अध्यात्मरामायण/युद्धकाण्डम्
॥ अध्यात्मरामायणे युद्धकाण्डम् ॥
॥ प्रथमः सर्गः ॥
श्रीमहादेव उवाच ।
यथावद्भाषितं वाक्यं श्रुत्वा रामो हनूमतः ।
उवाचानन्तरं वाक्यं हर्षेण महतावृतः ॥ १॥
कार्यं कृतं हनुमता देवैरपि सुदुष्करम् । मनसापि यदन्येन स्मर्तुं शक्यं न भूतले ॥ २॥
शतयोजनविस्तीर्णं लङ्घयेत्कः पयोनिधिम् । लङ्कां च राक्षसैर्गुप्तां को वा धर्षयितुं क्षमः ॥ ३॥
भृत्यकार्यं हनुमता कृतं सर्वमशेषतः । सुग्रीवस्येदृशो लोके न भूतो न भविष्यति ॥ ४॥
अहं च रघुवंशश्च लक्ष्मणश्च कपीश्वरः । जानक्या दर्शनेनाद्य रक्षिताः स्मो हनूमता ॥ ५॥
सर्वथा सुकृतं कार्यं जानक्याः परिमार्गणम् । समुद्रं मनसा स्मृत्वा सीदतीव मनो मम ॥ ६॥
कथं नक्रझषाकीर्णं समुद्रं शतयोजनम् । लङ्घयित्वा रिपुं हन्यां कथं द्रक्ष्यामि जानकीम् ॥ ७॥
श्रुत्वा तु रामवचनं सुग्रीवः प्राह राघवम् । समुद्रं लङ्घयिष्यामो महानक्रझषाकुलम् ॥ ८॥
लङ्कां च विधमिष्यामो हनिष्यामोऽद्य रावणम् । चिन्तां त्यज रघुश्रेष्ठ चिन्ता कार्यविनाशिनी ॥ ९॥
एतान् पश्य महासत्त्वान् शूरान् वानरपुङ्गवान् । त्वत्प्रियार्थं समुद्युक्तान् प्रवेष्टुमपि पावकम् ॥ १०॥
समुद्रतरणे बुद्धिं कुरुष्व प्रथमं ततः । दृष्ट्वा लङ्कां दशग्रीवो हत इत्येव मन्महे ॥ ११॥
नहि पश्याम्यहं कञ्चित्त्रिषु लोकेषु राघव । गृहीतधनुषो यस्ते तिष्ठेदभिमुखो रणे ॥ १२॥
सर्वथा नो जयो राम भविष्यति न संशयः । निमित्तानि च पश्यामि तथा भूतानि सर्वशः ॥ १३॥
सुग्रीववचनं श्रुत्वा भक्तिवीर्यसमन्वितम् । अङ्गीकृत्याब्रवीद्रामो हनूमन्तं पुरःस्थितम् ॥ १४॥
येन केन प्रकारेण लङ्घयामो महार्णवम् । लङ्कास्वरूपं मे ब्रूहि दुःसाध्यं देवदानवैः ॥ १५॥
ज्ञात्वा तस्य प्रतीकारं करिष्यामि कपीश्वर । श्रुत्वा रामस्य वचनं हनूमान् विनयान्वितः ॥ १६॥
उवाच प्राञ्जलिर्देव यथा दृष्टं ब्रवीमि ते । लङ्का दिव्या पुरी देव त्रिकूटशिखरे स्थिता ॥ १७॥
स्वर्णप्राकारसहिता स्वर्णाट्टालकसंयुता । परिखाभिः परिवृता पूर्णाभिर्निर्मलोदकैः ॥ १८॥
नानोपवनशोभाढ्या दिव्यवापीभिरावृता । गृहैर्विचित्रशोभाढ्यैर्मणिस्तम्भमयैः शुभैः ॥ १९॥
पश्चिमद्वारमासाद्य गजवाहाः सहस्रशः । उत्तरे द्वारि तिष्ठन्ति साश्ववाहाः सपत्तयः ॥ २०॥
तिष्ठन्त्यर्बुदसङ्ख्याकाः प्राच्यामपि तथैव च । रक्षिणो राक्षसा वीरा द्वारं दक्षिणमाश्रिताः ॥ २१॥
मध्यकक्षेऽप्यसङ्ख्याता गजाश्वरथपत्तयः । रक्षयन्ति सदा लङ्कां नानास्त्रकुशलाः प्रभो ॥ २२॥
सङ्क्रमैर्विविधैर्लङ्का शतघ्नीभिश्च संयुता । एवं स्थितेऽपि देवेश शृणु मे तत्र चेष्टितम् ॥ २३॥
दशाननबलौघस्य चतुर्थांशो मया हतः । दग्ध्वा लङ्कां पुरीं स्वर्णप्रासादो धर्षितो मया ॥ २४॥
शतघ्न्यः सङ्क्रमाश्चैव नाशिता मे रघूत्तम । देव त्वद्दर्शनादेव लङ्का भस्मीकृता भवेत् ॥ २५॥
प्रस्थानं कुरु देवेश गच्छामो लवणाम्बुधेः । तीरं सह महावीरैर्वानरौघैः समन्ततः ॥ २६॥
श्रुत्वा हनूमतो वाक्यमुवाच रघुनन्दनः । सुग्रीव सैनिकान् सर्वान् प्रस्थानायाभिनोदय ॥ २७॥
इदानीमेव विजयो मुहुर्तः परिवर्तते । अस्मिन्मुहुर्ते गत्वाहं लङ्कां राक्षससङ्कुलाम् ॥ २८॥
सप्राकारां सुदुर्धर्षां नाशयामि सरावणाम् । आनेष्यामि च सीतां मे दक्षिणाक्षि स्फुरत्यधः ॥ २९॥
प्रयातु वाहिनी सर्वा वानराणां तरस्विनाम् । रक्षन्तु यूथपाः सेनामग्रे पृष्ठे च पार्श्वयोः ॥ ३०॥
हनूमन्तमथारुह्य गच्छाम्यग्रेऽङ्गदं ततः । आरुह्य लक्ष्मणो यातु सुग्रीव त्वं मया सह ॥ ३१॥
गजो गवाक्षो गवयो मैन्दो द्विविद एव च । नलो नीलः सुषेणश्च जाम्बवांश्च तथापरे ॥ ३२॥
सर्वे गच्छन्तु सर्वत्र सेनायाः शत्रुघातिनः । इत्याज्ञाप्य हरीन् रामः प्रतस्थे सहलक्ष्मणः ॥ ३३॥
सुग्रीवसहितो हर्षात्सेनामध्यगतो विभुः । वारणेन्द्रनिभाः सर्वे वानराः कामरूपिणः ॥ ३४॥
क्ष्वेलन्तः परिगर्जन्तो जग्मुस्ते दक्षिणां दिशम् । भक्षयन्तो ययुः सर्वे फलानि च मधूनि च ॥ ३५॥
ब्रुवन्तो राघवस्याग्रे हनिष्यामोऽद्य रावणम् । एवं ते वानरश्रेष्ठा गच्छन्त्यतुलविक्रमाः ॥ ३६॥
हरिभ्यामुह्यमानौ तौ शुशुभाते रघूत्तमौ । नक्षत्रैः सेवितौ यद्वच्चन्द्रसूर्याविवाम्बरे ॥ ३७॥
आवृत्य पृथिवीं कृत्स्नां जगाम महती चमूः । प्रस्फोटयन्तः पुच्छाग्रानुद्वहन्तश्च पादपान् ॥ ३८॥
शैलानारोहयन्तश्च जग्मुर्मारुतवेगतः । असङ्ख्याताश्च सर्वत्र वानराः परिपूरिताः ॥ ३९॥
हृष्टास्ते जग्मुरत्यर्थं रामेण परिपालिताः । गता चमूर्दिवारात्रं क्वचिन्नासज्जत क्षणम् ॥ ४०॥
काननानि विचित्राणि पश्यन्मलयसह्ययोः । ते सह्यं समतिक्रम्य मलयं च तथा गिरिम् ॥ ४१॥
आययुश्चानुपूर्व्येण समुद्रं भीमनिःस्वनम् । अवतीर्य हनूमन्तं रामः सुग्रीवसंयुतः ॥ ४२॥
सलिलाभ्याशमासाद्य रामो वचनमब्रवीत् । आगताः स्मो वयं सर्वे समुद्रं मकरालयम् ॥ ४३॥
इतो गन्तुमशक्यं नो निरुपायेन वानराः । अत्र सेनानिवेशोऽस्तु मन्त्रयामोऽस्य तारणे ॥ ४४॥
श्रुत्वा रामस्य वचनं सुग्रीवः सागरान्तिके । सेनां न्यवेशयत् क्षिप्रं रक्षितां कपिकुञ्जरैः ॥ ४५॥
ते पश्यन्तो विषेदुस्तं सागरं भीमदर्शनम् । महोन्नततरङ्गाढ्यं भीमनक्रभयङ्करम् ॥ ४६॥
अगाधं गगनाकारं सागरं वीक्ष्य दुःखिताः । तरिष्यामः कथं घोरं सागरं वरुणालयम् ॥ ४७॥
हन्तव्योऽस्माभिरद्यैव रावणो राक्षसाधमः । इति चिन्ताकुलाः सर्वे रामपार्श्वे व्यवस्थिताः ॥ ४८॥
रामः सीतामनुस्मृत्य दुःखेन महतावृतः । विलप्य जानकीं सीतां बहुधा कार्यमानुषः ॥ ४९॥
अद्वितीयश्चिदात्मैकः परमात्मा सनातनः । यस्तु जानाति रामस्य स्वरूपं तत्त्वतो जनः ॥ ५०॥
तं न स्पृशति दुःखादि किमुतानन्दमव्ययम् । दुःखहर्षभयक्रोधलोभमोहमदादयः ॥ ५१॥
अज्ञानलिङ्गान्येतानि कुतः सन्ति चिदात्मनि । देहाभिमानिनो दुःखं न देहस्य चिदात्मनः ॥ ५२॥
सम्प्रसादे द्वयाभावात्सुखमात्रं हि दृश्यते । बुद्ध्याद्यभावात्संशुद्धे दुःखं तत्र न दृश्यते । अतो दुःखादिकं सर्वं बुद्धेरेव न संशयः ॥ ५३॥
रामः परात्मा पुरुषः पुराणो
नित्योदितो नित्यसुखो निरीहः ।
तथापि मायागुणसङ्गतोऽसौ
सुखीव दुःखीव विभाव्यतेऽबुधैः ॥ ५४॥
इति श्रीमदध्यात्मरामायणे उमामहेश्वरसंवादे युद्धकाण्डे प्रथमः सर्गः ॥ १॥
॥द्वितीयः सर्गः ॥
श्रीमहादेव उवाच ।
लङ्कायां रावणो दृष्ट्वा कृतं कर्म हनूमता ।
दुष्करं दैवतैर्वाऽपि ह्रिया किञ्चिदवाङ्मुखः ॥ १॥
आहूय मन्त्रिणः सर्वानिदं वचनमब्रवीत् । हनूमता कृतं कर्म भवद्भिर्दृष्टमेव तत् ॥ २॥
प्रविश्य लङ्कां दुर्धर्षां दृष्ट्वा सीतां दुरासदाम् । हत्वा च राक्षसान् वीरानक्षं मन्दोदरीसुतम् ॥ ३॥
दग्ध्वा लङ्कामशेषेण लङ्घयित्वा च सागरम् । युष्मान् सर्वानतिक्रम्य स्वस्थोऽगात्पुनरेव सः ॥ ४॥
किं कर्तव्यमितोऽस्माभिर्यूयं मन्त्रविशारदाः । मन्त्रयध्वं प्रयत्नेन यत्कृतं मे हितं भवेत् ॥ ५॥
रावणस्य वचः श्रुत्वा राक्षसास्तमथाब्रुवन् । देव शङ्का कुतो रामात्तव लोकजितो रणे ॥ ६॥
इन्द्रस्तु बद्ध्वा निक्षिप्तः पुत्रेण तव पत्तने । जित्वा कुबेरमानीय पुष्पकं भुज्यते त्वया ॥ ७॥
यमो जितः कालदण्डाद्भयं नाभूत्तव प्रभो । वरुणो हुङ्कृतेनैव जितः सर्वेऽपि राक्षसाः ॥ ८॥
मयो महासुरो भीत्या कन्यां दत्त्वा स्वयं तव । त्वद्वशे वर्ततेऽद्यापि किमुतान्ये महासुराः ॥ ९॥
हनूमद्धर्षणं यत्तु तदवज्ञाकृतं च नः । वानरोऽयं किमस्माकमस्मिन् पौरुषदर्शने ॥ १०॥
इत्युपेक्षितमस्माभिर्धर्षणं तेन किं भवेत् । वयं प्रमत्ताः किं तेन वञ्चिताः स्मो हनूमता ॥ ११॥
जानीमो यदि तं सर्वे कथं जीवन् गमिष्यति । आज्ञापय जगत्कृत्स्नमवानरममानुषम् ॥ १२॥
कृत्वायास्यामहे सर्वे प्रत्येकं वा नियोजय । कुम्भकर्णस्तदा प्राह रावणं राक्षसेश्वरम् ॥ १३॥
आरब्धं यत्त्वया कर्म स्वात्मनाशाय केवलम् । न दृष्टोऽसि तदा भाग्यात्त्वं रामेण महात्मना ॥ १४॥
यदि पश्यति रामस्त्वां जीवन्नायासि रावण । रामो न मानुषो देवः साक्षान्नारायणोऽव्ययः ॥ १५॥
सीता भगवती लक्ष्मी रामपत्नी यशस्विनी । राक्षसानां विनाशाय त्वयानीता सुमध्यमा ॥ १६॥
विषपिण्डमिवागीर्य महामीनो यथा तथा । आनीता जानकी पश्चात्त्वया किं वा भविष्यति ॥ १७॥
यद्यप्यनुचितं कर्म त्वया कृतमजानता । सर्वं समं करिष्यामि स्वस्थचित्तो भव प्रभो ॥ १८॥
कुम्भकर्णवचः श्रुत्वा वाक्यमिन्द्रजिदब्रवीत् । देहि देव ममानुज्ञां हत्वा रामं सलक्ष्मणम् । सुग्रीवं वानरांश्चैव पुनर्यास्यामि तेऽन्तिकम् ॥ १९॥
तत्रागतो भागवतप्रधानो
विभीषणो बुद्धिमतां वरिष्ठः ।
श्रीरामपादद्वय एकतानः ।
प्रणम्य देवारिमुपोपविष्टः ॥ २०॥
विलोक्य कुम्भश्रवणादिदैत्यान्
मत्तप्रमत्तानतिविस्मयेन ।
विलोक्य कामातुरमप्रमत्तो
दशाननं प्राह विशुद्धबुद्धिः ॥ २१॥
न कुम्भकर्णेन्द्रजितौ च राजन्
तथा महापार्श्वमहोदरौ तौ ।
निकुम्भकुम्भौ च तथातिकायः
स्थातुं न शक्ता युधि राघवस्य ॥ २२॥
सीताभिधानेन महाग्रहेण
ग्रस्तोऽसि राजन् न च ते विमोक्षः ।
तामेव सत्कृत्य महाधनेन
दत्त्वाभिरामाय सुखी भव त्वम् ॥ २३॥
यावन्न रामस्य शिताः शिलीमुखा
लङ्कामभिव्याप्य शिरांसि रक्षसाम् ।
छिन्दन्ति तावद्रघुनायकस्य भो-
स्तां जानकीं त्वं प्रतिदातुमर्हसि ॥ २४॥
यावन्नगाभाः कपयो महाबला
हरीन्द्रतुल्या नखदंष्ट्रयोधिनः ।
लङ्कां समाक्रम्य विनाशयन्ति ते
तावद्द्रुतं देहि रघूत्तमाय ताम् ॥ २५॥
जीवन्न रामेण विमोक्ष्यसे त्वं
गुप्तः सुरेन्द्रैरपि शङ्करेण ।
न देवराजाङ्कगतो न मृत्योः
पाताललोकानपि सम्प्रविष्टः ॥ २६॥
शुभं हितं पवित्रं च विभीषणवचः खलः । प्रतिजग्राह नैवासौ म्रियमाण इवौषधम् ॥ २७॥
कालेन नोदितो दैत्यो विभीषणमथाब्रवीत् । मद्दत्तभोगैः पुष्टाङ्गो मत्समीपे वसन्नपि ॥ २८॥
प्रतीपमाचरत्येष ममैव हितकारिणः । मित्रभावेन शत्रुर्मे जातो नास्त्यत्र संशयः ॥ २९॥
अनार्येण कृतघ्नेन सङ्गतिर्मे न युज्यते । विनाशमभिकाङ्क्षन्ति ज्ञातीनां ज्ञातयः सदा ॥ ३०॥
योऽन्यस्त्वेवंविधं ब्रूयाद्वाक्यमेकं निशाचरः । हन्मि तस्मिन् क्षणे एव धिक् त्वां रक्षःकुलाधमम् ॥ ३१॥
रावणेनैवमुक्तः सन् परुषं स विभीषणः । उत्पपात सभामध्याद्गदापाणिर्महाबलः ॥ ३२॥
चतुर्भिर्मन्त्रिभिः सार्धं गगनस्थोऽब्रवीद्वचः । क्रोधेन महताविष्टो रावणं दशकन्धरम् । मा विनाशमुपैहि त्वं प्रियवादिनमेव माम् ॥ ३३॥
धिक्करोषि तथापि त्वं ज्येष्ठो भ्राता पितुः समः । कालो राघवरूपेण जातो दशरथालये ॥ ३४॥
काली सीताभिधानेन जाता जनकनन्दिनी । तावुभावागतावत्र भूर्मेभारापनुत्तये ॥ ३५॥
तेनैव प्रेरितस्त्वं तु न शृणोषि हितं मम । श्रीरामः प्रकृतेः साक्षात्परस्तात्सर्वदा स्थितः ॥ ३६॥
बहिरन्तश्च भूतानां समः सर्वत्र संस्थितः । नामरूपादिभेदेन तत्तन्मय इवामलः ॥ ३७॥
यथा नानाप्रकारेषु वृक्षेष्वेको महानलः । तत्तदाकृतिभेदेन भिद्यतेऽज्ञानचक्षुषाम् ॥ ३८॥
पञ्चकोशादिभेदेन तत्तन्मय इवाबभौ । नीलपीतादियोगेन निर्मलः स्फटिको यथा ॥ ३९॥
स एव नित्यमुक्तोऽपि स्वमायागुणबिम्बितः । कालः प्रधानं पुरुषोऽव्यक्तं चेति चतुर्विधः ॥ ४०॥
प्रधानपुरुषाभ्यां स जगत्कृत्स्नं सृजत्यजः । कालरूपेण कलनां जगतः कुरुतेऽव्ययः ॥ ४१॥
कालरूपी स भगवान् रामरूपेण मायया ॥ ४२॥
ब्रह्मणा प्रार्थितो देवस्त्वद्वधार्थमिहागतः । तदन्यथा कथं कुर्यात्सत्यसङ्कल्प ईश्वरः ॥ ४३॥
हनिष्यति त्वां रामस्तु सपुत्रबलवाहनम् । हन्यमानं न शक्नोमि द्रष्टुं रामेण रावण ॥ ४४॥
त्वां राक्षसकुलं कृत्स्नं ततो गच्छामि राघवम् । मयि याते सुखीभूत्वा रमस्व भवने चिरम् ॥ ४५॥
विभीषणो रावणवाक्यतः क्षणा-
द्विसृज्य सर्वं सपरिच्छदं गृहम् ।
जगाम रामस्य पदारविन्दयोः सेवाभिकाङ्क्षी परिपूर्णमानसः ॥ ४६॥
इति श्रीमदध्यात्मरामायणे उमामहेश्वरसंवादे युद्धकाण्डे द्वितीयः सर्गः ॥ २॥
॥तृतीयः सर्गः ॥
श्रीमहादेव उवाच ।
विभीषणो महाभागश्चतुर्भिर्मन्त्रिभिः सह ।
आगत्य गगने रामसम्मुखे समवस्थितः ॥ १॥
उच्चैरुवाच भोः स्वामिन् राम राजीवलोचन । रावणस्यानुजोऽहं ते दारहर्तुर्विभीषणः ॥ २॥
नाम्ना भ्रात्रा निरस्तोऽहं त्वामेव शरणं गतः । हितमुक्तं मया देव तस्य चाविदितात्मनः ॥ ३॥
सीतां रामाय वैदेहीं प्रेषयेति पुनः पुनः । उक्तोऽपि न शृणोत्येव कालपाशवशं गतः ॥ ४॥
हन्तुं मां खड्गमादाय प्राद्रवद्राक्षसाधमः । ततोऽचिरेण सचिवैश्चतुर्भिः सहितो भयात् ॥ ५॥
त्वामेव भवमोक्षाय मुमुक्षुः शरणं गतः । विभीषणवचः श्रुत्वा सुग्रीवो वाक्यमब्रवीत् ॥ ६॥
विश्वासार्हो न ते राम मायावी राक्षसाधमः । सीताहर्तुर्विशेषेण रावणस्यानुजो बली ॥ ७॥
मन्त्रिभिः सायुधैरस्मान् विवरे निहनिष्यति । तदाज्ञापय मे देव वानरैर्हन्यतामयम् ॥ ८॥
ममैवं भाति मे राम बुद्ध्या किं निश्चितं वद । श्रुत्वा सुग्रीववचनं रामः सस्मितमब्रवीत् ॥ ९॥
यदीच्छामि कपिश्रेष्ठ लोकान् सर्वान् सहेश्वरान् । निमिषार्धेन संहन्यां सृजामि निमिषार्धतः ॥ १०॥
अतो मयाऽभयं दत्तं शीघ्रमानय राक्षसम् ॥ ११॥
सकृदेव प्रपन्नाय तवास्मीति च याचते । अभयं सर्वभूतेभ्यो ददाम्येतद्व्रतं मम ॥ १२॥
रामस्य वचनं श्रुत्वा सुग्रीवो हृष्टमानसः । विभीषणमथानाय्य दर्शयामास राघवम् ॥ १३॥
विभीषणस्तु साष्टाङ्गं प्रणिपत्य रघूत्तमम् । हर्षगद्गदया वाचा भक्त्या च परयान्वितः ॥ १४॥
रामं श्यामं विशालाक्षं प्रसन्नमुखपङ्कजम् । धनुर्बाणधरं शान्तं लक्ष्मणेन समन्वितम् ॥ १५॥
कृताञ्जलिपुटो भूत्वा स्तोतुं समुपचक्रमे ॥ १६॥
विभीषण उवाच ।
नमस्ते राम राजेन्द्र नमः सीतामनोरम । नमस्ते चण्डकोदण्ड नमस्ते भक्तवत्सल ॥ १७॥
नमोऽनन्ताय शान्ताय रामायामिततेजसे । सुग्रीवमित्राय च ते रघूणां पतये नमः ॥ १८॥
जगदुत्पत्तिनाशानां कारणाय महात्मने । त्रैलोक्यगुरवेऽनादिगृहस्थाय नमो नमः ॥ १९॥
त्वमादिर्जगतां राम त्वमेव स्थितिकारणम् । त्वमन्ते निधनस्थानं स्वेच्छाचारस्त्वमेव हि ॥ २०॥
चराचराणां भूतानां बहिरन्तश्च राघव । व्याप्यव्यापकरूपेण भवान् भाति जगन्मयः ॥२१॥
त्वन्मायया हृतज्ञाना नष्टात्मानो विचेतसः । गतागतं प्रपद्यन्ते पापपुण्यवशात्सदा ॥ २२॥
तावत्सत्यं जगद्भाति शुक्तिकारजतं यथा । यावन्न ज्ञायते ज्ञानं चेतसानन्यगामिना ॥२३॥
त्वदज्ञानात्सदा युक्ताः पुत्रदारगृहादिषु । रमन्ते विषयान् सर्वानन्ते दुःखप्रदान् विभो ॥ २४॥
त्वमिन्द्रोऽग्निर्यमो रक्षो वरुणश्च तथानिलः । कुबेरश्च तथा रुद्रस्त्वमेव पुरुषोत्तम ॥ २५॥
त्वमणोरप्यणीयांश्च स्थूलात् स्थूलतरः प्रभो । त्वं पिता सर्वलोकानां माता धाता त्वमेव हि ॥ २६॥
आदिमध्यान्तरहितः परिपूर्णोऽच्युतोऽव्ययः । त्वं पाणिपादरहितश्चक्षुःश्रोत्रविवर्जितः ॥ २७॥
श्रोता द्रष्टा ग्रहीता च जवनस्त्वं खरान्तक । कोशेभ्यो व्यतिरिक्तस्त्वं निर्गुणो निरुपाश्रयः ॥ २८॥
निर्विकल्पो निर्विकारो निराकारो निरीश्वरः । षड्भावरहितोऽनादिः पुरुषः प्रकृतेः परः ॥ २९॥
मायया गृह्यमाणस्त्वं मनुष्य इव भाव्यसे । ज्ञात्वा त्वां निर्गुणमजं वैष्णवा मोक्षगामिनः ॥ ३०॥
अहं त्वत्पादसद्भक्तिनिःश्रेणीं प्राप्य राघव । इच्छामि ज्ञानयोगाख्यं सौधमारोढुमीश्वर ॥ ३१॥
नमः सीतापते राम नमः कारुणिकोत्तम । रावणारे नमस्तुभ्यं त्राहि मां भवसागरात् ॥ ३२॥
ततः प्रसन्नः प्रोवाच श्रीरामो भक्तवत्सलः । वरं वृणीष्व भद्रं ते वाञ्छितं वरदोऽस्म्यहम् ॥ ३३॥
विभीषण उवाच ।
धन्योऽस्मि कृतकृत्योऽस्मि कृतकार्योऽस्मि राघव । त्वत्पाददर्शनादेव विमुक्तोऽस्मि न संशयः ॥ ३४॥
नास्ति मत्सदृशो धन्यो नास्ति मत्सदृशः शुचिः । नास्ति मत्सदृशो लोके राम त्वन्मूर्तिदर्शनात् ॥ ३५॥
कर्मबन्धविनाशाय त्वज्ज्ञानं भक्तिलक्षणम् । त्वद्ध्यानं परमार्थं च देहि मे रघुनन्दन ॥ ३६॥
न याचे राम राजेन्द्र सुखं विषयसम्भवम् । त्वत्पादकमले सक्ता भक्तिरेव सदास्तु मे ॥ ३७॥
ओमित्युक्त्वा पुनः प्रीतो रामः प्रोवाच राक्षसम् । शृणु वक्ष्यामि ते भद्रं रहस्यं मम निश्चितम् ॥ ३८॥
मद्भक्तानां प्रशान्तानां योगिनां वीतरागिणाम् । हृदये सीतया नित्यं वसाम्यत्र न संशयः ॥ ३९॥
तस्मात्त्वं सर्वदा शान्तः सर्वकल्मषवर्जितः । मां ध्यात्वा मोक्ष्यसे नित्यं घोरसंसारसागरात् ॥ ४०॥
