सामग्री पर जाएँ

अन्तरधिकरणम्...

विकिपुस्तकानि तः

प्र.- अन्तरधिकरणं साङ्गं लिखत।
उत्तरम् –
सन्दर्भ: -प्रथमाध्याये द्वितीयपादे चतुर्थमिदम् अधिकरणम्।
विषय:- ‘य एष अक्षिणि पुरुषो दृश्यते, एष आत्मा इति ह उवाच।एतद् अमृतम्, एतद् ब्रह्म इति।’
विशय: - किम् अयम् अक्षिपुरुष: नाम प्रतिबिम्बात्मा, विज्ञानात्मा, देवतात्मा(सूर्य:) अथवा परमेश्वर:?

पूर्वपक्ष: - १ प्रतिबिम्बात्मपक्ष:
अत्र प्रतिबिम्बात्मा अभिप्रेत: यतो हि –
१ दृश्यमानरूपेण स: लोके प्रसिद्ध: अस्ति।
२ य: एष: इति उल्लेख: प्रसिद्धस्य परामर्शं करोति।प्रतिबिम्बात्मा सर्वत्र प्रसिद्ध: अत: स: एव अभिप्रेत:।

पूर्वपक्ष: २ विज्ञानात्मपक्ष:-
अत्र अभिप्रेत: पुरुष: विज्ञानात्मा, यतो हि
१ स: चक्षुषा रूपं पश्यन् चक्षुषि तिष्ठति।
२ एष आत्मा इति साक्षात् शब्दप्रयोग: विद्यते।

पूर्वपक्ष: ३ देवतात्मपक्ष:
अत्र अभिप्रेत: पुरुष: आदित्यदेवता, यतो हि –
१ ‘रश्मिभि: एष: अस्मिन् प्रतिष्ठित:’ इति विषयवाक्ये उक्तम्। किरणरूपेण आदित्यदेवता चक्षुषि विद्यते।
२ आदित्य: देवतारूप: अत: ‘अमृतत्वम्’ इति लिङ्गं तस्मिन् विद्यते।
३ नेत्रस्थानिविशेषस्य वचनात् अयं पुरुष: परमात्मा भवितुं नार्हति।परमात्मन: सर्वव्यापकत्वात्स्थानविशेषनिर्देश: अनुचित:।

उत्तरपक्ष: -
अत्र निर्दिष्ट: पुरुष: परमेश्वर:, यतो हि –
१ अभयं तथा अमृतम् इति उभयमपि परमेश्वरे उपपद्यते, न छायात्मपुरुषे न वा विज्ञानात्मनि न वा देवतात्मनि।
२ विषयवाक्ये एष आत्मा इति वचनात् परमेश्वरग्रहणं सम्भवति।
३ नेत्रयो: सिक्तं घृतमथवा जलम् अक्षिपुरुषं न स्पृशति इति वचनं विषयवाक्ये विद्यते।अनेन परमेश्वरस्य अलिप्तता प्रदर्श्यते।
४ यद्यपि परमेश्वर: सर्वगत:, तथापि उपासनार्थं स्थानविशेषे तस्य व्यपदेश: न अनुचित:।एतादृशा: व्यपदेशा: वेदे बहुत्र सन्ति यथा शालग्रामे विष्णु:।
५ अक्षिपुरुषस्य ज्ञानेन मनुष्य: पापात् मुक्त: भवतीति वचनं विषयवाक्ये अस्ति।एतादृशं वचनं परमेश्वरविषये एव सम्भवति।
६ वेदज्ञस्य या गति:, सा एव गति: अक्षिपुरुषज्ञस्य इति विषयवाक्ये उक्तम्।अक्षिपुरुष: परमात्मा अस्ति चेदेव एषा गति: सम्भवति।
७ प्रतिबिम्बात्मा अनवस्थित:।तस्मिन् अमृतत्वादयो गुणा: न सम्भवन्ति।अत: स: न अत्र ग्राह्य:।
८ विज्ञानात्मा सकलशरीरगत: अत: तस्य अक्षिस्थानोपदेश: न युज्यते।अत: अत्र विज्ञानात्मा न ग्राह्य:।
९ अमृतत्वादिगुणा: विज्ञानात्मनि न विद्यन्ते। अत: अत्र विज्ञानात्मा न ग्राह्य:।
१० एष आत्मा इति उल्लेख: विषयवाक्ये अस्ति। अयम् उल्लेख: आदित्यदेवताविषये न घटते।तथा च देवतानाम् अमरत्वमपि सापेक्षम्, तेषामुत्पत्तिलयश्रवणात्।

निर्णय: -
विषयवाक्ये अभिप्रेत: पुरुष: परमात्मा।

ब्रह्मसूत्रशाङ्करभाष्य-प्रश्नोत्तरसङ्ग्रह:
"https://sa.wikibooks.org/w/index.php?title=अन्तरधिकरणम्...&oldid=5672" इत्यस्माद् प्रतिप्राप्तम्