं सा ॥ ८४॥

इति श्रीमदध्यात्मरामायणे उमामहेश्वरसंवादे किष्किन्धाकाण्डे षष्ठः सर्गः ॥ ६॥

________________________________________

॥ सप्तम सर्गः ॥

श्रीमहादेव उवाच । अथ तत्र समासीना वृक्षखण्डेषु वानराः । चिन्तयन्तो विमुह्यन्तः सीतामार्गणकर्शिताः ॥ १॥

तत्रोवाचाङ्गदः कांश्चिद्वानरान् वानरर्षभः । भ्रमतां गह्वरेऽस्माकं मासो नूनं गतोऽभवत् ॥ २॥

सीता नाधिगतास्माभिर्न कृतं राजशासनम् । यदि गच्छाम किष्किन्धां सुग्रीवोऽस्मान् हनिष्यति ॥ ३॥

विशेषतः शत्रुसुतं मां मिषान्निहनिष्यति । मयि तस्य कुतः प्रीतिरहं रामेण रक्षितः ॥ ४॥

इदानीं रामकार्यं मे न कृतं तन्मिषं भवेत् । तस्य मद्धनने नूनं सुग्रीवस्य दुरात्मनः ॥ ५॥

मातृकल्पां भ्रातृभार्यां पापात्मानुभवत्यसौ । न गच्छेयमतः पार्श्वं तस्य वानरपुङ्गवाः ॥ ६॥

त्यक्ष्यामि जीवितं चात्र येन केनापि मृत्युना । इत्यश्रुनयनं केचिद्दृष्ट्वा वानरपुङ्गवाः ॥ ७॥

व्यथिताः साश्रुनयना युवराजमथाब्रुवन् ॥ ८॥

किमर्थं तव शोकोऽत्र वयं ते प्राणरक्षकाः । भवामो निवसामोऽत्र गुहायां भयवर्जिताः ॥ ९॥

सर्वसौभाग्यसहितं पुरं देवपुरोपमम् । शनैः परस्परं वाक्यं वदतां मारुतात्मजः ॥ १०॥

श्रुत्वाङ्गदं समालिङ्ग्य प्रोवाच नयकोविदः । विचार्यते किमर्थं ते दुर्विचारो न युज्यते ॥ ११॥

राज्ञोऽत्यन्तप्रियस्त्वं हि तारापुत्रोऽतिवल्लभः । रामस्य लक्ष्मणात्प्रीतिस्त्वयि नित्यं प्रवर्धते ॥ १२॥

अतो न राघवाद्भीतिस्तव राज्ञो विशेषतः । अहं तव हिते सक्तो वत्स नान्यं विचारय ॥ १३॥

गुहावासश्च निर्भेद्य इत्युक्तं वानरैस्तु यत् । तदेतद्रामबाणानामभेद्यं किं जगत्त्रये ॥ १४॥

ये त्वां दुर्बोधयन्त्येते वानरा वानरर्षभ । पुत्रदारादिकं त्यक्त्वा कथं स्थास्यन्ति ते त्वया ॥ १५॥

अन्यद्गुह्यतमं वक्ष्ये रहस्यं शृणु मे सुत । रामो न मानुषो देवः साक्षान्नारायणोऽव्ययः ॥ १६॥

सीता भगवती माया जनसम्मोहकारिणी । लक्ष्मणो भुवनाधारः साक्षाच्छेषः फणीश्वरः ॥ १७॥

ब्रह्मणा प्रार्थिताः सर्वे रक्षोगणविनाशने । मायामानुषभावेन जाता लोकैकरक्षकाः ॥ १८॥

वयं च पार्षदाः सर्वे विष्णोर्वैकुण्ठवासिनः । मनुष्यभावमापन्ने स्वेच्छया परमात्मनि ॥ १९॥

वयं वानररूपेण जातास्तस्यैव मायया । वयं तु तपसा पूर्वमाराध्य जगतां पतिम् ॥ २०॥

तेनैवानुगृहीताः स्मः पार्षदत्वमुपागताः । इदानीमपि तस्यैव सेवां कृत्वैव मायया ॥ २१॥

