अर्थशास्त्रम् अध्याय 01

विकिपुस्तकानि तः
Jump to navigation Jump to search

(Book.1: Concerning the topic of training)

प्रकरण-अधिकरण समुद्देशः[सम्पाद्यताम्]

(Chap..1: Enumeration of sections and books)


ॐ नमः.शुक्र.बृहस्पतिभ्यां



अशा-०१.१.०१
पृथिव्या लाभे पालने च यावन्त्य् अर्थ.शास्त्राणि पूर्व.आचार्यैः प्रस्थापितानि प्रायशस् तानि संहृत्य_एकम् इदम् अर्थ.शास्त्रं कृतम् ॥

अशा-०१.१.०२
तस्य_अयं प्रकरण.अधिकरण.समुद्देशः ॥

अशा-०१.१.०३क
विद्या.समुद्देशः, वृद्ध.समुद्देशः, इन्द्रिय.जयः, अमात्य.उत्पत्तिः, मन्त्रि.पुरोहित.उत्पत्तिः, उपधाभिः शौच.अशौच.ज्ञानम् अमात्यानाम्, - -

अशा-०१.१.०३ख
गूढ.पुरुष.प्रणिधिः, स्व.विषये कृत्य.अकृत्य.पक्ष.रक्षणम्, पर.विषये कृत्य.अकृत्य.पक्ष.उपग्रहः, -

अशा-०१.१.०३ग
मन्त्र.अधिकारः, दूत.प्रणिधिः, राज.पुत्र.रक्षणम्, अपरुद्ध.वृत्तम्, अपरुद्धे वृत्तिः, राज.प्रणिधिः, निशान्त.प्रणिधिः, आत्म.रक्षितकम्, --, इति विनय.अधिकारिकं प्रथमम् अधिकरणम् ॥

अशा-०१.१.०४क
जनपद.निवेशः, भूमिच्.छिद्र.अपिधानम्, दुर्ग.विधानम्, दुर्ग.निवेशः, सम्निधातृ.निचय.कर्म, समाहर्तृ.समुदय.प्रस्थापनम्, अक्ष.पटले गाणनिक्य.अधिकारः, -

अशा-०१.१.०४ख
समुदयस्य युक्त.अपहृतस्य प्रत्यानयनम्, उपयुक्त.परीक्षा, शासन.अधिकारः, कोश.प्रवेश्य.रत्न.परीक्षा, आकर.कर्म.अन्त.प्रवर्तनम्, अक्ष.शालायां सुवर्ण.अध्यक्षः -

अशा-०१.१.०४ग
विशिखायां सौवर्णिक.प्रचारः, कोष्ठ.आगार.अध्यक्षः, पण्य.अध्यक्षः, कुप्य.अध्यक्षः, आयुध.अध्यक्षः, तुला.मान.पौतवम्, -

अशा-०१.१.०४घ
देश.काल.मानम्, शुल्क.अध्यक्षः, सूत्र.अध्यक्षः, सीत.अध्यक्षः, सुरा.अध्यक्षः, सून.अध्यक्षः, गणिका.अध्यक्षः, -

अशा-०१.१.०४च
नाव्.अध्यक्षः, गो.अध्यक्षः, अश्व.अध्यक्षः, हस्त्य्.अध्यक्षः, रथ.अध्यक्षः, पत्त्य्.अध्यक्षः, सेना.पति.प्रचारः, मुद्रा.अध्यक्षः, विवीत.अध्यक्षः, समाहर्तृ.प्रचारः, -

अशा-०१.१.०४छ
गृह.पतिक.वैदेहक.तापस.व्यञ्जनाः प्रणिधयः, नागरिक.प्रणिधिः -- इत्य् अध्यक्ष.प्रचारो द्वितीयम् अधिकरणम् ॥

अशा-०१.१.०५क
व्यवहार.स्थापना, विवाद.पद.निबन्धः, विवाह.सम्युक्तम्, दाय.विभागः, वास्तुकम्, समयस्य अनपाकर्म, ऋण.अदानम्, औपनिधिकम्, दास.कर्म.कर.कल्पः, -

अशा-०१.१.०५ख
सम्भूय समुत्थानम्, विक्रीत.क्रीत.अनुशयः, दत्तस्य अनपाकर्म, अस्वामि.विक्रयः, स्व.स्वामि.सम्बन्धः, साहसम्, वाक्.पारुष्यम्, दण्ड.पारुष्यम्, द्यूत.समाह्वयम्, प्रकीर्णकं - इति, धर्म.स्थीयं तृतीयम् अधिकरणम् ॥

अशा-०१.१.०६क
कारु.कर.क्षणम्, वैदेहक.रक्षणम्, उपनिपात.प्रतीकारः, गूढ.आजीविनां रक्षा, सिद्ध.व्यञ्जनैर् माणव.प्रकाशनम्, शङ्का.रूप.कर्म.अभिग्रहः, -

अशा-०१.१.०६ख
आशु.मृतक.परीक्षा, वाक्य.कर्म.अनुयोगः, सर्व.अधिकरण.रक्षणं -

अशा-०१.१.०६ग
एक.अङ्ग.वध.निष्क्रयः, शुद्धश् चित्रश् च दण्ड कल्पः, कन्या.प्रकर्म, अतिचार.दण्डाः - इति कण्टक.शोधनं चतुर्थम् अधिकरणम् ॥

अशा-०१.१.०७
दाण्डकर्मिकम्, कोश.अभिसंहरणम्, भृत्य.भरणीयम्, अनुजीवि.वृत्तम्, समय.आचारिकम्, राज्य.प्रतिसंधानम्, एक.ऐश्वर्यं - इति योग.वृत्तं पञ्चमम् अधिकरणम् ॥

अशा-०१.१.०८
प्रकृति.सम्पदः, शम.व्यायामिकं - इति मण्डल.योनिः षष्ठम् अधिकरणम् ॥

अशा-०१.१.०९क
षाड्गुण्य.समुद्देशः, क्षय.स्थान.वृद्धि.निश्चयः, संश्रय.वृत्तिः, समहीन.ज्यायसां गुण.अभिनिवेशः, हीन.संधयः, विगृह्य आसनम्, संधाय आसनम्, विगृह्य यानम्, संधाय यानम्, -

अशा-०१.१.०९ख
सम्भूय प्रयाणम्, यातव्य.अमित्रयोर् अभिग्रह.चिन्ता, क्षय.लोभ.विराग.हेतवः प्रकृतीनाम्, सामवायिक.विपरिमर्शः, -

अशा-०१.१.०९ग
संहित प्रयाणिकम्, परिपणित.अपरिपणित.अपसृताः संधयः, द्वैधी.भाविकाः संधि.विक्रमाः, यातव्य.वृत्तिः, अनुग्राह्य.मित्र.विशेषाः, -

अशा-०१.१.०९घ
मित्र.हिरण्य.भूमि.कर्म.संधयः, पार्ष्णि.ग्राह.चिन्ता, हीन.शक्ति.पूरणम्, बलवता विगृह्य उपरोध.हेतवः, दण्ड.उपनत.वृत्तम्, -

अशा-०१.१.०९च
दण्ड.उपनायि.वृत्तम्, संधि.कर्म, समाधि.मोक्षः, मध्यम.चरितम्, उदासीन.चरितम्, मण्डल.चरितं - इति षाड्गुण्यं सप्तमम् अधिकरणम् ॥

अशा-०१.१.१०
प्रकृति.व्यसन.वर्गः, राज.राज्ययोर् व्यसन.चिन्ता, पुरुष.व्यसन.वर्गः, पीडन.वर्गः, स्तम्भ.वर्गः, कोश.सङ्ग.वर्गः, मित्र.व्यसन.वर्गः - इति व्यसन.आधिकारिकम् अष्टमम् अधिकरणम् ॥

अशा-०१.१.११क
शक्ति.देश.काल.बल.अबल.ज्ञानम्, यात्रा.कालाः, बल.उपादान.कालाः, सम्नाह.गुणाः, प्रतिबल.कर्म, पश्चात् कोप.चिन्ता, बाह्य.आभ्यन्तर.प्रकृति.कोप.प्रतीकाराः -

अशा-०१.१.११ख
क्षय.व्यय.लाभ.विपरिमर्शः, बाह्य.आभ्यन्तराश् च_आपदः, दुष्य.शत्रु.सम्युक्ताः, अर्थ.अनर्थ.संशय.युक्ताः, तासाम् उपाय.विकल्पजाः सिद्धयः - इत्य् अभियास्यत् कर्म नवमम् अधिकरणम् ॥

अशा-०१.१.१२
स्कन्ध.आवार.निवेशः, स्कन्ध.आवार.प्रयाणम्, बल.व्यसन.अवस्कन्द.काल.रक्षणम्, कूट.युद्ध.विकल्पाः, स्व.सैन्य.उत्साहनम्, स्व.बल.अन्य.बल.व्यायोगः, युद्ध.भूमयः, पत्त्य्.अश्व.रथ.हस्ति.कर्माणि, पक्ष.कक्ष.उरस्यानां बल.अग्रतो व्यूह.विभागः, सार.फल्गु.बल.विभागः, पत्त्य्.अश्व.रथ.हस्ति.युद्धानि, दण्ड.भोग.मण्डल.असंहत.व्यूह.व्यूहनम्, तस्य प्रतिव्यूह.स्थापनं - इति सांग्रामिकं दशमम् अधिकरणम् ॥

अशा-०१.१.१३
भेद.उपादानानि, उपांशु.दण्डाः - इति संघ.वृत्तम् एकादशम् अधिकरणम् ॥

अशा-०१.१.१४
दूत.कर्म, मन्त्र.युद्धम्, सेना.मुख्य.वधः, मण्डल.प्रोत्साहनम्, शस्त्र.अग्नि.रस.प्रणिधयः, वीवध.आसार.प्रसार.वधः, योग.अतिसंधानम्, दण्ड.अतिसंधानम्, एक.विजयः - इत्य् आबलीयसं द्वादशम् अधिकरणम् ॥

अशा-०१.१.१५
उपजापः, योग.वामनम्, अपसर्प.प्रणिधिः, पर्युपासन.कर्म, अवमर्दः, लब्ध.प्रशमनं - इति दुर्ग.लम्भ.उपायस् त्रयोदशम् अधिकरणम् ॥

अशा-०१.१.१६
पर.बल.घात.प्रयोगः, प्रलम्भनम्, स्व.बल.उपघात.प्रतीकारः - इत्य् औपनिषदिकं चतुर्दशम् अधिकरणम् ॥

अशा-०१.१.१७
तन्त्र.युक्तयः - इति तन्त्र.युक्तिः पञ्चदशम् अधिकरणम् ॥

अशा-०१.१.१८
शास्त्र.समुद्देशः पञ्चदश.अधिकरणानि स-अशीति.प्रकरण.शतं स-पञ्चाशद्.अध्याय.शतं षट्.श्लोक.सहस्राणि_इति ॥

अशा-०१.१.१९कख
सुख.ग्रहण.विज्ञेयं तत्त्व.अर्थ.पद.निश्चितम् ।

अशा-०१.१.१९गघ
कौटिल्येन कृतं शास्त्रं विमुक्त.ग्रन्थ.विस्तरम् ॥


विद्याः[सम्पाद्यताम्]

(Chap.2, section.1: Enumeration of the sciences)

((i) Establishing (the necessity of) philosophy)

अशा-०१.२.०१
आन्वीक्षिकी त्रयी वार्त्ता दण्ड.नीतिश् च_इति विद्याः ॥

अशा-०१.२.०२
त्रयी वार्त्ता दण्ड नीतिश् च_इति मानवाः ॥

अशा-०१.२.०३
त्रयी विशेषो ह्य् आन्वीक्षिकी_इति ॥

अशा-०१.२.०४
वार्त्ता दण्ड.नीतिश् च_इति बार्हस्पत्याः ॥

अशा-०१.२.०५
संवरण.मात्रं हि त्रयी लोक.यात्रा.विद इति ॥

अशा-०१.२.०६
दण्ड.नीतिर् एका विद्या_इत्य् औशनसाः ॥

अशा-०१.२.०७
तस्यां हि सर्व.विद्या.आरम्भाः प्रतिबद्धा इति ॥

अशा-०१.२.०८
चतस्र एव विद्या इति कौटिल्यः ॥

अशा-०१.२.०९
ताभिर् धर्म.अर्थौ यद् विद्यात् तद् विद्यानां विद्यात्वम् ॥

अशा-०१.२.१०
सांख्यं योगो लोकायतं च_इत्य् आन्वीक्षिकी ॥

अशा-०१.२.११
धर्म.अधर्मौ त्रय्याम् अर्थ.अनर्थौ वार्त्तायां नय.अनयौ दण्ड.नीत्यां बल.अबले च एतासां हेतुभिर् अन्वीक्षमाणा लोकस्य उपकरोति व्यसने_अभ्युदये च बुद्धिम् अवस्थापयति प्रज्ञा.वाक्य.क्रिया.वैशारद्यं च करोति ॥

अशा-०१.२.१२कख
प्रदीपः सर्व.विद्यानाम् उपायः सर्व.कर्मणाम् ।

अशा-०१.२.१२गघ
आश्रयः सर्व.धर्माणां शश्वद् आन्वीक्षिकी मता ॥


(Chap.3, section.1, (I) Establishing (the necessity of) the Vedic lore)

अशा-०१.३.०१
साम.ऋग्.यजुर्.वेदास् त्रयस् त्रयी ॥

अशा-०१.३.०२
अथर्व.वेद.इतिहास.वेदौ च वेदाः ॥

अशा-०१.३.०३
शिक्षा कल्पो व्याकरणं निरुक्तं छन्दो.विचितिर् ज्योतिषम् इति च_अङ्गानि ॥

अशा-०१.३.०४
एष त्रयी.धर्मश् चतुर्णां वर्णानाम् आश्रमाणां च स्व.धर्म.स्थापनाद् औपकारिकः ॥

अशा-०१.३.०५
स्वधर्मो ब्राह्मणस्य अध्ययनम् अध्यापनं यजनं याजनं दानं प्रतिग्रहश् च ॥

अशा-०१.३.०६
क्षत्रियस्य_अध्ययनं यजनं दानं शस्त्र.आजीवो भूत.रक्षणं च ॥

अशा-०१.३.०७
वैश्यस्य_अध्ययनं यजनं दानं कृषि.पाशुपाल्ये वणिज्या च ॥

अशा-०१.३.०८
शूद्रस्य द्विजाति.शुश्रूषा वार्त्ता कारु.कुशीलव.कर्म च ॥

अशा-०१.३.०९
गृहस्थस्य स्वधर्म.आजीवस् तुल्यैर् असमान.ऋषिभिर् वैवाह्यम् ऋतु.गामित्वं देव.पित्र्.अतिथि.पूजा भृत्येषु त्यागः शेष.भोजनं च ॥

अशा-०१.३.१०
ब्रह्म.चारिणः स्वाध्यायो अग्नि.कार्य.अभिषेकौ भैक्ष.व्रतित्वम् आचार्ये प्राण.अन्तिकी वृत्तिस् तद्.अभावे गुरु.पुत्रे स-ब्रह्म.चारिणि वा ॥

अशा-०१.३.११
वानप्रस्थस्य ब्रह्मचर्यं भूमौ शय्या जटा.अजिन.धारणम् अग्नि.होत्र.अभिषेकौ देवता.पित्र्.अतिथि.पूजा वन्यश् च_आहारः ॥

अशा-०१.३.१२
परिव्राजकस्य जित.इन्द्रियत्वम् अनारम्भो निष्किंचनत्वं सङ्ग.त्यागो भैक्षव्रतम् अनेकत्र_अरण्ये च वासो बाह्य.आभ्यन्तरं च शौचम् ॥

अशा-०१.३.१३
सर्वेषाम् अहिंसा सत्यं शौचम् अनसूय आनृशंस्यं क्षमा च ॥

अशा-०१.३.१४
स्वधर्मः स्वर्गाय_आनन्त्याय च ॥

अशा-०१.३.१५
तस्य_अतिक्रमे लोकः संकराद् उच्छिद्येत ॥

अशा-०१.३.१६कख
तस्मात् स्वधर्मं भूतानां राजा न व्यभिचारयेत् ।

अशा-०१.३.१६गघ
स्वधर्मं संदधानो हि प्रेत्य च_इह च नन्दति ॥

अशा-०१.३.१७कख
व्यवस्थित.आर्य.मर्यादः कृत.वर्ण.आश्रम.स्थितिः ।

अशा-०१.३.१७गघ
त्रय्या_अभिरक्षितो लोकः प्रसीदति न सीदति ॥


( Establishing (the necessity of) Economics, and the Science of Politics)

अशा-०१.४.०१
कृषि.पाशुपाल्ये वणिज्या च वार्ता, धान्य.पशु.हिरण्य.कुप्य.विष्टि.प्रदानाद् औपकारिकी ॥

अशा-०१.४.०२
तया स्व.पक्षं पर.पक्षं च वशी.करोति कोश.दण्डाभ्याम् ॥

अशा-०१.४.०३
आन्वीक्षिकी त्रयी वार्त्तानां योग.क्षेम.साधनो दण्डः, तस्य नीतिर् दण्ड नीतिः, अलब्ध.लाभ.अर्था लब्ध.परिरक्षणी रक्षित.विवर्धनी वृद्धस्य तीर्थे प्रतिपादनी च ॥

अशा-०१.४.०४
तस्याम् आयत्ता लोक.यात्रा ॥

अशा-०१.४.०५
"तस्माल् लोक.यात्रा.अर्थी नित्यम् उद्यत.दण्डः स्यात् ॥

अशा-०१.४.०६
न ह्य् एवंविधं वश.उपनयनम् अस्ति भूतानां यथा दण्डः ।" इत्य् आचार्याः ॥

अशा-०१.४.०७
न_इति कौटिल्यः ॥

अशा-०१.४.०८
तीक्ष्ण.दण्डो हि भूतानाम् उद्वेजनीयो भवति ॥

अशा-०१.४.०९
मृदु.दण्डः परिभूयते ॥

अशा-०१.४.१०
यथा.अर्ह.दण्डः पूज्यते ॥

अशा-०१.४.११
सुविज्ञात.प्रणीतो हि दण्डः प्रजा धर्म.अर्थ.कामैर् योजयति ॥

अशा-०१.४.१२
दुष्प्रणीतः काम.क्रोधाभ्याम् अवज्ञानाद् वा वानप्रस्थ.परिव्राजकान् अपि कोपयति, किं.अङ्ग पुनर् गृहस्थान् ॥

अशा-०१.४.१३
अप्रणीतस् तु मात्स्य.न्यायम् उद्भावयति ॥

अशा-०१.४.१४
बलीयान् अबलं हि ग्रसते दण्ड.धर.अभावे ॥

अशा-०१.४.१५
स तेन गुप्तः प्रभवति इति ॥

अशा-०१.४.१६कख
चतुर्.वर्ण.आश्रमो लोको राज्ञा दण्डेन पालितः ।

अशा-०१.४.१६गघ
स्वधर्म.कर्म.अभिरतो वर्तते स्वेषु वर्त्मसु ॥


(Section.2: Association with elders)

अशा-०१.५.०१
तस्माद् दण्ड.मूलास् तिस्रो विद्याः ॥

अशा-०१.५.०२
विनय.मूलो दण्डः प्राणभृतां योग.क्षेम.आवहः ॥

अशा-०१.५.०३
कृतकः स्वाभाविकश् च विनयः ॥

अशा-०१.५.०४
क्रिया हि द्रव्यं विनयति न_अद्रव्यम् ॥

अशा-०१.५.०५
शुश्रूषा श्रवण.ग्रहण.धारण.विज्ञान.ऊह.अपोह.तत्त्व.अभिनिविष्ट.बुद्धिं विद्या विनयति न_इतरम् ॥

अशा-०१.५.०६
विद्यानां तु यथास्वम् आचार्य.प्रामाण्याद् विनयो नियमश् च ॥

अशा-०१.५.०७
वृत्त.चौल.कर्मा लिपिं संख्यानं च_उपयुञ्जीत ॥

अशा-०१.५.०८
वृत्त.उपनयनस् त्रयीम् आन्वीक्षिकीं च शिष्टेभ्यो वार्त्ताम् अध्यक्षेभ्यो दण्ड.नीतिं वक्तृ.प्रयोक्तृभ्यः ॥

अशा-०१.५.०९
ब्रह्मचर्यं च षोडशाद् वर्षात् ॥

अशा-०१.५.१०
अतो गो.दानं दार.कर्म च_अस्य ॥

अशा-०१.५.११
नित्यश् च विद्या.वृद्ध.सम्योगो विनय.वृद्ध्य्.अर्थम्, तन्.मूलत्वाद् विनयस्य ॥

अशा-०१.५.१२
पूर्वम् अहर्.भागं हस्त्य्.अश्व.रथ.प्रहरण.विद्यासु विनयं गच्छेत् ।

अशा-०१.५.१३
पश्चिमम् इतिहास.श्रवणे ॥

अशा-०१.५.१४
पुराणम् इतिवृत्तम् आख्यायिक.उदाहरणं धर्म.शास्त्रम् अर्थ.शास्त्रं च_इति_इतिहासः ॥

अशा-०१.५.१५
शेषम् अहोरात्र.भागम् अपूर्व.ग्रहणं गृहीत.परिचयं च कुर्यात्, अगृहीतानाम् आभीक्ष्ण्य.श्रवणं च ॥

अशा-०१.५.१६
श्रुताद्द् हि प्रज्ञा_उपजायते प्रज्ञाया योगो योगाद् आत्मवत्ता_इति विद्यानां सामर्थ्यम् ॥

अशा-०१.५.१७कख
विद्या.विनीतो राजा हि प्रजानां विनये रतः ।

अशा-०१.५.१७गघ
अनन्यां पृथिवीं भुङ्क्ते सर्व.भूत.हिते रतः ॥


(Section.3: Control over the senses, (i) Casting out the group of six enemies)

अशा-०१.६.०१
विद्या विनय.हेतुर् इन्द्रिय.जयः काम.क्रोध.लोभ.मान.मद.हर्ष.त्यागात् कार्यः ॥

अशा-०१.६.०२
कर्ण.त्वग्.अक्षि.जिह्वा.घ्राण.इन्द्रियाणां शब्द.स्पर्श.रूप.रस.गन्धेष्व् अविप्रतिपत्तिर् इन्द्रिय.जयः, शास्त्र.अनुष्ठानं वा ॥

अशा-०१.६.०३
कृत्स्नं हि शास्त्रम् इदम् इन्द्रिय.जयः ॥

अशा-०१.६.०४
तद् विरुद्ध.वृत्तिर् अवश्य.इन्द्रियश् चातुरन्तो अपि राजा सद्यो विनश्यति ॥

अशा-०१.६.०५
यथा दाण्डक्यो नाम भोजः कामाद् ब्राह्मण.कन्याम् अभिमन्यमानः स-बन्धु.राष्ट्रो विननाश, करालश् च वैदेहः ॥

अशा-०१.६.०६
कोपाज् जनमेजयो ब्राह्मणेषु विक्रान्तः, ताल.जङ्घश् च भृगुषु ॥

अशा-०१.६.०७
लोभाद् ऐलश् चातुर्वर्ण्यम् अत्याहारयमाणः, सौवीरश् च_अजबिन्दुः ।

अशा-०१.६.०८
मानाद् रावणः पर.दारान् अप्रयच्छन्, दुर्योधनो राज्याद् अंशं च ॥

अशा-०१.६.०९
मदाद् दम्भोद्भवो भूत.अवमानी, हैहयश् च_अर्जुनः ॥

अशा-०१.६.१०
हर्षाद् वातापिर् अगस्त्यम् अत्यासादयन्, वृष्णि.संघश् च द्वैपायनम् इति ॥

