सामग्री पर जाएँ

अध्यात्मरामायण/सुन्दरकाण्डम्

विकिपुस्तकानि तः

॥ अध्यात्मरामायणे सुन्दरकाण्डम् ॥


॥ प्रथमः सर्गः ॥ श्रीमहादेव उवाच । शतयोजनविस्तीर्णं समुद्रं मकरालयम् । लिलङ्घयिषुरानन्दसन्दोहो मारुतात्मजः ॥ १॥

ध्यात्वा रामं परात्मानमिदं वचनमब्रवीत् । पश्यन्तु वानराः सर्वे गच्छन्तं मां विहायसा ॥ २॥

अमोघं रामनिर्मुक्तं महाबाणमिवाखिलाः । पश्याम्यद्यैव रामस्य पत्नीं जनकनन्दिनीम् ॥ ३॥

कृतार्थोऽहं कृतार्थोऽहं पुनः पश्यामि राघवम् । प्राणप्रयाणसमये यस्य नाम सकृत्स्मरन् ॥ ४॥

नरस्तीर्त्वा भवाम्भोधिमपारं याति तत्पदम् । किं पुनस्तस्य दूतोऽहं तदङ्गाङ्गुलिमुद्रिकः ॥ ५॥

तमेव हृदये ध्यात्वा लङ्घयाम्यल्पवारिधिम् । इत्युक्त्वा हनुमान् बाहू प्रसार्यायतवालधिः ॥ ६॥

ऋजुग्रीवोर्ध्वदृष्टिः सन्नाकुञ्चितपदद्वयः । दक्षिणाभिमुखस्तूर्णं पुप्लुवेऽनिलविक्रमः ॥ ७॥

आकशात्त्वरितं देवैर्वीक्ष्यमाणो जगाम सः । दृष्ट्वानिलसुतं देवा गच्छन्तं वायुवेगतः ॥ ८॥

परीक्षणार्थं सत्त्वस्य वानरस्येदमब्रुवन् । गच्छत्येष महासत्त्वो वानरो वायुविक्रमः ॥ ९॥

लङ्कां प्रवेष्टुं शक्तो वा न वा जानीमहे बलम् । एवं विचार्य नागानां मातरं सुरसाभिधाम् ॥ १०॥

अब्रवीद्देवतावृन्दः कौतूहलसमन्वितः । गच्छ त्वं वानरेन्द्रस्य किञ्चिद्विघ्नं समाचर ॥ ११॥

ज्ञात्वा तस्य बलं बुद्धिं पुनरेहि त्वरान्विता । इत्युक्ता सा ययौ शिघ्रं हनुमद्विघ्नकारणात् ॥ १२॥

आवृत्य मार्गं पुरतः स्थित्वा वानरमब्रवीत् । एहि मे वदनं शीघ्रं प्रविशस्व महामते ॥ १३॥

देवैस्त्वं कल्पितो भक्ष्यः क्षुधासम्पीडितात्मनः । तामाह हनुमान् मातरहं रामस्य शासनात् ॥ १४॥

गच्छामि जानकीं द्रष्टुं पुनरागम्य सत्वरः । रामाय कुशलं तस्याः कथयित्वा त्वदाननम् ॥ १५॥

निवेक्ष्ये देहि मे मार्गं सुरसायै नमोऽस्तु ते । इत्युक्ता पुनरेवाह सुरसा क्षुधितास्म्यहम् ॥ १६॥

प्रविश्य गच्छ मे वक्त्रं नो चेत्त्वां भक्षयाम्यहम् । इत्युक्तो हनुमानाह मुखं शीघ्रं विदारय ॥ १७॥

प्रविश्य वदनं तेऽद्य गच्छामि त्वरयान्वितः । इत्युक्त्वा योजनायामदेहो भूत्वा पुरः स्थितः ॥ १८॥

दृष्ट्वा हनूमतो रूपं सुरसा पञ्चयोजनम् । मुखं चकार हनुमान् द्विगुणं रूपमादधत् ॥ १९॥

ततश्चकार सुरसा योजनानां च विंशतिम् । वक्त्रं चकार हनुमांस्त्रिंशद्योजनसम्मितम् ॥ २०॥

ततश्चकार सुरसा पञ्चाशद्योजनायतम् । वक्त्रं तदा हनूमांस्तु बभूवाङ्गुष्ठसन्निभः ॥ २१॥

प्रविश्य वदनं तस्याः पुनरेत्य पुरः स्थितः । प्रविष्टो निर्गतोऽहं ते वदनं देवि ते नमः ॥ २२॥

एवं वदन्तं दृष्ट्वा सा हनूमन्तमथाब्रवीत् । गच्छ साधय रामस्य कार्यं बुद्धिमतां वर ॥ २३॥

देवैः सम्प्रेषिताहं ते बलं जिज्ञासुभिः कपे । दृष्ट्वा सीतां पुनर्गत्वा रामं द्रक्ष्यसि गच्छ भोः ॥ २४॥

इत्युक्त्वा सा ययौ देवलोकं वायुसुतः पुनः । जगाम वायुमार्गेण गरुत्मानिव पक्षिराट् ॥ २५॥

समुद्रोऽप्याह मैनाकं मणिकाञ्चनपर्वतम् । गच्छत्येष महासत्त्वो हनूमान्मारुतात्मजः ॥ २६॥

रामस्य कार्यसिद्ध्यर्थं तस्य त्वं सचिवो भव । सगरैर्वर्द्धितो यस्मात्पुराहं सागरोऽभवम् ॥ २७॥

तस्यान्वये बभूवासौ रामो दाशरथिः प्रभुः । तस्य कार्यार्थसिद्ध्यर्थं गच्छत्येष महाकपिः ॥ २८॥

त्वमुत्तिष्ठ जलात्तूर्णं त्वयि विश्रम्य गच्छतु । स तथेति प्रादुरभूज्जलमध्यान्महोन्नतः ॥ २९॥

नानामणिमयैः शृङ्गैस्तस्योपरि नराकृतिः । प्राह यान्तं हनूमन्तं मैनाकोऽहं महाकपे ॥ ३०॥

समुद्रेण समादिष्टस्त्वद्विश्रामाय मारुते । आगच्छामृतकल्पानि जग्ध्वा पक्वफलानि मे ॥ ३१॥

विश्रम्यात्र क्षणं पश्चाद्गमिष्यसि यथासुखम् । एवमुक्तोऽथ तं प्राह हनूमान्मारुतात्मजः ॥ ३२॥

गच्छतो रामकार्यार्थं भक्षणं मे कथं भवेत् । विश्रामो वा कथं मे स्याद्गन्तव्यं त्वरितं मया ॥ ३३॥

इत्युक्त्वा स्पृष्टशिखरः कराग्रेण ययौ कपिः । किञ्चिद्दूरं गतस्यास्य छायां छायाग्रहोऽग्रहीत् ॥ ३४॥

सिंहिका नाम सा घोरा जलमध्ये स्थिता सदा । आकाशगामिनां छायामाक्रम्याकृष्य भक्षयेत् ॥ ३५॥

तया गृहीतो हनुमांश्चिन्तयामास वीर्यवान् । केनेदं मे कृतं वेगरोधनं विघ्नकारिणा ॥ ३६॥

दृश्यते नैव कोऽप्यत्र विस्मयो मे प्रजायते । एवं विचिन्त्य हनुमानधो दृष्टिं प्रसारयत् ॥ ३७॥

तत्र दृष्ट्वा महाकायां सिंहिकां घोररूपिणीम् । पपात सलिले तूर्णं पद्भ्यामेवाहनद्रुषा ॥ ३८॥

पुनरुत्प्लुत्य हनूमान् दक्षिणाभिमुखो ययौ । ततो दक्षिणमासाद्य कूलं नानाफलद्रुमम् ॥ ३९॥

नानापक्षिमृगाकीर्णं नानापुष्पलतावृतम् । ततो ददर्श नगरं त्रिकूटाचलमूर्धनि ॥ ४०॥

प्राकारैर्बहुभिर्युक्तं परिखाभिश्च सर्वतः । प्रवेक्ष्यामि कथं लङ्कामिति चिन्तापरोऽभवत् ॥ ४१॥

रात्रौ वेक्ष्यामि सूक्ष्मोऽहं लङ्कां रावणपालिताम् । एवं विचिन्त्य तत्रैव स्थित्वा लङ्कां जगाम सः ॥ ४२॥

