अम्बराधिकरणम्

विकिपुस्तकानि तः
Jump to navigation Jump to search

अम्बरान्तधृते:।१.३.१०
पू.- अक्षरशब्देन वर्ण: प्रसिद्ध:।प्रसिद्धेरतिक्रमोऽयुक्त: अत: अत्र अक्षरं नाम वर्ण:।ॐकार एवेदं सर्वम् (छा.२.२९.३) इति श्रुत्यन्तरे ॐकारस्य उपास्यत्वेन सर्वात्मकत्वं गम्यते।
वे.- न।पृथिव्यादे: आकाशान्तस्य विकारजातस्य धारणमत्र निर्दिष्टम्।न चैतद् धारणं ब्रह्मणोऽन्यत्र सम्भवति।ॐकार एवेदं सर्वम् इति वचनमोङ्कारस्तुतिमात्रं द्रष्टव्यम् यतो हि ॐकार: ब्रह्मप्रतिपत्ते: साधनम्।न क्षरतीत्यक्षरम् इति नित्यत्वं बोध्यते।अश्नुते इति अक्षरम् इति व्यापित्वं बोध्यते।नित्यत्वं च व्यापित्वं च इत्येताभ्यां धर्माभ्यामक्षरं परब्रह्म एव भवितुमर्हति।

सा च प्रशासनात्।१.३.११
पू.- अम्बरान्तधृतिवचनं विकारजातस्य कारणाधीनत्वं बोधयति इति चेत्, तद्वचनं प्रधानकारणवादेऽपि अभ्युपपद्यते।तर्हि अम्बरान्तधृतिवचनात् ब्रह्मत्वप्रतिपत्ति: एवेति कथम्?
वे.- अम्बरान्तधृति: ब्रह्मकर्म एव।‘एतस्य वा अक्षरस्य प्रशासने गार्गि सूर्याचन्द्रमसौ विधृतौ तिष्ठत:। (बृ. ३.८.९)’ इति प्रशासनं कर्म अक्षरस्योक्तम्। तत्तु नाचेतनस्य प्रधानस्य शक्यम्। अचेतनानां घटादिकारणानां मृदादीनां घटादिविषयेषु प्रशासनं न दृष्टम्।

अन्यभावव्यावृत्तेश्च।१.३.१२
वे.- अन्यद् इति ब्रह्मणोऽन्यद् इह यत्किमपि अक्षरशब्दवाच्यं चिन्त्यते।तस्य भाव: अन्यभाव:। तस्माद् व्यावृत्ति: अपनयनम्।एतादृशी अन्यभावव्यावृत्ति: अस्ति अत: ब्रह्म एवात्र अक्षरशब्दवाच्यम्।सा चान्यभावव्यावर्तकी श्रुतिरेवम्- ‘ तद्वा एतदक्षरं गार्गि अदृष्टं द्रष्टृ , अश्रुतं श्रोतृ, अमतं मन्त्रृ , अविज्ञातं विज्ञातृ’ (बृ. ३.८.११)।अदृष्टादिव्यपदेश: प्रधानस्य सम्भवेत् नाम, द्रष्टृत्वादिव्यपदेश: प्रधानस्य न सम्भवति।
पू.- तर्हि द्रष्टृत्वादिव्यपदेश: शारीरस्य सम्भवति।स: अत्र अक्षरशब्दवाच्य: स्यात्।
वे.- न।‘अचक्षुष्कमश्रोत्रमवागमन: (बृ.३.८.८)’ इति उपाधिप्रतिषेधात्।न हि निरुपाधिक: शारीर: सम्भवति।अत: परं ब्रह्म अत्र अक्षरशब्दवाच्यम्।

ब्रह्मसूत्रशाङ्करभाष्यं संवादरूपम्   प्रथमाध्याये तृतीय: पाद:
"https://sa.wikibooks.org/w/index.php?title=अम्बराधिकरणम्&oldid=5534" इत्यस्माद् प्रतिप्राप्तम्