स्तोत्रमेतत्पठेद्यस्तु लिखेद्यः शृणुयादपि । मत्प्रीतये ममाभीष्टं सारूप्यं समवाप्नुयात् ॥ ४१॥
इत्युक्त्वा लक्ष्मणं प्राह श्रीरामो भक्तभक्तिमान् । पश्यत्विदानीमेवैष मम सन्दर्शने फलम् ॥ ४२॥
लङ्काराज्येऽभिषेक्ष्यामि जलमानय सागरात् । यावच्चन्द्रश्च सूर्यश्च यावत्तिष्ठति मेदिनी ॥ ४३॥
यावन्मम कथा लोके तावद्राज्यं करोत्वसौ । इत्युक्त्वा लक्ष्मणेनाम्बु ह्यानाय्य कलशेन तम् ॥ ४४॥
लङ्काराज्याधिपत्यार्थमभिषेकं रमापतिः । कारयामास सचिवैर्लक्ष्मणेन विशेषतः ॥ ४५॥
साधु साध्विति ते सर्वे वानरास्तुष्टुवुर्भृशम् । सुग्रीवोऽपि परिष्वज्य विभीषणमथाब्रवीत् ॥ ४६॥
विभीषण वयं सर्वे रामस्य परमात्मनः । किङ्करास्तत्र मुख्यस्त्वं भक्त्या रामपरिग्रहात् । रावणस्य विनाशे त्वं साहाय्यं कर्तुमर्हसि ॥ ४७॥
विभीषण उवाच । अहं कियान् सहायत्वे रामस्य परमात्मनः । किं तु दास्यं करिष्येऽहं भक्त्या शक्त्या ह्यमायया ॥ ४८॥
दशग्रीवेण सन्दिष्टः शुको नाम महासुरः । संस्थितो ह्यम्बरे वाक्यं सुग्रीवमिदमब्रवीत् ॥ ४९॥
त्वामाह रावणो राजा भ्रातरं राक्षसाधिपः । महाकुलप्रसूतस्त्वं राजासि वनचारिणाम् ॥ ५०॥
मम भ्रातृसमानस्त्वं तव नास्त्यर्थविप्लवः । अहं यदहरं भार्यां राजपुत्रस्य किं तव ॥ ५१॥
किष्किन्धां याहि हरिभिर्लङ्का शक्या न दैवतैः । प्राप्तुं किं मानवैरल्पसत्त्वैर्वानरयूथपैः ॥ ५२॥
तं प्रापयन्तं वचनं तूर्णमुत्प्लुत्य वानराः । प्रापद्यन्त तदा क्षिप्रं निहन्तुं दृढमुष्टिभिः ॥ ५३॥
वानरैर्हन्यमानस्तु शुको राममथाब्रवीत् । न दूतान् घ्नन्ति राजेन्द्र वानरान् वारय प्रभो ॥ ५४॥
रामः श्रुत्वा तदा वाक्यं शुकस्य परिदेवितम् । मा वधिष्टेति रामस्तान् वारयामास वानरान् ॥ ५५॥
पुनरम्बरमासाद्य शुकः सुग्रीवमब्रवीत् । ब्रूहि राजन् दशग्रीवं किं वक्ष्यामि व्रजाम्यहम् ॥ ५६॥
सुग्रीव उवाच ।
यथा वाली मम भ्राता तथा त्वं राक्षसाधम । हन्तव्यस्त्वं मया यत्नात्सपुत्रबलवाहनः ॥ ५७॥
ब्रूहि मे रामचन्द्रस्य भार्यां हृत्वा क्व यास्यसि । ततो रामाज्ञया धृत्वा शुकं बध्वान्वरक्षयत् ॥ ५८॥
शार्दूलोऽपि ततः पूर्वं दृष्ट्वा कपिबलं महत् । यथावत्कथयामास रावणाय स राक्षसः ॥ ५९॥
दीर्घचिन्तापरो भूत्वा निःश्वसन्नास मन्दिरे । ततः समुद्रमावेक्ष्य रामो रक्तान्तलोचनः ॥ ६०॥
पश्य लक्ष्मण दुष्टोऽसौ वारिधिर्मामुपागतम् । नाभिनन्दति दुष्टात्मा दर्शनार्थं ममानघ ॥ ६१॥
जानाति मानुषोऽयं मे किं करिष्यति वानरैः । अद्य पश्य महाबाहो शोषयिष्यामि वारिधिम् ॥ ६२॥
पादेनैव गमिष्यन्ति वानरा विगतज्वराः । इत्युक्त्वा क्रोधताम्राक्ष आरोपितधर्नुर्धरः ॥ ६३॥
तूणीराद्बाणमादाय कालाग्निसदृशप्रभम् । सन्धाय चापमाकृष्य रामो वाक्यमथाब्रवीत् ॥ ६४॥
पश्यन्तु सर्वभूतानि रामस्य शरविक्रमम् । इदानीं भस्मसात्कुर्यां समुद्रं सरितां पतिम् ॥ ६५॥
एवं ब्रुवति रामे तु सशैलवनकानना । चचाल वसुधा द्यौश्च दिशश्च तमसावृताः ॥ ६६॥
चुक्षुभे सागरो वेलां भयाद्योजनमत्यगात् । तिमिनक्रझषा मीनाः प्रतप्ताः परितत्रसुः ॥ ६७॥
एतस्मिन्नन्तरे साक्षात्सागरो दिव्यरूपधृक् । दिव्याभरणसम्पन्नः स्वभासा भासयन् दिशः ॥ ६८॥
स्वान्तःस्थदिव्यरत्नानि कराभ्यां परिगृह्य सः । पादयोः पुरतः क्षिप्त्वा रामस्योपायनं बहु ॥ ६९॥
दण्डवत्प्रणित्याह रामं रक्तान्तलोचनम् । त्राहि त्राहि जगन्नाथ राम त्रैलोक्यरक्षक ॥ ७०॥
जडोऽहं राम ते सृष्टः सृजता निखिलं जगत् । स्वभावमन्यथा कर्तुं कः शक्तो देवनिर्मितम् ॥ ७१॥
स्थूलानि पञ्चभूतानि जडान्येव स्वभावतः । सृष्टानि भवतैतानि त्वदाज्ञां लङ्घयन्ति न ॥ ७२॥
तामसादहमो राम भूतानि प्रभवन्ति हि । कारणानुगमात्तेषां जडत्वं तामसं स्वतः ॥ ७३॥
निर्गुणस्त्वं निराकारो यदा मायागुणान् प्रभो । लीलयाङ्गीकरोषि त्वं तदा वैराजनामवान् ॥ ७४॥
गुणात्मनो विराजश्च सत्त्वाद्देवा बभूविरे । रजोगुणात्प्रजेशाद्या मन्योर्भूतपतिस्तव ॥ ७५॥
त्वामहं मायया छन्नं लीलया मानुषाकृतिम् ॥ ७६॥
जडबुद्धिर्जडो मूर्खः कथं जानामि निर्गुणम् । दण्ड एव हि मूर्खाणां सन्मार्गप्रापकः प्रभो ॥ ७७॥
भूतानाममरश्रेष्ठ पशूनां लगुडो यथा । शरणं ते व्रजामीशं शरण्यं भक्तवत्सल । अभयं देहि मे राम लङ्कामार्गं ददामि ते ॥ ७८॥
श्रीराम उवाच । अमोघोऽयं महाबाणः कस्मिन् देशे निपात्यताम् । लक्ष्यं दर्शय मे शीघ्रं बाणस्यामोघपातिनः ॥ ७९॥
रामस्य वचनं श्रुत्वा करे दृष्ट्वा महाशरम् । महोदधिर्महातेजा राघवं वाक्यमब्रवीत् ॥ ८०॥
रामोत्तरप्रदेशे तु द्रुमकुल्य इति श्रुतः । प्रदेशस्तत्र बहवः पापात्मानो दिवानिशम् ॥ ८१॥
बाधन्ते मां रघुश्रेष्ठ तत्र ते पात्यतां शरः । रामेण सृष्टो बाणस्तु क्षणादाभीरमण्डलम् ॥ ८२॥
हत्वा पुनः समागत्य तूणीरे पूर्ववत्स्थितः । ततोऽब्रवीद्रघुश्रेष्ठं सागरो विनयान्वितः ॥ ८३॥
नलः सेतुं करोत्वस्मिन् जले मे विश्वकर्मणः । सुतो धीमान् समर्थोऽस्मिन् कार्ये लब्धवरो हरिः ॥ ८४॥
कीर्तिं जानन्तु ते लोकाः सर्वलोकमलापहाम् । इत्युक्त्वा राघवं नत्वा ययौ सिन्धुरदृश्यताम् ॥ ८५॥
ततो रामस्तु सुग्रीवलक्ष्मणाभ्यां समन्वितः । नलमाज्ञापयच्छीघ्रं वानरैः सेतुबन्धने ॥ ८६॥
ततोऽतिहृष्टः प्लवगेन्द्रयूथपै-
र्महानगेन्द्रप्रतिमैर्युतो नलः ।
बबन्ध सेतुं शतयोजनायतं
सुविस्तृतं पर्वतपादपैर्दृढम् ॥ ८७॥
इति श्रीमदध्यात्मरामायणे उमामहेश्वरसंवादे युद्धकाण्डे तृतीयः सर्गः ॥ ३॥
॥ चतुर्थः सर्गः ॥
श्रीमहादेव उवाच ।
सेतुमारभमाणस्तु तत्र रामेश्वरं शिवम् ।
संस्थाप्य पूजयित्वाह रामो लोकहिताय च ॥ १॥
प्रणमेत्सेतुबन्धं यो दृष्ट्वा रामेश्वरं शिवम् । ब्रह्महत्यादिपापेभ्यो मुच्यते मदनुग्रहात् ॥ २॥
सेतुबन्धे नरः स्नात्वा दृष्ट्वा रामेश्वरं हरम् । सङ्कल्पनियतो भूत्वा गत्वा वाराणसीं नरः ॥ ३॥
आनीय गङ्गासलिलं रामेशमभिषिच्य च । समुद्रे क्षिप्ततद्भारो ब्रह्म प्राप्नोत्यसंशयम् ॥ ४॥
कृतानि प्रथमेनाह्ना योजनानि चतुर्दश । द्वितीयेन तथा चाह्ना योजनानि तु विंशतिः ॥ ५॥
तृतीयेन तथा चाह्ना योजनान्येकविंशतिः । चतुर्थेन तथा चाह्ना द्वाविंशतिरिति श्रुतम् ॥ ६॥
पञ्चमेन त्रयोविंशद्योजनानि समन्ततः । बबन्ध सागरे सेतुं नलो वानरसत्तमः ॥ ७॥
तेनैव जग्मुः कपयो योजनानां शतं द्रुतम् । असङ्ख्याताः सुवेलाद्रिं रुरुधुः प्लवगोत्तमाः ॥ ८॥
आरुह्य मारुतिं रामो लक्ष्मणोऽप्यङ्गदं तथा । दिदृक्षू राघवो लङ्कामारुरोहाचलं महत् ॥ ९॥
दृष्ट्वा लङ्कां सुविस्तीर्णां नानाचित्रध्वजाकुलाम् । चित्रप्रासादसम्बाधां स्वर्णप्राकारतोरणाम् ॥ १०॥
परिखाभिः शतघ्नीभिः सङ्क्रमैश्च विराजिताम् । प्रासादोपरि विस्तीर्णप्रदेशे दशकन्धरः ॥११॥
मन्त्रिभिः सहितो वीरैः किरीटदशकोज्ज्वलः । नीलाद्रिशिखराकारः कालमेघसमप्रभः ॥१२॥
रत्नदण्डैः सितच्छत्रैरनेकैः परिशोभितः । एतस्मिन्नन्तरे बद्धो मुक्तो रामेण वै शुकः ॥ १३॥
वानरैस्ताडितः सम्यग् दशाननमुपागतः । प्रहसन् रावणः प्राह पीडितः किं परैः शुक ॥१४॥
रावणस्य वचः श्रुत्वा शुको वचनमब्रवीत् । सागरस्योत्तरे तीरेऽब्रवं ते वचनं यथा । तत उत्प्लुत्य कपयो गृहीत्वा मां क्षणात्ततः ॥ १५॥
मुष्टिभिर्नखदन्तैश्च हन्तुं लोप्तुं प्रचक्रमुः । ततो मां राम रक्षेति क्रोशन्तं रघुपुङ्गवः ॥ १६॥
विसृज्यतामिति प्राह विसृष्टोऽहं कपीश्वरैः । ततोऽहमागतो भीत्या दृष्ट्वा तद्वानरं बलम् ॥ १७॥
राक्षसानां बलौघस्य वानरेन्द्रबलस्य च । नैतयोर्विद्यते सन्धिर्देवदानवयोरिव ॥ १८॥
पुरप्राकारमायान्ति क्षिप्रमेकतरं कुरु । सीतां वास्मै प्रयच्छाशु युद्धं वा दीयतां प्रभो ॥१९॥
मामाह रामस्त्वं ब्रूहि रावणं मद्वचः शुक । यद्बलं च समाश्रित्य सीतां मे हृतवानसि ॥ २०॥
तद्दर्शय यथाकामं ससैन्यः सहबान्धवः । श्वःकाले नगरीं लङ्कां सप्राकारां सतोरणाम् ॥ २१॥
राक्षसं च बलं पश्य शरैर्विध्वंसितं मया । घोररोषमहं मोक्ष्ये बलं धारय रावण ॥ २२॥
इत्युक्त्वोपररामाथ रामः कमललोचनः । एकस्थानगता यत्र चत्वारः पुरुषर्षभाः ॥ २३॥
श्रीरामो लक्ष्मणश्चैव सुग्रीवश्च विभीषणः । एत एव समर्थास्ते लङ्कां नाशयितुं प्रभो ॥ २४॥
उत्पाट्य भस्मीकरणे सर्वे तिष्ठन्तु वानराः । तस्य यादृग् बलं दृष्टं रूपं प्रहरणानि च ॥ २५॥
वधिष्यति पुरं सर्वमेकस्तिष्ठन्तु ते त्रयः । पश्य वानरसेनां तामसङ्ख्यातां प्रपूरिताम् ॥ २६॥
गर्जन्ति वानरास्तत्र पश्य पर्वतसन्निभाः । न शक्यास्ते गणयितुं प्राधान्येन ब्रवीमि ते ॥ २७॥
एष योऽभिमुखो लङ्कां नदंस्तिष्ठति वानरः । यूथपानां सहस्राणां शतेन परिवारितः ॥ २८॥
सुग्रीवसेनाधिपतिर्नीलो नामाग्निनन्दनः । एष पर्वतशृङ्गाभः पद्मकिञ्जल्कसन्निभः ॥ २९॥
स्फोटयत्यभिसंरब्धो लाङ्गूलं च पुनः पुनः । युवराजोऽङ्गदो नाम वालिपुत्रोऽतिवीर्यवान् ॥ ३०॥
येन दृष्टा जनकजा रामस्यातीववल्लभा । हनूमानेष विख्यातो हतो येन तवात्मजः ॥ ३१॥
श्वेतो रजतसङ्काशो महाबुद्धिपराक्रमः । तूर्णं सुग्रीवमागत्य पुनर्गच्छति वानरः ॥ ३२॥
यस्त्वेष सिंहसङ्काशः पश्यत्यतुलविक्रमः । रम्भो नाम महासत्त्वो लङ्कां नाशयितुं क्षमः ॥ ३३॥
एष पश्यति वै लङ्कां दिधक्षन्निव वानरः । शरभो नाम राजेन्द्र कोटियूथपनायकः ॥ ३४॥
पनसश्च महावीर्यो मैन्दश्च द्विविदस्तथा । नलश्च सेतुकर्ताऽसौ विश्वकर्मसुतो बली ॥ ३५॥
वानराणां वर्णने वा सङ्ख्याने वा क ईश्वरः । शूराः सर्वे महाकायाः सर्वे युद्धाभिकाङ्क्षिणः ॥ ३६॥
शक्ताः सर्वे चूर्णयितुं लङ्कां रक्षोगणैः सह । एतेषां बलसङ्ख्यानं प्रत्येकं वच्मि ते शृणु ॥३७॥
एषां कोटिसहस्राणि नव पञ्च च सप्त च । तथा शङ्खसहस्राणि तथार्बुदशतानि च ॥ ३८॥
सुग्रीवसचिवानां ते बलमेतत्प्रकीर्तितम् । अन्येषां तु बलं नाहं वक्तुं शक्तोऽस्मि रावण ॥३९॥
रामो न मानुषः साक्षादादिनारायणः परः । सीता साक्षाज्जगद्धेतुश्चिच्छक्तिर्जगदात्मिका ॥ ४०॥
ताभ्यामेव समुत्पन्नं जगत्स्थावरजङ्गमम् । तस्माद्रामश्च सीताच जगतस्तस्थुषश्च तौ ॥ ४१॥
पितरौ पृथिवीपाल तयोर्वैरी कथं भवेत् । अजानता त्वयानीता जगन्मातैव जानकी ॥ ४२॥
क्षणनाशिनि संसारे शरीरे क्षणभङ्गुरे । पञ्चभूतात्मके राजंश्चतुर्विंशतितत्त्वके ॥ ४३॥
मलमांसास्थिदुर्गन्धभूयिष्ठेऽहङ्कृतालये । कैवास्था व्यतिरिक्तस्य काये तव जडात्मके ॥ ४४॥
यत्कृते ब्रह्महत्यादिपातकानि कृतानि च । भोगभोक्ता तु यो देहः स देहोऽत्र पतिष्यति ॥ ४५॥
पुण्यपापे समायातो जीवेन सुखदुःखयोः । कारणे देहयोगादिनाऽऽत्मनः कुरुतोऽनिशम् ॥४६॥
यावद्देहोऽस्मि कर्तास्मीत्यात्माहङ्कुरुतेऽवशः । अध्यासात्तावदेव स्याज्जन्मनाशादिसम्भवः ॥ ४७॥
तस्मात्त्वं त्यज देहादावभिमानं महामते । आत्मातिनिर्मलः शुद्धो विज्ञानात्माऽचलोऽव्ययः ॥ ४८॥
स्वाज्ञानवशतो बन्धं प्रतिपद्य विमुह्यति । तस्मात्त्वं शुद्धभावेन ज्ञात्वात्मानं सदा स्मर ॥ ४९॥
विरतिं भज सर्वत्र पुत्रदारगृहादिषु । निरयेष्वपि भोगः स्याच्छ्वशूकरतनावपि ॥ ५०॥
देहं लब्ध्वा विवेकाढ्यं द्विजत्वं च विशेषतः । तत्रापि भारते वर्षे कर्मभूमौ सुदुर्लभम् ॥ ५१ ॥
को विद्वानात्मसात्कृत्वा देहं भोगानुगो भवेत् । अतस्त्वं ब्राह्मणो भूत्वा पौलस्त्यतनयश्च सन् ॥ ५२॥
अज्ञानीव सदा भोगाननुधावसि किं मुधा । इतः परं वा त्यक्त्वा त्वं सर्वसङ्गं समाश्रय ॥ ५३॥
राममेव परात्मनं भक्तिभावेन सर्वदा । सीतां समर्प्य रामाय तत्पादानुचरो भव ॥ ५४॥
विमुक्तः सर्वपापेभ्यो विष्णुलोकं प्रयास्यसि । नो चेद्गमिष्यसेऽधोऽधः पुनरावृत्तिवर्जितः । अङ्गीकुरुष्व मद्वाक्यं हितमेव वदामि ते ॥ ५५॥
सत्सङ्गतिं कुरु भजस्व हरिं शरण्यं
श्रीराघवं मरकतोपलकान्तिकान्तम् ।
सीतासमेतमनिशं धृतचापबाअणं
सुग्रीवलक्ष्मणविभीषणसेविताङ्घ्रिम् ॥ ५६॥
इति श्रीमदध्यात्मरामायणे उमामहेश्वरसंवादे युद्धकाण्डे चतुर्थः सर्गः ॥ ४॥
॥ पञ्चमः सर्गः ॥
श्रीमहादेव उवाच ।
श्रुत्वा शुकमुखोद्गीतं वाक्यमज्ञाननाशनम् ।
रावणः क्रोधताम्राक्षो दहन्निव तमब्रवीत् ॥ १॥
अनुजीव्य सुदुर्बुद्धे गुरुवद्भाषसे कथम् । शासिताहं त्रिजगतां त्वं मां शिक्षन्न लज्जसे ॥ २॥
इदानीमेव हन्मि त्वां किन्तु पूर्वकृतं तव । स्मरामि तेन रक्षामि त्वां यद्यपि वधोचितम् ॥ ३॥
इतो गच्छ विमूढ त्वमेवं श्रोतुं न मे क्षमम् । महाप्रसाद इत्युक्त्वा वेपमानो गृहं ययौ ॥ ४॥
शुकोऽपि ब्राह्मणः पूर्वं ब्रह्मिष्ठो ब्रह्मवित्तमः । वानप्रस्थविधानेन वने तिष्ठन् स्वकर्मकृत् ॥ ५॥
देवानामभिवृद्ध्यर्थं विनाशाय सुरद्विषाम् । चकार यज्ञविततिमविच्छिन्नां महामतिः ॥ ६॥
राक्षसानां विरोधोऽभूच्छुको देवहितोद्यतः । वज्रदंष्ट्र इति ख्यातस्तत्रैको राक्षसो महान् ॥ ७॥
अन्तरं प्रेप्सुरातिष्ठच्छुकापकरणोद्यतः । कदाचिदागतोऽगस्त्यस्तस्याश्रमपदं मुनेः ॥ ८॥
तेन सम्पूजितोऽगस्त्यो भोजनार्थं निमन्त्रितः । गते स्नातुं मुनौ कुम्भसम्भवे प्राप्य चान्तरम् ॥ ९॥
अगस्त्यरूपधृक् सोऽपि राक्षसः शुकमब्रवीत् । यदि दास्यसि मे ब्रह्मन् भोजनं देहि सामिषम् ॥ १०॥
बहुकालं न भुक्तं मे मांसं छागाङ्गसम्भवम् । तथेति कारयामास मांसभोज्यं सविस्तरम् ॥ ११॥
उपविष्टे मुनौ भोक्तुं राक्षसोऽतीव सुन्दरम् । शुकभार्यावपुर्धृत्वा तां चान्तर्मोहयन् खलः ॥ १२॥
नरमांसं ददौ तस्मै सुपक्वं बहुविस्तरम् । दत्त्वैवान्तर्दधे रक्षस्ततो दृष्ट्वा चुकोप सः ॥ १३॥
अमेध्यं मानुषं मांसमगस्त्यः शुकमब्रवीत् । अभक्ष्यं मानुषं मांसं दत्तवानसि दुर्मते ॥ १४॥
मह्यं त्वं राक्षसो भूत्वा तिष्ठ त्वं मानुषाशनः । इति शप्तः शुको भीत्या प्राहागस्त्यं मुने त्वया ॥ १५॥
इदानीं भाषितं मेऽद्य मांसं देहीति विस्तरम् । तथैव दत्तं भो देव किं मे शापं प्रदास्यसि ॥ १६॥
श्रुत्वा शुकस्य वचनं मुहूर्तं ध्यानमास्थितः । ज्ञात्वा रक्षःकृतं सर्वं ततः प्राह शुकं सुधीः ॥ १७॥
तवापकारिणा सर्वं राक्षसेन कृतं त्विदम् । अविचार्यैव मे दत्तः शापस्ते मुनिसत्तम ॥ १८॥
तथापि मे वचोऽमोघमेवमेव भविष्यति । राक्षसं वपुरास्थाय रावणस्य सहायकृत् ॥ १९॥
तिष्ठ तावद्यदा रामो दशाननवधाय हि । आगमिष्यति लङ्कायाः समीपं वानरैः सह ॥ २०॥
प्रेषितो रावणेन त्वं चारो भूत्वा रघूत्तमम् । दृष्ट्वा शापाद्विनिर्मुक्तो बोधयित्वा च रावणम् ॥ २१॥
तत्त्वज्ञानं ततो मुक्तः परं पदमवाप्स्यसि । इत्युक्तोऽगस्त्यमुनिना शुको ब्राह्मणसत्तमः ॥ २२॥
बभूव राक्षसः सद्यो रावणं प्राप्य संस्थितः । इदानीं चाररूपेण दृष्ट्वा रामं सहानुजम् ॥ २३॥
रावणं तत्त्वविज्ञानं बोधयित्वा पुनर्द्रुतम् । पूर्ववद्ब्राह्मणो भूत्वा स्थितो वैखानसैः सह ॥ २४॥
ततः समागमद्वृद्धो माल्यवान् राक्षसो महान् । बुद्धिमान्नीतिनिपुणो राज्ञो मातुः प्रियः पिता ॥ २५॥
प्राह तं राक्षसं वीरं प्रशान्तेनान्तरात्मना । शृणु राजन् वचो मेऽद्य श्रुत्वा कुरु यथेप्सितम् ॥ २६॥
यदा प्रविष्टा नगरीं जानकी रामवल्लभा । तदादि पुर्यां दृश्यन्ते निमित्तानि दशानन ॥ २७॥
घोराणि नाशहेतूनि तानि मे वदतः शृणु । खरस्तनितनिर्घोषा मेघा अतिभयङ्कराः ॥ २८॥
शोणितेनाभिवर्षन्ति लङ्कामुष्णेन सर्वदा । रुदन्ति देवलिङ्गानि स्विद्यन्ति प्रचलन्ति च ॥ २९॥
कालिका पाण्डुरैर्दन्तैः प्रहसत्यग्रतः स्थिता । खरा गोषु प्रजायन्ते मूषका नकुलैः सह ॥ ३०॥
मार्जारेण तु युद्ध्यन्ति पन्नगा गरुडेन तु । करालो विकटो मुण्डः पुरुषः कृष्णपिङ्गलः ॥ ३१॥
कालो गृहाणि सर्वेषां काले काले त्ववेक्षते । एतान्यन्यानि दृश्यन्ते निमित्तान्युद्भवन्ति च ॥ ३२॥
अतः कुलस्य रक्षार्थं शान्तिं कुरु दशानन । सीतां सत्कृत्य सधनां रामायाशु प्रयच्छ भोः ॥ ३३॥
रामं नारायणं विद्धि विद्वेषं त्यज राघवे । यत्पादपोतमाश्रित्य ज्ञानिनो भवसागरम् ॥ ३४॥
तरन्ति भक्तिपूतान्तास्ततो रामो न मानुषः । भजस्व भक्तिभावेन रामं सर्वहृदालयम् ॥ ३५॥
यद्यपि त्वं दुराचारो भक्त्या पूतो भविष्यसि । मद्वाक्यं कुरु राजेन्द्र कुलकौशलहेतवे ॥ ३६॥
तत्तु माल्यवतो वाक्यं हितमुक्तं दशाननः । न मर्षयति दुष्टात्मा कालस्य वशमागतः ॥ ३७॥
मानवं कृपणं राममेकं शाखामृगाश्रयम् । समर्थं मन्यसे केन हीनं पित्रा मुनिप्रियम् ॥ ३८॥
रामेण प्रेषितो नूनं भाषसे त्वमनर्गलम् । गच्छ वृद्धोऽसि बन्धुस्त्वं सोढं सर्वं त्वयोदितम् ॥ ३९॥
इतो मत्कर्णपदवीं दहत्येतद्वचस्तव । इत्युक्त्वा सर्वसचिवैः सहितः प्रस्थितस्तदा ॥ ४०॥
प्रासादाग्रे समासीनः पश्यन् वानरसैनिकान् । युद्धायायोजयत्सर्वराक्षसान् समुपस्थितान् ॥ ४१॥
रामोऽपि धनुरादाय लक्ष्मणेन समाहृतम् । दृष्ट्वा रावणमासीनं कोपेन कलुषीकृतः ॥ ४२॥
किरीटिनं समासीनं मन्त्रिभिः परिवेष्टितम् । शशाङ्कार्धनिभेनैव बाणेनैकेन राघवः ॥ ४३॥
श्वेतच्छत्रसहस्राणि किरीटदशकं तथा । चिच्छेद निमिषार्धेन तदद्भुतमिवाभवत् ॥ ४४॥
लज्जितो रावणस्तूर्णं विवेश भवनं स्वकम् । आहूय राक्षसान् सर्वान् प्रहस्तप्रमुखान् खलः ॥ ४५॥
वानरैः सह युद्धाय नोदयामास सत्वरः । ततो भेरीमृदङ्गाद्यैः पणवानकगोमुखैः ॥ ४६॥
महिषोष्ट्रैः खरैः सिंहैर्द्वीपिभिः कृतवाहनाः । खड्गशूलधनुःपाशयष्टितोमरशक्तिभिः ॥४७॥
लक्षिताः सर्वतो लङ्कां प्रतिद्वारमुपाययुः । तत्पूर्वमेव रामेण नोदिता वानरर्षभाः ॥ ४८॥
उद्यम्य गिरिशृङ्गाणि शिखराणि महान्ति च । तरूंश्चोत्पाट्य विविधान् युद्धाय हरियूथपाः ॥ ४९॥
प्रेक्षमाणा रावणस्य तान्यनीकानि भागशः । राघवप्रियकामार्थं लङ्कामारुरुहुस्तदा ॥ ५०॥
ते द्रुमैः पर्वताग्रैश्च मुष्टिभिश्च प्लवङ्गमाः । ततः सहस्रयूथाश्च कोटियूथाश्च यूथपाः ॥ ५१॥
कोटीशतयुताश्चान्ये रुरुधुर्नगरं भृशम् । आप्लवन्तः प्लवन्तश्च गर्जन्तश्च प्लवङ्गमाः ॥ ५२॥
रामो जयत्यतिबलो लक्ष्मणश्च महाबलः । राजा जयति सुग्रीवो राघवेणानुपालितः ॥ ५३॥
इत्येवं घोषयन्तश्च समं युयुधिरेऽरिभिः । हनूमानङ्गदश्चैव कुमुदो नील एव च ॥ ५४॥
नलश्च शरभश्चैव मैन्दो द्विविद एव च । जाम्बवान् दधिवक्त्रश्च केसरी तार एव च ॥ ५५॥
अन्ये च बलिनः सर्वे यूथपाश्च प्लवङ्गमाः । द्वाराण्युत्प्लुत्य लङ्कायाः सर्वतो रुरुधुर्भृशम् । तदा वृक्षैर्महाकायाः पर्वताग्रैश्च वानराः ॥ ५६॥
निजघ्नुस्तानि रक्षांसि नखैर्दन्तैश्च वेगिताः । राक्षसाश्च तदा भीमा द्वारेभ्यः सर्वतो रुषा ॥ ५७॥
निर्गत्य भिन्दिपालैश्च खड्गैः शूलैः परश्वधैः । निजघ्नुर्वानरानीकं महाकाया महाबलाः ॥ ५८॥
राक्षसांश्च तथा जघ्नुर्वानरा जितकाशिनः । तदा बभूव समरो मांसशोणितकर्दमः ॥ ५९॥
रक्षसां वानराणां च सम्बभूवाद्भुतोपमः । ते हयैश्च गजैश्चैव रथैः काञ्चनसन्निभैः ॥ ६०॥
रक्षोव्याघ्रा युयुधिरे नादयन्तो दिशो दश । राक्षसाश्च कपीन्द्राश्च परस्परजयैषिणः ॥ ६१॥
राक्षसान् वानरा जघ्नुर्वानरांश्चैव राक्षसाः । रामेण विष्णुना दृष्टा हरयो दिविजांशजाः ॥ ६२॥
बभूवुर्बलिनो हृष्टास्तदा पीतामृता इव । सीताभिमर्शपापेन रावणेनाभिपालितान् ॥ ६३॥
हतश्रीकान् हतबलान् राक्षसान् जघ्नुरोजसा । चतुर्थांशावशेषेण निहतं राक्षसं बलम् ॥ ६४॥
स्वसैन्यं निहतं दृष्ट्वा मेघनादोऽथ दुष्टधीः । ब्रह्मदत्तवरः श्रीमानन्तर्धानं गतोऽसुरः ॥ ६५॥
सर्वास्त्रकुशलो व्योम्नि ब्रह्मास्त्रेण समन्ततः । नानाविधानि शस्त्राणि वानरानीकमर्दयन् ॥ ६६॥
ववर्ष शरजालानि तदद्भुतमिवाभवत् । रामोऽपि मानयन् ब्राह्ममस्त्रमस्त्रविदां वरः ॥ ६७॥
क्षणं तूष्णीमुवासाथ ददर्श पतितं बलम् । वानराणां रघुश्रेष्ठश्चुकोपानलसन्निभः ॥ ६८॥
चापमानय सौमित्रे ब्रह्मास्त्रेणासुरं क्षणात् । भस्मीकरोमि मे पश्य बलमद्य रघूत्तम ॥ ६९॥
मेघनादोऽपि तच्छ्रुत्वा रामवाक्यमतन्द्रितः । तूर्णं जगाम नगरं मायया मायिकोऽसुरः ॥ ७०॥
पतितं वानरानीकं दृष्ट्वा रामोऽतिदुःखितः । उवाच मारुतिं शीघ्रं गत्वा क्षीरमहोदधिम् ॥ ७१॥
तत्र द्रोणगिरिर्नाम दिव्यौषधिसमुद्भवः । तमानय द्रुतं गत्वा सञ्जीवय महामते ॥ ७२॥
वानरौघान् महासत्त्वान् कीर्तिस्ते सुस्थिरा भवेत् । आज्ञाप्रमाणमित्युक्त्वा जगामानिलनन्दनः ॥ ७३॥
आनीय च गिरिं सर्वान् वानरान् वानरर्षभः । जीवयित्वा पुनस्तत्र स्थापयित्वाऽऽययौ द्रुतम् ॥ ७४॥
पूर्ववद्भैरवं नादं वानराणां बलौघतः । श्रुत्वा विस्मयमापन्नो रावणो वाक्यमब्रवीत् ॥ ७५॥
राघवो मे महान् शत्रुः प्राप्तो देवविनिर्मितः । हन्तुं तं समरे शीघ्रं गच्छन्तु मम यूथपाः ॥ ७६॥
मन्त्रिणो बान्धवाः शूरा ये च मत्प्रियकाङ्क्षिणः । सर्वे गच्छन्तु युद्धाय त्वरितं मम शासनात् ॥ ७७॥
ये न गच्छन्ति युद्धाय भीरवः प्राणविप्लवात् । तान् हनिष्याम्यहं सर्वान् मच्छासनपराङ्मुखान् ॥ ७८॥
तच्छ्रुत्वा भयसन्त्रस्ता निर्जग्मू रणकोविदाः । अतिकायः प्रहस्तश्च महानादमहोदरौ ॥ ७९॥
देवशत्रुर्निकुम्भश्च देवान्तकनरान्तकौ । अपरे बलिनः सर्वे ययुर्युद्धाय वानरैः ॥ ८०॥
एते चान्ये च बहवः शूराः शतसहस्रशः । प्रविश्य वानरं सैन्यं ममन्थुर्बलदर्पिताः ॥ ८१॥
भुशुण्डीभिन्दिपालैश्च बाणैः खड्गैः परश्वधैः । अन्यैश्च विविधैरस्त्रैर्निजघ्नुर्हरियूथपान् ॥ ८२॥
ते पादपैः पर्वताग्रैर्नखदंष्ट्रैश्च मुष्टिभिः । प्राणैर्विमोचयामासुः सर्वराक्षसयूथपान् ॥ ८३॥
रामेण निहताः केचित्सुग्रीवेण तथापरे । हनूमता चाङ्गदेन लक्ष्मणेन महात्मना । यूथपैर्वानराणां ते निहताः सर्वराक्षसाः ॥ ८४॥
रामतेजः समाविश्य वानरा बलिनोऽभवन् । रामशक्तिविहीनानामेवं शक्तिः कुतो भवेत् ॥ ८५॥
सर्वेश्वरः सर्वमयो विधाता
मायामनुष्यत्वविडम्बनेन ।
सदा चिदानन्दमयोऽपि रामो
युद्धादिलीलां वितनोति मायाम् ॥ ८६॥
इति श्रीमदध्यात्मरामायणे उमामहेश्वरसंवादे युद्धकाण्डे पञ्चमः सर्गः ॥ ५॥
॥षष्ठः सर्गः ॥
श्रीमहादेव उवाच ।
श्रुत्वा युद्धे बलं नष्टमतिकायमुखं महत् ।
रावणो दुःखसन्तप्तः क्रोधेन महताऽऽवृतः ॥ १॥
निधायेन्द्रजितं लङ्कारक्षणार्थं महाद्युतिः । स्वयं जगाम युद्धाय रामेण सह राक्षसः ॥ २॥
दिव्यं स्यन्दनमारुह्य सर्वशस्त्रास्त्रसंयुतम् । राममेवाभिदुद्राव राक्षसेन्द्रो महाबलः ॥ ३॥
वानरान् बहुशो हत्वा बाणैराशीविषोपमैः । पातयामास सुग्रीवप्रमुखान् यूथनायकान् ॥ ४॥
गदापाणिं महासत्त्वं तत्र दृष्ट्वा विभीषणम् । उत्ससर्ज महाशक्तिं मयदत्तां विभीषणे ॥ ५॥
तामापतन्तीमालोक्य विभीषणविघातिनीम् । दत्ताभयोऽयं रामेण वधार्हो नायमासुरः ॥ ६॥
इत्युक्त्वा लक्ष्मणो भीमं चापमादाय वीर्यवान् । विभीषणस्य पुरतः स्थितोऽकम्प इवाचलः ॥ ७॥
सा शक्तिर्लक्ष्मणतनुं विवेशामोघशक्तितः । यावन्त्यः शक्तयो लोके मायायाः सम्भवन्ति हि ॥ ८॥
तासामाधारभूतस्य लक्ष्मणस्य महात्मनः । मायाशक्त्या भवेत्किं वा शेषांशस्य हरेस्तनोः ॥ ९॥
तथापि मानुषं भावमापन्नस्तदनुव्रतः । मूर्च्छितः पतितो भूमौ तमादातुं दशाननः ॥ १०॥
हस्तैस्तोलयितुं शक्तो न बभूवातिविस्मितः । सर्वस्य जगतः सारं विराजं परमेश्वरम् ॥ ११॥
कथं लोकाश्रयं विष्णुं तोलयेल्लघुराक्षसः । ग्रहीतुकामं सौमित्रिं रावणं वीक्ष्य मारुतिः ॥ १२॥
आजघानोरसि क्रुद्धो वज्रकल्पेन मुष्टिना । तेन मुष्टिप्रहारेण जानुभ्यामपतद्भुवि ॥ १३॥
आस्यैश्च नेत्रश्रवणैअरुद्वमन् रुधिरं बहु । विघूर्णमाननयनो रथोपस्थ उपाविशत् ॥ १४॥
अथ लक्ष्मणमादाय हनूमान् रावणार्दितम् । आनयद्रामसामीप्यं बाहुभ्यां परिगृह्य तम् ॥ १५॥
हनूमतः सुहृत्त्वेन भक्त्या च परमेश्वरः । लघुत्वमगमद्देवो गुरूणां गुरुरप्यजः ॥ १६॥
सा शक्तिरपि तं त्यक्त्वा ज्ञात्वा नारायणांशजम् । रावणस्य रथं प्रागाद्रावणोऽपि शनैस्ततः ॥ १७॥
सन्ज्ञामवाप्य जग्राह बाणासनमथो रुषा । राममेवाभिदुद्राव दृष्ट्वा रामोऽपि तं क्रुधा ॥ १८॥
आरुह्य जगतां नाथो हनूमन्तं महाबलम् । रथस्थं रावणं दृष्ट्वा अभिदुद्राव राघवः ॥ १९॥
ज्याशब्दमकरोत्तीव्रं वज्रनिष्पेषनिष्ठुरम् । रामो गम्भीरया वाचा राक्षसेन्द्रमुवाच ह ॥ २०॥
राक्षसाधम तिष्ठाद्य क्व गमिष्यसि मे पुरः । कृत्वापराधमेवं मे सर्वत्र समदर्शिनः ॥ २१॥
येन बाणेन निहता राक्षसास्ते जनालये । तेनैव त्वां हनिष्यामि तिष्ठाद्य मम गोचरे ॥ २२॥
श्रीरामस्य वचः श्रुत्वा रावणो मारुतात्मजम् । वहन्तं राघवं सङ्ख्ये शरैस्तीक्ष्णैरताडयत् ॥ २३॥
हतस्यापि शरैस्तीक्ष्णैर्वायुसूनोः स्वतेजसा । व्यवर्धत पुनस्तेजो ननर्द च महाकपिः ॥ २४॥
ततो दृष्ट्वा हनूमन्तं सव्रणं रघुसत्तमः । क्रोधमाहारयामास कालरुद्र इवापरः ॥ २५॥
साश्वं रथं ध्वजं सूतं शस्त्रौघं धनुरञ्जसा । छत्रं पताकां तरसा चिच्छेद शितसायकैः ॥ २६॥
ततो महाशरेणाशु रावणं रघुसत्तमः । विव्याध वज्रकल्पेन पाकारिरिव पर्वतम् ॥ २७॥
रामबाणहतो वीरश्चचाल च मुमोह च । हस्तान्निपतितश्चापस्तं समीक्ष्य रघूत्तमः ॥ २८॥
अर्धचन्द्रेण चिच्छेद तत्किरीटं रविप्रभम् । अनुजानामि गच्छ त्वमिदानीं बाणपीडितः ॥ २९॥
प्रविश्य लङ्कामाश्वास्य श्वः पश्यसि बलं मम । रामबाणेन संविद्धो हतदर्पोऽथ रावणः ॥ ३०॥
महत्या लज्जया युक्तो लङ्कां प्राविशदातुरः । रामोऽपि लक्ष्मणं दृष्ट्वा मूर्च्छितं पतितं भुवि ॥ ३१॥
मानुषत्वमुपाश्रित्य लीलयानुशुशोच ह । ततः प्राह हनूमन्तं वत्स जीवय लक्ष्मणम् ॥ ३२॥
महौषधीः समानीय पूर्ववद्वानरानपि । तथेति रघवेणोक्तो जगामाशु महाकपिः ॥ ३३॥
हनूमान् वायुवेगेन क्षणात्तीर्त्वा महोदधिम् । एतस्मिन्नन्तरे चारा रावणाय न्यवेदयन् ॥ ३४॥
रामेण प्रेषितो देव हनूमान् क्षीरसागरम् । गतो नेतुं लक्ष्मणस्य जीवनार्थं महौषधीः ॥ ३५॥
श्रुत्वा तच्चारवचनं राजा चिन्तापरोऽभवत् । जगाम रात्रावेकाकी कालनेमिगृहं क्षणात् ॥ ३६॥
गृहागतं समालोक्य रावणं विस्मयान्वितः । कालनेमिरुवाचेदं प्राञ्जलिर्भयविह्वलः । अर्घ्यादिकं ततः कृत्वा रावणस्याग्रतः स्थितः ॥ ३७॥
किं ते करोमि राजेन्द्र किमागमनकारणम् । कालनेमिमुवाचेदं रावणो दुःखपीडितः ॥ ३८॥
ममापि कालवशतः कष्टमेतदुपस्थितम् । मया शक्त्या हतो वीरो लक्ष्मणः पतितो भुवि ॥ ३९॥
तं जीवयितुमानेतुमोषधीर्हनुमान् गतः । यथा तस्य भवेद्विघ्नस्तथा कुरु महामते ॥ ४०॥
मायया मुनिवेषेण मोहयस्व महाकपिम् । कालात्ययो यथा भूयात्तथा कृत्वैहि मन्दिरे ॥ ४१॥
रावणस्य वचः श्रुत्वा कालनेमिरुवाच तम् । रावणेश वचो मेऽद्य शृणु धारय तत्त्वतः ॥ ४२॥
प्रियं ते करवाण्येव न प्राणान् धारयाम्यहम् । मारीचस्य यथारण्ये पुराभून्मृगरूपिणः ॥ ४३॥
तथैव मे न सन्देहो भविष्यति दशानन । हताः पुत्राश्च पौत्राश्च बान्धवा राक्षसाश्च ते ॥ ४४॥
घातयित्वाऽसुरकुलं जीवितेनापि किं तव । राज्येन वा सीतया वा किं देहेन जडात्मना ॥ ४५॥
सीतां प्रयच्छ रामाय राज्यं देहि विभीषणे । वनं याहि महाबाहो रम्यं मुनिगणाश्रयम् ॥ ४६॥
स्नात्वा प्रातः शुभजले कृत्वा सन्ध्यादिकाः क्रियाः । तत एकान्तमाश्रित्य सुखासनपरिग्रहः ॥ ४७॥
विसृज्य सर्वतः सङ्गमितरान् विषयान् बहिः । बहिःप्रवृत्ताक्षगणं शनैः प्रत्यक् प्रवाहय ॥ ४८॥
प्रकृतेर्भिन्नमात्मानं विचारय सदानघ । चराचरं जगत्कृत्स्नं देहबुद्धीन्द्रियादिकम् ॥ ४९॥
आब्रह्मस्तम्बपर्यन्तं दृश्यते श्रूयते च यत् । सैषा प्रकृतिरित्युक्ता सैव मायेति कीर्तिता ॥ ५०॥
सर्गस्थितिविनाशानां जगद्वृक्षस्य कारणम् । लोहितश्वेतकृष्णादि प्रजाः सृजति सर्वदा ॥ ५१॥
कामक्रोधादिपुत्राद्यान् हिंसातृष्णादिकन्यकाः । मोहयन्त्यनिशं देवमात्मानं स्वैर्गुणैर्विभुम् ॥ ५२॥
कर्तृत्वभोक्तृत्वमुखान् स्वगुणानात्मनीश्वरे । आरोप्य स्ववशं कृत्वा तेन क्रीडति सर्वदा ॥ ५३॥
शुद्धोऽप्यात्मा यया युक्तः पश्यतीव सदा बहिः । विस्मृत्य च स्वमात्मानं मायागुणविमोहितः ॥ ५४॥
यदा सद्गुरुणा युक्तो बोध्यते बोधरूपिणा । निवृत्तदृष्टिरात्मानं पश्यत्येव सदा स्फुटम् ॥ ५५॥
जीवन्मुक्तः सदा देही मुच्यते प्राकृतैर्गुणैः । त्वमप्येवं सदात्मानं विचार्य नियतेन्द्रियः ॥ ५६॥
प्रकृतेरन्यमात्मानं ज्ञात्वा मुक्तो भविष्यसि । ध्यातुं यद्यसमर्थोऽसि सगुणं देवमाश्रय ॥ ५७॥
हृत्पद्मकर्णिके स्वर्णपीठे मणिगणान्विते । मृदुश्लक्ष्णतरे तत्र जानक्या सह संस्थितम् ॥ ५८॥
वीरासनं विशालाक्षं विद्युत्पुञ्जनिभाम्बरम् । किरीटहारकेयूरकौस्तुभादिभिरन्वितम् ॥ ५९॥
नूपुरैः कटकैर्भान्तं तथैव वनमालया । लक्ष्मणेन धनुर्द्वन्द्वकरेण परिसेवितम् ॥ ६०॥
एवं ध्यात्वा सदात्मानं रामं सर्वहृदि स्थितम् । भक्त्या परमया युक्तो मुच्यते नात्र संशयः ॥ ६१॥
शृणु वै चरितं तस्य भक्तैर्नित्यमनन्यधीः । एवं चेत्कृतपूर्वाणि पापानि च महान्त्यपि । क्षणादेव विनश्यन्ति यथाग्नेस्तूलराशयः ॥ ६२॥
भजस्व रामं परिपूर्णमेकं
विहाय वैरं निजभक्तियुक्तः ।
हृदा सदा भावितभावरूपं
अनामरूपं पुरुषं पुराणम् ॥ ६३॥
इति श्रीमदध्यात्मरामायणे उमामहेश्वरसंवादे युद्धकाण्डे षष्ठः सर्गः ॥ ६॥
॥सप्तमः सर्गः ॥
श्रीमहादेव उवाच ।
कालनेमिवचः श्रुत्वा रावणोऽमृतसन्निभम् ।
जज्वाल क्रोधताम्राक्षः सर्पिरद्भिरिवाग्निमत् ॥ १॥
निहन्मि त्वां दुरात्मानं मच्छासनपराङ्मुखम् । परैः किञ्चिद्गृहीत्वा त्वं भाषसे रामकिङ्करः ॥ २॥
कालनेमिरुवाचेदं रावणं देव किं क्रुधा । न रोचते मे वचनं यदि गत्वा करोमि तत् ॥ ३॥
इत्युक्त्वा प्रययौ शीघ्रं कालनेमिर्महासुरः । नोदितो रावणेनैव हनूमद्विघ्नकारणात् ॥ ४॥
स गत्वा हिमवत्पार्श्वं तपोवनमकल्पयत् । तत्र शिष्यैः परिवृतो मुनिवेषधरः खलः ॥ ५॥
गच्छतो मार्गमासाद्य वायुसूनोर्महात्मनः । ततो गत्वा ददर्शाथ हनूमानाश्रमं शुभम् ॥ ६॥
चिन्तयामास मनसा श्रीमान् पवननन्दनः । पुरा न दृष्टमेतन्मे मुनिमण्डलमुत्तमम् ॥ ७॥
मार्गो विभ्रंशितो वा मे भ्रमो वा चित्तसम्भवः । यद्वाऽऽविश्याश्रमपदं दृष्ट्वा मुनिमशेषतः ॥ ८॥
पीत्वा जलं ततो यामि द्रोणाचलमनुत्तमम् । इत्युक्त्वा प्रविवेशाथ सर्वतो योजनायतम् ॥ ९॥
आश्रमं कदलीशालखर्जूरपनसादिभिः । समावृतं पक्वफलैर्नम्रशाखैश्च पादपैः ॥ १०॥
वैरभावविनिर्मुक्तं शुद्धं निर्मललक्षणम् । तस्मिन्महाश्रमे रम्ये कालनेमिः स राक्षसः ॥ ११॥
इन्द्रयोगं समास्थाय चकार शिवपूजनम् । हनूमानभिवाद्याह गौरवेण महासुरम् ॥ १२॥
भगवन् रामदूतोऽहं हनूमान्नाम नामतः । रामकार्येण महता क्षीराब्धिं गन्तुमुद्यतः ॥ १३॥
तृषा मां बाधते ब्रह्मन्नुदकं कुत्र विद्यते । यथेच्छं पातुमिच्छामि कथ्यतां मे मुनीश्वर ॥ १४॥
तच्छ्रुत्वा मारुतेर्वाक्यं कालनेमिस्तमब्रवीत् । कमण्डलुगतं तोयं मम त्वं पातुमर्हसि ॥ १५॥
भुङ्क्ष्व चेमानि पक्वानि फलानि तदनन्तरम् । निवसस्व सुखेनात्र निद्रामेहि त्वरास्तु मा ॥ १६॥
भूतं भव्यं भविष्यं च जानामि तपसा स्वयम् । उत्थितो लक्ष्मणः सर्वे वानरा रामवीक्षिताः ॥ १७॥
तच्छ्रुत्वा हनुमानाह कमण्डलुजलेन मे । न शाम्यत्यधिका तृष्णा ततो दर्शय मे जलम् ॥ १८॥
तथेत्याज्ञापयामास वटुं मायाविकल्पितम् । वटो दर्शय विस्तीर्णं वायुसूनोर्जलाशयम् ॥ १९॥
निमील्य चाक्षिणी तोयं पीत्वागच्छ ममान्तिकम् । उपदेक्ष्यामि ते मन्त्रं येन द्रक्ष्यसि चौषधीः ॥ २०॥
तथेति दर्शितं शीघ्रं वटुना सलिलाशयम् । प्रविश्य हनुमांस्तोयमपिबन्मीलितेक्षणः ॥ २१॥
ततश्चागत्य मकरी महामाया महाकपिम् । अग्रसत्तं महावेगान्मारुतिं घोररूपिणी ॥ २२॥
ततो ददर्श हनुमान् ग्रसन्तीं मकरीं रुषा । दारयामास हस्ताभ्यां वदनं सा ममार ह ॥ २३॥
ततोऽन्तरिक्षे ददृशे दिव्यरूपधराङ्गना । धान्यमालीति विख्याता हनूमन्तमथाब्रवीत् ॥ २४॥
त्वत्प्रसादादहं शापाद्विमुक्तास्मि कपीश्वर । शप्ताहं मुनिना पूर्वमप्सरा कारणान्तरे ॥ २५॥
आश्रमे यस्तु ते दृष्टः कालनेमिर्महासुरः । रावणप्रहितो मार्गे विघ्नं कर्तुं तवानघ ॥ २६॥
मुनिवेषधरो नासौ मुनिर्विप्रविहिंसकः । जहि दुष्टं गच्छ शीघ्रं द्रोणाचलमनुत्तमम् ॥ २७॥
गच्छाम्यहं ब्रह्मलोकं त्वत्स्पर्शाद्धतकल्मषा । इत्युक्त्वा सा ययौ स्वर्गं हनूमानप्यथाश्रमम् ॥ २८॥
आगतं तं समालोक्य कालनेमिरभाषत । किं विलम्बेन महता तव वानरसत्तम ॥ २९॥
गृहाण मत्तो मन्त्रांस्त्वं देहि मे गुरुदक्षिणाम् । इत्युक्तो हनुमान्मुष्टिं दृढं बद्ध्वाह राक्षसम् ॥ ३०॥
गृहाण दक्षिणामेतामित्युक्त्वा निजघान तम् । विसृज्य मुनिवेषं स कालनेमिर्महासुरः ॥ ३१॥
युयुधे वायुपुत्रेण नानामायाविधानतः । महामायिकदूतोऽसौ हनूमान्मायिनां रिपुः ॥ ३२॥
जघान मुष्टिना शीर्ष्णि भग्नमूर्धा ममार सः । ततः क्षीरनिधिं गत्वा दृष्ट्वा द्रोणं महागिरिम् ॥ ३३॥
अदृष्ट्वा चौषधीस्तत्र गिरिमुत्पाट्य सत्वरः । गृहीत्वा वायुवेगेन गत्वा रामस्य सन्निधिम् ॥ ३४॥
उवाच हनुमान् राममानीतोऽयं महागिरिः । यद्युक्तं कुरु देवेश विलम्बो नात्र युज्यते ॥ ३५॥
श्रुत्वा हनूमतो वाक्यं रामः सन्तुष्टमानसः । गृहीत्वा चौषधीः शीघ्रं सुषेणेन महामतिः ॥ ३६॥
चिकित्सां कारयामास लक्ष्मणाय महात्मने । ततः सुप्तोत्थित इव बुद्ध्वा प्रोवाच लक्ष्मणः ॥ ३७॥
तिष्ठ तिष्ठ क्व गन्तासि हन्मीदानीं दशानन । इति ब्रुवन्तमालोक्य मूर्ध्न्यवघ्राय राघवः ॥ ३८॥
मारुतिं प्राह वत्साद्य त्वत्प्रसादान्महाकपे । निरामयं प्रपश्यामि लक्ष्मणं भ्रातरं मम ॥ ३९॥
इत्युक्त्वा वानरैः सार्धं सुग्रीवेण समन्वितः । विभीषणमतेनैव युद्धाय समवस्थितः ॥ ४०॥
पाषाणैः पादपैश्चैव पर्वताग्रैश्च वानराः । युद्धायाभिमुखा भूत्वा ययुः सर्वे युयुत्सवः ॥ ४१॥
रावणो विव्यथे रामबाणैर्विद्धो महासुरः । मातङ्ग इव सिंहेन गरुडेनेव पन्नगः ॥ ४२॥
अभिभूतोऽगमद्राजा राघवेण महात्मना । सिंहासने समाविश्य राक्षसानिदमब्रवीत् ॥ ४३॥
मानुषेणैव मे मृत्युमाह पूर्वं पितामहः । मानुषो हि न मां हन्तुं शक्तोऽस्ति भुवि कश्चन ॥ ४४॥
ततो नारायणः साक्षान्मानुषोऽभून्न संशयः । रामो दाशरथिर्भूत्वा मां हन्तुं समुपस्थितः ॥ ४५॥
अनरण्येन यत्पूर्वं शप्तोऽहं राक्षसेश्वर । उत्पत्स्यते च मद्वंशे परमात्मा सनातनः ॥ ४६॥
तेन त्वं पुत्रपौत्रैश्च बान्धवैश्च समन्वितः । हनिष्यसे न सन्देह इत्युक्त्वा मां दिवं गतः ॥ ४७॥
स एव रामः सञ्जातो मदर्थे मां हनिष्यति । कुम्भकर्णस्तु मूढात्मा सदा निद्रावशं गतः ॥ ४८॥
तं विबोध्य महासत्त्वमानयन्तु ममान्तिकम् । इत्युक्तास्ते महाकायास्तूर्णं गत्वा तु यत्नतः ॥ ४९॥
विबोध्य कुम्भश्रवणं निन्यू रावणसन्निधिम् । नमस्कृत्य स राजानमासनोपरि संस्थितः ॥ ५०॥
तमाह रावणो राजा भ्रातरं दीनया गिरा । कुम्भकर्ण निबोध त्वं महत्कष्टमुपस्थितम् ॥ ५१॥
रामेण निहताः शूराः पुत्राः प्रौत्राश्च बान्धवाः । किं कर्तव्यमिदानीं मे मृत्युकाल उपस्थिते ॥ ५२॥
एष दाशरथी रामः सुग्रीवसहितो बली । समुद्रं सबलस्तीर्त्वा मूलं नः परिकृन्तति ॥ ५३॥
ये राक्षसा मुख्यतमास्ते हता वानरैर्युधि । वानराणां क्षयं युद्धे न पश्यामि कदाचन ॥ ५४॥
नाशयस्व महाबाहो यदर्थं परिबोधितः । भ्रातुरर्थे महासत्त्व कुरु कर्म सुदुष्करम् ॥ ५५॥
श्रुत्वा तद्रावणेन्द्रस्य वचनं परिदेवितम् । कुम्भकर्णो जहासोच्चैर्वचनं चेदमब्रवीत् ॥ ५६॥
पुरा मन्त्रविचारे ते गदितं यन्मया नृप । तदद्य त्वामुपगतं फलं पापस्य कर्मणः ॥ ५७॥
पूर्वमेव मया प्रोक्तो रामो नारायणः परः । सीता च योगमायेति बोधितोऽपि न बुध्यसे ॥ ५८॥
एकदाहं वने सानौ विशालायां स्थितो निशि । दृष्टो मया मुनिः साक्षान्नारदो दिव्यदर्शनः ॥ ५९॥
तमब्रवं महाभाग कुतो गन्तासि मे वद । इत्युक्तो नारदः प्राह देवानां मन्त्रणे स्थितः ॥ ६०॥
तत्रोत्पन्नमुदन्तं ते वक्ष्यामि शृणु तत्त्वतः । युवाभ्यां पीडिता देवाः सर्वे विष्णुमुपागताः ॥ ६१॥
ऊचुस्ते देवदेवेशं स्तुत्वा भक्त्या समाहिताः । जहि रावणमक्षोभ्यं देव त्रैलोक्यकण्टकम् ॥ ६२॥
मानुषेण मृतिस्तस्य कल्पिता ब्रह्मणा पुरा । अतस्त्वं मानुषो भूत्वा जहि रावणकण्टकम् ॥ ६३॥
तथेत्याह महाविष्णुः सत्यसङ्कल्प ईश्वरः । जातो रघुकुले देवो राम इत्यभिविश्रुतः ॥ ६४॥
स हनिष्यति वः सर्वानित्युक्त्वा प्रययौ मुनिः । अतो जानीहि रामं त्वं परं ब्रह्म सनातनम् ॥ ६५॥
त्यज वैरं भजस्वाद्य मायामानुषविग्रहम् । भजतो भक्तिभावेन प्रसीदति रघूत्तमः ॥ ६६॥
भक्तिर्जनित्री ज्ञानस्य भक्तिर्मोक्षप्रदायिनी । भक्तिहीनेन यत्किञ्चित्कृतं सर्वमसत्समम् ॥ ६७॥
अवताराः सुबहवो विष्णोर्लीलानुकारिणः । तेषां सहस्रसदृशो रामो ज्ञानमयः शिवः ॥ ६८॥
रामं भजन्ति निपुणा मनसा वचसाऽनिशम् । अनायासेन संसारं तीर्त्वा यान्ति हरेः पदम् ॥ ६९॥
ये राममेव सततं भुवि शुद्धसत्त्वा
ध्यायन्ति तस्य चरितानि पठन्ति सन्तः ।
मुक्तास्त एव भवभोगमहाहिपाशैः
सीतापतेः पदमनन्तसुखं प्रयान्ति ॥ ७०॥
इति श्रीमदध्यात्मरामायणे उमामहेश्वरसंवादे युद्धकाण्डे सप्तमः सर्गः ॥ ७॥
॥अष्टमः सर्गः ॥
श्रीमहादेव उवाच ।
कुम्भकर्णवचः श्रुत्वा भ्रुकुटीविकटाननः ।
दशग्रीवो जगादेदमासनादुत्पतन्निव ॥ १॥
त्वमानीतो न मे ज्ञानबोधनाय सुबुद्धिमान् । मया कृतं समीकृत्य युध्यस्व यदि रोचते ॥ २॥
नो चेद्गच्छ सुषुप्त्यर्थं निद्रा त्वां बाधतेऽधुना । रावणस्य वचः श्रुत्वा कुम्भकर्णो महाबलः ॥ ३॥
रुष्टोऽयमिति विज्ञाय तूर्णं युद्धाय निर्ययौ । स लङ्घयित्वा प्राकारं महापर्वतसन्निभः ॥ ४॥
निर्ययौ नगरात्तूर्णं भीषयन् हरिसैनिकान् । स ननाद महानादं समुद्रमभिनादयन् ॥ ५॥
वानरान् कालयामास बाहुभ्यां भक्षयन् रुषा । कुम्भकर्णं तदा दृष्ट्वा सपक्षमिव पर्वतम् ॥ ६॥
दुद्रुवुर्वानराः सर्वे कालान्तकमिवाखिलाः । भ्रमन्तं हरिवाहिन्यां मुद्गरेण महाबलम् ॥ ७॥
कालयन्तं हरीन् वेगाद्भक्षयन्तं समन्ततः । चूर्णयन्तं मुद्गरेण पाणिपादैरनेकधा ॥ ८॥
कुम्भकर्णं तदा दृष्ट्वा गदापाणिर्विभीषणः । ननाम चरणं तस्य भ्रातुर्ज्येष्ठस्य बुद्धिमान् ॥ ९॥
विभीषणोऽहं भ्रातुर्मे दयां कुरु महामते । रावणस्तु मया भ्रातर्बहुधा परिबोधितः ॥ १०॥
सीतां देहीति रामाय रामः साक्षाज्जनार्दनः । न शृणोति च मां हन्तुं खड्गमुद्यम्य चोक्तवान् ॥ ११॥
धिक् त्वां गच्छेति मां हत्वा पदा पापिभिरावृतः । चतुर्भिर्मन्त्रिभिः सार्धं रामं शरणमागतः ॥ १२॥
तच्छ्रुत्वा कुम्भकर्णोऽपि ज्ञात्वा भ्रातरमागतम् । समालिङ्ग्य च वत्स त्वं जीव रामपदाश्रयात् ॥ १३॥
कुलसंरक्षणार्थाय राक्षसानां हिताय च । महाभागवतोऽसि त्वं पुरा मे नारदाच्छ्रुतम् ॥ १४॥
गच्छ तात ममेदानीं दृश्यते न च किञ्चन । मदीयो वा परो वापि मदमत्तविलोचनः ॥ १५॥
इत्युक्तोऽश्रुमुखो भ्रातुश्चरणावभिवन्द्य सः । रामपार्श्वमुपागत्य चिन्तापर उपस्थितः ॥ १६॥
कुम्भकर्णोऽपि हस्ताभ्यां पादाभ्यां पेषयन् हरीन् । चचार वानरीं सेनां कालयन् गन्धहस्तिवत् ॥ १७॥
दृष्ट्वा तं राघवः क्रुद्धो वायव्यं शस्त्रमादरात् । चिक्षेप कुम्भकर्णाय तेन चिच्छेद रक्षसः ॥ १८॥
समुद्गरं दक्षहस्तं तेन घोरं ननाद सः । स हस्तः पतितो भूमावनेकानर्दयन् कपीन् ॥ १९॥
पर्यन्तमाश्रिताः सर्वे वानरा भयवेपिताः । रामराक्षसयोर्युद्धं पश्यन्तः पर्यवस्थिताः ॥ २०॥
कुम्भकर्णश्छिन्नहस्तः शालमुद्यम्य वेगतः । समरे राघवं हन्तुं दुद्राव तमथोऽच्छिनत् ॥ २१॥
शालेन सहितं वामहस्तमैन्द्रेण राघवः । छिन्नबाहुमथायान्तं नर्दन्तं वीक्ष्य राघवः ॥ २२॥
द्वावर्धचन्द्रौ निशितावादायास्य पदद्वयम् । चिच्छेद पतितौ पादौ लङ्काद्वारि महास्वनौ ॥ २३॥
निकृत्तपाणिपादोऽपि कुम्भकर्णोऽतिभीषणः । वडवामुखवद्वक्त्रं व्यादाय रघुनन्दनम् ॥ २४॥
अभिदुद्राव निनदन् राहुश्चन्द्रमसं यथा । अपूरयच्छिताग्रैश्च सायकैस्तद्रघूत्तमः ॥ २५॥
शरपूरितवक्त्रोऽसौ चुक्रोशातिभयङ्करः । अथ सूर्यप्रतीकाशमैन्द्रं शरमनुत्तमम् ॥ २६॥
वज्राशनिसमं रामश्चिक्षेपासुरमृत्यवे । स तत्पर्वतसङ्काशं स्फुरत्कुण्डलदंष्ट्रकम् ॥ २७॥
चकर्त रक्षोऽधिपतेः शिरो वृत्रमिवाशनिः । तच्छिरः पतितं लङ्काद्वारि कायो महोदधौ ॥ २८॥
शिरोऽस्य रोधयद्द्वारं कायो नक्राद्यचूर्णयत् । ततो देवाः सऋषयो गन्धर्वाः पन्नगाः खगाः ॥ २९॥
सिद्धा यक्षा गुह्यकाश्च अप्सरोभिश्च राघवम् । ईडिरे कुसुमासारैर्वर्षन्तश्चाभिनन्दिताः ॥ ३०॥
आजगाम तदा रामं द्रष्टुं देवमुनीश्वरः । नारदो गगनात्तुर्णं स्वभासा भासयन् दिशः ॥ ३१॥
राममिन्दीवरश्याममुदाराङ्गं धनुर्धरम् । ईषत्ताम्रविशालाक्षमैन्द्रास्त्राञ्चितबाहुकम् ॥ ३२॥
दयार्द्रदृष्ट्या पश्यन्तं वानराञ्छरपीडितान् । दृष्ट्वा गद्गदया वाचा भक्त्या स्तोतुं प्रचक्रमे ॥ ३३॥
नारद उवाच । देवदेव जगन्नाथ परमात्मन् सनातन । नारायणाखिलाधार विश्वसाक्षिन्नमोऽस्तु ते ॥ ३४॥
विशुद्धज्ञानरूपोऽपि त्वं लोकानतिवञ्चयन् । मायया मनुजाकारः सुखदुःखादिमानिव ॥ ३५॥
त्वं मायया गुह्यमानः सर्वेषां हृदि संस्थितः । स्वयञ्ज्योतिः स्वभावस्त्वं व्यक्त एवामलात्मनाम् ॥ ३६॥
उन्मीलयन् सृजस्येतन्नेत्रे राम जगत्त्रयम् । उपसंह्रियते सर्वं त्वया चक्षुर्निमीलनात् ॥ ३७॥
यस्मिन् सर्वमिदं भाति यतश्चैतच्चराचरम् । यस्मान्न किञ्चिल्लोकेऽस्मिंस्तस्मै ते ब्रह्मणे नमः ॥ ३८॥
प्रकृतिं पुरुषं कालं व्यक्ताव्यक्तस्वरूपिणम् । यं जानन्ति मुनिश्रेष्ठास्तस्मै रामाय ते नमः ॥ ३९॥
विकाररहितं शुद्धं ज्ञानरूपं श्रुतिर्जगौ । त्वां सर्वजगदाकारमूर्तिं चाप्याह सा श्रुतिः ॥ ४०॥
विरोधो दृश्यते देव वैदिको वेदवादिनाम् । निश्चयं नाधिगच्छन्ति त्वत्प्रसादं विना बुधाः ॥ ४१॥
मायया क्रीडतो देव न विरोधो मनागपि । रश्मिजालं रवेर्यद्वद्दृश्यते जलवद् भ्रमात् ॥ ४२॥
भ्रान्तिज्ञानात्तथा राम त्वयि सर्वं प्रकल्प्यते । मनसोऽविषयो देव रूपं ते निर्गुणं परम् ॥ ४३॥
कथं दृश्यं भवेद्देव दृश्याभावे भजेत्कथम् । अतस्तवावतारेषु रूपाणि निपुणा भुवि ॥ ४४॥
भजन्ति बुद्धिसम्पन्नास्तरन्त्येव भवार्णवम् । कामक्रोधादयस्तत्र बहवः परिपन्थिनः ॥ ४५॥
भीषयन्ति सदा चेतो मार्जारा मूषकं यथा । त्वन्नाम स्मरतां नित्यं त्वद्रूपमपि मानसे ॥ ४६॥
त्वत्पूजानिरतानां ते कथामृतपरात्मनाम् । त्वद्भक्तसङ्गिनां राम संसारो गोष्पदायते ॥ ४७॥
अतस्ते सगुणं रूपं ध्यात्वाहं सर्वदा हृदि । मुक्तश्चरामि लोकेषु पूज्योऽहं सर्वदैवतैः ॥ ४८॥
राम त्वया महत्कार्यं कृतं देवहितेच्छया । कुम्भकर्णवधेनाद्य भूभारोऽयं गतः प्रभो ॥ ४९॥
श्वो हनिष्यति सौमित्रिरिन्द्रजेतारमाहवे । हनिष्यसेऽथ राम त्वं परश्वो दशकन्धरम् ॥ ५०॥
पश्यामि सर्वं देवेश सिद्धैः सह नभोगतः । अनुगृह्णीष्व मां देव गमिष्यामि सुरालयम् ॥ ५१॥
इत्युक्त्वा राममामन्त्र्य नारदो भगवानृषिः । ययौ देवैः पूज्यमानो ब्रह्मलोकमकल्मषम् ॥ ५२॥
भ्रातरं निहतं श्रुत्वा कुम्भकर्णं महाबलम् । रावणः शोकसन्तप्तो रामेणाक्लिष्टकर्मणा ॥ ५३॥
मूर्च्छितः पतितो भूमावुत्थाय विललाप ह । पितृव्यं निहतं श्रुत्वा पितरं चातिविह्वलम् ॥ ५४॥
इन्द्रजित्प्राह शोकार्तं त्यज शोकं महामते । व्येतु ते दुःखमखिलं स्वस्थो भव महीपते ॥ ५६॥
सर्वं समीकरिष्यामि हनिष्यामि च वै रिपून् । गत्वा निकुम्भिलां सद्यस्तर्पयित्वा हुताशनम् ॥ ५७॥
लब्ध्वा रथादिकं तस्मादजेयोऽहं भवाम्यरेः । इत्युक्त्वा त्वरितं गत्वा निर्दिष्टं हवनस्थलम् ॥ ५८॥
रक्तमाल्याम्बरधरो रक्तगन्धानुलेपनः । निकुम्भिलास्थले मौनी हवनायोपचक्रमे ॥ ५९॥
विभीषणोऽथ तच्छ्रुत्वा मेघनादस्य चेष्टितम् । प्राह रामाय सकलं होमारम्भं दुरात्मनः ॥ ६०॥
समाप्यते चेद्धोमोऽयं मेघनादस्य दुर्मतेः । तदाजेयो भवेद्राम मेघनादः सुरासुरैः ॥ ६१॥
अतः शीघ्रं लक्ष्मणेन घातयिष्यामि रावणिम् । आज्ञापय मया सार्धं लक्ष्मणं बलिनां वरम् । हनिष्यति न सन्देहो मेघनादं तवानुजः ॥ ६२॥
श्रीरामचन्द्र उवाच । अहमेवागमिष्यामि हन्तुमिन्द्रजितं रिपुम् । आग्नेयेन महास्त्रेण सर्वराक्षसघातिना ॥ ६३॥
विभीषणोऽपि तं प्राह नासावन्यैर्निहन्यते । यस्तु द्वादश वर्षाणि निद्राहारविवर्जितः ॥ ६४॥
तेनैव मृत्युर्निर्दिष्टो ब्रह्मणास्य दुरात्मनः । लक्ष्मणस्तु अयोध्याया निर्गम्यायात्त्वया सह ॥ ६५॥
तदादि निद्राहारादीन्न जानाति रघूत्तम । सेवार्थं तव राजेन्द्र ज्ञातं सर्वमिदं मया ॥ ६६॥
तदाज्ञापय देवेश लक्ष्मणं त्वरया मया । हनिष्यति न सन्देहः शेषः साक्षाद्धराधरः ॥ ६७॥
त्वमेव साक्षाज्जगतामधीशो
नारायणो लक्ष्मण एव शेषः ।
युवां धराभारनिवारणार्थं
जातौ जगन्नाटकसूत्रधारौ ॥ ६८॥
इति श्रीमदध्यात्मरामायणे उमामहेश्वरसंवादे युद्धकाण्डे अष्टमः सर्गः ॥ ८॥
॥नवमः सर्गः ॥
श्रीमहादेव उवाच ।
विभीषणवचः श्रुत्वा रामो वाक्यमथाब्रवीत् ।
जानामि तस्य रौद्रस्य मायां कृत्स्नां विभीषण ॥ १॥
स हि ब्रह्मास्त्रविच्छूरो मायावी च महाबलः । जानामि लक्ष्मणस्यापि स्वरूपं मम सेवनम् ॥ २॥
ज्ञात्वैवासमहं तूष्णीं भविष्यत्कार्यगौरवात् । इत्युक्त्वा लक्ष्मणं प्राह रामो ज्ञानवतां वरः ॥ ३॥
गच्छ लक्ष्मण सैन्येन महता जहि रावणिम् । हनूमत्प्रमुखैः सर्वैर्यूथपैः सह लक्ष्मण ॥ ४॥
जाम्बवानृक्षराजोऽयं सह सैन्येन संवृतः । विभीषणश्च सचिवैः सह त्वामभियास्यति ॥ ५॥
अभिज्ञस्तस्य देशस्य जानाति विवराणि सः । रामस्य वचनं श्रुत्वा लक्ष्मणः सविभीषणः ॥ ६॥
जग्राह कार्मुकं श्रेष्ठमन्यद्भीमपराक्रमः । रामपादाम्बुजं स्पृष्ट्वा हृष्टः सौमित्रिरब्रवीत् ॥ ७॥
अद्य मत्कार्मुकान्मुक्ताः शरा निर्भिद्य रावणिम् । गमिष्यन्ति हि पातालं स्नातुं भोगवतीजले ॥ ८॥
एवमुक्त्वा स सौमित्रिः परिक्रम्य प्रणम्य तम् । इन्द्रजिन्निधनाकाङ्क्षी ययौ त्वरितविक्रमः ॥ ९॥
वानरैर्बहुसाहस्रैर्हनूमान् पृष्ठतोऽन्वगात् । विभीषणश्च सहितो मन्त्रिभिस्त्वरितं ययौ ॥ १०॥
जाम्बवत्प्रमुखा ऋक्षाः सौमित्रिं त्वरयान्वयुः । गत्वा निकुम्भिलादेशं लक्ष्मणो वानरैः सह ॥ ११॥
अपश्यद्बलसङ्घातं दूराद्राक्षससङ्कुलम् । धनुरायम्य सौमित्रिर्यत्तोऽभूद्भूरिविक्रमः ॥ १२॥
अङ्गदेन च वीरेण जाम्बवान् राक्षसाधिपः । तदा विभीषणः प्राह सौमित्रिं पश्य राक्षसान् ॥ १३॥
यदेतद्राक्षसानीकं मेघश्यामं विलोक्यते । अस्यानीकस्य महतो भेदने यत्नवान् भव ॥ १४॥
राक्षसेन्द्रसुतोऽप्यस्मिन् भिन्ने दृश्यो भविष्यति । अभिद्रवाशु यावद्वै नैतत्कर्म समाप्यते ॥ १५॥
जही वीर दुरात्मानं हिंसापरमधार्मिकम् । विभीषणवचः श्रुत्वा लक्ष्मणः शुभलक्ष्मणः ॥ १६॥
ववर्ष शरवर्षाणि राक्षसेन्द्रसुतं प्रति । पाषाणैः पर्वताग्रैश्च वृक्षैश्च हरियूथपाः ॥ १७॥
निर्जघ्नुः सर्वतो दैत्यांस्तेऽपि वानरयूथपान् । परश्वधैः शितैर्बाणैरसिभिर्यष्टितोमरैः ॥ १८॥
निर्जघ्नुर्वानरानीकं तदा शब्दो महानभूत् । स सम्प्रहारस्तुमुलः सञ्जज्ञे हरिरक्षसाम् ॥ १९॥
इन्द्रजित्स्वबलं सर्वमर्द्यमानं विलोक्य सः । निकुम्भिलां च होमं च त्यक्त्वा शीघ्रं विनिर्गतः ॥ २०॥
रथमारुह्य सधनुः क्रोधेन महतागमत् । समाह्वयन् स सौमित्रिं युद्धाय रणमूर्धनि ॥ २१॥
सौमित्रे मेघनादोऽहं मया जीवन्न मोक्ष्यसे । तत्र दृष्ट्वा पितृव्यं स प्राह निष्ठुरभाषणम् ॥ २२॥
इहैव जातः संवृद्धः साक्षाद् भ्राता पितुर्मम । यस्त्वं स्वजनमुत्सृज्य परभृत्यत्वमागतः ॥ २३॥
कथं द्रुह्यसि पुत्राय पापीयानसि दुर्मतिः । इत्युक्त्वा लक्ष्मणं दृष्ट्वा हनूमत्पृष्ठतः स्थितम् ॥ २४॥
उद्यदायुधनिस्त्रिंशे रथे महति संस्थितः । महाप्रमाणमुद्यम्य घोरं विस्फारयन् धनुः ॥ २५॥
अद्य वो मामका बाणाः प्राणान् पास्यन्ति वानराः । ततः शरं दाशरथिः सन्धायामित्रकर्षणः ॥ २६॥
ससर्ज राक्षसेन्द्राय क्रुद्धः सर्प इव श्वसन् । इन्द्रजिद्रक्तनयनो लक्ष्मणं समुदैक्षत ॥ २७॥
शक्राशनिसमस्पर्शैर्लक्ष्मणेनाहतः शरैः । मुहूर्तमभवन्मूढः पुनः प्रत्याहृतेन्द्रियः ॥ २८॥
ददर्शावस्थितं वीरं वीरो दशरथात्मजम् । सोऽभिचक्राम सौमित्रिं क्रोधसंरक्तलोचनः ॥ २९॥
शरान् धनुषि सन्धाय लक्ष्मणं चेदमब्रवीत् । यदि ते प्रथमे युद्धे न दृष्टो मे पराक्रमः ॥ ३०॥
अद्य त्वां दर्शयिष्यामि तिष्ठेदानीं व्यवस्थितः । इत्युक्त्वा सप्तभिर्बाणैरभिविव्याध लक्ष्मणम् ॥ ३१॥
दशभिश्च हनूमन्तं तीक्ष्णधारैः शरोत्तमैः । ततः शरशतेनैव सम्प्रयुक्तेन वीर्यवान् ॥ ३२॥
क्रोधद्विगुणसंरब्धो निर्बिभेद विभीषणम् । लक्ष्मणोऽपि तथा शत्रुं शरवर्षैरवाकिरत् ॥ ३३॥
तस्य बाणैः सुसंविद्धं कवचं काञ्चनप्रभम् । व्यशीर्यत रथोपस्थे तिलशः पतितं भुवि ॥ ३४॥
ततः शरसहस्रेण सङ्क्रुद्धो रावणात्मजः । बिभेद समरे वीरं लक्ष्मणं भीमविक्रमम् ॥ ३५॥
व्यशीर्यतापतद्दिव्यं कवचं लक्ष्मणस्य च । कृतप्रतिकृतान्योन्यं बभूवतुरभिद्रुतौ ॥ ३६॥
अभीक्ष्णं निःश्वसन्तौ तौ युध्येतां तुमुलं पुनः । शरसंवृतसर्वाङ्गौ सर्वतो रुधिरोक्षितौ ॥ ३७॥
सुदीर्घकालं तौ वीरावन्योन्यं निशितैः शरैः । अयुध्येतां महासत्त्वौ जयाजयविवर्जितौ ॥ ३८॥
एतस्मिन्नन्तरे वीरो लक्ष्मणः पञ्चभिः शरैः । रावणेः सारथिं साश्वं रथं च समचूर्णयत् ॥ ३९॥
चिच्छेद कार्मुकं तस्य दर्शयन् हस्तलाघवम् । सोऽन्यत्तु कार्मुकं भद्रं सज्यं चक्रे त्वरान्वितः ॥ ४०॥
तच्चापमपि चिच्छेद लक्ष्मणस्त्रिभिराशुगैः । तमेव छिन्नधन्वानं विव्याधानेकसायकैः ॥ ४१॥
पुनरन्यत्समादाय कार्मुकं भीमविक्रमः । इन्द्रजिल्लक्ष्मणं बाणैः शितैरादित्यसन्निभैः ॥ ४२॥
बिभेद वानरान् सर्वान् बाणैरापूरयन् दिशः । तत ऐन्द्रं समादाय लक्ष्मणो रावणिं प्रति ॥ ४३॥
सन्धायाकृष्य कर्णान्तं कार्मुकं दृढनिष्ठुरम् । उवाच लक्ष्मणो वीरः स्मरन् रामपदाम्बुजम् ॥ ४४॥
धर्मात्मा सत्यसन्धश्च रामो दाशरथिर्यदि । त्रिलोक्यामप्रतिद्वन्द्वस्तदेनं जहि रावणिम् ॥ ४५॥
इत्युक्त्वा बाणमाकर्णाद्विकृष्य तमजिम्हगम् । लक्ष्मणः समरे वीरः ससर्जेन्द्रजितं प्रति ॥ ४६॥
स शरः सशिरस्त्राणं श्रीमज्ज्वलितकुण्डलम् । प्रमथ्येन्द्रजितः कायात्पातयामास भूतले ॥ ४७॥
ततः प्रमुदिता देवाः कीर्तयन्तो रघूत्तमम् । ववर्षुः पुष्पवर्षाणि स्तुवन्तश्च मुहुर्मुहुः ॥ ४८॥
जहर्ष शक्रो भगवान् सह देवैर्महर्षिभिः । आकाशेऽपि च देवानां शुश्रुवे दुन्दुभिस्वनः ॥ ४९॥
विमलं गगनं चासीत्स्थिराभूद्विश्वधारिणी । निहतं रावणिं दृष्ट्वा जयजल्पसमन्वितः ॥ ५०॥
गतश्रमः स सौमित्रिः शङ्खमापूरयद्रणे । सिंहनादं ततः कृत्वा ज्याशब्दमकरोद्विभुः ॥ ५१॥
तेन नादेन संहृष्टा वानराश्च गतश्रमाः । वानरेन्द्रैश्च सहितः स्तुवद्भिर्हृष्टमानसैः ॥ ५२॥
लक्ष्मणः परितुष्टात्मा ददर्शाभ्येत्य राघवम् । हनूमद्राक्षसाभ्यां च सहितो विनयान्वितः ॥ ५३॥
ववन्दे भ्रातरं रामं ज्येष्ठं नारायणं विभुम् । त्वत्प्रसादाद्रघुश्रेष्ठ हतो रावणिराहवे ॥ ५४॥
श्रुत्वा तल्लक्ष्मणाद्भक्त्या तमालिङ्ग्य रघूत्तमः । मूर्ध्न्यवघ्राय मुदितः सस्नेहमिदमब्रवीत् ॥ ५५॥
साधु लक्ष्मण तुष्टोऽस्मि कर्म ते दुष्करं कृतम् । मेघनादस्य निधने जितं सर्वमरिन्दम ॥ ५६॥
अहोरात्रैस्त्रिभिर्वीरः कथञ्चिद्विनिपातितः । निःसपत्नः कृतोऽस्म्यद्य निर्यास्यति हि रावणः ॥ ५७॥
पुत्रशोकान्मया योद्धुं तं हनिष्यामि रावणम् ॥ ५८॥
मेघनादं हतं श्रुत्वा लक्ष्मणेन महाबलम् । रावणः पतितो भुमौ मूर्च्छितः पुनरुत्थितः । विललापातिदीनात्मा पुत्रशोकेन रावणः ॥ ५९॥
पुत्रस्य गुणकर्माणि संस्मरन् पर्यदेवयत् । अद्य देवगणाः सर्वे लोकपाला महर्षयः ॥ ६०॥
हतमिन्द्रजितं ज्ञात्वा सुखं स्वप्स्यन्ति निर्भयाः । इत्यादि बहुशः पुत्रलालसो विललाप ह ॥ ६१॥
ततः परमसङ्क्रुद्धो रावणो राक्षसाधिपः । उवाच राक्षसान् सर्वान्निनाशयिषुराहवे ॥ ६२॥
स पुत्रवधसन्तप्तः शूरः क्रोधवशं गतः । संवीक्ष्य रावणो बुद्ध्या हन्तुं सीतां प्रदुद्रुवे ॥ ६३॥
खड्गपाणिमथायान्तं क्रुद्धं दृष्ट्वा दशाननम् । राक्षसीमध्यगा सीता भयशोकाकुलाभवत् ॥ ६४॥
एतस्मिन्नन्तरे तस्य सचिवो बुद्धिमान् शुचिः । सुपार्श्वो नाम मेधावी रावणं वाक्यमब्रवीत् ॥ ६५॥
ननु नाम दशग्रीव साक्षाद्वैश्रवणानुजः । वेदविद्याव्रतस्नातः स्वकर्मपरिनिष्ठितः ॥ ६६॥
अनेकगुणसम्पन्नः कथं स्त्रीवधमिच्छसि । अस्माभिः सहितो युद्धे हत्वा रामं च लक्ष्मणम् । प्राप्स्यसे जानकीं शीघ्रमित्युक्तः स न्यवर्तत ॥ ६७॥
ततो दुरात्मा सुहृदा निवेदितं
वचः सुधर्म्यं प्रतिगृह्य रावणः ।
गृहं जगामाशु शुचा विमूढधीः
पुनः सभां च प्रययौ सुहृद्वृतः ॥ ६८॥
इति श्रीमदध्यात्मरामायणे उमामहेश्वरसंवादे युद्धकाण्डे नवमः सर्गः ॥ ९॥
॥दशमः सर्गः ॥
श्रीमहादेव उवाच ।
स विचार्य सभामध्ये राक्षसैः सह मन्त्रिभिः ।
निर्ययौ येऽवशिष्टास्तै राक्षसैः सह राघवम् ॥ १॥
शलभः शलभैर्युक्तः प्रज्वलन्तमिवानलम् । ततो रामेण निहताः सर्वे ते राक्षसा युधि ॥ २॥
स्वयं रामेण निहतस्तीक्ष्णबाणेन वक्षसि । व्यथितस्त्वरितं लङ्कां प्रविवेश दशाननः ॥ ३॥
दृष्ट्वा रामस्य बहुशः पौरुषं चाप्यमानुषम् । रावणो मारुतेश्चैव शीघ्रं शुक्रान्तिकं ययौ ॥ ४॥
नमस्कृत्य दशग्रीवः शुक्रं प्राञ्जलिरब्रवीत् । भगवन् राघवेणैवं लङ्का राक्षसयुथपैः ॥ ५॥
विनाशिता महादैत्या निहताः पुत्रबान्धवाः । कथं मे दुःखसन्दोहस्त्वयि तिष्ठति सद्गुरौ ॥ ६॥
इति विज्ञापितो दैत्यगुरुः प्राह दशाननम् । होमं कुरु प्रयत्नेन रहसि त्वं दशानन ॥ ७॥
यदि विघ्नो न चेद्धोमे तर्हि होमानलोत्थितः ॥ ८॥
महान् रथश्च वाहाश्च चापतूणीरसायकाः । सम्भविष्यन्ति तैर्युक्तस्त्वमजेयो भविष्यसि ॥ ९॥
गृहाण मन्त्रान् मद्दत्तान् गच्छ होमं कुरु द्रुतम् । इत्युक्तस्त्वरितं गत्वा रावणो राक्षसाधिपः ॥ १०॥
गुहां पातालसदृशीं मन्दिरे स्वे चकार ह । लङ्काद्वारकपाटादि बद्ध्वा सर्वत्र यत्नतः ॥ ११॥
होमद्रव्याणि सम्पाद्य यान्युक्तान्याभिचारिके । गुहां प्रविश्य चैकान्ते मौनी होमं प्रचक्रमे ॥ १२॥
उत्थितं धूममालोक्य महान्तं रावणानुजः । रामाय दर्शयामास होमधूमं भयाकुलः ॥ १३॥
पश्य राम दशग्रीवो होमं कर्तुं समारभत् । यदि होमः समाप्तः स्यात्तदाऽजेयो भविष्यति ॥ १४॥
अतो विघ्नाय होमस्य प्रेषयाशु हरीश्वरान् । तथेति रामः सुग्रीवसम्मतेनाङ्गदं कपिम् ॥ १५॥
हनूमत्प्रमुखान् वीरानादिदेश महाबलान् । प्राकारं लङ्घयित्वा ते गत्वा रावणमन्दिरम् ॥ १६॥
दशकोट्यः प्लवङ्गानां गत्वा मन्दिररक्षकान् । चूर्णयामासुरश्वांश्च गजांश्च न्यहनन् क्षणात् ॥ १७॥
ततश्च सरमा नाम प्रभाते हस्तसन्ज्ञया । विभीषणस्य भार्या सा होमस्थानमसूचयत् ॥ १८॥
गुहापिधानपाषाणमङ्गदः पादघट्टनैः । चूर्णयित्वा महासत्त्वः प्रविवेश महागुहाम् ॥ १९॥
दृष्ट्वा दशाननं तत्र मीलिताक्षं दृढासनम् । ततोऽङ्गदाज्ञया सर्वे वानरा विविशुर्द्रुतम् ॥ २०॥
तत्र कोलाहलं चक्रुस्ताडयन्तश्च सेवकान् । सम्भारांश्चिक्षिपुस्तस्य होमकुण्डे समन्ततः ॥ २१॥
स्रुवमाच्छिद्य हस्ताच्च रावणस्य बलाद्रुषा । तेनैव सञ्जघानाशु हनूमान् प्लवगाग्रणीः ॥ २२॥
घ्नन्ति दन्तैश्च काष्ठैश्च वानरास्तमितस्ततः । न जहौ रावणो ध्यानं हतोऽपि विजिगीषया ॥ २३॥
प्रविश्यान्तःपुरे वेश्मन्यङ्गदो वेगवत्तरः । समानयत्केशबन्धे धृत्वा मन्दोदरीं शुभाम् ॥। २४॥
रावणस्यैव पुरतो विलपन्तीमनाथवत् । विददाराङ्गदस्तस्याः कञ्जुकं रत्नभूषितम् ॥ २५॥
मुक्ता विमुक्ताः पतिताः समन्ताद्रत्नसञ्चयैः । श्रोणिसूत्रं निपतितं त्रुटितं रत्नचित्रितम् ॥ २६॥
कटिप्रदेशाद्विस्रस्ता नीवी तस्यैव पश्यतः । भूषणानि च सर्वाणि पतितानि समन्ततः ॥ २७॥
देवगन्धर्वकन्याश्च नीता हृष्टैः प्लवङ्गमैः । मन्दोदरी रुरोदाथ रावणस्याग्रतो भृशम् ॥ २८॥
क्रोशन्ती करुणं दीना जगाद दशकन्धरम् । निर्लज्जोऽसि परैरेवं केशपाशे विकृष्यते ॥ २९॥
भार्या तवैव पुरतः किं जुहोषि न लज्जसे । हन्यते पश्यतो यस्य भार्या पापैश्च शत्रुभिः ॥ ३०॥
मर्तव्यं तेन तत्रैव जीवितान्मरणं वरम् । हा मेघनाद ते माता क्लिश्यते बत वानरैः ॥ ३१॥
त्वयि जीवति मे दुःखमीदृशं च कथं भवेत् । भार्या लज्जा च सन्त्यक्ता भर्त्रा मे जीविताशया ॥ ३२॥
श्रुत्वा तद्देवितं राजा मन्दोदर्या दशाननः । उत्तस्थौ खड्गमादाय त्यज देवीमिति ब्रुवन् ॥ ३३॥
जघानाङ्गदमव्यग्रः कटिदेशे दशाननः । तदोत्सृज्य ययुः सर्वे विध्वंस्य हवनं महत् ॥ ३४॥
रामपार्श्वमुपागम्य तस्थुः सर्वे प्रहर्षिताः ॥ ३५॥
रावणस्तु ततो भार्यामुवाच परिसान्त्वयन् । दैवाधीनमिदं भद्रे जीवता किं न दृश्यते । त्यज शोकं विशालाक्षि ज्ञानमालम्ब्य निश्चितम् ॥ ३६॥
अज्ञानप्रभवः शोकः शोको ज्ञानविनाशकृत् । अज्ञानप्रभवाहन्धीः शरीरादिष्वनात्मसु ॥ ३७॥
तन्मूलः पुत्रदारादिसम्बन्धः संसृतिस्ततः । हर्षशोकभयक्रोधलोभमोहस्पृहादयः ॥ ३८॥
अज्ञानप्रभवा ह्येते जन्ममृत्युजरादयः । आत्मा तु केवलं शुद्धो व्यतिरिक्तो ह्यलेपकः ॥ ३९॥
आनन्दरूपो ज्ञानात्मा सर्वभावविवर्जितः । न संयोगो वियोगो वा विद्यते केनचित्सतः ॥ ४०॥
एवं ज्ञात्वा स्वमात्मानं त्यज शोकमनिन्दिते । इदानीमेव गच्छामि हत्वा रामं सलक्ष्मणम् ॥ ४१॥
आगमिष्यामि नो चेन्मां दारयिष्यति सायकैः । श्रीरामो वज्रकल्पैश्च ततो गच्छामि तत्पदम् ॥ ४२॥
तदा त्वया मे कर्तव्या क्रिया मच्छासनात्प्रिये । सीतां हत्वा मया सार्धं त्वं प्रवेक्ष्यसि पावकम् ॥ ४३॥
एवं श्रुत्वा वचस्तस्य रावणस्यातिदुःखिता । उवाच नाथ मे वाक्यं शृणु सत्यं तथा कुरु ॥ ४४॥
शक्यो न राघवो जेतुं त्वया चान्यैः कदाचन । रामो देववरः साक्षात्प्रधानपुरुषेश्वरः ॥ ४५॥
मत्स्यो भूत्वा पुरा कल्पे मनुं वैवस्वतं प्रभुः । ररक्ष सकलापद्भ्यो राघवो भक्तवत्सलः ॥ ४६॥
रामः कूर्मोऽभवत्पूर्वं लक्षयोजनविस्तृतः । समुद्रमथने पृष्ठे दधार कनकाचलम् ॥ ४७॥
हिरण्याक्षोऽतिदुर्वृत्तो हतोऽनेन महात्मना । क्रोडरूपेण वपुषा क्षोणीमुद्धरता क्वचित् ॥ ४८॥
त्रिलोककण्टकं दैत्यं हिरण्यकशिपुं पुरा । हतवान्नारसिंहेन वपुषा रघुनन्दनः ॥ ४९॥
विक्रमैस्त्रिभिरेवासौ बलिं बद्ध्वा जगत्त्रयम् । आक्रम्यादात्सुरेन्द्राय भृत्याय रघुसत्तमः ॥ ५०॥
राक्षसाः क्षत्रियाकारा जाता भूमेर्भरावहाः । तान् हत्वा बहुशो रामो भुवं जित्वा ह्यदान्मुनेः ॥ ५१॥
स एव साम्प्रतं जातो रघुवंशे परात्परः । भवदर्थे रघुश्रेष्ठो मानुषत्वमुपागतः ॥ ५२॥
तस्य भार्या किमर्थं वा हृता सीता वनाद्बलात् । मम पुत्रविनाशार्थं स्वस्यापि निधनाय च ॥ ५३॥
इतः परं वा वैदेहीं प्रेषयस्व रघूत्तमे । विभीषणाय राज्यं तु दत्त्वा गच्छामहे वनम् ॥ ५४॥
मन्दोदरीवचः श्रुत्वा रावणो वाक्यमब्रवीत् । कथं भद्रे रणे पुत्रान् भ्रातॄन् राक्षसमण्डलम् ॥ ५५॥
घातयित्वा राघवेण जीवामि वनगोचरः । रामेण सह योत्स्यामि रामबाणैः सुशीघ्रगैः ॥ ५६॥
विदार्यमाणो यास्यामि तद्विष्णोः परमं पदम् । जानामि राघवं विष्णुं लक्ष्मीं जानामि जानकीम् । ज्ञात्वैव जानकी सीता मयानीता वनाद्बलात् ॥ ५७॥
रामेण निधनं प्राप्य यास्यामीति परं पदम् । विमुच्य त्वां तु संसाराद्गमिष्यामि सह प्रिये ॥ ५८॥
परानन्दमयी शुद्धा सेव्यते या मुमुक्षुभिः । तां गतिं तु गमिष्यामि हतो रामेण संयुगे ॥ ५९॥
प्रक्षाल्य कल्मषाणीह मुक्तिं यास्यामि दुर्लभाम् ॥ ६०॥
क्लेशादिपञ्चकतरङ्गयुतं भ्रमाढ्यं
दारात्मजाप्तधनबन्धुझषाभियुक्तम् ।
और्वानलाभनिजरोषमनङ्गजालं
संसारसागरमतीत्य हरिं व्रजामि ॥ ६१॥
इति श्रीमदध्यात्मरामायणे उमामहेश्वरसंवादे युद्धकाण्डे दशमः सर्गः ॥ १०॥
॥एकादशः सर्गः ॥
श्रीमहादेव उवाच ।
इत्युक्त्वा वचनं प्रेम्णा राज्ञीं मन्दोदरीं तदा ।
रावणः प्रययौ योद्धुं रामेण सह संयुगे ॥ १॥
दृढं स्यन्दनमास्थाय वृतो घोरैर्निशाचरैः । चक्रैः षोडशभिर्युक्तं सवरूथं सकूबरम् ॥ २॥
पिशाचवदनैर्घोरैः खरैर्युक्तं भयावहम् । सर्वास्त्रशस्त्रसहितं सर्वोपस्करसंयुतम् ॥ ३॥
निश्चक्रामाथ सहसा रावणो भीषणाकृतिः । आयान्तं रावणं दृष्ट्वा भीषणं रणकर्कशम् ॥ ४॥
सन्त्रस्ताभूत्तदा सेना वानरी रामपालिता ॥ ५॥
हनूमानथ चोत्प्लुत्य रावणं योद्धुमाययौ । आगत्य हनुमान् रक्षोवक्षस्यतुलविक्रमः ॥ ६॥
मुष्टिबन्धं दृढं बद्ध्वा ताडयामास वेगतः । तेन मुष्टिप्रहारेण जानुभ्यामपतद्रथे ॥ ७॥
मूर्च्छितोऽथ मुहूर्तेन रावणः पुनरुत्थितः । उवाच च हनूमन्तं शूरोऽसि मम सम्मतः ॥ ८॥
हनूमानाह तं धिङ्मां यस्त्वं जीवसि रावण । त्वं तावन्मुष्टिना वक्षो मम ताडय रावण ॥ ९॥
पश्चान्मया हतः प्राणान्मोक्ष्यसे नात्र संशयः । तथेति मुष्टिना वक्षो रावणेनापि ताडितः ॥ १०॥
विघूर्णमाननयनः किञ्चित्कश्मलमाययौ । सन्ज्ञामवाप्य कपिराड् रावणं हन्तुमुद्यतः ॥ ११॥
ततोऽन्यत्र गतो भीत्या रावणो राक्षसाधिपः । हनूमानङ्गदश्चैव नलो नीलस्तथैव च ॥ १२॥
चत्वारः समवेत्याग्रे दृष्ट्वा राक्षसपुङ्गवान् । अग्निवर्णं तथा सर्परोमाणं खड्गरोमकम् ॥ १३॥
तथा वृश्चिकरोमाणं निर्जघ्नुः क्रमशोऽसुरान् । चत्वारश्चतुरो हत्वा राक्षसान् भीमविक्रमान् । सिंहनादं पृथक् कृत्वा रामपार्श्वमुपागताः ॥ १४॥
ततः क्रुद्धो दशग्रीवः सन्दश्य दशनच्छदम् ॥ १५॥
विवृत्य नयने क्रूरो राममेवान्वधावत । दशग्रीवो रथस्थस्तु रामं वज्रोपमैः शरैः ॥ १६॥
आजघान महाघोरैर्धाराभिरिव तोयदः । रामस्य पुरतः सर्वान् वानरानपि विव्यधे ॥ १७॥
ततः पावकसङ्काशैः शरैः काञ्चनभूषणैः । अभ्यवर्षद्रणे रामो दशग्रीवं समाहितः ॥ १८॥
रथस्थं रावणं दृष्ट्वा भूमिष्ठं रघुनन्दनम् । आहूय मातलिं शक्रो वचनं चेदमब्रवीत् ॥ १९॥
रथेन मम भूमिष्ठं शीघ्रं याहि रघूत्तमम् । त्वरितं भूतलं गत्वा कुरु कार्यं ममानघ ॥ २०॥
एवमुक्तोऽथ तं नत्वा मातलिर्देवसारथिः । ततो हयैश्च संयोज्य हरितैः स्यन्दनोत्तमम् ॥ २१॥
स्वर्गाज्जयार्थं रामस्य ह्युपचक्राम मातलिः । प्राञ्जलिर्देवराजेन प्रेषितोऽस्मि रघूत्तम ॥ २२॥
रथोऽयं देवराजस्य विजयाय तव प्रभो । प्रेषितश्च महाराज धनुरैन्द्रं च भूषितम् ॥ २३॥
अभेद्यं कवचं खड्गं दिव्यतूणीयुगं तथा । आरुह्य च रथं राम रावणं जहि राक्षसम् ॥ २४॥
मया सारथिना देव वृत्रं देवपतिर्यथा । इत्युक्तस्तं परिक्रम्य नमस्कृत्य रथोत्तमम् ॥ २५॥
आरुरोह रथं रामो लोकान्ल्लक्ष्म्या नियोजयन् । ततोऽभवन्महायुद्धं भैरवं रोमहर्षणम् ॥ २६॥
महात्मनो राघवस्य रावणस्य च धीमतः । आग्नेयेन च आग्नेयं दैवं दैवेन राघवः ॥ २७॥
अस्त्रं राक्षसराजस्य जघान परमास्त्रवित् । ततस्तु ससृजे घोरं राक्षसं चास्त्रमस्त्रवित् । क्रोधेन महताविष्टो रामस्योपरि रावणः ॥ २८॥
रावणस्य धनुर्मुक्ताः सर्पा भूत्वा महाविषाः । शराः काञ्चनपुङ्खाभा राघवं परितोऽपतन् ॥ २९॥
तैः शरैः सर्पवदनैर्वमद्भिरनलं मुखैः । दिशश्च विदिशश्चैव व्याप्तास्तत्र तदाभवन् ॥ ३०॥
रामः सर्पांस्ततो दृष्ट्वा समन्तात्परिपूरितान् । सौपर्णमस्त्रं तद्घोरं पुरः प्रावर्तयद्रणे ॥ ३१॥
रामेण मुक्तास्ते बाणा भूत्वा गरुडरूपिणः । चिच्छिदुः सर्पबाणांस्तान् समन्तात् सर्पशत्रवः ॥ ३२॥
अस्त्रे प्रतिहते युद्धे रामेण दशकन्धरः । अभ्यवर्षत्ततो रामं घोराभिः शरवृष्टिभिः ॥ ३३॥
ततः पुनः शरानीकै राममक्लिष्टकारिणम् । अर्दयित्वा तु घोरेण मातलिं प्रत्यविध्यत ॥ ३४॥
पातयित्वा रथोपस्थे रथकेतुं च काञ्चनम् । ऐन्द्रानश्वानभ्यहनद्रावणः क्रोधमूर्च्छितः ॥ ३५॥
विषेदुर्देवगन्धर्वाश्चारणाः पितरस्तथा । आर्त्ताकारं हरिं दृष्ट्वा व्यथिताश्च महर्षयः ॥ ३६॥
व्यथिता वानरेन्द्राश्च बभूवुः सविभीषणाः । दशास्यो विंशतिभुजः प्रगृहीतशरासनः ॥ ३७॥
ददृशे रावणस्तत्र मैनाक इव पर्वतः । रामस्तु भ्रुकुटिं बद्ध्वा क्रोधसंरक्तलोचनः ॥ ३८॥
कोपं चकार सदृशं निर्दहन्निव राक्षसम् । धनुरादाय देवेन्द्रधनुराकारमद्भुतम् ॥ ३९॥
गृहीत्वा पाणिना बाणं कालानलसमप्रभम् । निर्दहन्निव चक्षुर्भ्यां ददृशे रिपुमन्तिके ॥ ४०॥
पराक्रमं दर्शयितुं तेजसा प्रज्वलन्निव । प्रचक्रमे कालरूपी सर्वलोकस्य पश्यतः ॥ ४१॥
विकृष्य चापं रामस्तु रावणं प्रतिविध्य च । हर्षयन् वानरानीकं कालान्तक इवाबभौ ॥ ४३॥
क्रुद्धं रामस्य वदनं दृष्ट्वा शत्रुं प्रधावतः । तत्रसुः सर्वभूतानि चचाल च वसुन्धरा ॥ ४३॥
रामं दृष्ट्वा महारौद्रमुत्पातांश्च सुदारुणान् । त्रस्तानि सर्वभूतानि रावणं चाविशद्भयम् ॥ ४४॥
विमानस्था सुरगणाः सिद्धगन्धर्वकिन्नराः । ददृशुः सुमहायुद्धं लोकसंवर्तकोपमम् । ऐन्द्रमस्त्रं समादाय रावणस्य शिरोऽच्छिनत् ॥ ४५॥
मूर्धानो रावणस्याथ बहवो रुधिरोक्षिताः । गगनात्प्रपतन्ति स्म तालादिव फलानि हि ॥ ४६॥
न दिनं न च वै रात्रिर्न सन्ध्यां न दिशोऽपि वा । प्रकाशन्ते न तद्रूपं दृश्यते तत्र सङ्गरे ॥ ४७॥
ततो रामो बभूवाथ विस्मयाविष्टमानसः । शतमेकोत्तरं छिन्नं शिरसां चैकवर्चसाम् ॥ ४८॥
न चैव रावणः शान्तो दृश्यते जीवितक्षयात् । ततः सर्वास्त्रविद्धीरः कौसल्यानन्दवर्धनः ॥ ४९॥
अस्त्रैश्च बहुभिर्युक्तश्चिन्तयामास राघवः । यैर्यैर्बाणैर्हता दैत्या महासत्त्वपराक्रमाः ॥ ५०॥
त एते निष्फलं याता रावणस्य निपातने । इति चिन्ताकुले रामे समीपस्थो विभीषणः ॥ ५१॥
उवाच राघवं वाक्यं ब्रह्मदत्तवरो ह्यसौ । विच्छिन्ना बाहवोऽप्यस्य विच्छिन्नानि शिरांसि च ॥ ५२॥
उत्पत्स्यन्ति पुनः शीघ्रमित्याह भगवानजः । नाभिदेशेऽमृतं तस्य कुण्डलाकारसंस्थितम् ॥ ५३॥
तच्छोषयानलास्त्रेण तस्य मृत्युस्ततो भवेत् । विभीषणवचः श्रुत्वा रामः शीघ्रपराअक्रमः ॥ ५४॥
पावकास्त्रेण संयोज्य नाभिं विव्याध रक्षसः । अनन्तरं च चिच्छेद शिरांसि च महाबलः ॥ ५५॥
बाहूनपि च संरब्धो रावणस्य रघूत्तमः । ततो घोरां महाशक्तिमादाय दशकन्धरः ॥ ५६॥
विभीषणवधार्थाय चिक्षेप क्रोधविह्वलः । चिच्छेद राघवो बाणैस्तां शितैर्हेमभूषितैः ॥ ५७॥
दशग्रीवशिरश्छेदात्तदा तेजो विनिर्गतम् । म्लानरूपो बभूवाथ छिन्नैः शीर्षैर्भयङ्करैः ॥ ५८॥
एकेन मुख्यशिरसा बाहुभ्यां रावणो बभौ । रावणस्तु पुनः क्रुद्धो नानाशस्त्रास्त्रवृष्टिभिः ॥ ५९॥
ववर्ष रामं तं रामस्तथा बाणैर्ववर्ष च । ततो युद्धमभूद्घोरं तुमुलं लोमहर्षणम् ॥ ६०॥
अथ संस्मारयामास मातली राघवं तदा । विसृजास्त्रं वधायास्य ब्राह्मं शीघ्रं रघूत्तम ॥ ६१॥
विनाशकालः प्रथितो यः सुरैः सोऽद्य वर्तते । उत्तमाङ्गं न चैतस्य छेत्तव्यं राघव त्वया ॥ ६२॥
नैव शीर्ष्णि प्रभो वध्यो वध्य एव हि मर्मणि । ततः संस्मारितो रामस्तेन वाक्येन मातलेः ॥ ६३॥
जग्राह स शरं दीप्तं निःश्वसन्तमिवोरगम् । यस्य पार्श्वे तु पवनः फले भास्करपावकौ ॥ ६४॥
शरीरमाकाशमयं गौरवे मेरुमन्दरौ । पर्वस्वपि च विन्यस्ता लोकपाला महौजसः ॥ ६५॥
जाज्वल्यमानं वपुषा भातं भास्करवर्चसा । तमुग्रमस्त्रं लोकानां भयनाशनमद्भुतम् ॥ ६६॥
अभिमन्त्र्य ततो रामस्तं महेषुं महाभुजः । वेदप्रोक्तेन विधिना सन्दधे कार्मुके बली ॥ ६७॥
तस्मिन् सन्धीयमाने तु राघवेण शरोत्तमे । सर्वभूतानि वित्रेसुश्चचाल च वसुन्धरा ॥ ६८॥
स रावणाय सङ्क्रुद्धो भृशमानम्य कार्मुकम् । चिक्षेप परमायत्तस्तमस्त्रं मर्मघातिनम् ॥ ६९॥
स वज्र इव दुर्धर्षो वज्रपाणिविसर्जितः । कृतान्त इव घोरास्यो न्यपतद्रावणोरसि ॥ ७०॥
स निमग्नो महाघोरः शरीरान्तकरः परः । बिभेद हृदयं तूर्णं रावणस्य महात्मनः ॥ ७१॥
रावणस्याहरत्प्राणान् विवेश धरणितले । स शरो रावणं हत्वा रामतूणीरमाविशत् ॥ ७२॥
तस्य हस्तात्पपाताशु सशरं कार्मुकं महत् । गतासुर्भ्रमिवेगेन राक्षसेन्द्रोऽपतद्भुवि ॥ ७३॥
तं दृष्ट्वा पतितं भूमौ हतशेषाश्च राक्षसाः । हतनाथा भयत्रस्ता दुद्रुवुः सर्वतोदिशम् ॥ ७४॥
दशग्रीवस्य निधनं विजयं राघवस्य च । ततो विनेदुः संहृष्टा वानरा जितकाशिनः ॥ ७५॥
वदन्तो रामविजयं रावणस्य च तद्वधम् । अथान्तरिक्षे व्यनदत्सौम्यस्त्रिदशदुन्दुभिः ॥ ७६॥
पपात पुष्पवृष्टिश्च समन्ताद्राघवोपरि । तुष्टुवुर्मुनयः सिद्धाश्चारणाश्च दिवौकसः ॥ ७७॥
अथान्तरिक्षे ननृतुः सर्वतोऽप्सरसो मुदा । रावणस्य च देहोत्थं ज्योतिरादित्यवत्स्फुरत् ॥ ७८॥
प्रविवेश रघुश्रेष्ठं देवानां पश्यतां सताम् । देवा ऊचुरहो भाग्यं रावणस्य महात्मनः ॥ ७९॥
वयं तु सात्त्विका देवा विष्णोः कारुण्यभाजनाः । भयदुःखादिभिर्व्याप्ताः संसारे परिवर्तिनः ॥ ८०॥
अयं तु राक्षसः क्रूरो ब्रह्महाऽतीव तामसः । परदाररतो विष्णुद्वेषी तापसहिंसकः ॥ ८१॥
पश्यत्सु सर्वभूतेषु राममेव प्रविष्टवान् । एवं ब्रुवत्सु देवेषु नारदः प्राह सुस्मितः ॥ ८२॥
शृणुतात्र सुरा यूयं धर्मतत्त्वविचक्षणाः । रावणो राघवद्वेषादनिशं हृदि भावयन् ॥ ८३॥
भृत्यैः सह सदा रामचरितं द्वेषसंयुतः । श्रुत्वा रामात्स्वनिधनं भयात्सर्वत्र राघवम् ॥ ८४॥
पश्यन्ननुदिनं स्वप्ने राममेवानुपश्यति । क्रोधोऽपि रावणस्याशु गुरुबोधाधिकोऽभवत् ॥ ८५॥
रामेण निहतश्चान्ते निर्धूताशेषकल्मषः । रामसायुज्यमेवाप रावणो मुक्तबन्धनः ॥ ८६॥
पापिष्ठो वा दुरात्मा परधनपरदारेषु सक्तो यदि स्या-
न्नित्यं स्नेहाद्भयाद्वा रघुकुलतिलकं भावयन् सम्परेतः ।
भूत्वा शुद्धान्तरङ्गो भवशतजनितानेकदोषैर्विमुक्तः
सद्यो रामस्य विष्णोः सुरवरविनुतं याति वैकुण्ठमाद्यम् ॥ ८७॥
हत्वा युद्धे दशास्यं त्रिभुवनविषमं वामहस्तेन चापं
भुमौ विष्टभ्य तिष्ठन्नितरकरधृतं भ्रामयन् बाणमेकम् ।
आरक्तोपान्तनेत्रः शरदलितवपुः सूर्यकोटिप्रकाशो
वीरश्रीबन्धुराङ्गस्त्रिदशपतिनुतः पातु मां वीररामः ॥ ८८॥
इति श्रीमदध्यात्मरामायणे उमामहेश्वरसंवादे युद्धकाण्डे एकादशः सर्गः ॥ ११॥
॥द्वादशः सर्गः ॥
श्रीमहादेव उवाच ।
रामो विभीषणं दृष्ट्वा हनूमन्तं तथाङ्गदम् ।
लक्ष्मणं कपिराजं च जाम्बवन्तं तथा परान् ॥ १॥
परितुष्टेन मनसा सर्वानेवाब्रवीद्वचः । भवतां बाहुवीर्येण निहतो रावणो मया ॥ २॥
कीर्तिः स्थास्यति वः पुण्या यावच्चन्द्रदिवाकरौ कीर्तयिष्यन्ति भवतां कथां त्रैलोक्यपावनीम् ॥ ३॥
मयोपेतां कलिहरां यास्यन्ति परमां गतिम् । एतस्मिन्नन्तरे दृष्ट्वा रावणं पतितं भुवि ॥ ४॥
मन्दोदरीमुखाः सर्वाः स्त्रियो रावणपालिताः । पतिता रावणस्याग्रे शोचन्त्यः पर्यदेवयन् ॥ ५॥
विभीषणः शुशोचार्तः शोकेन महतावृतः । पतितो रावणस्याग्रे बहुधा पर्यदेवयत् ॥ ६॥
रामस्तु लक्ष्मणं प्राह बोधयस्व विभीषणम् । करोतु भ्रातृसंस्कारं किं विलम्बेन मानद ॥ ७॥
स्त्रियो मन्दोदरीमुख्याः पतिता विलपन्ति च । निवारयतु ताः सर्वा राक्षसी रावणप्रियाः ॥ ८॥
एवमुक्तोऽथ रामेण लक्ष्मणोऽगाद्विभीषणम् । उवाच मृतकोपान्ते पतितं मृतकोपमम् ॥ ९॥
शोकेन महताविष्टं सौमित्रिरिदमब्रवीत् । यं शोचसि त्वं दुःखेन कोऽयं तव विभीषण ॥ १०॥
त्वं वास्य कतमः सृष्टेः पुरेदानीमतः परम् । यद्वत्तोयौघपतिताः सिकता यान्ति तद्वशाः ॥ ११॥
संयुज्यन्ते वियुज्यन्ते तथा कालेन देहिनः । यथा धानासु वै धाना भवन्ति न भवन्ति च ॥ १२॥
एवं भूतेषु भूतानि प्रेरितानीशमायया । त्वं चेमे वयमन्ये च तुल्याः कालवशोद्भवाः ॥ १३॥
जन्ममृत्यू यदा यस्मात्तदा तस्माद्भविष्यतः । ईश्वरः सर्वभूतानि भूतैः सृजति हन्त्यजः ॥ १४॥
आत्मसृष्टैरस्वतन्त्रैर्निरपेक्षोऽपि बालवत् । देहेन देहिनो जीवा देहाद्देहोऽभिजायते ॥ १५॥
बीजादेव यथा बीजं देहान्य इव शाश्वतः । देहिदेहविभागोऽयमविवेककृतः पुरा ॥ १६॥
नानात्वं जन्म नाशश्च क्षयो वृद्धिः क्रियाफलम् । द्रष्टुराभान्त्यतद्धर्मा यथाग्नेर्दारुविक्रियाः ॥ १७॥
त इमे देहसंयोगादात्मना भान्त्यसद्ग्रहात् । यथा यथा तथा चान्यद्ध्यायतोऽसत्सदाग्रहात् ॥ १८॥
प्रसुप्तस्यानहम्भावात्तदा भाति न संसृतिः । जीवतोऽपि तथा तद्वद्विमुक्तस्यानहङ्कृतेः ॥ १९॥
तस्मान्मायामनोधर्मं जह्यहम्ममताभ्रमम् । रामभद्रे भगवति मनो धेह्यात्मनीश्वरे ॥ २०॥
सर्वभूतात्मनि परे मायामानुषरूपिणि । बाह्येन्द्रियार्थसम्बन्धात्त्याजयित्वा मनः शनैः ॥ २१॥
तत्र दोषान् दर्शयित्वा रामानन्दे नियोजय । देहबुद्ध्या भवेद्भ्राता पिता माता सुहृत्प्रियः ॥ २२॥
विलक्षणं यदा देहाज्जानात्यात्मानमात्मना । तदा कः कस्य वा बन्धुर्भ्राता माता पिता सुहृत् ॥ २३॥
मिथ्याज्ञानवशाज्जाता दारागारादयः सदा । शब्दादयश्च विषया विविधाश्चैव सम्पदः ॥ २४॥
बलं कोशो भृत्यवर्गो राज्यं भूमिः सुतादयः । अज्ञानजत्वात्सर्वे ते क्षणसङ्गमभङ्गुराः ॥ २५॥
अथोत्तिष्ठ हृदा रामं भावयन् भक्तिभावितम् । अनुवर्तस्व राज्यादि भुञ्जन् प्रारब्धमन्वहम् ॥ २६॥
भूतं भविष्यदभजन् वर्तमानमथाचरन् । विहरस्व यथान्यायं भवदोषैर्न लिप्यसे ॥ २७॥
आज्ञापयति रामस्त्वां यद्भ्रातुः साम्परायिकम् । तत्कुरुष्व यथाशास्त्रं रुदतीश्चापि योषितः ॥ २८॥
निवारय महाबुद्धे लङ्कां गच्छन्तु मा चिरम् । श्रुत्वा यथावद्वचनं लक्ष्मणस्य विभीषणः ॥ २९॥
त्यक्त्वा शोकं च मोहं च रामपार्श्वमुपागमत् । विमृश्य बुद्ध्या धर्मज्ञो धर्मार्थसहितं वचः ॥ ३०॥
रामस्यैवानुवृत्त्यर्थमुत्तरं पर्यभाषत । नृशंसमनृतं क्रूरं त्यक्तधर्मव्रतं प्रभो ॥ ३१॥
नार्होऽस्मि देव संस्कर्तुं परदाराभिमर्शिनम् । श्रुत्वा तद्वचनं प्रीतो रामो वचनमब्रवीत् ॥ ३२॥
मरणान्तानि वैराणि निवृत्तं नः प्रयोजनम् । क्रियतामस्य संस्कारो ममाप्येष यथा तव ॥ ३३॥
रामाज्ञां शिरसा धृत्वा शीघ्रमेव विभीषणः । सान्त्ववाक्यैर्महाबुद्धिं राज्ञीं मन्दोदरीं तदा ॥ ३४॥
सान्त्वयामास धर्मात्मा धर्मबुद्धिर्विभीषणः । त्वरयामास धर्मज्ञः संस्कारार्थं स्वबान्धवान् ॥ ३५॥
चित्यां निवेश्य विधिवत्पितृमेधविधानतः । आहिताग्नेर्यथा कार्यं रावणस्य विभीषणः ॥ ३६॥
तथैव सर्वमकरोद्बन्धुभिः सह मन्त्रिभिः । ददौ च पावकं तस्य विधियुक्तं विभीषणः ॥ ३७॥
स्नात्वा चैवार्द्रवस्त्रेण तिलान् दर्भाभिमिश्रितान् । उदकेन च सम्मिश्रान् प्रदाय विधिपूर्वकम् ॥ ३८॥
प्रदाय चोदकं तस्मै मुर्ध्ना चैनं प्रणम्य च । ताः स्त्रियोऽनुनयामास सान्त्वमुक्त्वा पुनः पुनः ॥ ३९॥
गम्यतामिति ताः सर्वा विविशुर्नगरं तदा । प्रविष्टासु च सर्वासु राक्षसीषु विभीषणः ॥ ४०॥
रामपार्श्वमुपागत्य तदातिष्ठद्विनीतवत् । रामोऽपि सह सैन्येन ससुग्रीवः सलक्ष्मणः ॥ ४१॥
हर्षं लेभे रिपून् हत्वा यथा वृत्रं शतक्रतुः । मातलिश्च तदा रामं परिक्रम्याअभिवन्द्य च ॥ ४२॥
अनुज्ञातश्च रामेण ययौ स्वर्गं विहायसा । ततो हृष्टमना रामो लक्ष्मणं चेदमब्रवीत् ॥ ४३॥
विभीषणाय मे लङ्काराज्यं दत्तं पुरैव हि । इदानीमपि गत्वा त्वं लङ्कामध्ये विभीषणम् ॥ ४४॥
अभिषेचय विप्रैश्च मन्त्रवद्विधिपूर्वकम् । इत्युक्तो लक्ष्मणस्तूर्णं जगाम सह वानरैः ॥ ४५॥
लङ्कां सुवर्णकलशैः समुद्रजलसंयुतैः । अभिषेकं शुभं चक्रे राक्षसेन्द्रस्य धीमतः ॥ ४६॥
ततः पौरजनैः सार्धं नानोपायनपाणिभिः । विभीषणः ससौमित्रिरुपायनपुरस्कृतः ॥ ४७॥
दण्डप्रणाममकरोद्रामस्याक्लिष्टकर्मणः । रामो विभीषणं दृष्ट्वा प्राप्तराज्यं मुदान्वितः ॥ ४८॥
कृतकृत्यमिवात्मानममन्यत सहानुजः । सुग्रीवं च समालिङ्ग्य रामो वाक्यमथाब्रवीत् ॥ ४९॥
सहायेन त्वया वीर जितो मे रावणो महान् । विभीषणोऽपि लङ्कायामभिषिक्तो मयानघ ॥ ५०॥
ततः प्राह हनूमन्तं पार्श्वस्थं विनयान्वितम् । विभीषणस्यानुमतेर्गच्छ त्वं रावणालयम् ॥ ५१॥
जानक्यै सर्वमाख्याहि रावणस्य वधादिकम् । जानक्याः प्रतिवाक्यं मे शीघ्रमेव निवेदय ॥ ५२॥
एवमाज्ञापितो धीमान् रामेण पवनात्मजः । प्रविवेश पुरीं लङ्कां पूज्यमानो निशाचरैः ॥ ५३॥
प्रविश्य रावणगृहं शिंशपामूलमाश्रिताम् । ददर्श जानकीं तत्र कृशां दीनामनिन्दिताम् ॥ ५४॥
राक्षसीभिः परिवृतां ध्यायन्तीं राममेव हि । विनयावनतो भूत्वा प्रणम्य पवनात्मजः ॥ ५५॥
कृताञ्जलिपुटो भूत्वा प्रह्वो भक्त्याऽग्रतः स्थितः । तं दृष्ट्वा जानकी तूष्णीं स्थित्वा पूर्वस्मृतिं ययौ ॥ ५६॥
ज्ञात्वा तं रामदूतं सा हर्षात्सौम्यमुखी बभौ । स तां सौम्यमुखीं दृष्ट्वा तस्यै पवननन्दनः । रामस्य भाषितं सर्वमाख्यातुमुपचक्रमे ॥ ५७॥
देवि रामः ससुग्रीवो विभीषणसहायवान् । कुशली वानराणां च सैन्यैश्च सहलक्ष्मणः ॥ ५८॥
रावणं ससुतं हत्वा सबलं सह मन्त्रिभिः । त्वामाह कुशलं रामो राज्ये कृत्वा विभीषणम् ॥ ५९॥
श्रुत्वा भर्तुः प्रियं वाक्यं हर्षगद्गदया गिरा । किं ते प्रियं करोम्यद्य न पश्यामि जगत्त्रये ॥ ६०॥
समं ते प्रियवाक्यस्य रत्नान्याभरणानि च । एवमुक्तस्तु वैदेह्या प्रत्युवाच प्लवङ्गमः ॥ ६१॥
रत्नौघाद्विविधाद्वापि देवराज्याद्विशिष्यते । हतशत्रुं विजयिनं रामं पश्यामि सुस्थिरम् ॥ ६२॥
तस्य तद्वचनं श्रुत्वा मैथिली प्राह मारुतिम् । सर्वे सौम्या गुणा सौम्य त्वय्येव परिनिष्ठिताः ॥ ६३॥
रामं द्रक्ष्यामि शीघ्रं मामाज्ञापयतु राघवः । तथेति तां नमस्कृत्य ययौ द्रष्टुं रघूत्तमम् ॥ ६४॥
जानक्या भाषितं सर्वं रामस्याग्रे न्यवेदयत् । यन्निमित्तोऽयमारम्भः कर्मणां च फलोदयः ॥ ६५॥
तां देवीं शोकसन्तप्तां द्रष्टुमर्हसि मैथिलीम् । एवमुक्तो हनुमता रामो ज्ञानवतां वरः ॥ ६६॥
मायासीतां परित्यक्तुं जानकीमनले स्थिताम् । आदातुं मनसा ध्यात्वा रामः प्राह विभीषणम् ॥ ६७॥
गच्छ राजन् जनकजामानयाशु ममान्तिकम् । स्नातां विरजवस्त्राढ्यां सर्वाभरणभूषिताम् ॥ ६८॥
विभीषणोऽपि तच्छ्रुत्वा जगाम सहमारुतिः । राक्षसीभिः सुवृद्धाभिः स्नापयित्वा तु मैथिलीम् ॥ ६९॥
सर्वाभरणसम्पन्नामारोप्य शिबिकोत्तमे । याष्टीकैर्बहुभिर्गुप्तां कञ्चुकोष्णीषिभिः शुभाम् ॥ ७०॥
तां द्रष्टुमागताः सर्वे वानरा जनकात्मजाम् । तान् वारयन्तो बहवः सर्वतो वेत्रपाणयः ॥ ७१॥
कोलाहलं प्रकुर्वन्तो रामपार्श्वमुपाययुः । दृष्ट्वा तां शिबिकारूढां दूरादथ रघूत्तमः ॥ ७२॥
विभीषण किमर्थं ते वानरान् वारयन्ति हि । पश्यन्तु वानराः सर्वे मैथिलीं मातरं यथा ॥ ७३॥
पादचारेण साऽऽयातु जानकी मम सन्निधिम् । श्रुत्वा तद्रामवचनं शिबिकादवरुह्य सा ॥ ७४॥
पादचारेण शनकैरागता रामसन्निधिम् । रामोऽपि दृष्ट्वा तां मायासीतां कार्यार्थनिर्मिताम् ॥ ७५॥
अवाच्यवादान् बहुशः प्राह तां रघुनन्दनः । अमृष्यमाणा सा सीता वचनं राघवोदितम् ॥ ७६॥
लक्ष्मणं प्राह मे शीघ्रं प्रज्वालय हुताशनम् । विश्वासार्थं हि रामस्य लोकानां प्रत्ययाय च ॥ ७७॥
राघवस्य मतं ज्ञात्वा लक्ष्मणोऽपि तदैव हि । महाकाष्ठचयं कृत्वा ज्वालयित्वा हुताशनम् ॥ ७८॥
रामपार्श्वमुपागम्य तस्थौ तूष्णीमरिन्दमः । ततः सीता परिक्रम्य राघवं भक्तिसंयुता ॥ ७९॥
पश्यतां सर्वलोकानां देवराक्षसयोषिताम् । प्रणम्य देवताभ्यश्च ब्राह्मणेभ्यश्च मैथिली ॥ ८०॥
बद्धाञ्जलिपुटा चेदमुवाचाग्निसमीपगा । यथा मे हृदयं नित्यं नापसर्पति राघवात् ॥ ८१॥
तथा लोकस्य साक्षी मां सर्वतः पातु पावकः । एवमुक्त्वा तदा सीता परिक्रम्य हुताशनम् ॥ ८२॥
विवेश ज्वलनं दीप्तं निर्भयेन हृदा सती ॥ ८३॥
दृष्ट्वा ततो भूतगणाः ससिद्धाः
सीतां महावह्निगतां भृशार्ताः ।
परस्परं प्राहुरहो स सीतां
रामः श्रियं स्वां कथमत्यजज्ज्ञः ॥ ८४॥
इति श्रीमदध्यात्मरामायणे उमामहेश्वरसंवादे युद्धकाण्डे द्वादशः सर्गः ॥ १२॥
॥त्रयोदशः सर्गः ॥
श्रीमहादेव उवाच ।
ततः शक्रः सहस्राक्षो यमश्च वरुणस्तथा ।
कुबेरश्च महातेजाः पिनाकी वृषवाहनः ॥ १॥
ब्रह्मा ब्रह्मविदां श्रेष्ठो मुनिभिः सिद्धचारणैः । ऋषयः पितरः साध्या गन्धर्वाप्सरसोरगाः ॥ २॥
एते चान्ये विमानाग्र्यैराजग्मुर्यत्र राघवः । अब्रुवन् परमात्मानं रामं प्राञ्जलयश्च ते ॥ ३॥
कर्ता त्वं सर्वलोकानां साक्षी विज्ञानविग्रहः । वसूनामष्टमोऽसि त्वं रुद्राणां शङ्करो भवान् ॥ ४॥
आदिकर्तासि लोकानां ब्रह्मा त्वं चतुराननः । अश्विनौ घ्राणभूतौ ते चक्षुषी चन्द्रभास्करौ ॥ ५॥
लूकानामादिरन्तोऽसि नित्य एकः सदोदितः । सदा शुद्धः सदा बुद्धः सदा मुक्तोऽगुणोऽद्वयः ॥ ६॥
त्वन्मायासंवृतानां त्वं भासि मानुषविग्रहः । त्वन्नाम स्मरतां राम सदा भासि चिदात्मकः ॥ ७॥
रावणेन हृतं स्थानमस्माकं तेजसा सह । त्वयाद्य निहतो दुष्टः पुनः प्राप्तं पदं स्वकम् ॥ ८॥
एवं स्तुवत्सु देवेषु ब्रह्मा साक्षात्पितामहः । अब्रवीत्प्रणतो भूत्वा रामं सत्यपथे स्थितम् ॥ ९॥
ब्रह्मोवाच वन्दे देवं विष्णुमशेषस्थितिहेतुं
त्वामध्यात्मज्ञानिभिरन्तर्हृदि भाव्यम् ।
हेयाहेयद्वन्द्वविहीनं परमेकं
सत्तामात्रं सर्वहृदिस्थं दृशिरूपम् ॥ १०॥
प्राणापानौ निश्चयबुद्ध्या हृदि रुद्ध्वा
छित्वा सर्वं संशयबन्धं विषयौघान् ।
पश्यन्तीशं यं गतमोहा यतयस्तं
वन्दे रामं रत्नकिरीटं रविभासम् ॥ ११॥
मायातीतं माधवमाद्यं जगदादिं
मानातीतं मोहविनाशं मुनिवन्द्यम् ।
योगिध्येयं योगविधानं परिपूर्णं
वन्दे रामं रञ्जितलोकं रमणीयम् ॥ १२॥
भावाभावप्रत्ययहीनं भवमुख्यैः
योगासक्तैरर्चितपादाम्बुजयुग्मम् ।
नित्यं शुद्धं बुद्धमनन्तं प्रणवाख्यं
वन्दे रामं वीरमशेषासुरदावम् ॥ १३॥
त्वं मे नाथो नाथितकार्याखिलकारी
मानातीतो माधवरूपोऽखिलधारी ।
भक्त्या गम्यो भावितरूपो भवहारी
योगाभ्यासैर्भावितचेतःसहचारी ॥ १४॥
त्वामाद्यन्तं लोकततीनां परमीशं
लोकानां नो लौकिकमानैरधिगम्यम् ।
भक्तिश्रद्धाभावसमेतैर्भजनीयं
वन्दे रामं सुन्दरमिन्दीवरनीलम् ॥ १५॥
को वा ज्ञातुं त्वामतिमानं गतमानं
मायासक्तो माधव शक्तो मुनिमान्यम् ।
वृन्दारण्ये वन्दितवृन्दारकवृन्दं
वन्दे रामं भवमुखवन्द्यं सुखकन्दम् ॥ १६॥
नानाशास्त्रैर्वेदकदम्बैः प्रतिपाद्यं
नित्यानन्दं निर्विषयज्ञानमनादिम् ।
मत्सेवार्थं मानुषभावं प्रतिपन्नं
वन्दे रामं मरकतवर्णं मथुरेशम् ॥ १७॥
श्रद्धायुक्तो यः पठतीमं स्तवमाद्यं
ब्राह्मं ब्रह्मज्ञानविधानं भुवि मर्त्यः ।
रामं श्यामं कामितकामप्रदमीशं
ध्यात्वा ध्याता पातकजालैर्विगतः स्यात् ॥ १८॥
श्रुत्वा स्तुतिं लोकगुरोर्विभावसुः
स्वाङ्के समादाय विदेहपुत्रिकाम् ।
विभ्राजमानां विमलारुणद्युतिं
रक्ताम्बरां दिव्यविभूषणान्विताम् ॥ १९॥
प्रोवाच साक्षी जगतां रघूत्तमं
प्रपन्नसर्वार्तिहरं हुताशनः ।
गृहाण देवीं रघुनाथ जानकीं
पुरा त्वया मय्यवरोपितां वने ॥ २०॥
विधाय मायाजनकात्मजां हरे
दशाननप्राणविनाशनाय च ।
हतो दशास्यः सह पुत्रबान्धवै-
र्निराकृतोऽनेन भरो भुवः प्रभो ॥ २१॥
तिरोहिता सा प्रतिबिम्बरूपिणी
कृता यदर्थं कृतकृत्यतां गता ।
ततोऽतिहृष्टां परिगृह्य जानकीं
रामः प्रहृष्टः प्रतिपूज्य पावकम् ॥ २२॥
स्वाङ्के समावेश्य सदाऽनपायिनीं
श्रियं त्रिलोकीजननीं श्रियः पतिः ।
दृष्ट्वाथ रामं जनकात्मजायुतं
श्रिया स्फुरन्तं सुरनायको मुदा ।
भक्त्या गिरा गद्गदया समेत्य
कृताञ्जलिः स्तोतुमथोपचक्रमे ॥ २३॥
इन्द्र उवाच । भजेऽहं सदा राममिन्दीवराभं
भवारण्यदावानलाभाभिधानम् ।
भवानीहृदा भावितानन्दरूपं
भवाभावहेतुं भवादिप्रपन्नम् ॥ २४॥
सुरानीकदुःखौघनाशैकहेतुं
नराकारदेहं निराकारमीड्यम् ।
परेशं परानन्दरूपं वरेण्यं
हरिं राममीशं भजे भारनाशम् ॥ २५॥
प्रपन्नाखिलानन्ददोहं प्रपन्नं
प्रपन्नार्तिनिःशेषनाशाभिधानम् ।
तपोयोगयोगीशभावाभिभाव्यं
कपीशादिमित्रं भजे राममित्रम् ॥ २६॥
सदा भोगभाजां सुदूरे विभान्तं
सदा योगभाजामदूरे विभान्तम् ।
चिदानन्दकन्दं सदा राघवेशं
विदेहात्मजानन्दरूपं प्रपद्ये ॥ २७॥
महायोगमायाविशेषानुयुक्तो
विभासीश लीलानराकारवृत्तिः ।
त्वदानन्दलीलाकथापूर्णकर्णाः
सदानन्दरूपा भवन्तीह लोके ॥ २८॥
अहं मानपानाभिमत्तप्रमत्तो
न वेदाखिलेशाभिमानाभिमानः ।
इदानीं भवत्पादपद्मप्रसादात्
त्रिलोकाधिपत्याभिमानो विनष्टः ॥ २९॥
स्फुरद्रत्नकेयूरहाराभिरामं
धराभारभूतासुरानीकदावम् ।
शरच्चन्द्रवक्त्रं लसत्पद्मनेत्रं
दुरावारपारं भजे राघवेशम् ॥ ३०॥
सुराधीशनीलाभ्रनीलाङ्गकान्तिं
विराधादिरक्षोवधाल्लोकशान्तिम् ।
किरीटादिशोभं पुरारातिलाभं
भजे रामचन्द्रं रघूणामधीशम् ॥ ३१॥
लसच्चन्द्रकोटिप्रकाशादिपीठे
समासीनमङ्के समाधाय सीताम् ।
स्फुरद्धेमवर्णां तडित्पुञ्जभासां
भजे रामचन्द्रं निवृत्तार्तितन्द्रम् ॥ ३२॥
ततः प्रोवाच भगवान् भवान्या सहितो भवः । रामं कमलपत्राक्षं विमानस्थो नभःस्थले ॥ ३३॥
आगमिष्याम्ययोध्यायां द्रष्टुं त्वां राज्यसत्कृतम् । इदानीं पश्य पितरमस्य देहस्य राघव ॥ ३४॥
ततोऽपश्यद्विमानस्थं रामो दशरथं पुरः । ननाम शिरसा पादौ मुदा भक्त्या सहानुजः ॥ ३५॥
आलिङ्ग्य मूर्ध्न्यवघ्राय रामं दशरथोऽब्रवीत् । तारितोऽस्मि त्वया वत्स संसाराद्दुःखसागरात् ॥ ३६॥
इत्युक्त्वा पुनरालिङ्ग्य ययौ रामेण पूजितः । रामोऽपि देवराजं तं दृष्ट्वा प्राह कृताञ्जलिम् ॥ ३७॥
मत्कृते निहतान् सङ्ख्ये वानरान् पतितान् भुवि । जीवयाशु सुधावृष्ट्या सहस्राक्ष ममाज्ञया ॥ ३८॥
तथेत्यमृतवृष्ट्या तान् जीवयामास वानरान् । ये ये मृता मृधे पूर्वं ते ते सुप्तोत्थिता इव । पूर्ववद्बलिनो हृष्टा रामपार्श्वमुपाययुः ॥ ३९॥
नोत्थिता राक्षसास्तत्र पीयूषस्पर्शनादपि । विभीषणस्तु साष्टाङ्गं प्रणिपत्याब्रवीद्वचः ॥ ४०॥
देव मामनुगृह्णीष्व मयि भक्तिर्यदा तव । मङ्गलस्नानमद्य त्वं कुरु सीतासमन्वितः ॥ ४१॥
अलङ्कृत्य सह भ्रात्रा श्वो गमिष्यामहे वयम् । विभीषणवचः श्रुत्वा प्रत्युवाच रघूत्तमः ॥ ४२॥
सुकुमारोऽतिभक्तो मे भरतो मामवेक्षते । जटावल्कलधारी स शब्दब्रह्मसमाहितः ॥ ४३॥
कथं तेन विना स्नानमलङ्कारादिकं मम । अतः सुग्रीवमुख्यांस्त्वं पूजयाशु विशेषतः ॥ ४४॥
पूजितेषु कपीन्द्रेषु पूजितोऽहं न संशयः । इत्युक्तो राघवेणाशु स्वर्णरत्नाम्बराणि च ॥ ४५॥
ववर्ष राक्षसश्रेष्ठो यथाकामं यथारुचि । ततस्तान् पूजितान् दृष्ट्वा रामो रत्नैश्च यूथपान् ॥ ४६॥
अभिनन्द्य यथान्यायं विससर्ज हरीश्वरान् । विभीषणसमानीतं पुष्पकं सूर्यवर्चसम् ॥ ४७॥
आरुरोह ततो रामस्तद्विमानमनुत्तमम् । अङ्के निधाय वैदेहीं लज्जमानां यशस्विनीम् ॥ ४८॥
लक्ष्मणेन सह भ्रात्रा विक्रान्तेन धनुष्मता । अब्रवीच्च विमानस्थः श्रीरामः सर्ववानरान् ॥ ४९॥
सुग्रीवं हरिराजं च अङ्गदं च विभीषणम् । मित्रकार्यं कृतं सर्वं भवद्भिः सह वानरैः ॥ ५०॥
अनुज्ञाता मया सर्वे यथेष्टं गन्तुमर्हथ । सुग्रीव प्रतियाह्याशु किष्किन्धां सर्वसैनिकैः ॥ ५१॥
स्वराज्ये वस लङ्कायां मम भक्तो विभीषण । न त्वां धर्षयितुं शक्ताः सेन्द्रा अपि दिवौकसः ॥ ५२॥
अयोध्यां गन्तुमिच्छामि राजधानीं पितुर्मम । एवमुक्तास्तु रामेण वानरास्ते महाबलाः ॥ ५३॥
ऊचुः प्राञ्जलयः सर्वे राक्षसश्च विभीषणः । अयोध्यां गन्तुमिच्छामस्त्वया सह रघूत्तम ॥ ५४॥
दृष्ट्वा त्वामभिषिक्तं तु कौसल्यामभिवाद्य च । पश्चाद्वृणीमहे राज्यमनुज्ञां देहि नः प्रभो ॥ ५५॥
रामस्तथेति सुग्रीव वानरैः सविभीषणः । पुष्पकं सहनूमांश्च शीघ्रमारोह साम्प्रतम् ॥ ५६॥
ततस्तु पुष्पकं दिव्यं सुग्रीवः सह सेनया । विभीषणश्च सामात्यः सर्वे चारुरुहुर्द्रुतम् ॥ ५७॥
तेष्वारूढेषु सर्वेषु कौबेरं परमासनम् । राघवेणाभ्यनुज्ञातमुत्पपात विहायसा ॥ ५८॥
बभौ तेन विमानेन हंसयुक्तेन भास्वता । प्रहृष्टश्च तदा रामश्चतुर्मुख इवापरः ॥ ५९॥
ततो बभौ भास्करबिम्बतुल्यं
कुबेरयानं तपसानुलब्धम् ।
रामेण शोभां नितरां प्रपेदे
सीतासमेतेन सहानुजेन ॥ ६०॥
इति श्रीमदध्यात्मरामायणे उमामहेश्वरसंवादे युद्धकाण्डे त्रयोदशः सर्गः ॥ १३॥
॥चतुर्दशः सर्गः ॥
श्रीमहादेव उवाच ।
पातयित्वा ततश्चक्षुः सर्वतो रघुनन्दनः ।
अब्रवीन्मैथिलीं सीतां रामः शशिनिभाननाम् ॥ १॥
त्रिकूटशिखराग्रस्थां पश्य लङ्कां महाप्रभाम् । एतां रणभुवं पश्य मांसकर्दमपङ्किलाम् ॥ २॥
असुराणां प्लवङ्गानामत्र वैशसनं महत् । अत्र मे निहतः शेते रावणो राक्षसेश्वरः ॥ ३॥
कुम्भकर्णेन्द्रजिन्मुख्याः सर्वे चात्र निपातिताः । एष सेतुर्मया बद्धः सागरे सलिलाशये ॥ ४॥
एतच्च दृश्यते तीर्थं सागरस्य महात्मनः । सेतुबन्धमिति ख्यातं त्रैलोक्येन च पूजितम् ॥ ५॥
एतत्पवित्रं परमं दर्शनात्पातकापहम् । अत्र रामेश्वरो देवो मया शम्भुः प्रतिष्ठितः ॥ ६॥
अत्र मां शरणं प्राप्तो मन्त्रिभिश्च विभीषणः । एषा सुग्रीवनगरी किष्किन्धा चित्रकानना ॥ ७॥
तत्र रामाज्ञया ताराप्रमुखा हरियोषितः । आनयामास सुग्रीवः सीतायाः प्रियकाम्यया ॥ ८॥
ताभिः सहोत्थितं शीघ्रं विमानं प्रेक्ष्य राघवः । प्राह चाद्रिमृष्यमूकं पश्य वाल्यत्र मे हतः ॥ ९॥
एषा पञ्चवटी नाम राक्षसा यत्र मे हताः । अगस्त्यस्य सुतीक्ष्णस्य पश्याश्रमपदे शुभे ॥ १०॥
एते ते तापसाः सर्वे दृश्यन्ते वरवर्णिनि । असौ शैलवरो देवि चित्रकूटः प्रकाशते ॥ ११॥
अत्र मां कैकयीपुत्रः प्रसादयितुमागतः । भरद्वाजाश्रमं पश्य दृश्यते यमुनातटे ॥ १२॥
एषा भागीरथी गङ्गा दृश्यते लोकपावनी । एषा सा दृश्यते सीते सरयूयूपमालिनी ॥ १३॥
एषा सा दृश्यतेऽयोध्या प्रणामं कुरु भामिनि । एवं क्रमेण सम्प्राप्तो भरद्वाजाश्रमं हरिः ॥ १४॥
पूर्णे चतुर्दशे वर्षे पञ्चम्यां रघुनन्दनः । भरद्वाजं मुनिं दृष्ट्वा ववन्दे सानुजः प्रभुः ॥ १५॥
पप्रच्छ मुनिमासीनं विनयेन रघूत्तमः । शृणोषि कच्चिद्भरतः कुशल्यास्ते सहानुजः ॥ १६॥
सुभिक्षा वर्ततेऽयोध्या जीवन्ति च हि मातरः । श्रुत्वा रामस्य वचनं भरद्वाजः प्रहृष्टधीः ॥ १७॥
प्राह सर्वे कुशलिनो भरतस्तु महामनाः । फलमूलकृताहारो जटावल्कलधारकः ॥ १८॥
पादुके सकलं न्यस्य राज्यं त्वां सुप्रतीक्षते । यद्यत्कृतं त्वया कर्म दण्डके रघुनन्दन ॥ १९॥
राक्षसानां विनाशं च सीताहरणपूर्वकम् । सर्वं ज्ञातं मया राम तपसा ते प्रसादतः ॥ २०॥
त्वं ब्रह्म परमं साक्षादादिमध्यान्तवर्जितः । त्वमग्रे सलिलं सृष्ट्वा तत्र सुप्तोऽसि भूतकृत् ॥ २१॥
नारायणोऽसि विश्वात्मन्नराणामन्तरात्मकः । त्वन्नाभिकमलोत्पन्नो ब्रह्मा लोकपितामहः ॥ २२॥
अतस्त्वं जगतामीशः सर्वलोकनमस्कृतः । त्वं विष्णुर्जानकी लक्ष्मीः शेषोऽयं लक्ष्मणाभिधः ॥ २३॥
आत्मना सृजसीदं त्वमात्मन्येवात्ममायया । न सज्जसे नभोवत्त्वं चिच्छक्त्या सर्वसाक्षिकः ॥ २४॥
बहिरन्तश्च भूतानां त्वमेव रघुनन्दन । पूर्णोऽपि मूढदृष्टीनां विच्छिन्न इव लक्ष्यसे ॥ २५॥
जगत्त्वं जगदाधारस्त्वमेव परिपालकः । त्वमेव सर्वभूतानां भोक्ता भोज्यं जगत्पते ॥ २६॥
दृश्यते श्रूयते यद्यत्स्मर्यते वा रघूत्तम । त्वमेव सर्वमखिलं त्वद्विनान्यन्न किञ्चन ॥ २७॥
माया सृजति लोकांश्च स्वगुणैरहमादिभिः । त्वच्छक्तिप्रेरिता राम तस्मात्त्वय्युपचर्यते ॥ २८॥
यथा चुम्बकसान्निध्याच्चलन्त्येवायसादयः । जडास्तथा त्वया दृष्टा माया सृजति वै जगत् ॥ २९॥
देहद्वयमदेहस्य तव विश्वं रिरक्षिषोः । विराट् स्थूलं शरीरं ते सूत्रं सूक्ष्ममुदाहृतम् ॥ ३०॥
विराजः सम्भवन्त्येते अवताराः सहस्रशः । कार्यान्ते प्रविशन्त्येव विराजं रघुनन्दन ॥ ३१॥
अवतारकथां लोके ये गायन्ति गृणन्ति च । अनन्यमनसो मुक्तिस्तेषामेव रघूत्तम ॥ ३२॥
त्वं ब्रह्मणा पुरा भूमेर्भारहाराय राघव । प्रार्थितस्तपसा तुष्टस्त्वं जातोऽसि रघोः कुले ॥ ३३॥
देवकार्यमशेषेण कृतं ते राम दुष्करम् । बहुवर्षसहस्राणि मानुषं देहमाश्रितः ॥ ३४॥
कुर्वन् दुष्करकर्माणि लोकद्वयहिताय च । पापहारीणि भुवनं यशसा पूरयिष्यसि ॥ ३५॥
प्रार्थयामि जगन्नाथ पवित्रं कुरु मे गृहम् । स्थित्वाद्य भुक्त्वा सबलः श्वो गमिष्यसि पत्तनम् ॥ ३६॥
तथेति राघवोऽतिष्ठत्तस्मिन्नाश्रम उत्तमे । ससैन्यः पूजितस्तेन सीतया लक्ष्मणेन च ॥ ३७॥
ततो रामश्चिन्तयित्वा मुहूर्तं प्राह मारुतिम् । इतो गच्छ हनूमंस्त्वमयोध्यां प्रति सत्वरः ॥ ३८॥
जानीहि कुशली कच्चिज्जनो नृपतिमन्दिरे । शृङ्गवेरपुरं गत्वा ब्रूहि मित्रं गुहं मम ॥ ३९॥
जानकीलक्ष्मणोपेतमागतं मां निवेदय । नन्दिग्रामं ततो गत्वा भ्रातरं भरतं मम ॥ ४०॥
दृष्ट्वा ब्रूहि सभार्यस्य सभ्रातुः कुशलं मम । सीतापहरणादीनि रावणस्य वधादिकम् ॥ ४१॥
ब्रूहि क्रमेण मे भ्रातुः सर्वं तत्र विचेष्टितम् । हत्वा शत्रुगणान् सर्वान् सभार्यः सहलक्ष्मणः ॥ ४२॥
उपयाति समृद्धार्थः सह ऋक्षहरीश्वरैः । इत्युक्त्वा तत्र वृत्तान्तं भरतस्य विचेष्टितम् ॥ ४३॥
सर्वं ज्ञात्वा पुनः शीघ्रमागच्छ मम सन्निधिम् । तथेति हनुमांस्तत्र मानुषं वपुरास्थितः ॥ ४४॥
नन्दिग्रामं ययौ तूर्णं वायुवेगेन मारुतिः । गरुत्मानिव वेगेन जिघृक्षन् भुजगोत्तमम् ॥ ४५॥
शृङ्गवेरपुरं प्राप्य गुहमासाद्य मारुतिः । उवाचा मधुरं वाक्यं प्रहृष्टेनान्तरात्मना ॥ ४६॥
रामो दाशरथिः श्रीमान् सखा ते सह सीतया । सलक्ष्मणस्त्वां धर्मात्मा क्षेमी कुशलमब्रवीत् ॥ ४७॥
अनुज्ञातोऽद्य मुनिना भरद्वाजेन राघवः । आगमिष्यति तं देवं द्रक्ष्यसि त्वं रघूत्तमम् ॥ ४८॥
एवमुक्त्वा महातेजाः सम्प्रहृष्टतनूरुहम् । उत्पपात महावेगो वायुवेगेन मारुतिः ॥ ४९॥
सोऽपश्यद्रामतीर्थं च सरयूं च महानदीम् । तामतिक्रम्य हनुमान्नन्दिग्रामं ययौ मुदा ॥ ५०॥
क्रोशमात्रे त्वयोध्यायाश्चीरकृष्णाजिनाम्बरम् । ददर्श भरतं दीनं कृशमाश्रमवासिनम् ॥ ५१॥
मलपङ्कविदिग्धाङ्गं जटिलं वल्कलाम्बरम् । फलमूलकृताहारं रामचिन्तापरायणम् ॥ ५२॥
पादुके ते पुरस्कृत्य शासयन्तं वसुन्धराम् । मन्त्रिभिः पौरमुख्यैश्च काषायाम्बरधारिभिः ॥ ५३॥
वृतदेहं मूर्तिमन्तं साक्षाद्धर्ममिव स्थितम् । उवाच प्राञ्जलिर्वाक्यं हनूमान्मारुतात्मजः ॥ ५४॥
यं त्वं चिन्तयसे रामं तापसं दण्डके स्थितम् । अनुशोचसि काकुत्स्थः स त्वां कुशलमब्रवीत् ॥ ५५॥
प्रियमाख्यामि ते देव शोकं त्यज सुदारुणम् । अस्मिन्मुहूर्ते भ्रात्रा त्वं रामेण सह सङ्गतः ॥ ५६॥
समरे रावणं हत्वा रामः सीतामवाप्य च । उपयाति समृद्धार्थः ससीतः सहलक्ष्मणः ॥ ५७॥
एवमुक्तो महातेजा भरतो हर्षमूर्च्छितः । पपात भुवि चास्वस्थः कैकयीप्रियनन्दनः ॥ ५८॥
आलिङ्ग्य भरतः शीघ्रं मारुतिं प्रियवादिनम् । आनन्दजैरश्रुजलैः सिषेच भरतः कपिम् ॥ ५९॥
देवो वा मानुषो वा त्वमनुक्रोशादिहागतः । प्रियाख्यानस्य ते सौम्य ददामि ब्रुवतः प्रियम् ॥ ६०॥
गवां शतसहस्रं च ग्रामाणां च शतं वरम् । सर्वाभरणसम्पन्ना मुग्धाः कन्यास्तु षोडश ॥ ६१॥
एवमुक्त्वा पुनः प्राह भरतो मारुतात्मजम् । बहूनीमानि वर्षाणि गतस्य सुमहद्वनम् ॥ ६२॥
शृणोम्यहं प्रीतिकरं मम नाथस्य कीर्तनम् । कल्याणी बत गाथेयं लौकिकी प्रतिभाति मे ॥ ६३॥
एति जीवन्तमानन्दो नरं वर्षशतादपि । राघवस्य हरीणां च कथमासीत्समागमः ॥ ६४॥
तत्त्वमाख्याहि भद्रं ते विश्वसेयं वचस्तव । एवमुक्तोऽथ हनुमान् भरतेन महात्मना ॥ ६५॥
आचचक्षेऽथ रामस्य चरितं कृत्स्नशः क्रमात् । श्रुत्वा तु परमानन्दं भरतो मारुतात्मजात् ॥ ६६॥
आज्ञापयच्छत्रुहणं मुदा युक्तं मुदान्वितः । दैवतानि च यावन्ति नगरे रघुनन्दन ॥ ६७॥
नानोपहारबलिभिः पूजयन्तु महाधियः । सूता वैतालिकाश्चैव वन्दिनः स्तुतिपाठकाः ॥ ६८॥
वारमुख्याश्च शतशो निर्यान्त्वद्यैव सङ्घशः । राजदारास्तथामात्याः सेना हस्त्यश्वपत्तयः ॥ ६९॥
ब्राह्मणाश्च तथा पौरा राजानो ये समागताः । निर्यान्तु राघवस्याद्य द्रष्टुं शशिनिभाननम् ॥ ७०॥
भरतस्य वचः श्रुत्वा शत्रुघ्नपरिचोदिताः । अलञ्चक्रुश्च नगरीं मुक्तारत्नमयोज्ज्वलैः ॥ ७१॥
तोरणैश्च पताकाभिर्विचित्राभिरनेकधा । अलङ्कुर्वन्ति वेश्मानि नानाबलिविचक्षणाः ॥ ७२॥
निर्यान्ति वृन्दशः सर्वे रामदर्शनलालसाः । हयानां शतसाहस्रं गजानामयुतं तथा ॥ ७३॥
रथानां दशसाहस्रं स्वर्णसूत्रविभूषितम् । पारमेष्ठीन्युपादाय द्रव्याण्युच्चावचानि च ॥ ७४॥
ततस्तु शिबिकारूढा निर्ययू राजयोषितः । भरतः पादुके न्यस्य शिरस्येव कृताञ्जलिः ॥ ७५॥
शत्रुघ्नसहितो रामं पादचारेण निर्ययौ । तदैव दृश्यते दूराद्विमानं चन्द्रसन्निभम् ॥ ७६॥
पुष्पकं सूर्यसङ्काशं मनसा ब्रह्मनिर्मितम् । एतस्मिन् भ्रातरौ वीरौ वैदेह्या रामलक्ष्मणौ ॥ ७७॥
सुग्रीवश्च कपिश्रेष्ठो मन्त्रिभिश्च विभीषणः । दृश्यते पश्यत जना इत्याह पवनात्मजः ॥ ७८॥
ततो हर्षसमुद्भूतो निःस्वनो दिवमस्पृशत् । स्त्रीबालयुववृद्धानां रामोऽयमिति कीर्तनात् ॥ ७९॥
रथकुञ्जरवाजिस्था अवतीर्य महीं गताः । ददृशुस्ते विमानस्थं जनाः सोममिवाम्बरे ॥ ८०॥
प्राञ्जलिर्भरतो भूत्वा प्रहृष्टो राघवोन्मुखः । ततो विमानाग्रगतं भरतो राघवं मुदा ॥ ८१॥
ववन्दे प्रणतो रामं मेरुस्थमिव भास्करम् । ततो रामाभ्यनुज्ञातं विमानमपतद्भुवि ॥ ८२॥
आरोपितो विमानं तद्भरतः सानुजस्तदा । राममासाद्य मुदितः पुनरेवाभ्यवादयत् ॥ ८३॥
समुत्थाय चिराद्दृष्टं भरतं रघुनन्दनः । भ्रातरं स्वाङ्कमारोप्य मुदा तं परिषस्वजे ॥ ८४॥
ततो लक्ष्मणमासाद्य वैदेहीं नाम कीर्तयन् । अभ्यवादयत प्रीतो भरतः प्रेमविह्वलः ॥ ८५॥
सुग्रीवं जाम्बवन्तं च युवराजं तथाङ्गदम् । मैन्दद्विविदनीलांश्च ऋषभं चैव सस्वजे ॥ ८६॥
सुषेणं च नलं चैव गवाक्षं गन्धमादनम् । शरभं पनसं चैव भरतः परिषस्वजे ॥ ८७॥
सर्वे ते मानुषं रूपं कृत्वा भरतमादृताः । पप्रच्छुः कुशलं सौम्याः प्रहृष्टाश्च प्लवङ्गमाः ॥ ८८॥
ततः सुग्रीवमालिङ्ग्य भरतः प्राह भक्तितः । त्वत्सहायेन रामस्य जयोऽभूद्रावणो हतः ॥ ८९॥
त्वमस्माकं चतुर्णां तु भ्राता सुग्रीव पञ्चमः । शत्रुघ्नश्च तदा राममभिवाद्य सलक्ष्मणम् ॥ ९०॥
सीतायाश्चरणौ पश्चाद्ववन्दे विनयान्वितः । रामो मातरमासाद्य विवर्णां शोकविह्वलाम् ॥ ९१॥
जग्राह प्रणतः पादौ मनो मातुः प्रसादयन् । कैकेयीं च सुमित्रां च ननामेतरमातरौ ॥ ९२॥
भरतः पादुके ते तु राघवस्य सुपूजिते । योजयामास रामस्य पादयोर्भक्तिसंयुतः ॥ ९३॥
राज्यमेतन्न्यासभूतं मया निर्यातितं तव । अद्य मे सफलं जन्म फलितो मे मनोरथः ॥ ९४॥
यत्पश्यामि समायातमयोध्यां त्वामहं प्रभो । कोष्ठागारं बलं कोशं कृतं दशगुणं मया ॥ ९५॥
त्वत्तेजसा जगन्नाथ पालयस्व पुरं स्वकम् । इति ब्रुवाणं भरतं दृष्ट्वा सर्वे कपीश्वराः ॥ ९६॥
मुमुचुर्नेत्रजं तोयं प्रशशंसुर्मुदान्विताः । ततो रामः प्रहृष्टात्मा भरतं स्वाङ्कगं मुदा ॥ ९७॥
ययौ तेन विमानेन भरतस्याश्रमं तदा । अवरुह्य तदा रामो विमानाग्र्यान्महीतलम् ॥ ९८॥
अब्रवीत्पुष्पकं देवो गच्छ वैश्रवणं वह । अनुगच्छानुजानामि कुबेरं धनपालकम् ॥ ९९॥
रामो वसिष्ठस्य गुरोः पदाम्बुजं
नत्वा यथा देवगुरोः शतक्रतुः ।
दत्त्वा महार्हासनमुत्तमं गुरो-
रुपाविवेशाथ गुरोः समीपतः ॥ १००॥
इति श्रीमदध्यात्मरामायणे उमामहेश्वरसंवादे युद्धकाण्डे चतुर्दशः सर्गः ॥ १४॥
॥पञ्चदशः सर्गः ॥
श्रीमहादेव उवाच ।
ततस्तु कैकयीपुत्रो भरतो भक्तिसंयुतः ।
शिरस्यञ्जलिमाधाय ज्येष्ठं भ्रातरमब्रवीत् ॥ १॥
माता मे सत्कृता राम दत्तं राज्यं त्वया मम । ददामि तत्ते च पुनर्यथा त्वमददा मम ॥ २॥
इत्युक्त्वा पादयोर्भक्त्या साष्टाङ्गं प्रणिपत्य च । बहुधा प्रार्थयामास कैकेय्या गुरुणा सह ॥ ३॥
तथेति प्रतिजग्राह भरताद्राज्यमीश्वरः । मायामाश्रित्य सकलां नरचेष्टामुपागतः ॥ ४॥
स्वाराज्यानुभवो यस्य सुखज्ञानैकरूपिणः । निरस्तातिशयानन्दरूपिणः परमात्मनः ॥ ५॥
मानुषेण तु राज्येन किं तस्य जगदीशितुः । यस्य भ्रूभङ्गमात्रेण त्रिलोकी नश्यति क्षणात् ॥ ६॥
यस्यानुग्रहमात्रेण भवन्त्याखण्डलश्रियः । लीलासृष्टमहासृष्टेः कियदेतद्रमापतेः ॥ ७॥
तथापि भजतां नित्यं कामपूरविधित्सया । लीलामानुषदेहेन सर्वमप्यनुवर्तते ॥ ८॥
ततः शत्रुघ्नवचनान्निपुणः श्मश्रुकृन्तकः सम्भाराश्चाभिषेकार्थमानीता राघवस्य हि ॥ ९॥
पूर्वं तु भरते स्नाते लक्ष्मणे च महात्मनि । सुग्रीवे वानरेन्द्रे च राक्षसेन्द्रे विभीषणे ॥ १०॥
विशोधितजटः स्नातश्चित्रमाल्यानुलेपनः । महार्हवसनोपेतस्तस्थौ तत्र श्रिया ज्वलन् ॥ ११॥
प्रतिकर्म च रामस्य लक्ष्मणश्च महामतिः । कारयामास भरतः सीताया राजयोषितः ॥ १२॥
महार्हवस्त्राभरणैरलञ्चक्रुः सुमध्यमाम् । ततो वानरपत्नीनां सर्वासामेव शोभना ॥ १३॥
अकारयत कौसल्या प्रहृष्टा पुत्रवत्सला । ततः स्यन्दनमादाय शत्रुघ्नवचनात्सुधीः ॥ १४॥
सुमन्त्रः सूर्यसङ्काशं योजयित्वाग्रतः स्थितः । आरुरोह रथं रामः सत्यधर्मपरायणः ॥ १५॥
सुग्रीवो युवराजश्च हनुमांश्च विभीषणः । स्नात्वा दिव्याम्बरधरा दिव्याभरणभूषिताः ॥ १६॥
राममन्वीयुरग्रे च रथाश्वगजवाहनाः । सुग्रीवपत्न्यः सीता च ययुर्यानैः पुरं महत् ॥ १७॥
वज्रपाणिर्यथा देवैर्हरिताश्वरथे स्थितः । प्रययौ रथमास्थाय तथा रामो महत्पुरम् ॥ १८॥
सारथ्यं भरतश्चक्रे रत्नदण्डं महाद्युतिः । श्वेतातपत्रं शत्रुघ्नो लक्ष्मणो व्यजनं दधे ॥ १९॥
चामरं च समीपस्थो न्यवीजयदरिन्दमः । शशिप्रकाशं त्वपरं जग्राहासुरनायकः ॥ २०॥
दिविजैः सिद्धसङ्घैश्च ऋषिभिर्दिव्यदर्शनैः । स्तूयमानस्य रामस्य शुश्रुवे मधुरध्वनिः ॥ २१॥
मानुषं रूपमास्थाय वानरा गजवाहनाः । भेरीशङ्खनिनादैश्च मृदङ्गपणवानकैः ॥ २२॥
प्रययौ राघवश्रेष्ठस्तां पुरीं समलङ्कृताम् । ददृशुस्ते समायान्तं राघवं पुरवासिनः ॥ २३॥
दूर्वादलश्यामतनुं महार्ह-
किरीटरत्नाभरणाञ्चिताङ्गम् ।
आरक्तकञ्जायतलोचनान्तं
दृष्ट्वा ययुर्मोदमतीव पुण्याः ॥ २४॥
विचित्ररत्नाञ्चितसूत्रनद्ध-
पीताम्बरं पीनभुजान्तरालम् ।
अनर्घ्यमुक्ताफलदिव्यहारैः
विरोचमानं रघुनन्दनं प्रजाः ॥ २५॥
सुग्रीवमुख्यैर्हरिभिः प्रशान्तैः
निषेव्यमाणं रवितुल्यभासम् ।
कस्तूरिकाचन्दनलिप्तगात्रं
निवीतकल्पद्रुमपुष्पमालम् ॥ २६॥
श्रुत्वा स्त्रियो राममुपागतं मुदा
प्रहर्षवेगोत्कलिताननश्रियः ।
अपास्य सर्वं गृहकार्यमाहितं
हर्म्याणि चैवारुरुहुः स्वलङ्कृताः ॥ २७॥
दृष्ट्वा हरिं सर्वदृगुत्सवाकृतिं
पुष्पैः किरन्त्यः स्मितशोभिताननाः ।
दृग्भिः पुनर्नेत्रमनोरसायनं
स्वानन्दमूर्तिं मनसाभिरेभिरे ॥ २८॥
रामः स्मितस्निग्धदृशा प्रजास्तथा
पश्यन् प्रजानाथ इवापरः प्रभुः ।
शनैर्जगामाथ पितुः स्वलङ्कृतं
गृहं महेन्द्रालयसन्निभं हरिः ॥ २९॥
प्रविश्य वेश्मान्तरसंस्थितो मुदा
रामो ववन्दे चरणौ स्वमातुः ।
क्रमेण सर्वाः पितृयोषितः प्रभुः
ननाम भक्त्या रघुवंशकेतुः ॥ ३०॥
ततो भरतमाहेदं रामः सत्यपराक्रमः । सर्वसम्पत्समायुक्तं मम मन्दिरमुत्तमम् ॥ ३१॥
मित्राय वानरेन्द्राय सुग्रीवाय प्रदीयताम् । सर्वेभ्यः सुखवासार्थं मन्दिराणि प्रकल्पय ॥ ३२॥
रामेणैवं समादिष्टो भरतश्च तथाकरोत् । उवाच च महातेजाः सुग्रीवं राघवानुजः ॥ ३३॥
राघवस्याभिषेकार्थं चतुःसिन्धुजलं शुभम् । आनेतुं प्रेषयस्वाशु दूतांस्त्वरितविक्रमान् ॥ ३४॥
प्रेषयामास सुग्रीवो जाम्बवन्तं मरुत्सुतम् । अङ्गदं च सुषेणं च ते गत्वा वायुवेगतः ॥ ३५॥
जलपूर्णान् शातकुम्भकलशांश्च समानयन् । आनीतं तीर्थसलिलं शत्रुघ्नो मन्त्रिभिः सह ॥ ३६॥
राघवस्याभिषेकार्थं वसिष्ठाय न्यवेदयत् । ततस्तु प्रयतो वृद्धो वसिष्ठो ब्राह्मणैः सह ॥ ३७॥
रामं रत्नमये पीठे ससीतं संन्यवेशयत् । वसिष्ठो वामदेवश्च जाबालिर्गौतमस्तथा ॥ ३८॥
वाल्मीकिश्च तथा चक्रुः सर्वे रामाभिषेचनम् । कुशाग्रतुलसीयुक्तपुण्यगन्धजलैर्मुदा ॥ ३९॥
अभ्यषिञ्चन् रघुश्रेष्ठं वासवं वसवो यथा । ऋत्विग्भिर्ब्राह्मणैः श्रेष्ठैः कन्याभिः सह मन्त्रिभिः ॥ ४०॥
सर्वौषधिरसैश्चैव दैवतैर्नभसि स्थितैः । चतुर्भिर्लोकपालैश्च स्तुवद्भिः सगणैस्तथा ॥ ४१॥
छत्रं च तस्य जग्राह शत्रुघ्नः पाण्डुरं शुभम् । सुग्रीवराक्षसेन्द्रौ तौ दधतुः श्वेतचामरे ॥ ४२॥
मालां च काञ्चनीं वायुर्ददौ वासवचोदितः । सर्वरत्नसमायुक्तं मणिकाञ्चनभूषितम् ॥ ४३॥
ददौ हारं नरेन्द्राय स्वयं शक्रस्तु भक्तितः । प्रजगुर्देवगन्धर्वा ननृतुश्चाप्सरोगणाः ॥ ४४॥
देवदुन्दुभयो नेदुः पुष्पवृष्टिः पपात खात् । नवदूर्वादलश्यामं पद्मपत्रायतेक्षणम् ॥ ४५॥
रविकोटिप्रभायुक्तकिरीटेन विराजितम् । कोटिकन्दर्पलावण्यं पीताम्बरसमावृतम् ॥ ४६॥
दिव्याभरणसम्पन्नं दिव्यचन्दनलेपनम् । अयुतादित्यसङ्काशं द्विभुजं रघुनन्दनम् ॥ ४७॥
वामभागे समासीनां सीतां काञ्चनसन्निभाम् । सर्वाभरणसम्पन्नां वामाङ्के समुपस्थिताम् ॥ ४८॥
रक्तोत्पलकराम्भोजां वामेनालिङ्ग्य संस्थितम् । सर्वातिशयशोभाढ्यं दृष्ट्वा भक्तिसमन्वितः ॥ ४९॥
उमया सहितो देवः शङ्करो रघुनन्दनम् । सर्वदेवगणैर्युक्तः स्तोतुं समुपचक्रमे ॥ ५०॥
श्रीमहादेव उवाच । नमोऽस्तु रामाय सशक्तिकाय
नीलोत्पलश्यामलकोमलाय ।
किरीटहाराङ्गदभूषणाय
सिंहासनस्थाय महाप्रभाय ॥ ५१॥
त्वमादिमध्यान्तविहीन एकः
सृजस्यवस्यत्सि च लोकजातम् ।
स्वमायया तेन न लिप्यसे त्वं
यत्स्वे सुखेऽजस्ररतोऽनवद्यः ॥ ५२॥
लीलां विधत्से गुणसंवृतस्त्वं
प्रपन्नभक्तानुविधानहेतोः ।
नानावतारैः सुरमानुषाद्यैः
प्रतीयसे ज्ञानिभिरेव नित्यम् ॥ ५३॥
स्वांशेन लोकं सकलं विधाय तं
बिभर्षि च त्वं तदधः फणीश्वरः ।
उपर्यधो भान्वनिलोडुपौषधि-
प्रवर्षरूपोऽवसि नैकधा जगत् ॥ ५४॥
त्वमिह देहभृतां शिखिरूपः
पचसि भुक्तमशेषमजस्रम् ।
पवनपञ्चकरूपसहायो
जगदखण्डमनेन बिभर्षि ॥ ५५॥
चन्द्रसूर्यशिखिमध्यगतं यत्
तेज ईश चिदशेषतनूनाम् ।
प्राभवत्तनुभृतामिव धैर्यं
शौर्यमायुरखिलं तव सत्त्वम् ॥ ५६॥
त्वं विरिञ्चिशिवविष्णुविभेदात्
कालकर्मशशिसूर्यविभागात् ।
वादिनां पृथगिवेश विभासि
ब्रह्म निश्चितमनन्यदिहैकम् ॥ ५७॥
मत्स्यादिरूपेण यथा त्वमेकः
श्रुतौ पुराणेषु च लोकसिद्धः ।
तथैव सर्वं सदसद्विभाग-
स्त्वमेव नान्यद्भवतो विभाति ॥ ५८॥
यद्यत्समुत्पन्नमनन्तसृष्टा-
वुत्पत्स्यते यच्च भवच्च यच्च ।
न दृश्यते स्थावरजङ्गमादौ
त्वया विनातःपरतः परस्त्वम् ॥ ५९॥
तत्त्वं न जानन्ति परात्मनस्ते
जनाः समस्तास्तव माययातः ।
त्वद्भक्तसेवाऽमलमानसानां
विभाति तत्त्वं परमेकमैशम् ॥ ६०॥
ब्रह्मादयस्ते न विदुः स्वरूपं
चिदात्मतत्त्वं बहिरर्थभावाः ।
ततो बुधस्त्वामिदमेव रूपं
भक्त्या भजन्मुक्तिमुपैत्यदुःखः ॥ ६१॥
अहं भवन्नाम गृणन् कृतार्थो
वसामि काश्यामनिशं भवान्या ।
मुमूर्षमाणस्य विमुक्तयेऽहं
दिशामि मन्त्रं तव राम नाम ॥ ६२॥
इमं स्तवं नित्यमनन्यभक्त्या
शृण्वन्ति गायन्ति लिखन्ति ये वै ।
ते सर्वसौख्यं परमं च लब्ध्वा
भवत्पदं यान्तु भवत्प्रसादात् ॥ ६३॥
इन्द्र उवाच । रक्षोऽधिपेनाखिलदेव सौख्यं
हृतं च मे ब्रह्मवरेण देव ।
पुनश्च सर्वं भवतः प्रसादात्
प्राप्तं हतो राक्षसदुष्टशत्रुः ॥ ६४॥
देवा ऊचुः हृता यज्ञभागा धरादेवदत्ता
मुरारे खलेनादिदैत्येन विष्णो ।
हतोऽद्य त्वया नो वितानेषु भागाः
पुरावद्भविष्यन्ति युष्मत्प्रसादात् ॥ ६५॥
पितर ऊचुः हतोऽद्य त्वया दुष्टदैत्यो महात्मन्
गयादौ नरैर्दत्तपिण्डादिकान्नः ।
बलादत्ति हत्वा गृहीत्वा समस्ता-
निदानीं पुनर्लब्धसत्त्वा भवामः ॥ ६६॥
यक्षा ऊचुः सदा विष्टिकर्मण्यनेनाभियुक्ता
वहामो दशास्यं बलाद्दुःखयुक्ताः ।
दुरात्मा हतो रावणो राघवेश
त्वया ते वयं दुःखजाताद्विमुक्ताः ॥ ६७॥
गन्धर्वा ऊचुः वयं सङ्गीतनिपुणा गायन्तस्ते कथामृतम् । आनन्दामृतसन्दोहयुक्ताः पूर्णाः स्थिताः पुरा ॥ ६८॥
पश्चाद्दुरात्मना राम रावणेनाभिविद्रुताः । तमेव गायमानाश्च तदाराधनतत्पराः ॥ ६९॥
स्थितास्त्वया परित्राता हतोऽयं दुष्टराक्षसः । एवं महोरगाः सिद्धाः किन्नरा मरुतस्तथा ॥ ७०॥
वसवो मुनयो गावो गुह्यकाश्च पतत्त्रिणः । सप्रजापतयश्चैते तथा चाप्सरसां गणाः ॥ ७१॥
सर्वे रामं समासाद्य दृष्ट्वा नेत्रमहोत्सवम् । स्तुत्वा पृथक् पृथक् सर्वे राघवेणाभिवन्दिताः ॥ ७२॥
ययुः स्वं स्वं पदं सर्वे ब्रह्मरुद्रादयस्तथा । प्रशंसन्तो मुदा रामं गायन्तस्तस्य चेष्टितम् ॥ ७३॥
ध्यायन्तस्त्वभिषेकार्द्रं सीतालक्ष्मणसंयुतम् । सिंहासनस्थं राजेन्द्रं ययुः सर्वे हृदि स्थितम् ॥ ७४॥
खे वाद्येषु ध्वनत्सु प्रमुदितहृदयैर्देववृन्दैः स्तुवद्भिः वर्षद्भिःपुष्पवृष्टिं दिवि मुनिनिकरैरीड्यमानः समन्तात् । रामः श्यामः प्रसन्नस्मितरुचिरमुखः सूर्यकोटिप्रकाशः सीतासौमित्रिवातात्मजमुनिहरिभिः सेव्यमानो विभाति ॥ ७५॥
इति श्रीमदध्यात्मरामायणे उमामहेश्वरसंवादे युद्धकाण्डे पञ्चदशः सर्गः ॥ १५॥
॥षोडशः सर्गः ॥
श्रीमहादेव उवाच ।
रामेऽभिषिक्ते राजेन्द्रे सर्वलोकसुखावहे ।
वसुधा सस्यसम्पन्ना फलवन्तो महीरुहाः ॥ १॥
गन्धहीनानि पुष्पाणि गन्धवन्ति चकाशिरे । सहस्रशतमश्वानां धेनूनां च गवां तथा ॥ २॥
ददौ शतवृषान् पूर्वं द्विजेभ्यो रघुनन्दनः । त्रिंशत्कोटिं सुवर्णस्य ब्राह्मणेभ्यो ददौ पुनः ॥ ३॥
वस्त्राभरणरत्नानि ब्राह्मणेभ्यो मुदा तथा । सूर्यकान्तिसमप्रख्यां सर्वरत्नमयीं स्रजम् ॥ ४॥
सुग्रीवाय ददौ प्रीत्या राघवो भक्तवत्सलः । अङ्गदाय ददौ दिव्ये ह्यङ्गदे रघुनन्दनः ॥ ५॥
चन्द्रकोटिप्रतीकाशं मणिरत्नविभूषितम् । सीतायै प्रददौ हारं प्रीत्या रघुकुलोत्तमः ॥ ६॥
अवमुच्यात्मनः कण्ठाद्धारं जनकनन्दिनी । अवैक्षत हरीन् सर्वान् भर्तारं च मुहुर्मुहुः ॥ ७॥
रामस्तामाह वैदेहीमिङ्गितज्ञो विलोकयन् । वैदेहि यस्य तुष्टासि देहि तस्मै वरानने ॥ ८॥
हनूमते ददौ हारं पश्यतो राघवस्य च । तेन हारेण शुशुभे मारुतिर्गौरवेण च ॥ ९॥
रामोऽपि मारुतिं दृष्ट्वा कृताञ्जलिमुपस्थितम् । भक्त्या परमया तुष्ट इदं वचनमब्रवीत् ॥ १०॥
हनूमंस्ते प्रसन्नोऽस्मि वरं वरय काङ्क्षितम् । दास्यामि देवैरपि यद्दुर्लभं भुवनत्रये ॥ ११॥
हनूमानपि तं प्राह नत्वा रामं प्रहृष्टधीः । त्वन्नाम स्मरतो राम न तृप्यति मनो मम ॥ १२॥
अतस्त्वन्नाम सततं स्मरन् स्थास्यामि भूतले । यावत्स्थास्यति ते नाम लोके तावत्कलेवरम् ॥ १३॥
मम तिष्ठतु राजेन्द्र वरोऽयं मेऽभिकाङ्क्षितः । रामस्तथेति तं प्राह मुक्तस्तिष्ठ यथासुखम् ॥ १४॥
कल्पान्ते मम सायूज्यं प्राप्स्यसे नात्र संशयः । तमाह जानकी प्रीता यत्र कुत्रापि मारुते ॥ १५॥
स्थितं त्वामनुयास्यन्ति भोगाः सर्वे ममाज्ञया । इत्युक्तो मारुतिस्ताभ्यामीश्वराभ्यां प्रहृष्टधीः ॥ १६॥
आनन्दाश्रुपरीताक्षो भूयो भूयः प्रणम्य तौ । कृच्छ्राद्ययौ तपस्तप्तुं हिमवन्तं महामतिः ॥ १७॥
ततो गुहं समासाद्य रामः प्राञ्जलिमब्रवीत् । सखे गच्छ पुरं रम्यं शृङ्गवेरमनुत्तमम् ॥ १८॥
मामेव चिन्तयन्नित्यं भुङ्क्ष्व भोगान्निजार्जितान् । अन्ते ममैव सारूप्यं प्राप्स्यसे त्वं न संशयः ॥ १९॥
इत्युक्त्वा प्रददौ तस्मै दिव्यान्याभरणानि च । राज्यं च विपुलं दत्त्वा विज्ञानं च ददौ विभुः ॥ २०॥
रामेणालिङ्गितो हृष्टो ययौ स्वभवनं गुहः । ये चान्ये वानराः श्रेष्ठा अयोध्यां समुपागताः ॥ २१॥
अमूल्याभरणैर्वस्त्रैः पूजयामास राघवः । सुग्रीवप्रमुखाः सर्वे वानराः सविभीषणाः ॥ २२॥
यथार्हं पूजितास्तेन रामेण परमात्मना । प्रहृष्टमनसः सर्वे जग्मुरेव यथागतम् ॥ २३॥
सुग्रीवप्रमुखाः सर्वे किष्किन्धां प्रययुर्मुदा । विभीषणस्तु सम्प्राप्य राज्यं निहतकण्टकम् ॥ २४॥
रामेणः पूजितः प्रीत्या ययौ लङ्कामनिन्दितः । राघवो राज्यमखिलं शशासाखिलवत्सलः ॥ २५॥
अनिच्छन्नपि रामेण यौवराज्येऽभिषेचितः । लक्ष्मणः परया भक्त्या रामसेवापरोऽभवत् ॥ २६॥
रामस्तु परमात्मापि कर्माध्यक्षोऽपि निर्मलः । कर्तृत्वादि विहीनोऽपि निर्विकारोऽपि सर्वदा ॥ २७॥
स्वानन्देनापि तुष्टः सन् लोकानामुपदेशकृत् । अश्वमेधादियज्ञैश्च सर्वैर्विपुलदक्षिणैः ॥ २८॥
अयजत्परमानन्दो मानुषं वपुराश्रितः । न पर्यदेवन् विधवा न च व्यालकृतं भयम् ॥ २९॥
न व्याधिजं भयं चासीद्रामे राज्यं प्रशासति । लोके दस्युभयं नासीदनर्थो नास्ति कश्चन ॥ ३०॥
वृद्धेषु सत्सु बालानां नासीन्मृत्युभयं तथा । रामपूजापराः सर्वे सर्वे राघवचिन्तकाः ॥ ३१॥
ववर्षुर्जलदास्तोयं यथाकालं यथारुचि । प्रजाः स्वधर्मनिरता वर्णाश्रमगुणान्विताः ॥ ३२॥
औरसानिव रामोऽपि जुगोप पितृवत्प्रजाः । सर्वलक्षणसंयुक्तः सर्वधर्मपरायणः ॥ ३३॥
दशवर्षसहस्राणि रामो राज्यमुपास्त सः ॥ ३४॥
इदं रहस्यं धनधान्यऋद्धिम-
द्दीर्घायुरारोग्यकरं सुपुण्यदम् ।
पवित्रमाध्यात्मिकसन्ज्ञितं पुरा
रामायणं भाषितमादिशम्भुना ॥ ३५॥
शृणोति भक्त्या मनुजः समाहितो
भक्त्या पठेद्वा परितुष्टमानसः ।
सर्वाः समाप्नोति मनोगताशिषो
विमुच्यते पातककोटिभिः क्षणात् ॥ ३६॥
रामाभिषेकं प्रयतः शृणोति यो
धनाभिलाषी लभते महद्धनम् ।
पुत्राभिलाषी सुतमार्यसम्मतं
प्राप्नोति रामायणमादितः पठन् ॥ ३७॥
शृणोति योऽध्यात्मिकरामसंहितां
प्राप्नोति राजा भुवमृद्धसम्पदम् ।
शत्रून् विजित्यारिभिरप्रधर्षितो
व्यपेतदुःखो विजयी भवेन्नृपः ॥ ३८॥
स्त्रियोऽपि शृण्वन्त्यधिरामसंहितां
भवन्ति ता जीविसुताश्च पूजिताः ।
वन्ध्यापि पुत्रं लभते सुरूपिणं
कथामिमां भक्तियुता शृणोति या ॥ ३९॥
श्रद्धान्वितो यः शृणुयात्पठेन्नरो
विजित्य कोपं च तथा विमत्सरः ।
दुर्गाणि सर्वाणि विजित्य निर्भयो
भवेत्सुखी राघवभक्तिसंयुतः ॥ ४०॥
सुराः समस्ता अपि यान्ति तुष्टतां
विघ्नाः समस्ता अपयान्ति शृण्वताम् ।
अध्यात्मरामायणमादितो नृणां
भवन्ति सर्वा अपि सम्पदः पराः ॥ ४१॥
रजस्वला वा यदि रामतत्परा
शृणोति रामायणमेतदादितः ।
पुत्रं प्रसूते ऋषभं चिरायुषं
पतिव्रता लोकसुपूजिता भवेत् ॥ ४२॥
पूजयित्वा तु ये भक्त्या नमस्कुर्वन्ति नित्यशः । सर्वैः पापैर्विनिर्मुक्ता विष्णोर्यान्ति परं पदम् ॥ ४३॥
अध्यात्मरामचरितं कृत्स्नं शृण्वन्ति भक्तितः । पठन्ति वा स्वयं वक्त्रात्तेषां रामः प्रसीदति ॥ ४४॥
राम एव परं ब्रह्म तस्मिंस्तुष्टेऽखिलात्मनि । धर्मार्थकाममोक्षाणां यद्यदिच्छति तद्भवेत् ॥ ४५॥
श्रोतव्यं नियमेनैतद्रामायणमखण्डितम् । आयुष्यमारोग्यकरं कल्पकोट्यघनाशनम् ॥ ४६॥
देवाश्च सर्वे तुष्यन्ति ग्रहाः सर्वे महर्षयः । रामायणस्य श्रवणे तृप्यन्ति पितरस्तथा ॥ ४७॥
अध्यात्मरामायणमेतदद्भुतं
वैराग्यविज्ञानयुतं पुरातनम् ।
पठन्ति शृण्वन्ति लिखन्ति ये नराः
तेषां भवेऽस्मिन्न पुनर्भवो भवेत् ॥ ४८॥
आलोड्याअखिलवेदराशिमसकृद्यत्तारकं ब्रह्म तद्- रामो विष्णुरहस्यमूर्तिरिति यो विज्ञाय भूतेश्वरः । उद्धृत्याखिलसारसङ्ग्रहमिदं सङ्क्षेपतः प्रस्फुटं श्रीरामस्य निगूढतत्त्वमखिलं प्राह प्रियायै भवः ॥ ४९॥
इति श्रीमदध्यात्मरामायणे उमामहेश्वरसंवादे युद्धकाण्डे षोडशः सर्गः ॥ १६॥
॥ समाप्तमिदं युद्धकाण्डम् ॥