सामग्री पर जाएँ

अन्तर्यामिशब्दस्य अर्थ: ?

विकिपुस्तकानि तः

प्र.- ‘य: पृथिवीम् अन्तरो यमयति, एष ते आत्मा अन्तर्यामी’ इति अस्मिन् वचने अन्तर्यामिशब्दस्य अर्थ: क:? सोपपत्तिकं विवरणं कुरुत।
उत्तरम्-

सन्दर्भ: प्रथमे अध्याये द्वितीयपादे पञ्चमम् अधिकरणम् अन्तर्याम्यधिकरणम्। तत्र अन्तर्यामिशब्दस्य अर्थनिर्णय: कृत:।अस्मिन् अधिकरणे एतानि सूत्राणि समाविष्टानि –

सूत्राणि-

विषय: य: पृथिवीम् अन्तरो यमयति, एष ते आत्मा अन्तर्यामी

विशय: - विषयवचने निर्दिष्ट: अन्तर्यामी किं देवतात्मा अथवा योगी अथवा अर्थान्तरम् अथवा परमात्मा?

पूर्वपक्ष: १ (देवतात्मपक्ष:)
अत्र अन्तर्यामिशब्देन काचिद् देवता अभिप्रेता यतो हि –
१ सा देवता पृथिव्यादिषु तिष्ठति तथा पृथिव्यादिकं नियमयति। एतत् सामर्थ्यं देवतां विना अन्यत्र न सम्भवति।
२ नियमनकार्यं कर्तुं कार्यकारणसङ्घात: आवश्यक:। कार्यं देह:। करणसङ्घात: इन्द्रियाणि।देवताया: एतादृश: सङ्घात: सम्भवति, न परमात्मन:।अत: अत्र अन्तर्यामी नाम काचिद् देवता।

पूर्वपक्ष: २ (योगिपक्ष:)
योगानुष्ठानेन अणिमाद्यैश्वर्यं प्राप्त: कश्चित् महायोगी अत्र अन्तर्यामिशब्देन अभिप्रेत:।सर्वानुप्रवेश: तथा च सर्वस्य नियमनम् इति उभयं योगिन: एव सम्भवति, न तु कस्या: अपि एकस्या: देवताया:।

पूर्वपक्ष: ३ (अर्थान्तरपक्ष:)
अ) प्रधानपक्ष: (साङ्ख्यानाम्) – अदृष्ट: अश्रुत: इत्यादय: अन्तर्यामिण: धर्मा: विषयवाक्ये उक्ता: (विषयवाक्ये)।एते धर्मा: प्रधाने सङ्गच्छन्ते।प्रधानं सर्वेषां विकाराणां मूलं कारणम्।अत: सर्वविकारनियन्तृत्वम् इति अन्तर्यामिधर्म: तस्मिन् उपपद्यते।अत: अन्तर्यामिपदेन अत्र प्रधानं ग्राह्यम्।

आ) शारीरपक्ष: - अन्तर्यामीति शारीर: अत्र ग्राह्य:।यतो हि –
१ श्रोता, मन्ता इत्यादिकं वर्णनम् अन्तर्यामिण: कृतम्।तत् तु शारीरस्य एव शक्यं, चेतनत्वात्।
२ विषयवाक्ये ‘एष: ते आत्मा अन्तर्यामी’ इति साक्षाद् आत्मशब्दस्य उल्लेख: अस्ति।
३ अमृतत्वम् इति अन्तर्यामिण: धर्म: विषयवाक्ये प्रोक्त:। स: शारीरे विद्यते।
४ अन्तर्यामी अदृष्ट: अश्रुत: अस्तीति विषयवाक्ये कथितम्।एतदपि वर्णनं शारीरस्य सम्भवति।
५ शारीर: विकाररूपं शरीरं नियमयति। अत: अन्त:स्थ: सन् नियामक: इति अन्तर्यामिवर्णनमपि सङ्गच्छते।

उत्तरपक्ष: (परमात्मपक्ष:) अत्र अन्तर्यामिशब्देन परमात्मा अभिप्रेत: यतो हि –
१) तस्य धर्माणाम् अत्र व्यपदेश: अस्ति।अन्त:स्थत्वम्, नियन्तृत्वंम विकारै: अज्ञेयत्वम् इति परमात्मन: धर्मा:।अत्र विषयवाक्ये ते ‘अन्तर्यामिण: धर्मा:’ इति व्यपदेश: अस्ति।
२) परमात्मा सर्वविकाराणां कारणम् इति ‘जन्माद्यस्य यत: इति सूत्रे संस्थापितम्।कारणस्य कार्यनियन्तृत्वं सिद्धम्।
३) आत्मा तथा अमृतत्वम् इति एतौ शब्दौ परमात्मनि सम्भवत:।
४) विषयवाक्ये ‘यं पृथिवी न वेद’ इति उक्तम्।एष: उल्लेख: देवताविषये न युक्त:, परमात्मविषये युक्त:।
५) अदृश्य: अश्रुत: इत्यादि विषयवाक्यगतं वर्णनं निर्गुणस्य परमात्मन: अस्ति।
६) द्रष्टा, श्रोता इति एते विषयवाक्यस्था: अन्तर्यामिविषयका: उल्लेखा: प्रधानपक्षेण विरुद्ध्यन्ते।
७) विषयवाक्यस्थ: ‘आत्मा’ इति शब्द: प्रधानपक्षं निराकरोति।
८) विषयवाक्ये ‘यो विज्ञाने तिष्ठन्’ इति उल्लेख: अस्ति।स: शारीरपक्षेण विरुद्ध्यते।

निर्णय: - अत: अत्र अन्तर्यामी नाम परमात्मा ।


ब्रह्मसूत्रशाङ्करभाष्य-प्रश्नोत्तरसङ्ग्रह: