अध्याय: ०१

विकिपुस्तकानि तः

अथात आयुष्कामीयमध्यायं व्याख्यास्याम :| अ.हृ.सू.१.१(गद्यसूत्रम् ०१)
आयुर्वेदरसायनटीका (सपदच्छेदा):--
आयुष्कामीयम् आध्यायं व्याख्यातु प्रतिजानीते अथ-इति|अथात आयुष्कामीयाध्यायं व्याख्यास्याम:।अथ स्व- इष्टदेवतनामस्करानन्तरम् |अतः हेतो: व्याख्येय:| यत:अयम् आयुर्वेद: व्याधिप्रतीकार व्याख्येय:|आयुर्वेरिण: हि व्याधय:|व्याख्या च समान्यविशेषाभ्यां संक्षेप-विस्तराभ्यां कृता सुग्रहा भवति | तत्र आदौ व्याधिप्रतीकारस्य सामान्य -संक्षेप -व्याख्यार्थम् अयम् अध्याय: आयुष्कामहितत्वाच्च आयुष्कामीय :|
ननु एवं चेत् ,सर्वे अपि आयुष्कामीया:| सत्यं, किन्तु प्रथम: अयम् अध्याय: ,मंगलार्थ च इयं संज्ञा | मंगलादीनि च शस्त्राणि प्रथन्ते इति अस्य इयं संज्ञा कृता | अन्येषां तु व्याख्येन -अर्थ -अनुरूपा: दिनचर्या-आदि- संज्ञा: करिष्यति |

  1. आयुर्वेदरसायनविवृतौ सूत्रस्थानम्
"https://sa.wikibooks.org/w/index.php?title=अध्याय:_०१&oldid=5991" इत्यस्माद् प्रतिप्राप्तम्