धृत्वा सूक्ष्मं वपुर्द्वारं प्रविवेश प्रतापवान् । तत्र लङ्कापुरी साक्षाद्राक्षसीवेषधारिणी ॥ ४३॥

प्रविशन्तं हनूमन्तं दृष्ट्वा लङ्का व्यतर्जयत् । कस्त्वं वानररूपेण मामनादृत्य लङ्किनीम् ॥ ४४॥

प्रविश्य चोरवद्रात्रौ किं भवान् कर्तुमिच्छति । इत्युक्त्वा रोषताम्राक्षी पादेनाभिजघान तम् ॥ ४५॥

हनुमानपि तां वाममुष्टिनावज्ञयाहनत् । तदैव पतिता भूमौ रक्तमुद्वमती भृशम् ॥ ४६॥

उत्थाय प्राह सा लङ्का हनूमन्तं महाबलम् । हनूमन् गच्छ भद्रं ते जिता लङ्का त्वयानघ ॥ ४७॥

पुराहं ब्रह्मणा प्रोक्ता ह्यष्टाविंशतिपर्यये । त्रेतायुगे दाशरथी रामो नारायणोऽव्ययः ॥ ४८॥

जनिष्यते योगमाया सीता जनकवेश्मनि । भूभारहरणार्थाय प्रार्थितोऽयं मया क्वचित् ॥ ४९॥

सभार्यो राघवो भ्रात्रा गमिष्यति महावनम् । तत्र सीतां महामायां रावणोऽपहरिष्यति ॥ ५०॥

पश्चादरामेण साचिव्यं सुग्रीवस्य भविष्यति । सुग्रीवो जानकीं द्रष्टुं वानरान् प्रेषयिष्यति ॥ ५१॥

तत्रैको वानरो रात्रावागमिष्यति तेऽन्तिकम् । त्वया च भर्त्सितः सोऽपि त्वां हनिष्यति मुष्टिना ॥ ५२॥

तेनाहता त्वं व्यथिता भविष्यसि यदानघे । तदैव रावणस्यान्तो भविष्यति न संशयः ॥ ५३॥

तस्मात् त्वया जिता लङ्का जितं सर्वं त्वयानघ । रावणान्तःपुरवरे क्रीडाकाननमुत्तमम् ॥ ५४॥

तन्मध्येऽशोकवनिका दिव्यपादपसङ्कुला । अस्ति तस्यां महावृक्षः शिंशपा नाम मध्यगः ॥ ५५॥

तत्रास्ते जानकी घोरराक्षसीभिः सुरक्षिता । दृष्ट्वैव गच्छ त्वरितं राघवाय निवेदय ॥ ५६॥

धन्याहमप्यद्य चिराय राघव-

      स्मृतिर्ममासीद्भवपाशमोचिनी ।

तद्भक्तसङ्गोऽप्यतिदुर्लभो मम

      प्रसीदतां दाशरथिः सदा हृदि ॥ ५७॥

उल्लङ्घितेऽब्धौ पवनात्मजेन

      धरासुतायाश्च दशाननस्य ।

पुस्फोर वामाक्षि भुजश्च तीव्रं

      रामस्य दक्षाङ्गमतीन्द्रियस्य ॥ ५८॥

इति श्रीमदध्यात्मरामायणे उमामहेश्वरसंवादे सुन्दरकाण्डे प्रथमः सर्गः ॥ १॥


॥ द्वितीयः सर्गः ॥

श्रीमहादेव उवाच ।

ततो जगाम हनुमान् लङ्कां परमशोभनाम् । रात्रौ सूक्ष्मतनुर्भूत्वा बभ्राम परितः पुरीम् ॥ १॥

सीतान्वेषणकार्यार्थी प्रविवेश नृपालयम् । तत्र सर्वप्रदेशेषु विविच्य हनुमान् कपिः ॥ २॥

नापश्यज्जानकीं स्मृत्वा ततो लङ्काभिभाषितम् । जगाम हनुमान् शीघ्रमशोकवनिकां शुभाम् ॥ ३॥

सुरपादपसम्बाधां रत्नसोपानवापिकाम् । नानापक्षिमृगाकीर्णां स्वर्णप्रासादशोभिताम् ॥ ४॥

फलैरानम्रशाखाग्रपादपैः परिवारिताम् । विचिन्वन् जानकीं तत्र प्रतिवृक्षं मरुत्सुतः ॥ ५॥

ददर्शाभ्रंलिहं तत्र चैत्यप्रासादमुत्तमम् । दृष्ट्वा विस्मयमापन्नो मणिस्तम्भशतान्वितम् ॥ ६॥

समतीत्य पुनर्गत्वा किञ्चिद्दूरं स मारुतिः । ददर्श शिंशपावृक्षमत्यन्तनिबिडच्छदम् ॥ ७॥

अदृष्टातपमाकीर्णं स्वर्णवर्णविहङ्गमम् । तन्मूले राक्षसीमध्ये स्थितां जनकनन्दिनीम् ॥ ८॥

ददर्श हनुमान् वीरो देवतामिव भूतले । एकवेणीं कृशां दीनां मलिनाम्बरधारिणीम् ॥ ९॥

भुमौ शयानां शोचन्तीं रामरामेति भाषिणीम् । त्रातारं नाधिगच्छन्तीमुपवासकृशां शुभाम् ॥ १०॥

शाखान्तच्छदमध्यस्थो ददर्श कपिकुञ्जरः । कृतार्थोऽहं कृतार्थोऽहं दृष्ट्वा जनकनन्दिनीम् ॥ ११॥

मयैव साधितं कार्यं रामस्य परमात्मनः । ततः किलकिलाशब्दो बभूवान्तःपुराद्बहिः ॥ १२॥

किमेतदिति सँल्लीनो वृक्षपत्रेषु मारुतिः । आयान्तं रावणं तत्र स्त्रीजनैः परिवारितम् ॥ १३॥

दशास्यं विंशतिभुजं नीलाञ्जनचयोपमम् । दृष्ट्वा विस्मयमापन्नः पत्रखण्डेष्वलीयत ॥ १४॥

रावणो राघवेणाशु मरणं मे कथं भवेत् । सीतार्थमपि नायाति रामः किं कारणं भवेत् ॥ १५॥

इत्येवं चिन्तयन्नित्यं राममेव सदा हृदि । तस्मिन् दिनेऽपररात्रौ रावणो राक्षसाधिपः ॥ १६॥

स्वप्ने रामेण सन्दिष्टः कश्चिदागत्य वानरः । कामरूपधरः सूक्ष्मो वृक्षग्रस्थोऽनुपश्यति ॥ १७॥

इति दृष्ट्वाद्भुतं स्वप्नं स्वात्मन्येवानुचिन्त्य सः । स्वप्नः कदाचित्सत्यः स्यादेवं तत्र करोम्यहम् ॥ १८॥

जानकीं वाक्शरैर्विद्ध्वा दुःखितां नितरामहम् । करोमि दृष्ट्वा रामाय निवेदयतु वानरः ॥ १९॥

इत्येवं चिन्तयन् सीतासमीपमगमद्द्रुतम् । नूपुराणां किङ्किणीनां श्रुत्वा शिञ्जितमङ्गना ॥ २०॥

सीता भीता लीयमाना स्वात्मन्येव सुमध्यमा । अधोमुख्यश्रुनयना स्थिता रामार्पितान्तरा ॥ २१॥

रावणोऽपि तदा सीतामालोक्याह सुमध्यमे । मां दृष्ट्वा किं वृथा सुभ्रु स्वात्मन्येव विलीयसे ॥ २२॥

रामो वनचराणां हि मध्ये तिष्ठति सानुजः । कदाचिद्दृश्यते कैश्चित्कदाचिन्नैव दृश्यते ॥ २३॥

मया तु बहुधा लोकाः प्रेषितास्तस्य दर्शने । न पश्यन्ति प्रयत्नेन वीक्षमाणाः समन्ततः ॥ २४॥

किं करिष्यसि रामेण निःस्पृहेण सदा त्वयि । त्वया सदालिङ्गितोऽपि समीपस्थोऽपि सर्वदा ॥ २५॥

हृदयेऽस्य न च स्नेहस्त्वयि रामस्य जायते । त्वत्कृतान् सर्वभोगांश्च त्वद्गुणानपि राघवः ॥ २६॥

भुञ्जानोऽपि न जानाति कृतघ्नो निर्गुणोऽधमः । त्वमानीता मया साध्वी दुःखशोकसमाकुला ॥ २७॥

इदानीमपि नायाति भक्तिहीनः कथं व्रजेत् । निःसत्त्वो निर्ममो मानी मूढः पण्डितमानवान् ॥ २८॥

नराधमं त्वद्विमुखं किं करिष्यसि भामिनि । त्वय्यतीव समासक्तं मां भजस्वासुरोत्तमम् ॥ २९॥

देवगन्धर्वनागानां यक्षकिन्नरयोषिताम् । भविष्यसि नियोक्त्री त्वं यदि मां प्रतिपद्यसे ॥ ३०॥

रावणस्य वचः श्रुत्वा सीताऽमर्षसमन्विता । उवाचाधोमुखी भूत्वा निधाय तृणमन्तरे ॥ ३१॥

राघवाद्बिभ्यता नूनं भिक्षुरूपं त्वया धृतम् । रहिते राघवाभ्यां त्वं शुनीव हविरध्वरे ॥ ३२॥

हृतवानसि मां नीच तत्फलं प्राप्स्यसेऽचिरात् । यदा रामशराघातविदारितवपुर्भवान् ॥ ३३॥

ज्ञास्यसेऽमानुषं रामं गमिष्यसि यमान्तिकम् । समुद्रं शोषयित्वा वा शरैर्बद्ध्वाथ वारिधिम् ॥ ३४॥

हन्तुं त्वां समरे रामो लक्ष्मणेन समन्वितः । आगमिष्यत्यसन्देहो द्रक्ष्यसे राक्षसाधम ॥ ३५॥

त्वां सपुत्रं सहबलं हत्वा नेष्यति मां पुरम् ॥

श्रुत्वा रक्षःपतिः क्रुद्धो जानक्याः परुषाक्षरम् ॥ ३६॥

वाक्यं क्रोधसमाविष्टः खड्गमुद्यम्य सत्वरः । हन्तुं जनकराजस्य तनयां ताम्रलोचनः ॥ ३७॥

मन्दोदरी निवार्याह पतिं पतिहिते रता । त्यजैनां मानुषीं दीनां दुःखितां कृपणां कृशाम् ॥ ३८॥

देवगन्धर्वनागानां बह्व्यः सन्ति वराङ्गनाः । त्वामेव वरयन्त्युच्चैर्मदमत्तविलोचनाः ॥ ३९॥

ततोऽब्रवीद्दशग्रीवो राक्षसीर्विकृताननाः । यथा मे वशगा सीता भविष्यति सकामना । तथा यतध्वं त्वरितं तर्जनादरणादिभिः ॥ ४०॥

द्विमासाभ्यन्तरे सीता यदि मे वशगा भवेत् । तदा सर्वसुखोपेता राज्यं भोक्ष्यति सा मया ॥ ४१॥

यदि मासद्वयादूर्ध्वं मच्छय्यां नाभिनन्दति । तदा मे प्रातराशाय हत्वा कुरुत मानुषीम् ॥ ४२॥

इत्युक्त्वा प्रययौ स्त्रीभी रावणोऽन्तःपुरालयम् । राक्षस्यो जानकीमेत्य भीषयन्त्यः स्वतर्जनैः ॥ ४३॥

तत्रैका जानकीमाह यौवनं ते वृथा गतम् । रावणेन समासाद्य सफलं तु भविष्यति ॥ ४४॥

अपरा चाह कोपेन किं विलम्बेन जानकि । इदानीं छेद्यतामङ्गं विभज्य च पृथक् पृथक् ॥ ४५॥

अन्या तु खड्गमुद्यम्य जानकीं हन्तुमुद्यता । अन्या करालवदना विदार्यास्यमभीषयत् ॥ ४६॥

एवं तां भीषयन्तीस्ता राक्षसीर्विकृताननाः । निवार्य त्रिजटा वृद्धा राक्षसी वाक्यमब्रवीत् ॥ ४७॥

शृणुध्वं दुष्टराक्षस्यो मद्वाक्यं वो हितं भवेत् ॥ ४८॥

न भीषयध्वं रुदतीं नमस्कुरुत जानकीम् । इदानीमेव मे स्वप्ने रामः कमललोचनः ॥ ४९॥

आरुह्यैरावतं शुभ्रं लक्ष्मणेन समागतः । दग्ध्वा लङ्कापुरीं सर्वां हत्वा रावणमाहवे ॥ ५०॥

आरोप्य जानकीं स्वाङ्के स्थितो दृष्टोऽगमूर्धनि । रावणो गोमयह्रदे तैलाभ्यक्तो दिगम्बरः ॥ ५१॥

अगाहत्पुत्रपौत्रैश्च कृत्वा वदनमालिकाम् । विभीषणस्तु रामस्य सन्निधौ हृष्टमानसः ॥ ५२॥

सेवां करोति रामस्य पादयोर्भक्तिसंयुतः । सर्वथा रावणं रामो हत्वा सकुलमञ्जसा ॥ ५३॥

विभीषणायाधिपत्यं दत्त्वा सीतां शुभाननाम् । अङ्के निधाय स्वपुरीं गमिष्यति न संशयः ॥ ५४॥

त्रिजटाया वचः श्रुत्वा भीतास्ता राक्षसस्त्रियः । तूष्णीमासंस्तत्र तत्र निद्रावशमुपागताः ॥ ५५॥

तर्जिता राक्षसीभिः सा सीता भीतातिविह्वला । त्रातारं नाधिगच्छन्ती दुःखेन परिमूर्च्छिता ॥ ५६॥

अश्रुभिः पूर्णनयना चिन्तयन्तीदमब्रवीत् । प्रभाते भक्षयिष्यन्ति राक्षस्यो मां न संशयः । इदानीमेव मरणं केनोपायेन मे भवेत् ॥ ५७॥

एवं सुदुःखेन परिप्लुता सा

        विमुक्तकण्ठं रुदती चिराय ।

आलम्ब्य शाखां कृतनिश्चया मृतौ

        न जानती कश्चिदुपायमङ्गना ॥ ५८॥

इति श्रीमदध्यात्मरामायणे उमामहेश्वरसंवादे सुन्दरकाण्डे द्वितीयः सर्गः ॥ २॥


॥ तृतीयः सर्गः ॥

श्रीमहादेव उवाच ।

उद्बन्धनेन वा मोक्ष्ये शरीरं राघवं विना । जीवितेन फलं किं स्यान्मम रक्षोऽधिमध्यतः ॥ १॥

दीर्घा वेणी ममात्यर्थमुद्बन्धाय भविष्यति । एवं निश्चितबुद्धिं तां मरणायाथ जानकीम् ॥ २॥

विलोक्य हनुमान् किञ्चिद्विचार्यैतदभाषत । शनैः शनैः सूक्ष्मरूपो जानक्याः श्रोत्रगं वचः ॥ ३॥

इक्ष्वाकुवंशसम्भूतो राजा दशरथो महान् । अयोध्याधिपतिस्तस्य चत्वारो लोकविश्रुताः ॥ ४॥

पुत्रा देवसमाः सर्वे लक्षणैरुपलक्षिताः । रामश्चलक्ष्मणश्चैव भरतश्चैव शत्रुहा ॥ ५॥

ज्येष्ठो रामः पितुर्वाक्याद्दण्डकारण्यमागतः । लक्ष्मणेन सह भ्रात्रा सीतया भार्यया सह ॥ ६॥

उवास गौतमीतीरे पञ्चवट्यां महामनाः । तत्र नीता महाभागा सीता जनकनन्दिनी ॥ ७॥

रहिते रामचन्द्रेण रावणेन दुरात्मना । ततो रामोऽतिदुःखार्तो मार्गमाणोऽथ जानकीम् ॥ ८॥

जटायुषं पक्षिराजमपश्यत्पतितं भुवि । तस्मै दत्त्वा दिवं शीघ्रमृष्यमूकमुपागमत् ॥ ९॥

सुग्रीवेण कृता मैत्री रामस्य विदितात्मनः । तद्भार्याहारिणं हत्वा वालिनं रघुनन्दनः ॥ १०॥

राज्येऽभिषिच्य सुग्रीवं मित्रकार्यं चकार सः । सुग्रीवस्तु समानाय्य वानरान् वानरप्रभुः ॥ ११॥

प्रेषयामास परितो वानरान् परिमार्गणे । सीतायास्तत्र चैकोऽहं सुग्रीवसचिवो हरिः ॥ १२॥

सम्पातिवचनाच्छीघ्रमुल्लङ्घ्य शतयोजनम् । समुद्रं नगरीं लङ्कां विचिन्वन् जानकीं शुभाम् ॥ १३॥

शनैरशोकवनिकां विचिन्वन् शिंशपातरुम् । अद्राक्षं जानकीमत्र शोचन्तीं दुःखसम्प्लुताम् ॥ १४॥

रामस्य महिषीं देवीं कृतकृत्योऽहमागतः । इत्युक्त्वोपररामाथ मारुतिर्बुद्धिमत्तरः ॥ १५॥

सीता क्रमेण तत्सर्वं श्रुत्वा विस्मयमाययौ । किमिदं मे श्रुतं व्योम्नि वायुना समुदीरितम् ॥ १६॥

स्वप्नो वा मे मनोभ्रान्तिर्यदि वा सत्यमेव तत् । निद्रा मे नास्ति दुःखेन जानाम्येतत्कुतो भ्रमः ॥ १७॥

येन मे कर्णपीयुषं वचनं समुदीरितम् । स दृश्यतां महाभागः प्रियवादी ममाग्रतः ॥ १८॥

श्रुत्वा तज्जानकीवाक्यं हनुमान् पत्रखण्डतः । अवतीर्य शनैः सीतापुरतः समवस्थितः ॥ १९॥

कलविङ्कप्रमाणाङ्गो रक्तास्यः पीतवानरः । ननाम शनकैः सीतां प्राञ्जलिः पुरतः स्थितः ॥ २०॥

दृष्ट्वा तं जानकी भीता रावणोऽयमुपागतः । मां मोहयितुमायातो मायया वानराकृतिः ॥ २१॥

इत्येवं चिन्तयित्वा सा तूष्णिमासीदधोमुखी । पुनरप्याह तां सीतां देवि यत्त्वं विशङ्कसे ॥ २२॥

नाहं तथाविधो मातस्त्यज शङ्कां मयि स्थिताम् । दासोऽहं कोसलेन्द्रस्य रामस्य परमात्मनः ॥ २३॥

सचिवोऽहं हरीन्द्रस्य सुग्रीवस्य शुभप्रदे । वायोः पुत्रोऽहमखिलप्राणभूतस्य शोभने ॥ २४॥

तच्छ्रुत्वा जानकी प्राह हनूमन्तं कृताञ्जलिम् । वानराणां मनुष्याणां सङ्गतिर्घटते कथम् ॥ २५॥

यथा त्वं रामचन्द्रस्य दासोऽहमिति भाषसे । तामाह मारुतिः प्रीतो जानकीं पुरतः स्थितः ॥ २६॥

ऋष्यमूकमगाद्रामः शबर्या नोदितः सुधीः । सुग्रीवो ऋष्यमूकस्थो दृष्टवान् रामलक्ष्मणौ ॥ २७॥

भीतो मां प्रेषयामास ज्ञातुं रामस्य हृद्गतम् । ब्रह्मचारिवपुर्धृत्वा गतोऽहं रामसन्निधिम् ॥ २८॥

ज्ञात्वा रामस्य सद्भावं स्कन्धोपरि निधाय तौ । नीत्वा सुग्रीवसामीप्यं सख्यं चाकरवं तयोः ॥ २९॥

सुग्रीवस्य हृता भार्या वालिना तं रघूत्तमः । जघानैकेन बाणेन ततो राज्येऽभ्यषेचयत् ॥ ३०॥

सुग्रीवं वानराणां स प्रेषयामास वानरान् । दिग्भ्यो महाबलान् वीरान् भवत्याः परिमार्गणे ॥ ३१॥

गच्छन्तं राघवो दृष्ट्वा मामभाषत सादरम् ॥ ३२॥

त्वयि कार्यमशेषं मे स्थितं मारुतनन्दन । ब्रूहि मे कुशलं सर्वं सीतायै लक्ष्मणस्य च ॥ ३३॥

अङ्गुलीयकमेतन्मे परिज्ञानार्थमुत्तमम् । सीतायै दीयतां साधु मन्नामाक्षरमुद्रितम् ॥ ३४॥

इत्युक्त्वा प्रददौ मह्यं कराग्रादङ्गुलीयकम् । प्रयत्नेन मयानीतं देवि पश्याङ्गुलीयकम् ॥ ३५॥

इत्युक्त्वा प्रददौ देव्यै मुद्रिकां मारुतात्मजः । नमस्कृत्य स्थितो दूराद्बद्धाञ्जलिपुटो हरिः ॥ ३६॥

दृष्ट्वा सीता प्रमुदिता रामनामाङ्कितां तदा । मुद्रिकां शिरसा धृत्वा स्रवदानन्दनेत्रजा ॥ ३७॥

कपे मे प्राणदाता त्वं बुद्धिमानसि राघवे । भक्तोऽसि प्रियकारी त्वं विश्वासोऽस्ति तवैव हि ॥ ३८॥

नो चेन्मत्सन्निधिं चान्यं पुरुषं प्रेषयेत्कथम् । हनूमन् दृष्टमखिलं मम दुःखादिकं त्वया ॥ ३९॥

सर्वं कथय रामाय यथा मे जायते दया । मासद्वयावधि प्राणाः स्थास्यन्ति मम सत्तम ॥ ४०॥

नागमिष्यति चेद्रामो भक्षयिष्यति मां खलः । अतः शीघ्रं कपीन्द्रेण सुग्रीवेण समन्वितः ॥ ४१॥

वानरानीकपैः सार्धं हत्वा रावणमाहवे । सपुत्रं सबलं रामो यदि मां मोचयेत्प्रभुः ॥ ४२॥

तत्तस्य सदृशं वीर्यं वीर वर्णय वर्णितम् । यथा मां तारयेद्रामो हत्वा शीघ्रं दशाननम् ॥ ४३॥

तथा यतस्व हनुमन् वाचा धर्ममवाप्नुहि । हनुमानपि तामाह देवि दृष्टो यथा मया ॥ ४४॥

रामः सलक्ष्मणः शीघ्रमागमिष्यति सायुधः । सुग्रीवेण ससैन्येन हत्वा दशमुखं बलात् ॥ ४५॥

समानेष्यति देवि त्वामयोध्यां नात्र संशयः । तमाह जानकी रामः कथं वारिधिमाततम् ॥ ४६॥

तीर्त्वायास्यत्यमेयात्मा वानरानीकपैः सह । हनूमानाह मे स्कन्धावारुह्य पुरुषर्षभौ ॥ ४७॥

आयास्यतः ससैन्यश्च सुग्रीवो वानरेश्वरः । विहायसा क्षणेनैव तीर्त्वा वारिधिमाततम् ॥ ४८॥

निर्दहिष्यति रक्षौघांस्त्वत्कृते नात्र संशयः । अनुज्ञां देहि मे देवि गच्छामि त्वरयान्वितः ॥ ४९॥

द्रष्टुं रामं सह भ्रात्रा त्वरयामि तवान्तिकम् । देवि किञ्चिदभिज्ञानं देहि मे येन राघवः ॥ ५०॥

विश्वसेन्मां प्रयत्नेन ततो गन्ता समुत्सुकः । ततः किञ्चिद्विचार्याथ सीता कमललोचना ॥ ५१॥

विमुच्य केशपाशान्ते स्थितं चूडामणिं ददौ । अनेन विश्वसेद्रामस्त्वां कपीन्द्र सलक्ष्मणः ॥ ५२॥

अभिज्ञानार्थमन्यच्च वदामि तव सुव्रत । चित्रकूटगिरौ पूर्वमेकदा रहसि स्थितः । मदङ्के शिर आधाय निद्राति रघुनन्दनः ॥ ५३॥

ऐन्द्रः काकस्तदागत्य नखैस्तुण्डेन चासकृत् । मत्पादाङ्गुष्ठमारक्तं विददारामिषाशया ॥ ५४॥

ततो रामः प्रबुद्ध्याथ दृष्ट्वा पादं कृतव्रणम् । केन भद्रे कृतं चैतद्विप्रियं मे दुरात्मना ॥ ५५॥

इत्युक्त्वा पुरतोऽपश्यद्वायसं मां पुनः पुनः । अभिद्रवन्तं रक्ताक्तनखतुण्डं चुकोप ह ॥ ५६॥

तृणमेकमुपादाय दिव्यास्त्रेणाभियोज्य तत् । चिक्षेप लीलया रामो वायसोपरि तज्ज्वलन् ॥ ५७॥

अभ्यद्रवद्वायसश्च भीतो लोकान् भ्रमन् पुनः । इन्द्रब्रह्मादिभिश्चापि न शक्यो रक्षितुं तदा ॥ ५८॥

रामस्य पादयोरग्रेऽपतद्भीत्या दयानिधेः । शरणागतमालोक्य रामस्तमिदमब्रवीत् ॥ ५९॥

अमोघमेतदस्त्रं मे दत्वैकाक्षिमितो व्रज । सव्यं दत्त्वा गतः काक एवं पौरुषवानपि ॥ ६०॥

उपेक्षते किमर्थं मामिदानीं सोऽपि राघवः । हनूमानपि तामाह श्रुत्वा सीतानुभाषितम् ॥ ६१॥

देवि त्वां यदि जानाति स्थितामत्र रघूत्तमः । करिष्यति क्षणाद्भस्म लङ्कां राक्षसमण्डिताम् ॥ ६२॥

जानकी प्राह तं वत्स कथं त्वं योत्स्यसेऽसुरैः । अतिसूक्ष्मवपुः सर्वे वानराश्च भवादृशाः ॥ ६३॥

श्रुत्वा तद्वचनं देव्यै पूर्वरूपमदर्शयत् । मेरुमन्दरसङ्काशं रक्षोगणविभीषणम् ॥ ६४॥

दृष्ट्वा सीता हनुमन्तं महापर्वतसन्निभम् । हर्षेण महताविष्टा प्राह तं कपिकुञ्जरम् ॥ ६५॥

समर्थोऽसि महासत्त्व द्रक्ष्यन्ति त्वां महाबलम् । राक्षस्यस्ते शुभः पन्था गच्छ रामान्तिकं द्रुतम् ॥ ६६॥

बुभुक्षितः कपिः प्राह दर्शनात्पारणं मम । भविष्यति फलैः सर्वैस्तव दृष्टौ स्थितैर्हि मे ॥ ६७॥

तथेत्युक्तः स जानक्या भक्षयित्वा फलं कपिः । ततः प्रस्थापितोऽगच्छज्जानकीं प्रणिपत्य सः । किञ्चिद्दूरमथो गत्वा स्वात्मन्येवान्वचिन्तयत् ॥ ६८॥

कार्यार्थमागतो दूतः स्वामिकार्याविरोधतः । अन्यत्किञ्चिदसम्पाद्य गच्छत्यधम एव सः ॥ ६९॥

अतोऽहं किञ्चिदन्यच्च कृत्वा दृष्ट्वाथ रावणम् । सम्भाष्य च ततो रामदर्शनार्थं व्रजाम्यहम् ॥ ७०॥

इति निश्चित्य मनसा वृक्षखण्डान् महाबलः । उत्पाट्याशोकवनिकां निर्वृक्षामकरोत्क्षणात् ॥ ७१॥

सीताऽऽश्रयनगं त्यक्त्वा वनं शून्यं चकार सः । उत्पाटयन्तं विपिनं दृष्ट्वा राक्षसयोषितः ॥ ७२॥

अपृच्छन् जानकीं कोऽसौ वानराकृतिरुद्भटः ॥७३॥

जानक्युवाच । भवत्य एव जानन्ति मायां राक्षसनिर्मिताम् । नाहमेनं विजानामि दुःखशोकसमाकुला ॥ ७४॥

इत्युक्तास्त्वरितं गत्वा राक्षस्यो भयपीडिताः । हनूमता कृतं सर्वं रावणाय न्यवेदयन् ॥ ७५॥

देव कश्चिन्महासत्त्वो वानराकृतिदेहभृत् । सीतया सह सम्भाष्य ह्यशोकवनिकां क्षणात् । उत्पाट्य चैत्यप्रासादं बभञ्जामितविक्रमः ॥ ७६॥

प्रासादरक्षिणः सर्वान् हत्वा तत्रैव तस्थिवान् । तच्छ्रुत्वा तूर्णमुत्थाय वनभङ्गं महाऽप्रियम् ॥ ७७॥

किङ्करान् प्रेषयामास नियुतं राक्षसाधिपः । निभग्नचैत्यप्रासादप्रथमान्तरसंस्थितः ॥ ७८॥

हनुमान् पर्वताकारो लोहस्तम्भकृतायुधः । किञ्चिल्लाङ्गूलचलनो रक्तास्यो भीषणाकृतिः ॥ ७९॥

आपतन्तं महासङ्घं राक्षसानां ददर्श सः । चकार सिंहनादं च श्रुत्वा ते मुमुहुर्भृशम् ॥ ८०॥

हनुमन्तमथो दृष्ट्वा राक्षसा भीषणाकृतिम् । निर्जघ्नुर्विविधास्त्रौघैः सर्वराक्षसघातिनम् ॥ ८१॥

तत उत्थाय हनुमान् मुद्गरेण समन्ततः । निष्पिपेष क्षणादेव मशकानिव यूथपः ॥ ८२॥

निहतान् किङ्करान् श्रुत्वा रावणः क्रोधमूर्च्छितः । पञ्च सेनापतींस्तत्र प्रेषयामास दुर्मदान् ॥ ८३॥

हनूमानपि तान् सर्वांल्लोहस्तम्भेन चाहनत् । ततः क्रुद्धो मन्त्रिसुतान् प्रेषयामास सप्त सः ॥ ८४॥

आगतानपि तान् सर्वान् पूर्ववद्वानरेश्वरः । क्षणान्निःशेषतो हत्वा लोहस्तम्भेन मारुतिः ॥ ८५॥

पूर्वस्थानमुपाश्रित्य प्रतीक्षन् राक्षसान् स्थितः । ततो जगाम बलवान् कुमारोऽक्षः प्रतापवान् ॥ ८६॥

तमुत्पपात हनुमान् दृष्ट्वाकाशे समुद्गरः । गगनात्त्वरितो मूर्ध्नि मुद्गरेण व्यताडयत् ॥ ८७॥

हत्वा तमक्षं निःशेषं बलं सर्वं चकार सः ॥ ८८॥

ततः श्रुत्वा कुमारस्य वधं राक्षसपुङ्गवः । क्रोधेन महताविष्ट इन्द्रजेतारमब्रवीत् ॥ ८९॥

पुत्र गच्छाम्यहं तत्र यत्रास्ते पुत्रहा रिपुः । हत्वा तमथवा बद्ध्वा आनयिष्यामि तेऽन्तिकम् ॥९०॥

इन्द्रजित्पितरं प्राह त्यज शोकं महामते । मयि स्थिते किमर्थं त्वं भाषसे दुःखितं वचः ॥ ९१॥

बद्ध्वाऽऽनेष्ये द्रुतं तात वानरं ब्रह्मपाशतः । इत्युक्त्वा रथमारुह्य राक्षसैर्बहुभिर्वृतः ॥ ९२॥

जगाम वायुपुत्रस्य समीपं वीरविक्रमः । ततोऽतिगर्जितं श्रुत्वा स्तम्भमुद्यस्य वीर्यवान् ॥ ९३॥

उत्पपात नभोदेशं गरुत्मानिव मारुतिः । ततो भ्रमन्तं नभसि हनूमन्तं शिलीमुखैः ॥ ९४॥

विद्ध्वा तस्य शिरोभागमिषुभिश्चाष्टभिः पुनः । हृदयं पादयुगलं षड्भिरेकेन वालधिम् ॥ ९५॥

भेदयित्वा ततो घोरं सिंहनादमथाकरोत् । ततोऽतिहर्षाद्धनुमान् स्तम्भमुद्यस्य वीर्यवान् ॥ ९६॥

जघान सारथिं साश्वं रथं चाचूर्णयत्क्षणात् । ततोऽन्यं रथमादाय मेघनादो महाबलः ॥ ९७॥

शीघ्रं ब्रह्मास्त्रमादाय बद्ध्वा वानरपुङ्गवम् । निनाय निकटं राज्ञो रावणस्य महाबलः ॥ ९८॥

यस्य नाम सततं जपन्ति ये-

      ऽज्ञानकर्मकृतबंधनं क्षणात् ।

सद्य एव परिमुच्य तत्पदं

      यान्ति कोटिरविभासुरं शिवम् ॥ ९९॥

तस्यैव रामस्य पदाम्बुजं सदा

      हृत्पद्ममध्ये सुनिधाय मारुतिः ।

सदैव निर्मुक्तसमस्तबन्धनः

      किं तस्य पाशैरितरैश्च बन्धनैः ॥ १००॥

इति श्रीमदध्यात्मरामायणे उमामहेश्वरसंवादे सुन्दरकाण्डे तृतीयः सर्गः ॥ ३॥


॥ चतुर्थः सर्गः ॥

श्रीमहादेव उवाच ।

यान्तं कपीन्द्रं धृतपाशबन्धनं

      विलोकयन्तं  नगरं विभीतवत् ।

अताडयन्मुष्टितलैः सुकोपनाः

      पौराः समन्तादनुयान्त ईक्षितुम् ॥ १॥

ब्रह्मास्त्रमेनं क्षणमात्रसङ्गमं

      कृत्वा गतं ब्रह्मवरेण सत्वरम् ।

ज्ञात्वा हनूमानपि फल्गुरज्जुभि-

      र्धृतो ययौ कार्यविशेषगौरवात् ॥ २॥

सभान्तरस्थस्य च रावणस्य तं

      पुरो निधायाह बलारिजित्तदा ।

बद्धो मया ब्रह्मवरेण वानरः

      समागतोऽनेन हता महासुराः ॥ ३॥

यदुक्तमत्रार्य विचार्य मन्त्रिभि-

        र्विधीयतामेष न लौकिको हरिः ।

ततो विलोक्याह स राक्षसेश्वरः

        प्रहस्तमग्रे स्थितमञ्जनाद्रिभम् ॥ ४॥

प्रहस्त पृच्छैनमसौ किमागतः

        किमत्र कार्यं कुत एव वानरः ।

वनं किमर्थं सकलं विनाशितं

        हताः किमर्थं मम राक्षसा बलात् ॥ ५॥

ततः प्रहस्तो हनुमन्तमादरात्

        पप्रच्छ केन प्रहितोऽसि वानर ।

भयं च ते मास्तु विमोक्ष्यसे मया

      सत्यं वदस्वाखिलराजसन्निधौ ॥ ६॥

ततोऽतिहर्षात्पवनात्मजो रिपुं

        निरीक्ष्य लोकत्रयकण्टकासुरम् ।

वक्तुं प्रचक्रे रघुनाथसत्कथां

        क्रमेण रामं मनसा स्मरन्मुहुः ॥ ७॥

शृणु स्फुटं देवगणाद्यमित्र हे

      रामस्य दूतोऽहमशेषहृत्स्थितेः  ।

यस्याखिलेशस्य हृताधुना त्वया

        भार्या स्वनाशाय शुनेव सद्धविः ॥ ८॥

स राघवोऽभ्येत्य मतङ्गपर्वतं

        सुग्रीवमैत्रीमनलस्य सन्निधौ ।

कृत्वैकबाणेन निहत्य वालिनं

        सुग्रीवमेवाधिपतिं चकार तम् ॥ ९॥

स वानराणामधिपो महाबली

      महाबलैर्वानरयूथकोटिभिः ।

रामेण सार्धं सह लक्ष्मणेन भोः

      प्रवर्षणेऽमर्षयुतोऽवतिष्ठते ॥ १०॥

सञ्चोदितास्तेन महाहरीश्वरा

      धरासुतां मार्गयितुं दिशो दश ।

तत्राहमेकः पवनात्मजः कपिः

        सीतां विचिन्वन् शनकैः समागतः ॥ ११॥

दृष्टा मया पद्मपलाशलोचना

      सीता कपित्वाद्विपिनं विनाशितम् ।

दृष्ट्वा ततोऽहं रभसा समागतान्

      मां हन्तुकामान् धृतचापसायकान् ॥ १२॥

मया हतास्ते परिरक्षितं वपुः

      प्रियो हि देहोऽखिलदेहिनां प्रभो ।

ब्रह्मास्त्रपाशेन निबध्य मां ततः

      समागमन्मेघनिनादनामकः ॥ १३॥

स्पृष्ट्वैव मां ब्रह्मवरप्रभावतः

      त्यक्त्वा गतं सर्वमवैमि रावण ।

तथाप्यहं बद्ध इवागतो हितं

      प्रवक्तुकामः करुणारसार्द्रधीः ॥। १४॥

विचार्य लोकस्य विवेकतो गतिं

      न राक्षसीं बुद्धिमुपैहि रावण ।

दैवीं गतिं संसृतिमोक्षहैतुकीं

      समाश्रयात्यन्तहिताय देहिनः ॥ १५॥

त्वं ब्रह्मणो ह्युत्तमवंशसम्भवः ।

      पौलस्त्यपुत्रोऽसि कुबेरबान्धवः ।

देहात्मबुद्ध्यापि च पश्य राक्षसो

      नास्यात्मबुद्ध्या किमु राक्षसो नहि ॥ १६॥

शरीरबुद्धीन्द्रियदुःखसन्ततिः

      न ते न च त्वं तव निर्विकारतः ।

अज्ञानहेतोश्च तथैव सन्ततेः

      असत्त्वमस्याः स्वपतो हि दृश्यवत् ॥ १७॥

इदं तु सत्यं तव नास्ति विक्रिया

      विकारहेतुर्न च तेऽद्वयत्वतः ।

यथा नभः सर्वगतं न लिप्यते

      तथा भवान् देहगतोऽपि सूक्ष्मकः ।

देहेन्द्रियप्राणशरीरसङ्गतः

      त्वात्मेति बद्ध्वाखिलबन्धभाग्भवेत् ॥ १८॥

चिन्मात्रमेवाहमजोऽहमक्षरो

      ह्यानन्दभावोऽहमिति प्रमुच्यते ।

देहोऽप्यनात्मा पृथिवीविकारजो

      न प्राण आत्माऽनिल एष एव सः ॥ १९॥

मनोऽप्यहङ्कारविकार एव नो

      न चापि बुद्धिः प्रकृतेर्विकारजा ।

आत्मा चिदानन्दमयोऽविकारवान्

      देहादिसङ्घाद्व्यतिरिक्त ईश्वरः ॥ २०॥

निरञ्जनो मुक्त उपाधितः सदा

      ज्ञात्वैवमात्मानमितो विमुच्यते ।

अतोऽहमात्यन्तिकमोक्षसाधनं

      वक्ष्ये शृणुष्वावहितो महामते ॥ २१॥

विष्णोर्हि भक्तिः सुविशोधनं धियः

      ततो भवेज्ज्ञानमतीव निर्मलम् ।

विशुद्धतत्त्वानुभवो भवेत्ततः

      सम्यग्विदित्वा परमं पदं व्रजेत् ॥ २२॥

अतो भजस्वाद्य हरिं रमापतिं

        रामं पुराणं प्रकृतेः परं विभुम् ।

विसृज्य मौर्ख्यं हृदि शत्रुभावनां

        भजस्व रामं शरणागतप्रियम् ।

सीतां पुरस्कृत्य सपुत्रबान्धवो

        रामं नमस्कृत्य विमुच्यसे भयात् ॥ २३॥

रामं परात्मानमभावयन् जनो

      भक्त्या हृदिस्थं सुखरूपमद्वयम् ।

कथं परं तीरमवाप्नुयाज्जनो

        भवाम्बुधेर्दुःखतरङ्गमालिनः ॥ २४॥

नो चेत्त्वमज्ञानमयेन वह्निना

        ज्वलन्तमात्मानमरक्षितारिवत् ।

नयस्यधोऽधः स्वकृतैश्च पातकैः

        विमोक्षशङ्का न च ते भविष्यति ॥ २५॥

श्रुत्वामृतास्वादसमानभाषितं

      तद्वायुसूनोर्दशकन्धरोऽसुरः ।

अमृष्यमाणोऽतिरुषा कपीश्वरं

        जगाद रक्तान्तविलोचनो ज्वलन् ॥२६॥

कथं ममाग्रे विलपस्यभीतवत्

      प्लवङ्गमानामधमोऽसि दुष्टधीः ।

क एष रामः कतमो वनेचरो

      निहन्मि सुग्रीवयुतं नराधमम् ॥ २७॥

त्वां चाद्य हत्वा जनकात्मजां ततो

        निहन्मि रामं सहलक्ष्मणं ततः ।

सुग्रीवमग्रे बलिनं कपीश्वरं

      सवानरं हन्म्यचिरेण वानर ।

श्रुत्वा दशग्रीववचः स मारुतिः

        विवृद्धकोपेन दहन्निवासुरम् ॥ २८॥

न मे समा रावणकोटयोऽधम

        रामस्य दासोऽहमपारविक्रमः ।

श्रुत्वातिकोपेन हनूमतो वचो

        दशाननो राक्षसमेवमब्रवीत् ॥ २९॥

पार्श्वे स्थितं मारय खण्डशः कपिं

        पश्यन्तु सर्वेऽसुरमित्रबान्धवाः ।

निवारयामास ततो विभीषणो

      महासुरं सायुधमुद्यतं वधे ।

राजन् वधार्हो न भवेत्कथञ्चन

        प्रतापयुक्तैः परराजवानरः ॥ ३०॥

हतेऽस्मिन् वानरे दूते वार्ता को वा निवेदयेत् रामाय त्वं यमुद्दिश्य वधाय समुपस्थितः ॥ ३१॥

अतो वधसमं किञ्चिदन्यच्चिन्तय वानरे । सचिह्नो गच्छतु हरिर्यं दृष्ट्वाऽऽयास्यति द्रुतम् ॥ ३२॥

रामः सुग्रीवसहितस्ततो युद्धं भवेत्तव । विभीषणवचः श्रुत्वा रावणोऽप्येतदब्रवीत् ॥ ३३॥

वानराणां हि लाङ्गूले महामानो भवेत्किल । अतो वस्त्रादिभिः पुच्छं वेष्टयित्वा प्रयत्नतः ॥३४॥

वह्निना योजयित्वैनं भ्रामयित्वा पुरेऽभितः । विसर्जयत पश्यन्तु सर्वे वानरयूथपाः ॥ ३५॥

तथेति शणपट्टैश्च वस्त्रैरन्यैरनेकशः । तैलाक्तैर्वेष्टयामासुर्लाङ्गूलं मारुतेर्दृढम् ॥ ३६॥

पुच्छाग्रे किञ्चिदनलं दीपयित्वाथ राक्षसाः । रज्जुभिः सुदृढं बद्ध्वा धृत्वा तं बलिनोऽसुराः ॥ ३७॥

समन्ताद्भ्रामयामासुश्चोरोऽयमिति वादिनः । तूर्यघोषैर्घोषयन्तस्ताडयन्तो मुहुर्मुहुः ॥ ३८॥

हनूमतापि तत्सर्वं सोढं किञ्चिच्चिकीर्षुणा । गत्वा तु पश्चिमद्वारसमीपं तत्र मारुतिः ॥ ३९॥

सूक्ष्मो बभूव बन्धेभ्यो निःसृतः पुनरप्यसौ । बभूव पर्वताकारस्तत उत्प्लुत्य गोपुरम् ॥ ४०॥

तत्रैकं स्तम्भमादाय हत्वा तान् रक्षिणः क्षणात् । विचार्य कार्यशेषं स प्रासादाग्राद्गृहाद्गृहम् ॥ ४१॥

उत्प्लुत्योप्लुत्य सन्दीप्तपुच्छेन महता कपिः । ददाह लङ्कामखिलां साट्टप्रासादतोरणाम् ॥ ४२॥

हा तात पुत्र नाथेति क्रन्दमानाः समन्ततः । व्याप्ताः प्रासादशिखरेऽप्यारूढा दैत्ययोषितः ॥ ४३॥

देवता इव दृश्यन्ते पतन्त्यः पावकेऽखिलाः । विभीषणगृहं त्यक्त्वा सर्वं भस्मीकृतं पुरम् ॥ ४४॥

तत उत्प्लुत्य जलधौ हनूमान्मारुतात्मजः । लाङ्गूलं मज्जयित्वान्तः स्वस्थचित्तो बभूव सः ॥ ४५॥

वायोः प्रियसखित्वाच्च सीतया प्रार्थितोऽनलः । न ददाह हरेः पुच्छं बभूवात्यन्तशीतलः ॥ ४६॥

यन्नामसंस्मरणधूतसमस्तपापाः

        तापत्रयानलमपीह तरन्ति सद्यः ।

तस्यैव किं रघुवरस्य विशिष्टदूतः

      सन्तप्यते कथमसौ प्रकृतानलेन ॥ ४७॥

इति श्रीमदध्यात्मरामायणे उमामहेश्वरसंवादे सुन्दरकाण्डे चतुर्थः सर्गः ॥ ४॥


॥ पञ्चमः सर्गः ॥

श्रीमहादेव उवाच ।

ततः सीतां नमस्कृत्य हनूमानब्रवीद्वचः । आज्ञापयतु मां देवि भवती रामसन्निधिम् ॥ १॥

गच्छामि रामस्त्वां द्रष्टुमागमिष्यति सानुजः । इत्युक्त्वा त्रिःपरिक्रम्य जानकीं मारुतात्मजः ॥ २॥

प्रणम्य प्रस्थितो गन्तुमिदं वचनमब्रवीत् । देवि गच्छामि भद्रं ते तूर्णं द्रक्ष्यसि राघवम् ॥३॥

लक्ष्मणं च ससुग्रीवं वानरायुतकोटिभिः । ततः प्राह हनूमन्तं जानकी दुःखकर्शिता॥ ४॥

त्वां दृष्ट्वा विस्मृतं दुःखमिदानीं त्वं गमिष्यसि । इतः परं कथं वर्ते रामवार्ताश्रुतिं विना ॥ ५ ॥

मारुतिरुवाच । यद्येवं देवि मे स्कन्धमारोह क्षणमात्रतः रामेण योजयिष्यामि मन्यसे यदि जानकि ॥ ६॥

सीतोवाच । रामः सागरमाशोष्य बद्ध्वा वा शरपञ्जरैः । आगत्य वानरैः सार्धं हत्वा रावणमाहवे ॥ ७॥

मां नयेद्यदि रामस्य कीर्तिर्भवति शाश्वती । अतो गच्छ कथं चापि प्राणान् सन्धारयाम्यहम् ॥ ८॥

इति प्रस्थापितो वीरः सीतया प्रणिपत्य ताम् । जगाम पर्वतस्याग्रे गन्तुं पारं महोदधेः ॥ ९॥

तत्र गत्वा महासत्त्वः पादाभ्यां पीडयन् गिरिम् । जगाम वायुवेगेन पर्वतश्च महीतलम् ॥ १०॥

गतो महीसमानत्वं त्रिंशद्योजनमुच्छ्रितः । मारुतिर्गगनाअन्तःस्थो महाशब्दं चकार सः ॥ ११॥

तं श्रुत्वा वानराः सर्वे ज्ञात्वा मारुतिमागतम् । हर्षेण महताविष्टाः शब्दं चक्रुर्महास्वनम् ॥ १२॥

शब्देनैव विजानीमः कृतकार्यः समागतः । हनूमानेव पश्यध्वं वानरा वानरर्षभम् ॥ १३॥

एवं ब्रुवत्सु वीरेषु वानरेषु स मारुतिः । अवतीर्य गिरेर्मुर्ध्नि वानरानिदमब्रवीत् ॥ १४॥

दृष्टा सीता मया लङ्का धर्षिता च सकानना । सम्भाषितो दशग्रीवस्ततोऽहं पुनरागतः ॥ १५॥

इदानीमेव गच्छामो रामसुग्रीवसन्निधिम् । इत्युक्ता वानराः सर्वे हर्षेणालिङ्ग्य मारुतिम् ॥ १६॥

केचिच्चुचुम्बुर्लाङ्गूलं ननृतुः केचिदुत्सुकाः । हनूमता समेतास्ते जग्मुः प्रस्रवणं गिरिम् ॥ १७॥

गच्छन्तो ददृशुर्वीरा वनं सुग्रीवरक्षितम् । मधुसंज्ञं तदा प्राहुरङ्गदं वानरर्षभाः ॥ १८॥

क्षुधिताः स्मो वयं वीर देह्यनुज्ञां महामते । भक्षयामः फलान्यद्य पिबामोऽमृतवन्मधु ॥ १९॥

सन्तुष्टा राघवं द्रष्टुं गच्छामोऽद्यैव सानुजम् ॥ २०॥

अङ्गद उवाच । हनूमान् कृतकार्योऽयं पिबतैतत्प्रसादतः । जक्षध्वं फलमूलानि त्वरितं हरिसत्तमाः ॥ २१॥

ततः प्रविश्य हरयः पातुमारेभिरे मधु । रक्षिणस्ताननादृत्य दधिवक्त्रेण नोदितान् ॥ २२॥

पिबतस्ताडयामासुर्वानरान् वानरर्षभाः । ततस्तान् मुष्टिभिः पादैश्चूर्णयित्वा पपुर्मधु ॥ २३॥

ततो दधिमुखः क्रुद्धः सुग्रीवस्य स मातुलः । जगाम रक्षिभिः सार्धं यत्र राजा कपीश्वरः ॥ २४॥

गत्वा तमब्रवीद्देव चिरकालाभिरक्षितम् । नष्टं मधुवनं तेऽद्य कुमारेण हनूमता ॥ २५॥

श्रुत्वा दधिमुखेनोक्तं सुग्रीवो हृष्टमानसः । दृष्ट्वागतो न सन्देहः सीतां पवननन्दनः ॥ २६॥

नो चेन्मधुवनं द्रष्टुं समर्थः को भवेन्मम । तत्रापि वायुपुत्रेण कृतं कार्यं न संशयः ॥ २७॥

श्रुत्वा सुग्रीववचनं हृष्टो रामस्तमब्रवीत् । किमुच्यते त्वया राजन् वचः सीताकथान्वितम् ॥ २८॥

सुग्रीवस्त्वब्रवीद्वाक्यं देव दृष्टावनीसुता । हनुमत्प्रमुखाः सर्वे प्रविष्टा मधुकाननम् ॥ २९॥

भक्षयन्ति स्म सकलं ताडयन्ति स्म रक्षिणः । अकृत्वा देवकार्यं ते द्रष्टुं मधुवनं मम ॥ ३०॥

न समर्थास्ततो देवी दृष्टा सीतेति निश्चितम् । रक्षिणो वो भयं मास्तु गत्वा ब्रूत ममाज्ञया ॥ ३१॥

वानरानङ्गदमुखानानयध्वं ममान्तिकम् । श्रुत्वा सुग्रीववचनं गत्वा ते वायुवेगतः ॥ ३२॥

हनूमत्प्रमुखानूचुर्गच्छतेश्वरशासनात् । द्रष्टुमिच्छति सुग्रीवः सरामो लक्ष्मणान्वितः ॥ ३३॥

युष्मानतीव हृष्टास्ते त्वरयन्ति महाबलाः । तथेत्यम्बरमासाद्य ययुस्ते वानरोत्तमाः ॥ ३४॥

हनूमन्तं पुरस्कृत्य युवराजं तथाङ्गदम् । रामसुग्रीवयोरग्रे निपेतुर्भुवि सत्वरम् ॥ ३५॥

हनूमान् राघवं प्राह दृष्टा सीता निरामया । साष्टाङ्गं प्रणिपत्याग्रे रामं पश्चाद्धरीश्वरम् ॥ ३६॥

कुशलं प्राह राजेन्द्र जानकी त्वां शुचान्विता । अशोकवनिकामध्ये शिंशपामूलमाश्रिता ॥ ३७॥

राक्षसीभिः परिवृता निराहारा कृशा प्रभो । हा राम राम रामेति शोचन्ती मलिनाम्बरा ॥ ३८॥

एकवेणी मया दृष्टा शनैराश्वासिता शुभा । वृक्षशाखान्तरे स्थित्वा सूक्ष्मरूपेण ते कथाम् ॥ ३९॥

जन्मारभ्य तवात्यर्थं दण्डकागमनं तथा । दशाननेन हरणं जानक्या रहिते त्वयि ॥ ४०॥

सुग्रीवेण यथा मैत्री कृत्वा वालिनिबर्हणम् । मार्गणार्थं च वैदेह्या सुग्रीवेण विसर्जिताः ॥ ४१॥

महाबला महासत्त्वा हरयो जितकाशिनः । गताः सर्वत्र सर्वे वै तत्रैकोऽहमिहागतः ॥ ४२॥

अहं सुग्रीवसचिवो दासोऽहं राघवस्य हि । दृष्टा यज्जानकी भाग्यात्प्रयासः फलितोऽद्य मे ॥ ४३॥

इत्युदीरितमाकर्ण्य सीता विस्फारितेक्षणा । केन वा कर्णपीयुषं श्रावितं मे शुभाक्षरम् ॥ ४४॥

यदि सत्यं तदायातु मद्दर्शनपथं तु सः । ततोऽहं वानराकारः सूक्ष्मरूपेण जानकीम् ॥ ४५॥

प्रणम्य प्राञ्जलिर्भूत्वा दूरादेव स्थितः प्रभो । पृष्टोऽहं सीतया कस्त्वमित्यादि बहुविस्तरम् ॥ ४६॥

मया सर्वं क्रमेणैव विज्ञापितमरिन्दम । पश्चान्मयार्पितं देव्यै भवद्दत्ताङ्गुलीयकम् ॥ ४७॥

तेन मामतिविश्वस्ता वचनं चेदमब्रवीत् । यथा दृष्टास्मि हनुमन् पीड्यमाना दिवानिशम् ॥ ४८॥

राक्षसीनां तर्जनैस्तत्सर्वं कथय राघवे । मयोक्तं देवि रामोऽपि त्वच्चिन्तापरिनिष्ठितः ॥ ४९॥

परिशोचत्यहोरात्रं त्वद्वार्तां नाधिगम्य सः । इदानीमेव गत्वाहं स्थितिं रामाय ते ब्रुवे ॥ ५०॥

रामः श्रवणमात्रेण सुग्रीवेण सलक्ष्मणः । वानरानीकपैः सार्धमागमिष्यति तेऽन्तिकम् ॥ ५१॥

रावणं सकुलं हत्वा नेष्यति त्वां स्वकं पुरम् । अभिज्ञां देहि मे देवि यथा मां विश्वसेद्विभुः ॥ ५२॥

इत्युक्ता सा शिरोरत्नं चूडापाशे स्थितं प्रियम् । दत्त्वा काकेन यद्वृत्तं चित्रकूटगिरौ पुरा ॥ ५३॥

तदप्याहाश्रुपूर्णाक्षी कुशलं ब्रूहि राघवम् । लक्ष्मणं ब्रूहि मे किञ्चिद्दुरुक्तं भाषितं पुरा ॥ ५४॥

तत्क्षमस्वाज्ञभावेन भाषितं कुलनन्दन । तारयेन्मां यथा रामस्तथा कुरु कृपान्वितः ॥ ५५॥

इत्युक्त्वा रुदती सीता दुःखेन महतावृता । मयाप्याश्वासिता राम वदता सर्वमेव ते ॥ ५६॥

ततः प्रस्थापितो राम त्वत्समीपमिहागतः । तदागमनवेलायामशोकवनिकां प्रियाम् ॥ ५७॥

उत्पाट्य राक्षसांस्तत्र बहून् हत्वा क्षणादहम् । रावणस्य सुतं हत्वा रावणेनाभिभाष्य च ॥ ५८॥

लङ्कामशेषतो दग्ध्वा पुनरप्यागमं क्षणात् । श्रुत्वा हनूमतो वाक्यं रामोऽत्यन्तप्रहृष्टधीः ॥ ५९॥

हनूमंस्ते कृतं कार्यं देवैरपि सुदुष्करम् । उपकारं न पश्यामि तव प्रत्युपकारिणः ॥ ६०॥

इदानीं ते प्रयच्छामि सर्वस्वं मम मारुते । इत्यालिङ्ग्य समाकृष्य गाढं वानरपुङ्गवम् ॥ ६१॥

सार्द्रनेत्रो रघुश्रेष्ठः परां प्रीतिमवाप सः । हनूमन्तमुवाचेदं राघवो भक्तवत्सलः ॥ ६२॥

परिरम्भो हि मे लोके दुर्लभः परमात्मनः । अतस्त्वं मम भक्तोऽसि प्रियोऽसि हरिपुङ्गव ॥ ६३॥

यत्पादपद्मयुगलं तुलसीदलाद्यैः

        सम्पूज्य विष्णुपदवीमतुलां प्रयान्ति ।

तेनैव किं पुनरसौ परिरब्धमूर्ती

        रामेण वायुतनयः कृतपुण्यपुञ्जः ॥ ६४॥

इति श्रीमदध्यात्मरामायणे उमामहेश्वरसंवादे सुन्दरकाण्डे पञ्चमः सर्गः ॥ ५॥

॥ समाप्तमिदम् सुन्दरकाण्डम् ॥