सामग्री पर जाएँ

अध्याय: ०४

विकिपुस्तकानि तः

अथातो रोगानुत्पादनीयाध्यायं व्याख्यास्याम:।अ.हृ.सू.४.१
आयुर्वेदरसायनटीका सपदच्छेदा
रोगानुत्पादनीयम् अध्यायं व्याख्यातुं प्रतिजानीते अथेति।
यत: पूर्वयो: अध्याययो: नियतकाल: विहार: व्याख्यात:।इह अनियतकाल:।स: च पञ्चधा- वेगधारणं, वेगोदीरणं, शोधनं, बृंहणं, भूतादि-अस्पर्शनं च इति। तेषां च हान-उपादानाभ्यां रोगाणाम् अनुत्पादनं, प्राग्-अभाव-प्रध्वंस-हेतुत्वात्।तत्र धारण-उदीरणयो: हानात्, प्राग्-अभाव:।शोधनादि-उपादानात् उभयम्। अत: एव अयं रोगानुत्पादनहेतुत्वात् रोगानुत्पादनीय:।
ननु, रोगानुत्पादनीय: यदि अयम् अध्याय:, तर्हि औषधस्कन्धे प्रणिधीयताम्।
सत्यं, ये एव हि हेतव:, तानि एव औषधानि। असम्यग्योग-सम्यग्योगौ एव अत्र भेदकौ।किन्तु अनुत्पन्नेषु व्याधिषु ये विहार-आहारा: रागत: विधित: वा प्राप्ता: प्राय: सेव्यन्ते, ते हेतुस्कन्धे विधीयन्ते, तेषाम् एव हि प्रमादात्, प्रतिकूलदैवात् वा, सति असम्यग्योगे हेतुत्वम्।ये उत्पन्नेषु , ते भेषजस्कन्धे।तेषाम् एव हि अप्रमादात् अनुकूलदैवात् वा सति सम्यग्योगे, भेषजत्वम्।पूर्वयो: उत्तरेषां च षण्णाम् अध्यायानाम् अनेन एव अभिप्रायेण हेतुस्कन्धे प्रणिधानम् इति सकलम् अनाकुलम्।
रोगानुत्पादनीयत्वं च यदि अपि सर्वेषाम् एव अध्यायानाम् तथापि अस्य संज्ञाकरणम् अतिशयद्योतनार्थम्।

मूत्रजेषु च पाने च प्राग्भक्तं शस्यते घृतम् | जीर्णान्तिक चोत्तमया मात्रया योजनाद्वयम अवपीडकमेतच्च संज्ञितम् || अ.हृ.सू ४ /६-७
आयुर्वेदरसायनटीका सपदच्छेदा
मूत्ररोगजानां विशेषम् आह मूत्रजेषु इति | अवपीडक: द्विविध: ह्रस्वया मात्रया प्राग्भक्तप्रयोगः,उत्तमया अनन्नप्रयोग: च | उक्तं हि संग्रहे (सू.५) "मूत्रजेषु तु पाने च प्राग्भक्तं शस्यते घृतम् | जीर्णान्तिकं च उत्तमया मात्रया योजनाद्वयम् | अवपीडकम् एतत् च संज्ञितम् " इति चकार: सामान्यअनुप्रवेशार्थ:|

धारणात्पुनः॥ अ.हृ.सू.४.७ ॥उद्गारस्यारुचिः कम्पो विबन्धो हृदयोरसोः ।
आध्मानकासहिध्माश्च हिध्मावत्तत्र भेषजम् ॥ अ.हृ.सू.४.८ ॥
आयुर्वेदरसायनटीका सपदच्छेदा
उर्ध्ववातरोधजान् आह - उद्गारस्य इति ।रोधेन इति प्रकृतत्वाद् लभ्यते । कम्पः सर्वाङ्गानाम् । हृदयः-उरसोः विबन्धः – रज्ज-आदिभिः बध्यमानयोः इव दुःखम् ।आध्मानम् उदर-आपूरणम्।उद्गाररोधजानाम् औषधम् आह - हिध्मावद् इति । हिध्मायाम् इव हिध्मावत्।

अङ्गभङ्गारुचिग्लानिकार्श्यशूलभ्रमाः क्षुधः।१२
तत्र योज्यं लघु स्निग्धमुष्णमल्पं च भोजनम् ॥ अ.हृ.सू. ४.१३
आयुर्वेदरसायनटीका सपदच्छेदा
क्षुद् रोधजान् आह -अङ्गभङ्ग अरुचि इति । ग्लानिः -क्लमः । शूलं - कोष्ठशूलम् ।क्षुद् रोधजानाम् औषधम् आह - तत्र इति । तत्र - क्षुद्रोधजेषु ।

शोषाङ्गसादबाधिर्यसंमोहभ्रमहृद्गदाः॥ अ.हृ.सू. ४.११॥
तृष्णाया निग्रहात्तत्र शीतः सर्वो विधिर्हितः
आयुर्वेदरसायनटीका सपदच्छेदा
तृड्-रोधजान् आह-शोष-अङ्गसाद इति।शोषः-मुखशोषः।अङ्गसादः-अङ्गवैक्लव्यम्। सम्मोहो–ज्ञान-अभावः।भ्रमः-चक्र आरूढस्येव भ्रमणम् ।हृद्गदो-हृद्रोगः।तृड्- रोधजानाम् औषधम् आह्-तत्र शीत् इति । तत्र – तृड्-रोधजेषु ।

शिरोर्तीन्द्रियदौर्बल्यमन्यास्तम्भार्दितं क्षुतेः।
तीक्ष्णधूमाञ्जनाघ्राणनावनार्कविलोकनैः॥
प्रवर्तयेत्क्षुतिं सक्तां स्नेहस्वेदौ च शीलयेत् । अ.हृ.सू. ४.९/१०
आयुर्वेदरसायनटीका सपदच्छेदा
क्षवथुरोधजानाह -शिरोर्तीति ।शिरोर्त्तिः -शिरोव्यथा । इन्द्रियाणां दौर्बल्यं-विषयग्रहण- अशक्तिः।अर्दितं-एकायामः।क्षुते -क्षवथोः ।क्षवथुरोधजानाम् औषधम् आह् - तीक्ष्णधूमः इति।क्षुत् अवरोधजेषु अवरूध्दां क्षुतिं तीक्ष्णैः धूमादिभिः सूर्यविलोकनेन च प्रवर्तयेत् ।तथा स्नेहस्वेदौ च शीलयेत् । सङ्ग्रहे तु ( सू.अ. ५) ‘योज्यं वातघ्नम् अन्नं च घृतं च उत्तरभक्तकम् ।’ इति

निद्राया मोहमूर्धाक्षिगौरवालस्यजृम्भिकाः।अङ्गमर्दश्च तत्रेष्टः स्वप्नः संवाहनानि च।अ.हृ.सू. ४.
आयुर्वेदरसायनटीका सपदच्छेदा
निद्रारोधजानाह निद्रायाः इति।मूर्ध्नः अक्ष्णः च गौरवम्। आलस्यम् अनुत्साहः।अङ्गमर्दः अङ्गभङ्गः।निद्रारोधजानाम् औषधम् आह तत्र इष्टः इति। स्वप्नः शयनम्।संवाहनं सुखस्पर्श-मर्दनम्।
कासस्य रोधात्तद्वृद्धिः श्वासारुचिहृदामयाः ।
शोषो हिध्मा च कार्योऽत्र कासहा सुतरां विधिः॥अ.हृ.सू.४.१३,१४
आयुर्वेदरसायनटीका सपदच्छेदा
कासरोधजान् आह कासस्य इति।अत्र कासरोधजेषु ।

गुल्महृद्रोगसंमोहाः श्रमश्वासाद्विधारितात्।हितं विश्रमणं तत्र वातघ्नश्च क्रियाक्रमः।। अ.हृ.सू.४
आयुर्वेदरसायनटीका सपदच्छेदा
श्रमेण - अध्वव्यायाम आदिना साहसेन, सद्यो जातः श्वासः श्रमश्वासः । तस्माद् विधारितात् – तद्-वेगरोधात् , गुल्म-आदयः स्युः । तत्र विश्रमणं हितम् । वातघ्नश्च क्रियाक्रमो हितः ।


आयुर्वेदरसायनविवृतौ सूत्रस्थानम्
"https://sa.wikibooks.org/w/index.php?title=अध्याय:_०४&oldid=6009" इत्यस्माद् प्रतिप्राप्तम्