पुनर्वैकुण्ठमासाद्य सुखं स्थास्यामहे वयम् । इत्यङ्गदमथाश्वास्य गता विन्ध्यं महाचलम् ॥ २२॥

विचिन्वन्तोऽथ शनकैर्जानकीं दक्षिणाम्बुधेः । तीरे महेन्द्राख्यगिरेः पवित्रं पादमाययुः ॥ २३॥

दृष्ट्वा समुद्रं दुष्पारमगाधं भयवर्धनम् । वानरा भयसन्त्रस्ताः किं कुर्म इति वादिनः ॥ २४॥

निषेदुरुदधेस्तीरे सर्वे चिन्तासमन्विताः । मन्त्रयामासुरन्योन्यमङ्गदाद्या महाबलाः ॥ २५॥

भ्रमतो मे वने मासो गतोऽत्रैव गुहान्तरे । न दृष्टो रावणो वाद्य सीता वा जनकात्मजा ॥ २६॥

सुग्रीवस्तीक्ष्णदण्डोऽस्मान्निहन्त्येव न संशयः । सुग्रीववधतोऽस्माकं श्रेयः प्रायोपवेशनम् ॥ २७॥

इति निश्चित्य तत्रैव दर्भानास्तीर्य सर्वतः । उपाविवेशुस्ते सर्वे मरणे कृतनिश्चयाः ॥ २८॥

एतस्मिन्नन्तरे तत्र महेन्द्राद्रिगुहान्तरात् । निर्गत्य शनकैरागाद्गृध्रः पर्वतसन्निभः ॥ २९॥

दृष्ट्वा प्रायोपवेशेन स्थितान् वानरपुङ्गवान् । उवाच शनकैर्गृध्रः प्राप्तो भक्ष्योऽद्य मे बहुः ॥ ३०॥

एकैकशः क्रमात्सर्वान् भक्षयामि दिने दिने । श्रुत्वा तद्गृध्रवचनं वानरा भीतमानसाः ॥ ३१॥

भक्षयिष्यति नः सर्वानसौ गृध्रो न संशयः । रामकार्यं च नास्माभिः कृतं किञ्चिद्धरीश्वराः ॥ ३२॥

सुग्रीवस्यापि च हितं न कृतं स्वात्मनामपि । वृथानेन वधं प्राप्ता गच्छामो यमसादनम् ॥ ३३॥

अहो जटायुर्धर्मात्मा रामस्यार्थे मृतः सुधीः ॥

मोक्षं प्राप दुरावापं योगिनामप्यरिन्दमः ॥ ३४॥

सम्पातिस्तु तदा वाक्यं श्रुत्वा वानरभाषितम् । के वा यूयं मम भ्रातुः कर्णपीयूषसन्निभम् ॥ ३५॥

जटायुरिति नामाद्य व्याहरन्तः परस्परम् । उच्यतां वो भयं मा भून्मत्तः प्लवगसत्तमाः ॥ ३६॥

तमुवाचाङ्गदः श्रीमानुत्थितो गृध्रसन्निधौ । रामो दाशरथिः श्रीमान् लक्ष्मणेन समन्वितः ॥ ३७॥

सीतया भार्यया सार्धं विचचार महावने । तस्य सीता हृता साध्वी रावणेन दुरात्मना ॥ ३८॥

मृगयां निर्गते रामे लक्ष्मणे च हृता बलात् । रामरामेति क्रोशन्ती श्रुत्वा गृध्रः प्रतापवान् ॥ ३९॥

जटायुर्नाम पक्षीन्द्रो युद्धं कृत्वा सुदारुणम् । रावणेन हतो वीरो राघवार्थं महाबलः ॥ ४०॥

रामेण दग्धो रामस्य सायूज्यमगमत्क्षणात् । रामः सुग्रीवमासाद्य सख्यं कृत्वाग्निसाक्षिकम् ॥ ४१॥

सुग्रीवचोदितो हत्वा वालिनं सुदुरासदम् । राज्यं ददौ वानराणां सुग्रीवाय महाबलः ॥ ४२॥

सुग्रीवः प्रेषयामास सीतायाः परिमार्गणे । अस्मान् वानरवृन्दान् वै महासत्त्वान् महाबलः ॥ ४३॥

मासादर्वाङ्निवर्तध्वं नो चेत्प्राणान् हरामि वः । इत्याज्ञया भ्रमन्तोऽस्मिन् वने गह्वरमध्यगाः ॥ ४४॥

गतो मासो न जानीमः सीतां वा रावणं च वा ॥

मर्तुं प्रायोपविष्टा स्मस्तीरे लवणवारिधेः ॥ ४५॥

यदि जानासि हे पक्षिन् सीतां कथय नः शुभाम् । अङ्गदस्य वचः श्रुत्वा सम्पातिर्हृष्टमानसः ॥ ४६॥

उवाच मत्प्रियो भ्राता जटायुः प्लवगेश्वराः । बहुवर्षसहस्रान्ते भ्रातृवार्ता श्रुता मया ॥ ४७॥

वाक्साहाय्यं करिष्येऽहं भवतां प्लवगेश्वराः । भ्रातुः सलिलदानाय नयध्वं मां जलान्तिकम् ॥ ४८॥

पश्चात्सर्वं शुभं वक्ष्ये भवतां कार्यसिद्धये । तथेति निन्युस्ते तीरं समुद्रस्य विहङ्गमम् ॥ ४९॥

सोऽपि तत्सलिले स्नात्वा भ्रातुर्दत्त्वा जलाञ्जलिम् । पुनः स्वस्थानमासाद्य स्थितो नीतो हरीश्वरैः । सम्पातिः कथयामास वानरान् परिहर्षयन् ॥ ५०॥

लङ्का नाम नगर्यास्ते त्रिकूटगिरिमूर्धनि । तत्राशोकवने सीता राक्षसीभिः सुरक्षिता ॥ ५१॥

समुद्रमध्ये सा लङ्का शतयोजनदूरतः । दृश्यते मे न सन्देहः सीता च परिदृश्यते ॥ ५२॥

गृध्रत्वाद्दूरदृष्टिर्मे नात्र संशयितुं क्षमम् । शतयोजनविस्तीर्णं समुद्रं यस्तु लङ्घयेत् ॥ ५३॥

स एव जानकीं दृष्ट्वा पुनरायास्यति ध्रुवम् । अहमेव दुरात्मानं रावणं हन्तुमुत्सहे । भ्रातुर्हन्तारमेकाकी किन्तु पक्षविवर्जितः ॥ ५४॥

यतध्वमतियत्नेन लङ्घितुं सरितां पतिम् । ततो हन्ता रघुश्रेष्ठो रावणं राक्षसाधिपम् ॥ ५५॥

उल्लङ्घ्य सिन्धुं शतयोजनायतं

      लङ्कां प्रविश्याथ विदेहकन्यकाम् ।

दृष्ट्वा समाभाष्य च वारिधिं पुन-

      स्तर्तुं समर्थः कतमो विचार्यताम् ॥ ५६॥

इति श्रीमदध्यात्मरामायणे उमामहेश्वरसंवादे किष्किन्धाकाण्डे सप्तमः सर्गः ॥ ७॥

________________________________________

॥ अष्टम सर्गः ॥ अथ ते कौतुकाविष्टाः सम्पातिं सर्ववानराः । पप्रच्छुर्भगवन् ब्रूहि स्वमुदन्तं त्वमादितः ॥ १॥

सम्पातिः कथयामास स्ववृत्तान्तं पुरा कृतम् । अहं पुरा जटायुश्च भ्रातरौ रूढयौवनौ ॥ २॥

बलेन दर्पितावावां बलजिज्ञासया खगौ । सूर्यमण्डलपर्यन्तं गन्तुमुत्पतितौ मदात् ॥ ३॥

बहुयोजनसाहस्रं गतौ तत्र प्रतापितः । जटायुस्तं परित्रातुं पक्षैराच्छाद्य मोहतः ॥ ४॥

स्थितोऽहं रश्मिभिर्दग्धपक्षोऽस्मिन् विन्ध्यमूर्धनि । पतितो दूरपतनान्मूर्च्छितोऽहं कपीश्वराः ॥ ५॥

दिनत्रयात्पुनः प्राणसहितो दग्धपक्षकः । देशं वा गिरिकूटान् वा न जाने भ्रान्तमानसः ॥ ६॥

शनैरुन्मील्य नयने दृष्ट्वा तत्राश्रमं शुभम् । शनैः शनैराश्रमस्य समीपं गतवानहम् ॥ ७॥

चन्द्रमा नाम मुनिराड् दृष्ट्वा मां विस्मितोऽवदत् । सम्पाते किमिदं तेऽद्य विरूपं केन वा कृतम् ॥ ८॥

जानामि त्वामहं पूर्वमत्यन्तं बलवानसि । दग्धौ किमर्थं ते पक्षौ कथ्यतां यदि मन्यसे ॥ ९॥

ततः स्वचेष्टितं सर्वं कथयित्वातिदुःखितः । अब्रवं मुनिशार्दूल दह्येऽहं दाववह्निना ॥ १०॥

कथं धारयितुं शक्तो विपक्षो जीवितं प्रभो । इत्युक्तोऽथ मुनिर्वीक्ष्य मां दयार्द्रविलोचनः ॥ ११॥

शृणु वत्स वचो मेऽद्य श्रुत्वा कुरु यथेप्सितम् । देहमूलमिदं दुःखं देहः कर्मसमुद्भवः ॥ १२॥

कर्म प्रवर्तते देहेऽहम्बुद्ध्या पुरुषस्य हि । अहङ्कारस्त्वनादिः स्यादविद्यासम्भवो जडः ॥ १३॥

चिच्छायया सदा युक्तस्तप्तायःपिण्डवत् सदा । तेन देहस्य तादात्म्याद्देहश्चेतनवान् भवेत् ॥ १४॥

देहोऽहमिति बुद्धिः स्यादात्मनोऽहङ्कृतेर्बलात् । तन्मूल एष संसारः सुखदुःखादिसाधकः ॥ १५॥

आत्मनो निर्विकारस्य मिथ्या तादात्म्यतः सदा । देहोऽहं कर्मकर्ताहमिति सङ्कल्प्य सर्वदा ॥ १६॥

जीवः करोति कर्माणि तत्फलैर्बद्ध्यतेऽवशः । ऊर्ध्वाधो भ्रमते नित्यं पापपुण्यात्मकः स्वयम् ॥ १७॥

कृतं मयाधिकं पुण्यं यज्ञदानादि निश्चितम् । स्वर्गं गत्वा सुखं भोक्ष्य इति सङ्कल्पवान् भवेत् ॥ १८॥

तथैवाध्यासतस्तत्र चिरं भुक्त्वा सुखं महत् । क्षीणपुण्यः पतत्यर्वागनिच्छन् कर्मचोदितः ॥ १९॥

पतित्वा मण्डले चेन्दोस्ततो नीहारसंयुतः । भूमौ पतित्वा व्रीह्यादौ तत्र स्थित्वा चिरं पुनः ॥ २०॥

भूत्वा चतुर्विधं भोज्यं पुरुषैर्भुज्यते ततः । रेतो भूत्वा पुनस्तेन ऋतौ स्त्रीयोनिसिञ्चितः ॥ २१॥

योनिरक्तेन संयुक्तं जरायुपरिवेष्टितम् । दिनेनैकेन कललं भूत्वा रूढत्वमाप्नुयात् ॥ २२॥

तत्पुनः पञ्चरात्रेण बुद्बुदाकारतामियात् । सप्तरात्रेण तदपि मांसपेशित्वमाप्नुयात् ॥ २३॥

पक्षमात्रेण सा पेशी रुधिरेण परिप्लुता । तस्या एवाङ्कुरोत्पत्तिः पञ्चविंशतिरात्रिषु ॥ २४॥

ग्रीवा शिरश्च स्कन्धश्च पृष्ठवंशस्तथोदरम् । पञ्चधाङ्गानि चैकैकं जायन्ते मासतः क्रमात् ॥ २५॥

पाणिपादौ तथा पार्श्वः कटिर्जानु तथैव च । मासद्वयात् प्रजायन्ते क्रमेणैव न चान्यथा ॥ २६॥

त्रिभिर्मासैः प्रजायन्ते अङ्गानां सन्धयः क्रमात् । सर्वाङ्गुल्यः प्रजायन्ते क्रमान्मासचतुष्टये ॥ २७॥

नासा कर्णौ च नेत्रे च जायन्ते पञ्चमासतः । दन्तपङ्क्तिर्नखा गुह्यं पञ्चमे जायते तथा ॥ २८॥

अर्वाक् षण्मासतश्छिद्रं कर्णयोर्भवति स्फुटम् । पायुर्मेढ्रमुपस्थं च नाभिश्चापि भवेन्नृणाम् ॥ २९॥

सप्तमे मासि रोमाणि शिरः केशास्तथैव च । विभक्तावयवत्वं च सर्वं सम्पद्यतेऽष्टमे ॥ ३०॥

जठरे वर्धते गर्भः स्त्रिया एवं विहङ्गम । पञ्चमे मासि चैतन्यं जीवः प्राप्नोति सर्वशः ॥ ३१॥

नाभिसूत्राल्परन्ध्रेण मातृभुक्तान्नसारतः । वर्धते गर्भतः पिण्डो न म्रियेत स्वकर्मतः ॥ ३२॥

स्मृत्वा सर्वाणि जन्मानि पूर्वकर्माणि सर्वशः । जठरानलतप्तोऽयमिदं वचनमब्रवीत् ॥ ३३॥

नानायोनिसहस्रेषु जायमानोऽनुभूतवान् । पुत्रदारादिसम्बन्धं कोटिशः पशुबान्धवान् ॥ ३४॥

कुटुम्बभरणासक्त्या न्यायान्यायैर्धनार्जनम् । कृतं नाकरवं विष्णुचिन्तां स्वप्नेऽपि दुर्भगः ॥ ३५॥

इदानीं तत्फलं भुञ्जे गर्भदुःखं महत्तरम् । अशाश्वते शाश्वतवद्देहे तृष्णासमन्वितः ॥ ३६॥

अकार्याण्येव कृतवान्न कृतं हितमात्मनः । इत्येवं बहुधा दुःखमनुभूय स्वकर्मतः ॥ ३७॥

कदा निष्क्रमणं मे स्याद्गर्भान्निरयसन्निभात् । इत ऊर्ध्वं नित्यमहं विष्णुमेवानुपूजये ॥ ३८॥

इत्यादि चिन्तयन् जीवो योनियन्त्रप्रपीडितः । जायमानोऽतिदुःखेन नरकात्पातकी यथा ॥ ३९॥

पूतिव्रणान्निपतितः कृमिरेष इवापरः । ततो बाल्यादिदुःखानि सर्व एवं विभुञ्जते ॥ ४०॥

त्वया चैवानुभूतानि सर्वत्र विदितानि च । न वर्णितानि मे गृध्र यौवनादिषु सर्वतः ॥ ४१॥

एवं देहोऽहमित्यस्मादभ्यासान्निरयादिकम् । गर्भवासादिदुःखानि भवन्त्यभिनिवेशतः ॥ ४२॥

तस्माद्देहद्वयादन्यमात्मानं प्रकृतेः परम् । ज्ञात्वा देहादिममतां त्यक्त्वात्मज्ञानवान् भवेत् ॥ ४३॥

जाग्रदादिविनिर्मुक्तं सत्यज्ञानादिलक्षणम् । शुद्धं बुद्धं सदा शान्तमात्मानमवधारयेत् ॥ ४४॥

चिदात्मनि परिज्ञाते नष्टे मोहेऽज्ञसम्भवे । देहः पततु वाऽरब्धकर्मवेगेन तिष्ठतु ॥ ४५॥

योगिनो न हि दुःखं वा सुखं वाऽज्ञानसम्भवम् । तस्माद्देहेन सहितो यावत्प्रारब्धसङ्क्षयः ॥ ४६॥

तावत्तिष्ठ सुखेन त्वं धृतकञ्चुकसर्पवत् । अन्यद्वक्ष्यामि ते पक्षिन् शृणु मे परमं हितम् ॥ ४७॥

त्रेतायुगे दाशरथिर्भूत्वा नारायणोऽव्ययः । रावणस्य वधार्थाय दण्डकानागमिष्यति ॥ ४८॥

सीतया भार्यया सार्धं लक्ष्मणेन समन्वितः । तत्राश्रमे जनकजां भ्रातृभ्यां रहिते वने ॥ ४९॥

रावणश्चोरवन्नीत्वा लङ्कायां स्थापयिष्यति । तस्याः सुग्रीवनिर्देशाद्वानराः परिमार्गणे ॥ ५०॥

आगमिष्यन्ति जलधेस्तीरं तत्र समागमः । त्वया तैः कारणवशाद्भविष्यति न संशयः ॥ ५१॥

तदा सीतास्थितिं तेभ्यः कथयस्व यथार्थतः । तदैव तव पक्षौ द्वावुत्पत्स्येते पुनर्नवौ ॥ ५२॥

        सम्पातिरुवाच ।

बोधयामास मां चन्द्रनामा मुनिकुलेश्वरः । पश्यन्तु पक्षौ मे जातौ नूतनावतिकोमलौ ॥ ५३॥

स्वस्ति वोऽस्तु गमिष्यामि सीतां द्रक्ष्यथ निश्चयम् । यत्नं कुरुध्वं दुर्लङ्घ्यसमुद्रस्य विलङ्घने ॥ ५४॥

यन्नामस्मृतिमात्रतोऽपरिमितं संसारवारांनिधिं तीर्त्वा गच्छति दुर्जनोऽपि परमं विष्णोः पदं शाश्वतम् । तस्यैव स्थितिकारिणस्त्रिजगतां रामस्य भक्ताः प्रिया यूयं किं न समुद्रमात्रतरणे शक्ताः कथं वानराः ॥ ५५॥

इति श्रीमदध्यात्मरामायणे उमामहेश्वरसंवादे किष्किन्धाकाण्डे अष्टमः सर्गः ॥ ८॥

________________________________________

॥नवम सर्गः ॥

        श्रीमहादेव उवाच ।

गते विहायसा गृध्रराजे वानरपुङ्गवाः । हर्षेण महताविष्टाः सीतादर्शलालसाः ॥ १॥

ऊचुः समुद्रं पश्यन्तो नक्रचक्रभयङ्करम् । तरङ्गादिभिरुन्नद्धमाकाशमिव दुर्ग्रहम् ॥ २॥

परस्परमवोचन् वै कथमेनं तरामहे । उवाच चाङ्गदस्तत्र शृणुध्वं वानरोत्तमाः ॥ ३॥

भवन्तोऽत्यन्तबलिनः शूराश्च कृतविक्रमाः । को वात्र वारिधिं तीर्त्वा राजकार्यं करिष्यति ॥ ४॥

एतेषां वानराणां स प्राणदाता न संशयः । तदुत्तिष्ठतु मे शीघ्रं पुरतो यो महाबलः ॥ ५॥

वानराणां च सर्वेषां रामसुग्रीवयोरपि । स एव पालको भूयान्नात्र कार्या विचारणा ॥ ६॥

इत्युक्ते युवराजेन तूष्णीं वानरसैनिकाः । आसन्नोचुः किञ्चिदपि परस्परविलोकिनः ॥ ७॥

        अङ्गद उवाच ।

उच्यतां वै बलं सर्वैः प्रत्येकं कार्यसिद्धये । केन वा साध्यते कार्यं जानीमस्तदनन्तरम् ॥ ८॥

अङ्गदस्य वचः श्रुत्वा प्रोचुर्वीरा बलं पृथक् । योजनानां दशारभ्य दशोत्तरगुणं जगुः ॥ ९॥

शतादर्वाग्जाम्बवांस्तु प्राह मध्ये वनौकसाम् । पुरा त्रिविक्रमे देवे पादं भूमानलक्षणम् ॥ १०॥

त्रिःसप्तकृत्वोऽहमगां प्रदक्षिणविधानतः । इदानीं वार्धकग्रस्तो न शक्नोमि विलङ्घितुम् ॥ ११॥

अङ्गदोऽप्याह मे गन्तुं शक्यं पारं महोदधेः । पुनर्लङ्घनसामर्थ्यं न जानाम्यस्ति वा न वा ॥ १२॥

तमाह जाम्बवान् वीरस्त्वं राजा नो नियामकः । न युक्तं त्वां नियोक्तुं मे त्वं समर्थोऽसि यद्यपि ॥ १३॥

        अङ्गद उवाच ।

एवं चेत्पूर्ववत्सर्वे स्वप्स्यामो दर्भविष्टरे । केनापि न कृतं कार्यं जीवितुं च न शक्यते ॥ १४॥

तमाह जाम्बवान् वीरो दर्शयिष्यामि ते सुत । येनास्माकं कार्यसिद्धिर्भविष्यत्यचिरेण च ॥ १५॥

इत्युक्त्वा जाम्बवान् प्राह हनूमन्तमवस्थितम् । हनूमन् किं रहस्तूष्णीं स्थीयते कार्यगौरवे ॥ १६॥

प्राप्तेऽज्ञेनेव सामर्थ्यं दर्शयाद्य महाबल । त्वं साक्षाद्वायुतनयो वायुतुल्यपराक्रमः ॥ १७॥

रामकार्यार्थमेव त्वं जनितोऽसि महात्मना । जातमात्रेण ते पूर्वं दृष्ट्वोद्यन्तं विभावसुम् ॥ १८॥

पक्वं फलं जिघृक्षामीत्युत्प्लुतं बालचेष्टया । योजनानां पञ्चशतं पतितोऽसि ततो भुवि ॥ १९॥

अतस्त्वद्बलमाहात्म्यं को वा शक्नोति वर्णितुम् । उत्तिष्ठ कुरु रामस्य कार्यं नः पाहि सुव्रत ॥ २०॥

श्रुत्वा जाम्बवतो वाक्यं हनूमानतिहर्षितः । चकार नादं सिंहस्य ब्रह्माण्डं स्फोटयन्निव ॥ २१॥

बभूव पर्वताकारस्त्रिविक्रम इवापरः । लङ्घयित्वा जलनिधिं कृत्वा लङ्कां च भस्मसात् ॥ २२॥

रावणं सकुलं हत्वाऽऽनेष्ये जनकनन्दिनीम् । यद्वा बद्ध्वा गले रज्ज्वा रावणं वामपाणिना ॥ २३॥

लङ्कां सपर्वतां धृत्वा रामस्याग्रे क्षिपाम्यहम् । यद्वा दृष्ट्वैव यास्यामि जानकीं शुभलक्षणाम् ॥ २४॥

श्रुत्वा हनुमतो वाक्यं जाम्बवानिदमब्रवीत् । दृष्ट्वैवागच्छ भद्रं ते जीवन्तीं जानकीं शुभाम् ॥ २५॥

पश्चाद्रामेण सहितो दर्शयिष्यसि पौरुषम् । कल्याणं भवताद्भद्र गच्छतस्ते विहायसा ॥ २६॥

गच्छन्तं रामकार्यार्थं वायुस्त्वामनुगच्छतु । इत्याशीर्भिः समामन्त्र्य विसृष्टः प्लवगाधिपैः ॥ २७॥

महेन्द्राद्रिशिरो गत्वा बभूवाद्भुतदर्शनः ॥ २८॥

महानगेन्द्रप्रतिमो महात्मा सुवर्णवर्णोऽरुणचारुवक्त्रः । महाफणीन्द्राभसुदीर्घबाहुर्वातात्मजोऽदृश्यत सर्वभूतैः ॥ २९॥

इति श्रीमदध्यात्मरामायणे उमामहेश्वरसंवादे किष्किन्धाकाण्डे नवमः सर्गः ॥ ९॥

॥ समाप्तमिदं किष्किन्धाकाण्डम् ॥