अनुकृत्यधिकरणम्
अनुकृतेस्तस्य च।१.३.२२
पू.- न तत्र सूर्यो भाति (मु. २.२.१०) इत्यत्र यं भान्तमनुभाति सर्वम्, स कश्चित्तेजोधातु:।तस्मिन् सति तेजोधातूनामेव सूर्यादीनां भानप्रतिषेधात्।यथा अहनि सूर्ये भासमाने अन्यत् तेज:स्वभावकं चन्द्रतारकादि न भाति तथा।
अनुमानमपि तेजोधातुं गमयति।समानस्वभावस्यैव अनुकरणं भवति।तस्मात् स कश्चित्तेजोधातुरेव।
वे.- न।अनुकृते:।तमेव भान्तमनुभाति सर्वमिति अनुकृति:।सा च प्राज्ञपरिग्रहे एवावकल्पते यतो हि-
१ ‘भारूप: सत्यसङ्कल्प:’ (छा. ३.१४.२) इति एतद् आत्मनो वर्णनम्।
२ कञ्चनान्यं तेजोधातुं सूर्यादयोऽनुभान्ति इति न क्वापि प्रसिद्धम्।
३ सूर्यादयोऽपि तेजोधातव: ते यदि स्वभानाय अन्य्ं कञ्च्न तेजोधातुमिच्छन्ति तर्हि तस्य तेजोधातोरपि अन्यापेक्षा स्यात्।
४ समानस्वभावेषु अनुकारो दृश्यते इति यदुक्तं तदसत्। भिन्नस्वभावेष्वपि अनुकारो दृश्यते यथा-
सुतप्तोऽय:पिण्ड: अग्निना विषमस्वभावोऽपि दहन्तमग्निमनुदहति।अनुकृते: नाम अनुभानात्। तस्य नाम चतुर्थे पादे उक्तस्य ‘तस्य’।
५ तेजोऽन्तरेण सूर्यादयो विभान्तीति विरुद्धम्।तेजोऽन्तरेण तेजोऽन्तरस्य प्रतिघातात्।
‘सर्वमिदं विभातीति वचनात् सर्वस्यैव नामरूपक्रियाकारकफलजातस्य या अभिव्यक्ति:, सा ब्रह्मरूपतेज:सत्तानिमित्ता।
न तत्र सूर्यो भाति इत्यत्र तत्र शब्देन प्रकृतं ब्रह्म आकृष्टम्।ब्रह्मणा सूर्यादीनां भानप्रतिषेध: कल्पते यतो हि ब्रह्म अन्यद् व्यनक्ति, न तु ब्रह्म अन्येन व्यज्यते ‘आत्मनैवायं ज्योतिषास्ते(बृ.४.३.६) इति श्रुते:।
अपि च स्मर्यते ।१.३.२३
स्मृतौ अपि प्राज्ञस्यात्मन: एव एतादृशं रूपं वर्णितम्।–न तद्भासयते सूर्यो...परमं मम।
यदादित्यगतं तेजो जगद्भासयतेऽखिलम् (भ.गी. १५.६.१२)
ब्रह्मसूत्रशाङ्करभाष्यं संवादरूपम् प्रथमाध्याये तृतीय: पाद: