अन्तःकरणचतुष्टयम्
अन्तःकरणचतुष्टयं नाम किम्?
[सम्पाद्यताम्]बाह्येन्द्रियसंयुक्तं मनः, केवलं मनः, अहङ्कारः, बुद्धिः इति एतत् अन्तःकरणचतुष्टयम् इति साङ्ख्यशास्त्रे प्रसिद्धम्।तत् चतुष्टयं क्वचित् युगपत् कार्यं कुरुते क्वचित् क्रमशः कार्यं कुरुते –
अन्तःकरणचतुष्टयस्य कार्यम्
[सम्पाद्यताम्]युगपच्चतुष्टयस्य तु वृत्तिः क्रमशश्च तस्य निर्दिष्टा।सां.का.३०
कथमेतत् अन्तःकरणचतुष्टयं कार्ये प्रवर्तते इति विवृतम्।
१ तत्र बाह्येन्द्रयसंयुक्तं मनः शब्दादीनां विषयाणाम् आलोचनमात्रं कुरुते।
शब्दादिषु पञ्चानाम् आलोचनमात्रमिष्यते वृत्तिः।सां.का.२८
२ बाह्येन्द्रियेण आलोचितं विषयं केवलं मनः सङ्कल्पयति-
उभयात्मकमत्र मनः सङ्कल्पकम्...। सां.का.२७
३ ततः ‘अत्र अहम् अधिकृतः’ ‘अयं मम’ इति अहङ्कारकर्म भवति।
अभिमानोऽहङ्कारः...।सां.का.२४
४ ‘मम इदं कर्तव्यम्’ इति अध्यवसायस्य स्वरूपम्।अहङ्कारकार्याद् अनन्तरम् अध्यवसायः भवति।एतद् बुद्धेः कर्म।
अध्यवसायो बुद्धिः ...। सां.का.२३
एवमेषा अन्तःकरणचतुष्टयस्य प्रवृत्तिः सर्वत्र भवति- क्वचिद् युगपत् क्वचित् क्रमशः।
आयुर्वेदे अन्तःकरणचतुष्टयविचारः
[सम्पाद्यताम्]अधुना आयुर्वेदे अन्तःकरणचतुष्टयस्य प्रवृत्तिः कथं प्रतिपादिता इति पश्यामः।
प्रथमा प्रवृत्तिः समनस्कस्य इन्द्रियस्य
[सम्पाद्यताम्]१ तत्र प्रथमा प्रवृत्तिः तावत् समनस्कस्य इन्द्रियस्य प्रवृत्तिः।
इन्द्रियाभिग्रहः कर्म मनसः …च.शा.१.२१
इन्द्रियेषु उपस्थितिः इति मनसः कर्म।
मनोविषयम् अभिधाय मनः कर्म आह इन्द्रियेत्यादि। इन्द्रियाभिग्रहः इन्द्रियाधिष्ठानं मनसः कर्म, …।चक्रपाणिः
एवम् इन्द्रियेषु उपस्थाय मनः किं करोति? ऊहः।
ऊहो … च.शा.१.२१॥
मनः कर्मान्तरम् आह- ऊहः विचारः च इति। अत्र उह आलोचन(ना)-ज्ञानं निर्विकल्पकम्...।
-चक्रपाणिः
प्रकृतसूत्रे ऊहः इत्युक्ते निर्विकल्पज्ञानम्।शब्दादिषु पञ्चानाम् आलोचनमात्रमिष्यते वृत्तिः इति साङ्ख्यैः या वृत्तिः कथिता, सा एव अत्र ऊहशब्देन उच्यते।विचारः इत्युक्ते सविकल्पज्ञानम्। सविकल्प-निर्विकल्पयोः भेदः ईदृशः –
संमुग्धं वस्तुमात्रं तु प्राग् गृह्णात्यविकल्पितम्।तत् सामान्यविशेषाभ्यां कल्पयन्ति मनीषिणः॥
अस्ति ह्यालोचितज्ञानं प्रथमं निर्विकल्पकम्।बालमूकादिविज्ञानसदृशं मुग्धवस्तुजम्॥
ततः परं पुनर्वस्तु धर्मैर्जात्यादिभिर्यथा।बुद्ध्यावसीयते...॥
‘इदं किञ्चित्’ इति वस्तुमात्रज्ञानम् ।एतद् निर्विकल्पज्ञानम् उच्यते।एतद् आदौ जायते। एतदर्थम् यः इन्द्रियव्यापारः भवति, सः आलोचनव्यापारः उच्यते।एषः एव आलोचनव्यापारः अत्र ऊहशब्देन उच्यते।
द्वितीया प्रवृत्तिः - विचारः
[सम्पाद्यताम्]२ अथ द्वितीया प्रवृत्तिः अन्तःकरणचतुष्टयस्य -
विचारश्च, ….. ।च.शा.१.२१॥
.....विचारः हेय-उपादेयतया विकल्पनम्। - चक्रपाणिः
निर्विकल्पज्ञानोत्तरं सविकल्पज्ञानं भवति। ‘मया उपादेयं वा मया हेयं वा ’ इति एतादृशं सर्वं सविकल्पज्ञानम्।तद् अस्मिन् सूत्रे विचारशब्देन उच्यते।
तृतीया प्रवृत्तिः - अध्यवसायः
[सम्पाद्यताम्]३ ततः तृतीया प्रवृत्तिः अन्तःकरणचतुष्टयस्य अध्यवसायः इति।
..... ततः परं बुद्धिः प्रवर्तते॥ च.शा.१.२१॥
अध्यवसायः इति बुद्धेः कार्यम्।अध्यवसायः निश्चयः।‘मया उपादेयं वा मया हेयं वा ’ इति विचारकर्म भवति।ततः मया इदं हेयम् अथवा मया इदमुपादेयमिति निश्चयः भवति। अयं निश्चयः बुद्धेः कार्यम्।
चतुर्विधं हि विकल्पकारणं साङ्ख्याः मन्यन्ते; तत्र बाह्यम् इन्द्रियरूपम्, आभ्यन्तरं तु मनः अहङ्कारः बुद्धिः च इति त्रितयम्।तत्र इन्द्रियाणि आलोचयन्ति निर्विकल्पेन गृह्णन्ति इति अर्थः, मनः तु सङ्कल्पयति हेय-उपादेयतया कल्पयतीत्यर्थः, अहङ्कारः अभिमन्यते ‘मम इदम् अहम् अत्र अधिकृतः’ इति मन्यते इति अर्थः, बुद्धिः अध्यवस्यति ‘त्यजामि एनं दोषवन्तम् आददामि एनं गुणवन्तम् ’इति अध्यवसायं करोति इति अर्थः। च.शा.१.२१- चक्रपाणिः
मनःकर्मविवरणम् इदं साङ्ख्यमतम् अनुसरति।अतः चक्रपाणिः साङ्ख्यमतं सङ्क्षेपेण लिखति चतुर्विधं हीति।
ननु चतुर्विधं विकल्पकारणं कथम्? इन्द्रियाणि तु निर्विकल्पेन गृह्नन्ति।अतः त्रीणि एव विकल्पकारणानि भवन्ति।तस्योत्तरम् -
ऊहः तु यदि अपि बाह्यचक्षुर्-आदिकर्म, तथा अपि तत्र अपि मनः अधिष्ठानम् अस्ति इति मनःकर्मतया उक्तः। वचनं हि “सान्तःकरणा बुद्धिः सर्वं विषयम् अवगाहते यस्मात्। तस्मात् त्रिविधं करणं द्वारि, द्वाराणि शेषाणि” सा.का.३५ ।-चक्रपाणिः
ऊहः इत्युक्ते विषयस्य आलोचनमात्रम् ।एतद् इन्द्रियकर्म।मनःकर्मसु तस्य समावेशः किमर्थं कृतः इति आशङ्का जायते।तस्य उत्तरं वदति चक्रपाणिः ऊहस्तु इत्यादिना।मनोविरहितं केवलम् इन्द्रियं विषयालोचनं न करोति।अतः विषयालोचनपरस्य ऊहस्य मनःकर्मसु समावेशो न दुष्यति। अस्य पुष्ट्यर्थं साङ्ख्यकारिका उद्धृता।
ततः परं बुद्धिः प्रवर्तते इति ऊह-विचार-अनन्तरं बुद्धिः अध्यवसायं करोति इति अर्थः।–चक्रपाणिः
चतुर्थी प्रवृत्तिः अभिमननम्
[सम्पाद्यताम्]४ चतुर्थी प्रवृत्तिः अहङ्कारस्य।सा तु अत्र न उक्ता।यतो हि-
अहङ्कार-व्यापारः च अभिमननम् इह अनुक्तः अपि बुद्धिव्यापारेण एव सूचितः ज्ञेयः। बुद्धिः हि त्यजामि एनम् उपाददामि इति वा अध्यवसायं कुर्वती अहङ्कार-अभिमते एव विषये भवति; तेन बुद्धिव्यापारेण एव अहङ्कार-व्यापारः अपि गृह्यते। बुद्धौ हि सर्व-करण-व्यापार-अर्पणं भवति। यदा उक्तम्- “एते प्रदीपकल्पाः परस्परविलक्षणा गुणविशेषाः। कृत्स्नं पुरुषस्यार्थं प्रकाश्य बुद्धौ प्रयच्छन्ति ” सा.का.३६।२०,२१॥ च.शा.१.२१-चक्रपाणिः
इतः पर्यन्तं मूलसूत्रस्य विवरणं कृतं टीकाकारेण।प्रकृतसूत्रे ऊहशब्देन इन्द्रियाधिष्ठितस्य मनसः साङ्ख्योक्तम् आलोचनकर्म उक्तम्।विचारशब्देन साङ्ख्योक्तं मनःकर्म उक्तम्।बुद्धिः प्रवर्तते इत्यनेन साङ्ख्योक्तः अध्यवसायरूपः बुद्धिव्यापारः उक्तः।
साङ्ख्योक्तस्य अहङ्कारतत्त्वस्य अत्र उल्लेखः नास्ति।तत् कथम् इति आशङ्कां परिहरति चक्रपाणिः अहङ्कारव्यापारश्चेत्यादिना। बुद्धिशब्देन एव अहङ्कारस्य स्वीकारः कर्तुं शक्यते इति टीकायाः अभिप्रायः।तस्य पुष्ट्यर्थं कारिकामेकाम् उद्धरति ‘एते प्रदीपकल्पाः’ इति।
अयं सकलः आशयः मुनिना अग्रे पुनः सङ्क्षेपेण उक्तः -
इन्द्रियेणेन्द्रियार्थो हि समनस्केन गृह्यते । कल्प्यते मनसा तूर्ध्वं गुणतो दोषतोऽथवा ।। च.शा.१.२२
जायते विषये तत्र या बुद्धिर्निश्चयात्मिका । व्यवस्यति तया वक्तुं कर्तुं वा बुद्धिपूर्वकम् ।। च.शा.१.२३
मनोयुक्तेन इन्द्रियेण इन्द्रियस्य अर्थः गृह्यते।ततः ऊर्ध्वं तु गुणतः अथवा दोषतः मनसा कल्प्यते। तत्र विषये या निश्चयात्मिका बुद्धिः जायते, तया बुद्ध्या वक्तुम् अथवा कर्तुं पुरुषः उद्युक्तः भवति।एषः सूत्रार्थः।
एतद् एव ऊह-विचारपूर्वकत्वं बुद्धेः विवृणोति इन्द्रियेण इत्यादि।गृह्यते इति ऊहमात्रेण निर्विकल्पेन गृह्यते ।गुणतः इति उपादेयतया । दोषतः इति हेयतया ।बुद्धि-अध्यवसायं विवृणोति जायते इत्यादि। विषये तत्र इति मनसा कल्पिते विषये ।निश्चयात्मिका इति स्थिरस्वरूपा अध्यवसायरूपा इति अर्थः। व्यवस्यति इति अनुष्ठानं करोति उद्युक्तः भवति इति अर्थः बुद्धि-अध्यवसितम् अर्थं वक्तुं कर्तुं वा अनुतिष्ठति इति यावत् । बुद्धिपूर्वकम् इति अनेन यद् एव बुद्धिपूर्वकम् अनुष्ठानं तद् एव एवंविधं भवति न उन्मत्तादि-अनुष्ठानम् इति दर्शयति। - चक्रपाणिः
ऊहो विचारश्च ततः परं बुद्धिः प्रवर्तते इति यत् गतसूत्रे उक्तं, तस्य एव विस्तरः अत्र क्रियते।
एवम् अन्तःकरणचतुष्टयस्य या प्रवृत्तिः साङ्ख्यमते अङ्गीकृता, सा सर्वापि पुनर्वसुना यथावद् अभ्युपगता।उभयोः कोष्ठके योजना एवं क्रियते -
साङ्ख्ये | आयुर्वेदे | |
---|---|---|
इन्द्रियसंयुक्तं मनः | शब्दादिषु पञ्चानाम् आलोचनमात्रमिष्यते वृत्तिः।सां.का.२८ | अत्र उह आलोचन(ना)-ज्ञानं निर्विकल्पकम्...।च.शा.१.२१-चक्रपाणिः |
मनः | उभयात्मकमत्र मनः सङ्कल्पकम्...। सां.का.२७ | ...विचारः हेय-उपादेयतया विकल्पनम्। -च.शा.१.२१ चक्रपाणिः |
अहङ्कारः | अभिमानोऽहङ्कारः...।सां.का.२४ | अहङ्कार-व्यापारः च अभिमननम् इह अनुक्तः अपि बुद्धिव्यापारेण एव सूचितः ज्ञेयः। |
बुद्धिः | अध्यवसायो बुद्धिः ...।सां.का.२३ | ..... ततः परं बुद्धिः प्रवर्तते॥ च.शा.१.२१ |
अन्तःकरणचतुष्टयं निद्रास्वप्नप्रबोधेषु –
[सम्पाद्यताम्]निद्राहेतुस्तमः, सत्त्वं बोधने हेतुरुच्यते। सु.शा.४.३५
करणानां तु वैकल्ये तमसाऽभिप्रवर्धिते |अस्वपन्नपि भूतात्मा प्रसुप्त इव चोच्यते ॥सु.शा.४.३७
एवमेव स्वप्नः अपि रजोगुणस्य कार्यम्-
पूर्वदेहानुभूतांस्तु भूतात्मा स्वपतः प्रभुःरजोयुक्तेन मनसा गृह्णात्यर्थाञ् शुभाशुभान्॥ सु.शा.४.३६
अवस्था | प्रबोधनम् | स्वप्नः | निद्रा |
---|---|---|---|
अन्तःकरणचतुष्टयम् | सत्त्वगुणभूयिष्ठम् | रजोगुणभूयिष्ठम् | तमोगुणभूयिष्ठम् |
अन्तःकरणचतुष्टयं रोगेषु -
[सम्पाद्यताम्]अधुना अन्तःकरणचतुष्टयं दूष्यत्वेन यत्र यत्र उक्तं ते रोगाः द्रष्टव्याः।एतेषु रोगेषु क्वचित् समस्तम् अन्तःकरणचतुष्टयं दूष्यं, क्वचिद् व्यस्तम्।
१ मूर्च्छा –
[सम्पाद्यताम्]मूर्च्छायाः सम्प्राप्तिः सुश्रुताचार्येण एवमुक्ता -
करणायतनेषूग्रा बाह्येष्वाभ्यन्तरेषु च।निविशन्ते यदा दोषास्तदा मूर्च्छन्ति मानवाः सु.उ.४६.४
बाह्येष्वाभ्यन्तरेषु चेति बाह्यकरणायतनानि कर्मेन्द्रियाणि, आभ्यन्तरकरणायतनानि मनोबुद्ध्यहङ्कारस्थानानि। - डह्लणः
अत्र अन्तःकरणचतुष्टयं दुष्टं तथा बाह्यानि इन्द्रियाणि अपि दुष्टानि।
२ मद्यजमदः-
[सम्पाद्यताम्]मद्यं विकारं कथं जनयति इति चरकाचार्येण विवृतम् –
..... मद्यं निहन्त्येवमोजसः स्वगुणैर्गुणान्।सत्त्वं तदाश्रयं चाशु सङ्क्षोभ्य जनयेन्मदम्॥३४
रसवातादिमार्गाणां सत्त्वबुद्धीन्द्रियात्मनाम्।प्रधानस्यौजसश्चैव हृदयं स्थानमुच्यते॥३५
अतिपीतेन मद्येन विहतेनौजसा च तत्।हृदयं याति विकृतिं तत्रस्था ये च धातवः॥च.चि.२४.३६
.....धातव इति सत्त्वबुद्धीन्द्रियादयः।चक्रपाणिः
मद्येन हृदयं दुष्यति।ततः हृदयस्थानां धातूनाम् अपि दुष्टिः स्वाभाविकी।हृदयस्थाः धातवः नाम सत्त्वं बुद्धीन्द्रियाणि तथा आत्मा। सत्त्वं नाम मनः।एतेषु आत्मा तत्त्वतः निर्विकारः।बुद्धेः विकृतिमनुसृत्य सः विकारी इव भासते।तस्मात् आत्मशब्देन अत्र बुद्धितत्त्वं ग्राह्यम्।
एवं मद्येन मनः ज्ञानेन्द्रियाणि तथा बुद्धिः इति एते धातवः विकृतिं यान्ति।
मदेन करणानां तु भावान्यत्वे कृते सति ।निगूढमपि भावं स्वं प्रकाशीकुरुतेऽवशः॥सु.उ.४७.१०
करणानां मनोबुद्धीन्द्रियाणां, भावान्यत्वे स्वरूपान्यथात्वे कृते सति...। डह्लणः
विभिन्नासु रोगावस्थासु अन्तःकरणचतुष्टयस्य दूष्यत्वं कथं वर्तते इति पश्यामः।
रोगावस्था | दोषः | दूष्यम् | सन्दर्भः |
---|---|---|---|
तन्द्रा | तमः | इन्द्रियाणि | तन्द्रायाम् इन्द्रियमोहः मा.नि.मधुकोशः १९.१७ |
मदः | रजः | मनः +इन्द्रियाणि+बुद्धिः | ...करणानां मनोबुद्धीन्द्रियाणां, भावान्यत्वे स्वरूपान्यथात्वे कृते सति...। सु.उ.४७.१०डह्लणः |
मूर्च्छा | पित्तं+तमः | अन्तःकरण-चतुष्टयम् | सञ्ज्ञावहासु नाडीषु...तमोऽभ्युपैति सहसा ।सु.उ.४६.७ |
सन्न्यासः | पित्तं+तमः | अन्तःकरण-चतुष्टयम् | सञ्ज्ञावहासु नाडीषु...तमोऽभ्युपैति सहसा। सु.उ.४६.७ |
साङ्ख्यायुर्वेदयोः