अशा-०१.६.११कख
एते च_अन्ये च बहवः शत्रु.षड्.वर्गम् आश्रिताः ।

अशा-०१.६.११गघ
स-बन्धु.राष्ट्रा राजानो विनेशुर् अजित.इन्द्रियाः ॥

अशा-०१.६.१२कख
शत्रु.षड्.वर्गम् उत्सृज्य जामदग्न्यो जित.इन्द्रियः ।

अशा-०१.६.१२गघ
अम्बरीषश् च नाभागो बुभुजाते चिरं महीम् ॥


( The life of a sage-like king)

अशा-०१.७.०१
तस्माद् अरि.षड्.वर्ग.त्यागेन_इन्द्रिय.जयं कुर्वीत, वृद्ध.सम्योगेन प्रज्ञाम्, चारेण चक्षुः, उत्थानेन योग.क्षेम.साधनम्, कार्य.अनुशासनेन स्वधर्म.स्थापनम्, विनयं विद्या.उपदेशेन, लोक.प्रियत्वम् अर्थ.सम्योगेन वृत्तिम् ॥

अशा-०१.७.०२
एवं वश्य.इन्द्रियः पर.स्त्री.द्रव्य.हिंसाश् च वर्जयेत्, स्वप्नं लौल्यम् अनृतम् उद्धत.वेषत्वम् अनर्थ्य.सम्योगम् अधर्म.सम्युक्तम् अनर्थ.सम्युक्तं च व्यवहारम् ॥

अशा-०१.७.०३
धर्म.अर्थ.अविरोधेन कामं सेवेत, न निह्सुखः स्यात् ॥

अशा-०१.७.०४
समं वा त्रिवर्गम् अन्योन्य.अनुबद्धम् ॥

अशा-०१.७.०५
एको ह्य् अत्यासेवितो धर्म.अर्थ.कामानाम् आत्मानम् इतरौ च पीडयति ॥

अशा-०१.७.०६
अर्थ_एव प्रधान_इति कौटिल्यः ॥

अशा-०१.७.०७
अर्थ.मूलौ हि धर्म.कामाव् इति ॥

अशा-०१.७.०८
मर्यादां स्थापयेद् आचार्यान् अमात्यान् वा, य_एनम् अपाय स्थानेभ्यो वारयेयुः, छाया.नालिका.प्रतोदेन वा रहसि प्रमाद्यन्तम् अभितुदेयुः ॥

अशा-०१.७.०९कख
सहाय.साध्यं राजत्वं चक्रम् एकं न वर्तते ।

अशा-०१.७.०९गघ
कुर्वीत सचिवांस् तस्मात् तेषां च शृणुयान् मतम् ॥


(Appointment of ministers)

अशा-०१.८.०१
"सह.अध्यायिनो अमात्यान् कुर्वीत, दृष्ट.शौच.सामर्थ्यत्वात्" इति भारद्वाजः ॥

अशा-०१.८.०२
"ते ह्य् अस्य विश्वास्या भवन्ति" इति ॥

अशा-०१.८.०३
न_इति विशाल.अक्षः ॥

अशा-०१.८.०४
"सह.क्रीडितत्वात् परिभवन्त्य् एनम् ॥

अशा-०१.८.०५
ये ह्य् अस्य गुह्य.सधर्माणस् तान् अमात्यान् कुर्वीत, समान.शील.व्यसनत्वात् ॥

अशा-०१.८.०६
ते ह्य् अस्य मर्मज्ञ.भयान् न_अपराध्यन्ति" इति ॥

अशा-०१.८.०७
"साधारण_एष दोषः" इति पाराशराः ॥

अशा-०१.८.०८
"तेषाम् अपि मर्मज्ञ.भयात् कृत.अकृतान्य् अनुवर्तेत ॥

अशा-०१.८.०९कख
यावद्भ्यो गुह्यम् आचष्टे जनेभ्यः पुरुष.अधिपः ।

अशा-०१.८.०९गघ
अवशः कर्मणा तेन वश्यो भवति तावताम् ॥

अशा-०१.८.१०
य_एनम् आपत्सु प्राण.आबाध.युक्तास्व् अनुगृह्णीयुस् तान् अमात्यान् कुर्वीत, दृष्ट.अनुरागत्वात्" इति ॥

अशा-०१.८.११
न_इति पिशुनः ॥

अशा-०१.८.१२
"भक्तिर् एषा न बुद्धि.गुणः ॥

अशा-०१.८.१३
संख्यात.अर्थेषु कर्मसु नियुक्ता ये यथा.आदिष्टम् अर्थं सविशेषं वा कुर्युस् तान् अमात्यान् कुर्वीत, दृष्ट.गुणत्वात्" इति ॥

अशा-०१.८.१४
न_इति कौणपदन्तः ॥

अशा-०१.८.१५
"अन्यैर् अमात्य.गुणैर् अयुक्ता ह्य् एते ॥

अशा-०१.८.१६
पितृ.पैतामहान् अमात्यान् कुर्वीत, दृष्ट.अवदानत्वात् ॥

अशा-०१.८.१७
ते ह्य् एनम् अपचरन्तम् अपि न त्यजन्ति, सगन्धत्वात् ॥

अशा-०१.८.१८
अमानुषेष्व् अपि च_एतद् दृश्यते ॥

अशा-०१.८.१९
गावो ह्य् असगन्धं गो.गणम् अतिक्रम्य सगन्धेष्व् एव_अवतिष्ठन्ते" इति ॥

अशा-०१.८.२०
न_इति वातव्याधिः ॥

अशा-०१.८.२१
"ते ह्य् अस्य सर्वम् अवगृह्य स्वामिवत् प्रचरन्ति ॥

अशा-०१.८.२२
तस्मान् नीतिविदो नवान् अमात्यान् कुर्वीत ॥

अशा-०१.८.२३
नवास् तु यम.स्थाने दण्ड.धरं मन्यमाना न_अपराध्यन्ति" इति ॥

अशा-०१.८.२४
न_इति बाहु.दन्ती पुत्रः ॥

अशा-०१.८.२५
"शास्त्रविद् अदृष्ट.कर्मा कर्मसु विषादं गच्छेत् ॥

अशा-०१.८.२६
तस्माद् अभिजन.प्रज्ञा.शौच.शौर्य.अनुराग.युक्तान् अमात्यान् कुर्वीत, गुण.प्राधान्यात्" इति ॥

अशा-०१.८.२७
सर्वम् उपपन्नम् इति कौटिल्यः ॥

अशा-०१.८.२८
कार्य.सामर्थ्याद्द् हि पुरुष.सामर्थ्यं कल्प्यते ॥

अशा-०१.८.२९कख
सामर्थ्यश् च -- विभज्य_अमात्य.विभवं देश.कालौ च कर्म च ।

अशा-०१.८.२९गघ
अमात्याः सर्व एव_एते कार्याः स्युर् न तु मन्त्रिणः ॥


(Appointment of counsellors and chaplain)

अशा-०१.९.०१
जानपदो अभिजातः स्ववग्रहः कृत.शिल्पश् चक्षुष्मान् प्राज्ञो धारयिष्णुर् दक्षो वाग्मी प्रगल्भः प्रतिपत्तिमान् उत्साह.प्रभाव.युक्तः क्लेश.सहः शुचिर् मैत्रो दृढ.भक्तिः शील.बल.आरोग्य.सत्त्व.युक्तः स्तम्भ.चापल.हीनः सम्प्रियो वैराणाम् अकर्ता_इत्य् अमात्य.सम्पत् ॥

अशा-०१.९.०२
अतः पाद.अर्घ.गुण.हीनौ मध्यम.अवरौ ॥

अशा-०१.९.०३
तेषां जनपद्.अभिजनम् अवग्रहं च_आप्ततः परीक्षेत, समान.विद्येभ्यः शिल्पं शास्त्र.चक्षुष्मत्तां च, कर्म.आरम्भेषु प्रज्ञां धारयिष्णुतां दाक्ष्यं च, कथा.योगेषु वाग्मित्वं प्रागल्भ्यं प्रतिभानवत्त्वं च, संवासिभ्यः शील.बल.आरोग्य.सत्त्व.योगम् अस्तम्भम् अचापलं च, प्रत्यक्षतः सम्प्रियत्वम् अवैरत्वं च ॥

अशा-०१.९.०४
प्रत्यक्ष.परोक्ष.अनुमेया हि राज.वृत्तिः ॥

अशा-०१.९.०५
स्वयं द्र्ष्टं प्रत्यक्षम् ॥

अशा-०१.९.०६
पर.उपदिष्टं परोक्षम् ॥

अशा-०१.९.०७
कर्मसु कृतेन_अकृत.अवेक्षणम् अनुमेयम् ॥

अशा-०१.९.०८
यौगपद्यात् तु कर्मणाम् अनेकत्वाद् अनेकस्थत्वाच् च देश.काल.अत्ययो मा भूद् इति परोक्षम् अमात्यैः कारयेत् ॥ इत्य् अमात्य.कर्म ।

अशा-०१.९.०९
पुरोहितम् उदित.उदित.कुल.शीलं स-अङ्गे वेदे दैवे निमित्ते दण्ड.नीत्यां च_अभिविनीतम् आपदां दैव.मानुषीणाम् अथर्वभिर् उपायैश् च प्रतिकर्तारं कुर्वीत ॥

अशा-०१.९.१०
तम् आचार्यं शिष्यः पितरं पुत्रो भृत्यः स्वामिनम् इव च_अनुवर्तेत ॥

अशा-०१.९.११कख
ब्राह्मणेन_एधितं क्षत्रं मन्त्रि.मन्त्र.अभिमन्त्रितम् ।

अशा-०१.९.११गघ
जयत्य् अजितम् अत्यन्तं शास्त्र.अनुगम.शस्त्रितम् ॥


(Ascertainment of the integrity or the absence of integrity of minister by means of secret tests)

अशा-०१.१०.०१
मन्त्रि.पुरोहित.सखः सामान्येष्व् अधिकरणेषु स्थापयित्वा_अमात्यान् उपधाभिः शोधयेत् ॥

अशा-०१.१०.०२
पुरोहितम् अयाज्य.याजन.अध्यापने नियुक्तम् अमृष्यमाणं राजा_अवक्षिपेत् ॥

अशा-०१.१०.०३
स सत्त्रिभिः शपथ.पूर्वम् एकैकम् अमात्यम् उपजापयेत् - "अधार्मिको अयं राजा, साधु धार्मिकम् अन्यम् अस्य तत्.कुलीनम् अपरुद्धं कुल्यम् एक.प्रग्रहं सामन्तम् आटविकम् औपपादिकं वा प्रतिपादयामः, सर्वेषाम् एतद् रोचते, कथं वा तव" इति ॥

अशा-०१.१०.०४
प्रत्याख्याने शुचिः । इति धर्म.उपधा ॥

अशा-०१.१०.०५
सेना.पतिर् असत्.प्रग्रहेण_अवक्षिप्तः सत्त्रिभिर् एकैकम् अमात्यम् उपजापयेत् लोभनीयेन_अर्थेन राज.विनाशाय, "सर्वेषाम् एतद् रोचते, कथं वा तव" इति ॥

अशा-०१.१०.०६
प्रत्याख्याने शुचिः । इत्य् अर्थ.उपधा ॥

अशा-०१.१०.०७
परिव्राजिका लब्ध.विश्वासा_अन्तःपुरे कृत.सत्कारा महा.मात्रम् एकैकम् उपजपेत् - "राज.महिषी त्वां कामयते कृत.समागम.उपाया, महान् अर्थश् च ते भविष्यति" इति ॥

अशा-०१.१०.०८
प्रत्याख्याने शुचिः । इति काम.उपधा ॥

अशा-०१.१०.०९
प्रहवण.निमित्तम् एको अमात्यः सर्वान् अमात्यान् आवाहयेत् ॥

अशा-०१.१०.१०
तेन_उद्वेगेन राजा तान् अवरुन्ध्यात् ॥

अशा-०१.१०.११
कापटिकश् च_अत्र पूर्व.अवरुद्धस् तेषाम् अर्थ.मान.अवक्षिप्तम् एकैकम् अमात्यम् उपजपेत् - "असत् प्रवृत्तो अयं राजा, साध्व् एनं हत्वा_अन्यं प्रतिपादयामः, सर्वेषाम् एतद् रोचते, कथं वा तव" इति ॥

अशा-०१.१०.१२
प्रत्याख्याने शुचिः । इति भय.उपधा ॥

अशा-०१.१०.१३
तत्र धर्म.उपधा.शुद्धान् धर्म.स्थीय.कण्टक.शोधनेषु कर्मसु स्थापयेत्, अर्थ.उपधा.शुद्धान् समाहर्तृ.सम्निधातृ.निचय.कर्मसु, काम.उपधा शुद्धान् बाह्य.आभ्यन्तर.विहार.रक्षासु, भय.उपधा.शुद्धान् आसन्न.कार्येषु राज्ञः ॥

अशा-०१.१०.१४
सर्व.उपधा.शुद्धान् मन्त्रिणः कुर्यात् ॥

अशा-०१.१०.१५
सर्वत्र_अशुचीन् खनि.द्रव्य.हस्ति.वन.कर्म.अन्तेषु उपयोजयेत् ॥

अशा-०१.१०.१६कख
त्रिवर्ग.भय.संशुद्धान् अमात्यान् स्वेषु कर्मसु ।

अशा-०१.१०.१६गघ
अधिकुर्याद् यथा शौचम् इत्य् आचार्या व्यवस्थिताः ॥

अशा-०१.१०.१७कख
न त्व् एव कुर्याद् आत्मानं देवीं वा लक्ष्यम् ईश्वरः ।

अशा-०१.१०.१७गघ
शौच.हेतोर् अमात्यानाम् एतत् कौटिल्य.दर्शनम् ॥

अशा-०१.१०.१८कख
न दूषणम् अदुष्टस्य विषेण_इव_अम्भसश् चरेत् ।

अशा-०१.१०.१८गघ
कदाचिद्द् हि प्रदुष्टस्य न_अधिगम्येत भेषजम् ॥

अशा-०१.१०.१९कख
कृता च कलुषा.बुद्धिर् उपधाभिश् चतुर्विधा ।

अशा-०१.१०.१९गघ
न_अगत्वा_अन्तं निवर्तेत स्थिता सत्त्ववतां धृतौ ॥

अशा-०१.१०.२०कख
तस्माद् बाह्यम् अधिष्ठानं कृत्वा कार्ये चतुर्विधे ।

अशा-०१.१०.२०गघ
शौच.अशौचम् अमात्यानां राजा मार्गेत सत्त्रिभिः ॥



(Appointment of persons in secret service)

अशा-०१.११.०१
उपधाभिः शुद्ध.अमात्य.वर्गो गूढ.पुरुषान् उत्पादयेत् कापटिक.उदास्थित.गृह.पतिक.वैदेहक.तापस.व्यञ्जनान् सत्त्रि.तीष्क्ण.रसद.भिक्षुकीश् च ॥

अशा-०१.११.०२
पर.मर्मज्ञः प्रगल्भश् छात्रः कापटिकः ॥

अशा-०१.११.०३
तम् अर्थ.मानाभ्यां प्रोत्साह्य मन्त्री ब्रूयात् - "राजानं मां च प्रमाणं कृत्वा यस्य यद् अकुशलं पश्यसि तत् तदानीम् एव प्रत्यादिश" इति ॥

अशा-०१.११.०४
प्रव्रज्या प्रत्यवसितः प्रज्ञा.शौच.युक्त उदास्थितः ॥

अशा-०१.११.०५
स वार्त्ता.कर्म.प्रदिष्टायां भूमौ प्रभूत.हिरण्य.अन्तेवासी कर्म कारयेत् ॥

अशा-०१.११.०६
कर्म.फलाच् च सर्व.प्रव्रजितानां ग्रास.आच्छादन.आवसथान् प्रतिविदध्यात् ॥

अशा-०१.११.०७
वृत्ति.कामांश् च_उपजपेत् - "एतेन_एव वेषेण राज.अर्थश् चरितव्यो भक्त.वेतन.काले च_उपस्थातव्यम्" इति ॥

अशा-०१.११.०८
सर्व.प्रव्रजिताश् च स्वं स्वं वर्गम् एवम् उपजपेयुः ॥

अशा-०१.११.०९
कर्षको वृत्ति.क्षीणः प्रज्ञा.शौच.युक्तो गृह.पतिक.व्यञ्जनः ॥

अशा-०१.११.१०
स कृषि.कर्म.प्रदिष्टायां भूमौ - इति समानं पूर्वेण ॥

अशा-०१.११.११
वाणिजको वृत्ति.क्षीणः प्रज्ञा.शौच.युक्तो वैदेहक.व्यञ्जनः ॥

अशा-०१.११.१२
स वणिक्.कर्म.प्रदिष्टायां भूमौ - इति समानं पूर्वेण ॥

अशा-०१.११.१३
मुण्डो जटिलो वा वृत्ति.कामस् तापस.व्यञ्जनः ॥

अशा-०१.११.१४
स नगर.अभ्याशे प्रभूत.मुण्ड.जटिल.अन्तेवासी शाकं यव.मुष्टिं वा मास.द्विमास.अन्तरं प्रकाशम् अश्नीयात्, गूढम् इष्टम् आहारम् ॥

अशा-०१.११.१५
वैदेहक.अन्तेवासिनश् च_एनं समिद्ध.योगैर् अर्चयेयुः ॥

अशा-०१.११.१६
शिष्याश् च_अस्य_आवेदयेयुः - "असौ सिद्धः सामेधिकः" इति ॥

अशा-०१.११.१७
समेध.आशास्तिभिश् च_अभिगतानाम् अङ्ग.विद्यया शिष्य.संज्ञाभिश् च कर्माण्य् अभिजने अवसितान्य् आदिशेत् - अल्प.लाभम् अग्नि.दाहं चोर.भयं दूष्य.वधं तुष्टि.दानं विदेश.प्रवृत्ति.ज्ञानम्, "इदम् अद्य श्वो वा भविष्यति, इदं वा राजा करिष्यति" इति ॥

अशा-०१.११.१८
तद् अस्य गूढाः सत्त्रिणश् च सम्पादयेयुः ॥

अशा-०१.११.१९
सत्त्व.प्रज्ञा.वाक्य.शक्ति.सम्पन्नानां राज.भाग्यम् अनुव्याहरेत्, मन्त्रि.सम्योगं च ब्रूयात् ॥

अशा-०१.११.२०
मन्त्री च_एषां वृत्ति.कर्मभ्यां वियतेत ॥

अशा-०१.११.२१
ये च कारणाद् अभिक्रुद्धास् तान् अर्थ.मानाभ्यां शमयेत्, अकारण.क्रुद्धांस् तूष्णीं दण्डेन, राज.द्विष्ट.कारिणश् च ॥

अशा-०१.११.२२कख
पूजिताश् च_अर्थ.मानाभ्यां राज्ञा राज.उपजीविनाम् ।

अशा-०१.११.२२गघ
जानीयुः शौचम् इत्य् एताः पञ्च.संस्थाः प्रकीर्तिताः ॥


(Appointment of roving spies rules for secret servants)

अशा-०१.१२.०१
ये च_अप्य् अस्मबन्धिनो अवश्य.भर्तव्यास् ते लक्षणम् अङ्ग.विद्यां जम्भक.विद्यां माया.गतम् आश्रम.धर्मं निमित्तम् अन्तर.चक्रम् इत्य् अधीयानाः सत्त्रिणः, संसर्ग.विद्यां च ॥

अशा-०१.१२.०२
ये जनपदे शूरास् त्यक्त.आत्मानो हस्तिनं व्यालं वा द्रव्य.हेतोः प्रतियोधयेयुस् ते तीक्ष्णाः ॥

अशा-०१.१२.०३
ये बन्धुषु निह्स्नेहाः क्रूरा अलसाश् च ते रसदाः ॥

अशा-०१.१२.०४
परिव्राजिका वृत्ति.कामा दरिद्रा विधवा प्रगल्भा ब्राह्मण्य् अन्तःपुरे कृत.सत्कारा महा.मात्र.कुलान्य् अभिगच्छेत् ॥

अशा-०१.१२.०५
एतया मुण्डा वृषल्यो व्याख्याताः ॥ इति संचाराः ।

अशा-०१.१२.०६
तान् राजा स्व.विषये मन्त्रि.पुरोहित.सेना.पति.युव.राज.दौवारिक.अन्तर्वंशिक.प्रशास्तृ.समाहर्तृ.सम्निधातृ.प्रदेष्टृ.नायक.पौर.व्यावहारिक.कार्मान्तिक.मन्त्रि.परिषद्.अध्यक्ष.दण्ड.दुर्ग.अन्तपाल.आटविकेषु श्रद्धेय.देश.वेष.शिल्प.भाषा.अभिजन.अपदेशान् भक्तितः सामर्थ्य.योगाच् च_अपसर्पयेत् ॥

अशा-०१.१२.०७
तेषां बाह्यं चारं छत्र.भृङ्गार.व्यजन.पादुक.आसन.यान.वाहन.उपग्राहिणस् तीक्ष्णा विद्युः ॥

अशा-०१.१२.०८
तं सत्त्रिणः संस्थास्व् अर्पयेयुः ॥

अशा-०१.१२.०९
सूद.आरालिक.स्नापक.संवाहक.आस्तरक.कल्पक.प्रसाधक.उदक.परिचारका रसदाः कुब्ज.वामन.किरात.मूक.बधिर.जड.अन्धच्.छद्मानो नट.नर्तक.गायन.वादक.वाग्.जीवन.कुशीलवाः स्त्रियश् च_आभ्यन्तरं चारं विद्युः ॥

अशा-०१.१२.१०
तं भिक्ष्क्यः संस्थास्व् अप्रयेयुः ॥

अशा-०१.१२.११
संस्थानाम् अन्तेवासिनः संज्ञा.लिपिभिश् चार.संचारं कुर्युः ॥

अशा-०१.१२.१२
न च_अन्योन्यं संस्थास् ते वा विद्युः ॥

अशा-०१.१२.१३
भिक्षुकी.प्रतिषेधे द्वाह्स्थ.परम्परा माता.पितृ.व्यञ्जनाः शिल्प.कारिकाः कुशीलवा दास्यो वा गीत.पाठ्य.वाद्य.भाण्ड.गूढ.लेख्य.संज्ञाभिर् वा चारं निर्हरेयुः.//

अशा-०१.१२.१४
दीर्घ.रोग.उन्माद.अग्नि.रस.विसर्गेण वा गूढ.निर्गमनम् ॥

अशा-०१.१२.१५
त्रयाणाम् एक.वाक्ये सम्प्रत्ययः ॥

अशा-०१.१२.१६
तेषाम् अभीक्ष्ण.विनिपाते तूष्णीं.दण्डः प्रतिषेधः ॥

अशा-०१.१२.१७
कण्टक.शोधन.उक्ताश् च_अपसर्पाः परेषु कृत.वेतना वसेयुर् असम्पातिनश् चार.अर्थम् ॥

अशा-०१.१२.१८
त उभय.वेतनाः ॥

अशा-०१.१२.१९कख
गृहीत.पुत्र.दारांश् च कुर्याद् उभय.वेतनान् ।

अशा-०१.१२.१९गघ
तांश् च_अरि.प्रहितान् विद्यात् तेषां शौचं च तद्विधैः ॥

अशा-०१.१२.२०कख
एवं शत्रौ च मित्रे च मध्यमे च_आवपेच् चरान् ।

अशा-०१.१२.२०गघ
उदासीने च तेषां च तीर्थेष्व् अष्टादशस्व् अपि ॥

अशा-०१.१२.२१कख
अन्तर्.गृह.चरास् तेषां कुब्ज.वामन.पण्डकाः ।

अशा-०१.१२.२१गघ
शिल्पवत्यः स्त्रियो मूकाश् चित्राश् च म्लेच्छ.जातयः ॥

अशा-०१.१२.२२कख
दुर्गेषु वणिजः संस्था दुर्ग.अन्ते सिद्ध.तापसाः ।

अशा-०१.१२.२२गघ
कर्षक.उदास्थिता राष्ट्रे राष्ट्र.अन्ते व्रज.वासिनः ॥

अशा-०१.१२.२३कख
वने वन.चराः कार्याः श्रमण.आटविक.आदयः ।

अशा-०१.१२.२३गघ
पर.प्रवृत्ति.ज्ञान.अर्थाः शीघ्राश्.चार.परम्पराः ॥

अशा-०१.१२.२४कख
परस्य च_एते बोद्धव्यास् तादृशैर् एव तादृशाः ।

अशा-०१.१२.२४गघ
चार.संचारिणः संस्था गूढाश् च_अगूढ.संज्ञिताः ॥

अशा-०१.१२.२५कख
अकृत्यान् कृत्य.पक्षीयैर् दर्शितान् कार्य.हेतुभिः ।

अशा-०१.१२.२५गघ
पर.अपसर्प.ज्ञान.अर्थं मुख्यान् अन्तेषु वासयेत् ॥


(Keeping a watch over the seducible and non-seducible parties in one's own territory)

अशा-०१.१३.०१
कृत.महा.मात्र.अपसर्पः पौर.जानपदान् अपसर्पयेत् ॥

अशा-०१.१३.०२
सत्त्रिणो द्वन्द्विनस् तीर्थ.सभा.पूग.जन.समवायेषु विवादं कुर्युः ॥

अशा-०१.१३.०३
"सर्व.गुण.सम्पन्नश् च_अयं राजा श्रूयते, न च_अस्य कश्चिद् गुणो दृश्यते यः पौर.जानपदान् दण्ड.कराभ्यां पीडयति" इति ॥

अशा-०१.१३.०४
तत्र ये_अनुप्रशंसेयुस् तान् इतरस् तं च प्रतिषेधयेत् ॥

अशा-०१.१३.०५
"मात्स्य.न्याय.अभिभूताः प्रजा मनुं वैवस्वतं राजानं चक्रिरे ॥

अशा-०१.१३.०६
धान्य.षड्.भागं पण्य.दश.भागं हिरण्यं च_अस्य भाग.धेयं प्रकल्पयाम्-आसुः ॥

अशा-०१.१३.०७
तेन भृता राजानः प्रजानां योग.क्षेम.आवहाः ॥

अशा-०१.१३.०८
तेषां किल्बिषम् अदण्ड.करा हरन्त्य् अयोग.क्षेम.आवहाश् च प्रजानाम् ॥

अशा-०१.१३.०९
तस्माद् उञ्छ.षड्.भागम् आरण्यका_अपि निर्वपन्ति - "तस्य_एतद् भाग.धेयं यो_अस्मान् गोपायति" इति ॥

अशा-०१.१३.१०
इन्द्र.यम.स्थानम् एतद् राजानः प्रत्यक्ष.हेड.प्रसादाः ॥

अशा-०१.१३.११
तान् अवमन्यमानान् दैवो_अपि दण्डः स्पृशति ॥

अशा-०१.१३.१२
तस्माद् राजानो न_अवमन्तव्याः ॥

अशा-०१.१३.१३
इत्य् एवं क्षुद्रकान् प्रतिषेधयेत् ॥

अशा-०१.१३.१४
किं.वदन्तीं च विद्युः ॥

अशा-०१.१३.१५
ये च_अस्य धान्य.पशु.हिरण्यान्य् आजीवन्ति, तैर् उपकुर्वन्ति व्यसने_अभ्युदये वा, कुपितं बन्धुं राष्ट्रं वा व्यावर्तयन्ति, अमित्रम् आटविकं वा प्रतिषेधयन्ति, तेषां मुण्ड.जटिल.व्यञ्जनास् तुष्ट.अतुष्टत्वं विद्युः ॥

अशा-०१.१३.१६
तुष्टान् भूयो_अर्थ.मानाभ्यां पूजयेत् ॥

अशा-०१.१३.१७
अतुष्टांस् तुष्टि.हेतोस् त्यागेन साम्ना च प्रसादयेत् ॥

अशा-०१.१३.१८
परस्पराद् वा भेदयेद् एनान्, सामन्त.आटविक.तत्.कुलीन.अपरुद्धेभ्यश् च ॥

अशा-०१.१३.१९
तथा_अप्य् अतुष्यतो दण्ड.कर.साधन.अधिकारेण जनपद.विद्वेषं ग्राहयेत् ॥

अशा-०१.१३.२०
विविष्टान् उपांशु.दण्डेन जनपद.कोपेन वा साधयेत् ॥

अशा-०१.१३.२१
गुप्त.पुत्र.दारान् आकर.कर्म.अन्तेषु वा वासयेत् परेषाम् आस्पद.भयात् ॥

अशा-०१.१३.२२
क्रुद्ध.लुब्ध.भीत.मानिनस् तु परेषां कृत्याः ॥

अशा-०१.१३.२३
तेषां कार्तान्तिक.नैमित्तिक.मौहूर्तिक.व्यञ्जनाः परस्पर.अभिसम्बन्धम् अमित्र.आटविक.सम्बन्धं वा विद्युः ॥

अशा-०१.१३.२४
तुष्टान् अर्थ.मानाभ्यां पूजयेत् ।

अशा-०१.१३.२५
अतुष्टान् साम.दान.भेद.दण्डैः साधयेत् ॥

अशा-०१.१३.२६कख
एवं स्व.विषये कृत्यान् अकृत्यांश् च विचक्षणः ।

अशा-०१.१३.२६गघ
पर.उपजापात् सम्रक्षेत् प्रधानान् क्षुद्रकान् अपि ॥



(Winning over the seducible and non-seducible parties in the enemy"s territory)

अशा-०१.१४.०१
कृत्य.अकृत्य.पक्ष.उपग्रहः स्व.विषये व्याख्यातः, पर.विषये वाच्यः ॥

अशा-०१.१४.०२
संश्रुत्य_अर्थान् विप्रलब्धः, तुल्य.कारिणोः शिल्पे वा_उपकारे वा विमानितः, वल्लभ.अवरुद्धः, समाहूय पराजितः, प्रवास.उपतप्तः, कृत्वा व्ययम् अलब्ध.कार्यः, स्वधर्माद् दायाद्याद् वा_उपरुद्धः, मान.अधिकाराभ्यां भ्रष्टः, कुल्यैर् अन्तर्हितः, प्रसभ.अभिमृष्ट.स्त्रीकः, कार.अभिन्यस्तः, पर.उक्त.दण्डितः, मिथ्या.आचार.वारितः, सर्व.स्वम् आहारितः, बन्धन.परिक्लिष्टः, प्रवासित.बन्धुः - इति क्रुद्ध.वर्गः ॥

अशा-०१.१४.०३
स्वयम् उपहतः, विप्रकृतः, पाप.कर्म.अभिख्यातः, तुल्य.दोष.दण्डेन_उद्विग्नः, पर्यात्त.भूमिः, दण्डेन_उपनतः, सर्व.अधिकरणस्थः, सहसा.उपचित.अर्थः, तत्.कुलीन.उपाशंसुः, प्रद्विष्टो राज्ञा, राज.द्वेषी च - इति भीत.वर्गः ॥

अशा-०१.१४.०४
परिक्षीणः, अन्य.आत्त.स्वः, कदर्यः, व्यसनी, अत्याहित.व्यवहारश् च - इति लुब्ध.वर्गः ॥

अशा-०१.१४.०५
आत्म.सम्भावितः, मान.कामः, शत्रु.पूजा.अमर्षितः, नीचैर् उपहितः, तीक्ष्णः, साहसिकः, भोगेन_असंतुष्टः - इति मानि.वर्गः ॥

अशा-०१.१४.०६
तेषां मुण्ड.जटिल.व्यञ्जनैर् यो यद्.भक्तिः कृत्य.पक्षीयस् तं तेन_उपजापयेत् ॥

अशा-०१.१४.०७
"यथा मद.अन्धो हस्ती मत्तेन_अधिष्ठितो यद् यद् आसादयति तत् सर्वं प्रमृद्नाति, एवम् अयम् अशास्त्र.चक्षुर् अन्धो राजा पौर.जानपद.वधाय_अभ्युत्थितः, शक्यम् अस्य प्रतिहस्ति.प्रोत्साहनेन_अपकर्तुम्, अमर्षः क्रियताम्" इति क्रुद्ध.वर्गम् उपजापयेत् ॥

अशा-०१.१४.०८
"यथा लीनः सर्पो यस्माद् भयं पश्यति तत्र विषम् उत्सृजति, एवम् अयं राजा जात.दोष.आशङ्कस् त्वयि पुरा क्रोध.विषम् उत्सृजति, अन्यत्र गम्यताम्" इति भीत.वर्गं.उपजापयेत् ॥

अशा-०१.१४.०९
"यथा श्व.गणिनां धेनुः श्वभ्यो दुह्यते न ब्राह्मणेभ्यः, एवम् अयं राजा सत्त्व.प्रज्ञा.वाक्य.शक्ति.हीनेभ्यो दुह्यते न_आत्म.गुण.सम्पन्नेभ्यः, असौ राजा पुरुष.विशेषज्ञः, तत्र गम्यताम्" इति लुब्ध.वर्गं.उपजापयेत् ॥

अशा-०१.१४.१०
"यथा चण्डाल.उद.पानश् चण्डालानाम् एव_उपभोग्यो न_अन्येषाम्, एवम् अयं राजा नीचो नीचानाम् एव_उपभोग्यो न त्वद्विधानाम् आर्याणाम्, असौ राजा पुरुष.विशेषज्ञः, तत्र गम्यताम्" इति मानि.वर्गम् उपजापयेत् ॥

अशा-०१.१४.११कख
तथा_इति प्रतिपन्नांस् तान् संहितान् पण.कर्मणा ।

अशा-०१.१४.११गघ
योजयेत यथा.शक्ति स-अपसर्पान् स्व.कर्मसु ॥

अशा-०१.१४.१२कख
लभेत साम.दानाभ्यां कृत्यांश् च पर.भूमिषु ।

अशा-०१.१४.१२गघ
अकृत्यान् भेद.दण्डाभ्यां पर.दोषांश् च दर्शयन् ॥


(The topic of counsel)

अशा-०१.१५.०१
कृत.स्व.पक्ष.पर.पक्ष.उपग्रहः कार्य.आरम्भांश् चिन्तयेत् ॥

अशा-०१.१५.०२
मन्त्र.पूर्वाः सर्व.आरम्भाः ॥

अशा-०१.१५.०३
तद्.उद्देशः संवृतः कथानाम् अनिह्श्रावी पक्षिभिर् अप्य् अनालोक्यः स्यात् ।

अशा-०१.१५.०४
श्रूयते हि शुक.सारिकाभिर् मन्त्रो भिन्नः, श्वभिर् अप्य् अन्यैश् च तिर्यग्.योनिभिर् इति ॥

अशा-०१.१५.०५
तस्मान् मन्त्र.उद्देशम् अनायुक्तो न_उपगच्छेत् ॥

अशा-०१.१५.०६
उच्छिद्येत मन्त्र.भेदी ॥

अशा-०१.१५.०७
मन्त्र.भेदो हि दूत.अमात्य.स्वामिनाम् इङ्गित.आकाराभ्याम् ॥

अशा-०१.१५.०८
इङ्गितम् अन्यथा.वृत्तिः ॥

अशा-०१.१५.०९
आकृति.ग्रहणम् आकारः ॥

अशा-०१.१५.१०
तस्य संवरणम् आयुक्त.पुरुष.रक्षणम् आ.कार्य.कालाद् इति ॥

अशा-०१.१५.११
तेषां हि प्रमाद.मद.सुप्त.प्रलापाः, काम.आदिर् उत्सेकः, प्रच्छन्नो_अवमतो वा मन्त्रं भिनत्ति ॥

अशा-०१.१५.१२
तस्माद् आद्रक्षेन् मन्त्रम् ॥

अशा-०१.१५.१३
"मन्त्र.भेदो ह्य् अयोग.क्षेम.करो राज्ञस् तद्.आयुक्त.पुरुषाणां च ॥

अशा-०१.१५.१४
तस्माद् गुह्यम् एको मन्त्रयेत" इति भारद्वाजः ॥

अशा-०१.१५.१५
"मन्त्रिणाम् अपि हि मन्त्रिणो भवन्ति, तेषाम् अप्य् अन्ये ॥

अशा-०१.१५.१६
सा_एषा मन्त्रि.परम्परा मन्त्रं भिनत्ति ॥

अशा-०१.१५.१७कख
"तस्मान् न_अस्य परे विद्युः कर्म किंचिच् चिकीर्षितम् ।

अशा-०१.१५.१७गघ
आरब्धारस् तु जानीयुर् आरब्धं कृतम् एव वा ॥

अशा-०१.१५.१८
"न_एकस्य मन्त्र.सिद्धिर् अस्ति" इति विशाल.अक्षः ॥

अशा-०१.१५.१९
"प्रत्यक्ष.परोक्ष.अनुमेया हि राज.वृत्तिः ॥

अशा-०१.१५.२०
अनुपलब्धस्य ज्ञानम् उपलब्धस्य निश्चित.बल.आधानम् अर्थ.द्वैधस्य संशयच्.छेदनम् एक.देश.दृष्टस्य शेष.उपलब्धिर् इति मन्त्रि.साध्यम् एतत् ॥

अशा-०१.१५.२१
तस्माद् बुद्धि.वृद्धैः सार्धम् अध्यासीत मन्त्रम् ॥

अशा-०१.१५.२२कख
"न कंचिद् अवमन्येत सर्वस्य शृणुयान् मतम् ।

अशा-०१.१५.२२गघ
बालस्य_अप्य् अर्थवद्.वाक्यम् उपयुञ्जीत पण्डितः ॥"

अशा-०१.१५.२३
"एतन् मन्त्र.ज्ञानम्, न_एतन् मन्त्र.रक्षणम्" इति पाराशराः ॥

अशा-०१.१५.२४
"यद् अस्य कार्यम् अभिप्रेतं तत्.प्रतिरूपकं मन्त्रिणः पृच्छेत् - "कार्यम् इदम् एवम् आसीत्, एवं वा यदि भवेत्, तत् कथं कर्तव्यम्" इति ॥

अशा-०१.१५.२५
ते यथा ब्रूयुस् तत् कुर्यात् ॥

अशा-०१.१५.२६
एवं मन्त्र.उपलब्धिः संवृतिश् च भवति" इति ॥

अशा-०१.१५.२७
न_इति पिशुनः ॥

अशा-०१.१५.२८
"मन्त्रिणो हि व्यवहितम् अर्थं वृत्तम् अवृत्तं वा पृष्टा अनादरेण ब्रुवन्ति प्रकाशयन्ति वा ॥

अशा-०१.१५.२९
स दोषः ॥

अशा-०१.१५.३०
तस्मात् कर्मसु ये येष्व् अभिप्रेतास् तैः सह मन्त्रयेत ॥

अशा-०१.१५.३१
तैर् मन्त्रयमाणो हि मन्त्र.सिद्धिं गुप्तिं च लभते" इति ॥

अशा-०१.१५.३२
न_इति कौटिल्यः ॥

अशा-०१.१५.३३
अनवस्था ह्य् एषा ॥

अशा-०१.१५.३४
मन्त्रिभिस् त्रिभिश् चतुर्भिर् वा सह मन्त्रयेत ॥

अशा-०१.१५.३५
मन्त्रयमाणो ह्य् एकेन_अर्थ.कृच्छ्रेषु निश्चयं न_अधिगच्छेत् ॥

अशा-०१.१५.३६
एकश् च मन्त्री यथा.इष्टम् अनवग्रहश् चरति ॥

अशा-०१.१५.३७
द्वाभ्यां मन्त्रयमाणो द्वाभ्यां संहताभ्याम् अवगृह्यते, विगृहीताभ्यां विनाश्यते ॥

अशा-०१.१५.३८
तत् त्रिषु चतुषु वा कृच्छ्रेण_उपपद्यते ॥

अशा-०१.१५.३९
महा.दोषम् उपपन्नं तु भवति ॥

अशा-०१.१५.४०
ततः परेषु कृच्छ्रेण_अर्थ.निश्चयो गम्यते, मन्त्रो वा रक्ष्यते ॥

अशा-०१.१५.४१
देश.काल.कार्य.वशेन त्व् एकेन सह द्वाभ्याम् एको वा यथा.सामर्थ्यं मन्त्रयेत ॥(अल्तेर्णतिवे विएwस् अप्प्रोवेद्)

अशा-०१.१५.४२
कर्मणाम् आरम्भ.उपायः पुरुष.द्रव्य.सम्पद् देश.काल.विभागो विनिपात.प्रतीकारः कार्य.सिद्धिर् इति पञ्च.अङ्गो मन्त्रः ॥

अशा-०१.१५.४३
तान् एकैकशः पृच्छेत् समस्तांश् च ॥

अशा-०१.१५.४४
हेतुभिश् च_एषां मति.प्रविवेकान् विद्यात् ॥

अशा-०१.१५.४५
अवाप्त.अर्थः कालं न_अतिक्रामयेत् ॥

अशा-०१.१५.४६
न दीर्घ.कालं मन्त्रयेत, न तेषां पक्षीयैर् येषाम् अपकुर्यात् ॥

अशा-०१.१५.४७
"मन्त्रि.परिषदं द्वादश.अमात्यान् कुर्वीत" इति मानवाः ॥

अशा-०१.१५.४८
"षोडश" इति बार्हस्पत्याः ॥

अशा-०१.१५.४९
"विंशतिम्" इत्य् औशनसाः ॥

अशा-०१.१५.५०
यथा.सामर्थ्यम् इति कौटिल्यः ॥

अशा-०१.१५.५१
ते ह्य् अस्य स्व.पक्षं पर.पक्षं च चिन्तयेयुः ॥

अशा-०१.१५.५२
अकृत.आरम्भम् आरब्ध.अनुष्ठानम् अनुष्ठित.विशेषं नियोग.सम्पदं च कर्मणां कुर्युः ॥

अशा-०१.१५.५३
आसन्नैः सह कर्माणि पश्येत् ॥

अशा-०१.१५.५४
अनासन्नैः सह पत्त्र.सम्प्रेषणेन मन्त्रयेत ॥

अशा-०१.१५.५५
इन्द्रस्य हि मन्त्रि.परिषद्.ऋषीणां सहस्रम् ॥

अशा-०१.१५.५६
स तच् चक्षुः ॥

अशा-०१.१५.५७
तस्माद् इमं द्व्य्.अक्षं सहस्र.अक्षम् आहुः ॥

अशा-०१.१५.५८
आत्ययिके कार्ये मन्त्रिणो मन्त्रि.परिषदं च_आहूय ब्रूयात् ॥

अशा-०१.१५.५९
तत्र यद्.भूयिष्ठा ब्रूयुः कार्य.सिद्धि.करं वा तत् कुर्यात् ॥

अशा-०१.१५.६०
कुर्वतश् च --

अशा-०१.१५.६०कख
न_अस्य गुह्यं परे विद्युश् छिद्रं विद्यात् परस्य च ।

अशा-०१.१५.६०गघ
गूहेत् कूर्म_इव_अङ्गानि यत् स्याद् विवृतम् आत्मनः ॥

अशा-०१.१५.६१कख
यथा ह्य् अश्रोत्रियः श्राद्धं न सतां भोक्तुम् अर्हति ।

अशा-०१.१५.६१गघ
एवम् अश्रुत.शास्त्र.अर्थो न मन्त्रं श्रोतुम् अर्हति ॥


(Rules for the envoy)

अशा-०१.१६.०१
उद्वृत्त.मन्त्रो दूत.प्रणिधिः ॥

अशा-०१.१६.०२
अमात्य.सम्पदा_उपेतो निसृष्ट.अर्थः ॥

अशा-०१.१६.०३
पाद.गुण.हीनः परिमित.अर्थः ॥

अशा-०१.१६.०४
अर्ध.गुण.हीनः शासन.हरः ॥

अशा-०१.१६.०५
सुप्रतिविहित.यान.वाहन.पुरुष.परिवापः प्रतिष्ठेत ॥

अशा-०१.१६.०६
शासनम् एवं वाच्यः परः, स वक्ष्यत्य् एवम्, तस्य_इदं प्रतिवाक्यम्, एवम् अतिसंधातव्यम्, इत्य् अधीयानो गच्छेत् ॥

अशा-०१.१६.०७
अटव्य्.अन्त.पाल.पुर.राष्ट्र.मुख्यैश् च प्रतिसंसर्गं गच्छेत् ॥

अशा-०१.१६.०८
अनीक.स्थान.युद्ध.प्रतिग्रह.अपसार.भूमीर् आत्मनः परस्य च_अवेक्षेत ॥

अशा-०१.१६.०९
दुर्ग.राष्ट्र.प्रमाणं सार.वृत्ति.गुप्तिच्.छिद्राणि च_उपलभेत ॥

अशा-०१.१६.१०
पर.अधिष्ठानम् अनुज्ञातः प्रविशेत् ॥

अशा-०१.१६.११
शासनं च यथा.उक्तं ब्रूयात्, प्राण.आबाधे_अपि दृष्टे ॥

अशा-०१.१६.१२
परस्य वाचि वक्त्रे दृष्ट्यां च प्रसादं वाक्य.पूजनम् इष्ट.परिप्रश्नं गुण.कथा.सङ्गम् आसन्नम् आसनं सत्कारम् इष्टेषु स्मरणं विश्वास.गमनं च लक्षयेत् तुष्टस्य, विपरीतम् अतुष्टस्य ॥

अशा-०१.१६.१३
तं ब्रूयात् - "दूत.मुखा हि राजानः, त्वं च_अन्ये च ॥

अशा-०१.१६.१४
तस्माद् उद्यतेष्व् अपि शस्त्रेषु यथा.उक्तं वक्तारो दूताः ॥

अशा-०१.१६.१५
तेषाम् अन्त.अवसायिनो_अप्य् अवध्याः, किम् अङ्ग पुनर् ब्राह्मणाः ॥

अशा-०१.१६.१६
परस्य_एतद् वाक्यम् ॥

अशा-०१.१६.१७
एष दूत.धर्मः" इति ॥

अशा-०१.१६.१८
वसेद् अविसृष्टः पूजया न_उत्सिक्तः ॥

अशा-०१.१६.१९
परेषु बलित्वं न मन्येत ॥

अशा-०१.१६.२०
वाक्यम् अनिष्टं सहेत ॥

अशा-०१.१६.२१
स्त्रियः पानं च वर्जयेत् ॥

अशा-०१.१६.२२
एकः शयीत ॥

अशा-०१.१६.२३
सुप्त.मत्तयोर् हि भाव.ज्ञानं दृष्टम् ॥

अशा-०१.१६.२४
कृत्य.पक्ष.उपजापम् अकृत्य.पक्षे गूढ.प्रणिधानं राग.अपरागौ भर्तरि रन्ध्रं च प्रकृतीनां तापस.वैदेहक.व्यञ्जनाभ्याम् उपलभेत, तयोर् अन्तेवासिभिश् चिकित्सक.पाषण्ड.व्यञ्जन.उभय.वेतनैर् वा ॥

अशा-०१.१६.२५
तेषाम् असम्भाषायां याचक.मत्त.उन्मत्त.सुप्त.प्रलापैः पुण्य.स्थान.देव.गृह.चित्र.लेख्य.संज्ञाभिर् वा चारम् उपलभेत ॥

अशा-०१.१६.२६
उपलब्धस्य_उपजापम् उपेयात् ॥

अशा-०१.१६.२७
परेण च_उक्तः स्वासां प्रकृतीनां प्रमाणं न_आचक्षीत ॥

अशा-०१.१६.२८
"सर्वं वेद भवान्" इति ब्रूयात्, कार्य.सिद्धि.करं वा ॥

अशा-०१.१६.२९
कार्यस्य_असिद्धाव् उपरुध्यमानस् तर्कयेत् - "किं भर्तुर् मे व्यसनम् आसन्नं पश्यन्, स्वं वा व्यसनं प्रतिकर्तु.कामः, पार्ष्णि.ग्राहम् आसारम् अन्तः.कोपम् आटविकं वा समुत्थापयितु.कामः, मित्रम् आक्रन्दं वा व्याघातयितु.कामः, स्वं वा परतो विग्रहम् अन्तः.कोपम् आटविकं वा प्रतिकर्तु.कामः, संसिद्धं वा मे भर्तुर् यात्रा.कालम् अभिहन्तु.कामः, सस्य.पण्य.कुप्य.संग्रहं दुर्ग.कर्म बल.समुद्दानं वा कर्तु.कामः, स्व.सैन्यानां वा व्यायामस्य देश.कालाव् आकाङ्क्षमाणः, परिभव.प्रमादाभ्यां वा, संसर्ग.अनुबन्ध.अर्थी वा, माम् उपरुणद्धि" इति ॥

अशा-०१.१६.३०
ज्ञात्वा वसेद् अपसरेद् वा ॥

अशा-०१.१६.३१
प्रयोजनम् इष्टम् अवेक्षेत वा ॥

अशा-०१.१६.३२
शासनम् अनिष्टम् उक्त्वा बन्ध.वध.भयाद् अविसृष्टो_अप्य् अपगच्छेत्, अन्यथा नियम्येत ॥

अशा-०१.१६.३३कख
प्रेषणं संधि.पालत्वं प्रतापो मित्र.संग्रहः ।

अशा-०१.१६.३३गघ
उपजापः सुहृद्.भेदो गूढ.दण्ड.अतिसारणम् ॥

अशा-०१.१६.३४कख
बन्धु.रत्न.अपहरणं चार.ज्ञानं पराक्रमः ।

अशा-०१.१६.३४गघ
समाधि.मोक्षो दूतस्य कर्म योगस्य च_आश्रयः ॥

अशा-०१.१६.३५कख
स्व.दूतैः कारयेद् एतत् पर.दूतांश् च रक्षयेत् ।

अशा-०१.१६.३५गघ
प्रतिदूत.अपसर्पाभ्यां दृश्य.अदृश्यैश् च रक्षिभिः ॥


(Guarding against princes)

अशा-०१.१७.०१
रक्षितो राजा राज्यं रक्षत्य् आसन्नेभ्यः परेभ्यश् च, पूर्वं दारेभ्यः पुत्रेभ्यश् च ॥

अशा-०१.१७.०२
दार.रक्षणं निशान्त.प्रणिधौ वक्ष्यामः ॥

अशा-०१.१७.०३
"पुत्र.रक्षणं तु ॥

अशा-०१.१७.०४
"जन्म.प्रभृति राज.पुत्रान् रक्षेत् ॥

अशा-०१.१७.०५
कर्कटक.सधर्माणो हि जनक.भक्षा राज.पुत्राः ॥

अशा-०१.१७.०६
तेषाम् अजात.स्नेहे पितर्य् उपांशु.दण्डः श्रेयान्" इति भारद्वाजः ॥

अशा-०१.१७.०७
"नृशंसम् अदुष्ट.वधः क्षत्र.बीज.विनाशश् च" इति विशाल.अक्षः ॥

अशा-०१.१७.०८
"तस्माद् एक.स्थान.अवरोधः श्रेयान्" इति ॥

अशा-०१.१७.०९
अहि.भयम् एतद्" इति पाराशराः ॥

अशा-०१.१७.१०
"कुमारो हि "विक्रम.भयान् मां पिता_अवरुणद्धि" इति ज्ञात्वा तम् एव_अङ्के कुर्यात् ॥

अशा-०१.१७.११
तस्माद् अन्त.पाल.दुर्गे वासः श्रेयान्" इति ॥

अशा-०१.१७.१२
"औरभ्रं भयम् एतद्" इति पिशुनः ॥

अशा-०१.१७.१३
"प्रत्यापत्तेर् हि तद् एव कारणं ज्ञात्वा_अन्त.पाल.सखः स्यात् ॥

अशा-०१.१७.१४
तस्मात् स्व.विषयाद् अपकृष्टे सामन्त.दुर्गे वासः श्रेयान्" इति ॥

अशा-०१.१७.१५
"वत्स.स्थानम् एतद्" इति कौणपदन्तः ॥

अशा-०१.१७.१६
"वत्सेन_इव हि धेनुं पितरम् अस्य सामन्तो दुह्यात् ॥

अशा-०१.१७.१७
तस्मान् मातृ.बन्धुषु वासः श्रेयान्" इति ॥

अशा-०१.१७.१८
"ध्वज.स्थानम् एतद्" इति वात.व्याधिः ॥

अशा-०१.१७.१९
"तेन हि ध्वजेन_अदिति.कौशिकवद् अस्य मातृ.बान्धवा भिक्षेरन् ॥

अशा-०१.१७.२०
तस्माद् ग्राम्य सुखेष्व् एनम् अवसृजेत् ॥

अशा-०१.१७.२१
सुख.उपरुद्धा हि पुत्राः पितरं न_अभिद्रुह्यन्ति" इति ॥

अशा-०१.१७.२२
जीवन्.मरणम् एतद् इति कौटिल्यः ॥

अशा-०१.१७.२३
काष्ठम् इव घुण.जग्धं राज.कुलम् अविनीत.पुत्रम् अभियुक्त.मात्रं भज्येत ॥

अशा-०१.१७.२४
तस्माद् ऋतुमत्यां महिष्याम् ऋत्विजश् चरुम् ऐन्द्राबार्हस्पत्यं निर्वपेयुः ॥

अशा-०१.१७.२५
आपन्न.सत्त्वायाः कौमार.भृत्यो गर्भ.भर्मणि प्रसवे च वियतेत ॥

अशा-०१.१७.२६
प्रजातायाः पुत्र.संस्कारं पुरोहितः कुर्यात् ॥

अशा-०१.१७.२७
समर्थं तद्विदो विनयेयुः ॥

अशा-०१.१७.२८
"सत्त्रिणाम् एकश् च_एनं मृगया.द्यूत.मद्य.स्त्रीभिः प्रलोभयेत् "पितरि विक्रम्य राज्यं गृहाण" इति ॥

अशा-०१.१७.२९
तम् अन्यः सत्त्री प्रतिषेधयेत्" इत्य् आम्भीयाः ॥

अशा-०१.१७.३०
महा.दोषम् अबुद्ध.बोधनम् इत् कौटिल्यः ॥

अशा-०१.१७.३१
नवं हि द्रव्यं येन येन_अर्थ.जातेन_उपदिह्यते तत् तद् आचूषति ॥

अशा-०१.१७.३२
एवम् अयं नव.बुद्धिर् यद् यद् उच्यते तत् तत्.शास्त्र.उपदेशम् इव_अभिजानाति ॥

अशा-०१.१७.३३
तस्माद् धर्म्यम् अर्थ्यं च_अस्य_उपदिशेन् न_अधर्म्यम् अनर्थ्यं च ॥

अशा-०१.१७.३४
सत्त्रिणस् त्व् एनं "तव स्मः" इति वदन्तः पालयेयुः ॥

अशा-०१.१७.३५
यौवन.उत्सेकात् पर.स्त्रीषु मनः कुर्वाणम् आर्या.व्यञ्जनाभिः स्त्रीभिर् अमेध्याभिः शून्य.आगारेषु रात्राव् उद्वेजयेयुः ॥

अशा-०१.१७.३६
मद्य.कामं योग.पानेन_उद्वेजयेयुः ॥

अशा-०१.१७.३७
द्यूत.कामं कापटिकैर् उद्वेजयेयुः ॥

अशा-०१.१७.३८
मृगया.कामं प्रतिरोधक.व्यञ्जनैस् त्रासयेयुः ॥

अशा-०१.१७.३९
पितरि विक्रम.बुद्धिं "तथा" इत्य् अनुप्रविश्य भेदयेयुः - "अप्रार्थनीयो राजा, विपन्ने घातः, सम्पन्ने नरक.पातः, संक्रोशः, प्रजाभिर् एक.लोष्ट.वधश् च" इति ॥

अशा-०१.१७.४०
विरागं वेदयेयुः ॥

अशा-०१.१७.४१
प्रियम् एक.पुत्रं बध्नीयात् ॥

अशा-०१.१७.४२
बहु.पुत्रः प्रत्यन्तम् अन्य.विषयं वा प्रेषयेद् यत्र गर्भः पण्यं डिम्बो वा न भवेत् ॥

अशा-०१.१७.४३
आत्म.सम्पन्नं सैनापत्ये यौवराज्ये वा स्थापयेत् ॥

अशा-०१.१७.४४
बुद्धिमान्.आहार्य.बुद्धिर् दुर्बुद्धिर् इति पुत्र.विशेषाः ॥

अशा-०१.१७.४५
शिष्यमाणो धर्म.अर्थाव् उपलभते च_अनुतिष्ठति च बुद्धिमान् ॥

अशा-०१.१७.४६
उपलभमानो न_अनुतिष्ठत्य् आहार्य.बुद्धिः ॥

अशा-०१.१७.४७
अपाय.नित्यो धर्म.अर्थ.द्वेषी च_इति दुर्बुद्धिः ॥

अशा-०१.१७.४८
स यद्य् एक.पुत्रः पुत्र.उत्पत्ताव् अस्य प्रयतेत ॥

अशा-०१.१७.४९
पुत्रिका.पुत्रान् उत्पादयेद् वा ॥

अशा-०१.१७.५०
वृद्धस् तु व्याधितो वा राजा मातृ.बन्धु.कुल्य.गुणवत्.सामन्तानाम् अन्यतमेन क्षेत्रे बीजम् उत्पादयेत् ॥

अशा-०१.१७.५१
न च_एक.पुत्रम् अविनीतं राज्ये स्थापयेत् ॥

अशा-०१.१७.५२कख
बहूनाम् एक.सम्रोधः पिता पुत्र.हितो भवेत् ।

अशा-०१.१७.५२गघ
अन्यत्र_आपद ऐश्वर्यं ज्येष्ठ.भागि तु पूज्यते ॥

अशा-०१.१७.५३कख
कुलस्य वा भवेद् राज्यं कुल.संघो हि दुर्जयः ।

अशा-०१.१७.५३गघ
अराज.व्यसन.आबाधः शश्वद् आवसति क्षितिम् ॥



(The conduct of a prince in disfavour) (Behaviour towards a prince in disfavour)

अशा-०१.१८.०१
विनीतो राज.पुत्रः कृच्छ्र.वृत्तिर् असदृशे कर्मणि नियुक्तः पितरम् अनुवर्तेत, अन्यत्र प्राण.आबाधक.प्रकृति.कोपक.पातकेभ्यः ॥

अशा-०१.१८.०२
पुण्ये कर्मणि नियुक्तः पुरुषम् अधिष्ठातारं याचेत् ॥

अशा-०१.१८.०३
पुरुष.अधिष्ठितश् च सविशेषम् आदेशम् अनुतिष्ठेत् ॥

अशा-०१.१८.०४
अभिरूपं च कर्म.फलम् औपायनिकं च लाभं पितुर् उपनाययेत् ॥

अशा-०१.१८.०५
तथा_अप्य् अतुष्यन्तम् अन्यस्मिन् पुत्रे दारेषु वा स्निह्यन्तम् अरण्याय_आपृच्छेत ॥

अशा-०१.१८.०६
बन्ध.वध.भयाद् वा यः सामन्तो न्याय.वृत्तिर् धार्मिकः सत्य.वाग्.अविसंवादकः प्रतिग्रहीता मानयिता च_अभिपन्नानां तम् आश्रयेत ॥

अशा-०१.१८.०७
तत्रस्थः कोश.दण्ड.सम्पन्नः प्रवीर.पुरुष.कन्या.सम्बन्धम् अटवी.सम्बन्धं कृत्य.पक्ष.उपग्रहं च कुर्यात् ॥

अशा-०१.१८.०८
एक.चरः सुवर्ण.पाक.मणि.राग.हेम.रूप्य.पण्य.आकर.कर्म.अन्तान् आजीवेत् ॥

अशा-०१.१८.०९
पाषण्ड.संघ.द्रव्यम् अश्रोत्रिय.उपभोग्यं वा देव.द्रव्यम् आढ्य.विधवा.द्रव्यं वा गूढम् अनुप्रविश्य सार्थ.यान.पात्राणि च मदन.रस.योगेन_अतिसंधाय_अपहरेत् ॥

अशा-०१.१८.१०
पारग्रामिकं वा योगम् आतिष्ठेत् ॥

अशा-०१.१८.११
मातुः परिजन.उपग्रहेण वा चेष्टेत ॥

अशा-०१.१८.१२
कारु.शिल्पि.कुशीलव.चिकित्सक.वाग्.जीवन.पाषण्डच्.छद्मभिर् वा नष्ट.रूपस् तद्.व्यञ्जन.सखश्.छिद्रेषु प्रविश्य राज्ञः शस्त्र.रसाभ्यां प्रहृत्य ब्रूयात् - "अहम् असौ कुमारः, सह.भोग्यम् इदं राज्यम्, एको न_अर्हति भोक्तुम्, ये कामयन्ते मां भर्तुं तान् अहं द्विगुणेन भक्त.वेतनेन_उपस्थास्यामि" इति ॥ इत्य् अपरुद्ध.वृत्तम् ।

अशा-०१.१८.१३
अपरुद्धं तु मुख्य.पुत्र.अपसर्पाः प्रतिपाद्य_आनयेयुः, माता वा प्रतिगृहीता ॥

अशा-०१.१८.१४
त्यक्तं गूढ.पुरुषाः शस्त्र.रसाभ्यां हन्युः ॥

अशा-०१.१८.१५
अत्यक्तं तुल्य.शीलाभिः स्त्रीभिः पानेन मृगयया वा प्रसञ्जयित्वा रात्राव् उपगृह्य_आनयेयुः ॥

अशा-०१.१८.१६कख
उपस्थितं च राज्येन मद्.ऊर्ध्वम् इति सान्त्वयेत् ।

अशा-०१.१८.१६गघ
एकस्थम् अथ सम्रुन्ध्यात् पुत्रवांस् तु प्रवासयेत् ॥


(Rules for the king)

अशा-०१.१९.०१
राजानम् उत्थितम् अनूत्तिष्ठन्ते भृत्याः ॥

अशा-०१.१९.०२
प्रमाद्यन्तम् अनुप्रमाद्यन्ति ॥

अशा-०१.१९.०३
कर्माणि च_अस्य भक्षयन्ति ॥

अशा-०१.१९.०४
द्विषद्भिश् च_अतिसंधीयते ।

अशा-०१.१९.०५
तस्माद् उत्थानम् आत्मनः कुर्वीत ॥

अशा-०१.१९.०६
नालिकाभिर् अहर् अष्टधा रात्रिं च विभजेत्, छाया.प्रमाणेन वा ॥

अशा-०१.१९.०७
त्रिपौरुषी पौरुषी चतुर्.अङ्गुला नष्टच्.छायो मध्य.अह्न_इति चत्वारः पूर्वे दिवसस्य_अष्ट.भागाः ॥

अशा-०१.१९.०८
तैः पश्चिमा व्याख्याताः ॥

अशा-०१.१९.०९
तत्र पूर्वे दिवसस्य_अष्ट.भागे रक्षा.विधानम् आय.व्ययौ च शृणुयात् ॥

अशा-०१.१९.१०
द्वितीये पौर.जानपदानां कार्याणि पश्येत् ॥

अशा-०१.१९.११
तृतीये स्नान.भोजनं सेवेत, स्वाध्यायं च कुर्वीत ॥

अशा-०१.१९.१२
चतुर्थे हिरण्य.प्रतिग्रहम् अध्यक्षांश् च कुर्वीत ॥

अशा-०१.१९.१३
पञ्चमे मन्त्रि.परिषदा पत्त्र.सम्प्रेषणेन मन्त्रयेत, चार.गुह्य.बोधनीयानि च बुध्येत ॥

अशा-०१.१९.१४
षष्ठे स्वैर.विहारं मन्त्रं वा सेवेत ॥

अशा-०१.१९.१५
सप्तमे हस्त्य्.अश्व.रथ.आयुधीयान् पश्येत् ॥

अशा-०१.१९.१६
अष्टमे सेना.पति.सखो विक्रमं चिन्तयेत् ॥

अशा-०१.१९.१७
प्रतिष्ठिते_अहनि संध्याम् उपासीत ॥

अशा-०१.१९.१८
प्रथमे रात्रि.भागे गूढ.पुरुषान् पश्येत् ॥

अशा-०१.१९.१९
द्वितीये स्नान.भोजनं कुर्वीत, स्वाध्यायं च ॥

अशा-०१.१९.२०
तृतीये तूर्य.घोषेण संविष्टश् चतुर्थ.पञ्चमौ शयीत ॥

अशा-०१.१९.२१
षष्ठे तूर्य.घोषेण प्रतिबुद्धः शास्त्रम् इतिकर्तव्यतां च चिन्तयेत् ॥

अशा-०१.१९.२२
सप्तमे मन्त्रम् अध्यासीत, गूढ.पुरुषांश् च प्रेषयेत् ॥

अशा-०१.१९.२३
अष्टमे ऋत्विग्.आचार्य.पुरोहित.स्वस्त्ययनानि प्रतिगृह्णीयात्, चिकित्सक.माहानसिक.मौहूर्तिकांश् च पश्येत् ॥

अशा-०१.१९.२४
सवस्तां धेनुं वृषभं च प्रदक्षिणी.कृत्य_उपस्थानं गच्छेत् ॥

अशा-०१.१९.२५
आत्म.बल.आनुकूल्येन वा निशा.अहर्.भागान् प्रविभज्य कार्याणि सेवेत ॥

अशा-०१.१९.२६
उपस्थान.गतः कार्य.अर्थिनाम् अद्वार.आसङ्गं कारयेत् ॥

अशा-०१.१९.२७
दुर्दर्शो हि राजा कार्य.अकार्य.विपर्यासम् आसन्नैः कार्यते ॥

अशा-०१.१९.२८
तेन प्रकृति.कोपम् अरि.वशं वा गच्छेत् ॥

अशा-०१.१९.२९
तस्माद् देवता.आश्रम.पाषण्ड.श्रोत्रिय.पशु.पुण्य.स्थानानां बाल.वृद्ध.व्याधित.व्यसन्य्.अनाथानां स्त्रीणां च क्रमेण कार्याणि पश्येत्, कार्य.गौरवाद् आत्ययिक.वशेन वा ॥

अशा-०१.१९.३०कख
सर्वम् आत्ययिकं कार्यं शृणुयान् न_अतिपातयेत् ।[श्]

अशा-०१.१९.३०गघ
कृच्छ्र.साध्यम् अतिक्रान्तम् असाध्यं वा_अपि जायते ॥[श्]

अशा-०१.१९.३१कख
अग्न्य्.अगार.गतः कार्यं पश्येद् वैद्य.तपस्विनाम् ।[श्]

अशा-०१.१९.३१गघ
पुरोहित.आचार्य.सखः प्रत्युत्थाय_अभिवाद्य च ॥[श्]

अशा-०१.१९.३२कख
तपस्विनां तु कार्याणि त्रैविद्यैः सह कारयेत् ।[श्]

अशा-०१.१९.३२गघ
माया.योगविदां चैव न स्वयं कोप.कारणात् ॥[श्]

अशा-०१.१९.३३कख
राज्ञो हि व्रतम् उत्थानं यज्ञः कार्य.अनुशासनम् ।[श्]

अशा-०१.१९.३३गघ
दक्षिणा वृत्ति.साम्यं तु दीक्षा तस्य_अभिषेचनम् ॥[श्]

अशा-०१.१९.३४कख
प्रजा.सुखे सुखं राज्ञः प्रजानां च हिते हितम् ।[श्]

अशा-०१.१९.३४गघ
न_आत्म.प्रियं हितं राज्ञः प्रजानां तु प्रियं हितम् ॥[श्]

अशा-०१.१९.३५कख
तस्मान् नित्य.उत्थितो राजा कुर्याद् अर्थ.अनुशासनम् ।

अशा-०१.१९.३५गघ
अर्थस्य मूलम् उत्थानम् अनर्थस्य विपर्ययः ॥[श्]

अशा-०१.१९.३६कख
अनुत्थाने ध्रुवो नाशः प्राप्तस्य_अनागतस्य च ।[श्]

अशा-०१.१९.३६गघ
प्राप्यते फलम् उत्थानाल् लभते च_अर्थसम्पदम् ॥[श्]


(Regulations for the royal residence)

अशा-०१.२०.०१
वास्तुक.प्रशस्ते देशे सप्राकार.परिखा.द्वारम् अनेक.कक्ष्या.परिगतम् अन्तःपुरं कारयेत् ॥ Kआ०१.२०.०२
कोशगृह.विधानेन मध्ये वास.गृहम्, गूढ.भित्ति.संचारं मोहन.गृहं तन्.मध्ये वा वास.गृहम्, भूमि.गृहं वा_आसन्न.चैत्य.काष्ठ.देवता.अपिधान.द्वारम् अनेक.सुरुङ्गा.संचारं तस्य_उपरि प्रासादं गूढ.भित्ति.सोपानं सुषिर.स्तम्भ.प्रवेश.अपसारं वा वास.गृहं यन्त्र.बद्ध.तल.अवपातं कारयेत्, आपत्.प्रतीकार.अर्थम् आपदि वा ॥


अशा-०१.२०.०३
अतो_अन्यथा वा विकल्पयेत्, सह.अध्यायि.भयात् ॥

अशा-०१.२०.०४
मानुषेण_अग्निना त्रिर् अपसव्यं परिगतम् अन्तःपुरम् अग्निर् अन्यो न दहति, न च_अत्र_अन्यो_अग्निर् ज्वलति, वैद्युतेन भस्मना मृत्.सम्युक्तेन करक.वारिणा_अवलिप्तं च ॥

अशा-०१.२०.०५
जीवन्ती.श्वेता.मुष्कक.पुष्प.वन्दाकाभिर् अक्षीवे जातस्य_अश्वत्थस्य प्रतानेन गुप्तं सर्पा विषाणि वा न प्रभवन्ति ॥

अशा-०१.२०.०६
मयूर.नकुल.पृषत.उत्सर्गः सर्पान् भक्षयति ॥

अशा-०१.२०.०७
शुकः सारिका भृङ्ग.राजो वा सर्प.विष.शङ्कायां क्रोशति ॥

अशा-०१.२०.०८
क्रौञ्चो विष.अभ्याशे माद्यति, ग्लायति जीवं.जीवकः, म्रियते मत्त.कोकिलः, चकोरस्य_अक्षिणी विरज्येते ॥

अशा-०१.२०.०९
इत्य् एवम् अग्नि.विष.सर्पेभ्यः प्रतिकुर्वीत ॥

अशा-०१.२०.१०
पृष्ठतः कक्ष्या.विभागे स्त्री.निवेशो गर्भ.व्याधि.संस्था वृक्ष.उदक.स्थानं च ॥

अशा-०१.२०.११
बहिः कन्या.कुमार.पुरम् ॥

अशा-०१.२०.१२
पुरस्ताद् अलङ्कार.भूमिर् मन्त्र.भूमिर् उपस्थानं कुमार.अध्यक्ष.स्थानं च ॥

अशा-०१.२०.१३
कक्ष्य.अन्तरेष्व् अन्तर्वंशिक.सैन्यं तिष्ठेत् ॥

अशा-०१.२०.१४
अन्तर्.गृह.गतः स्थविर.स्त्री.परिशुद्धां देवीं पश्येत् ॥

अशा-०१.२०.१५
देवी.गृहे लीनो हि भ्राता भद्रसेनं जघान, मातुः शय्या.अन्तर्गतश् च पुत्रः कारूषम् ॥

अशा-०१.२०.१६
लाजान् मधुना_इति विषेण पर्यस्य देवी काशि.राजम्, विष.दिग्धेन नूप्रेण वैरन्त्यम्, मेखला.मणिना सौवीरम्, जालूथम् आदर्शेन, वेण्यां गूढं शस्त्रं कृत्वा देवी विदूरथं जघान ॥

अशा-०१.२०.१७
तस्माद् एतान्य् आस्पदानि परिहरेत् ॥

अशा-०१.२०.१८
मुण्ड.जटिल.कुहक.प्रतिसंसर्गं बाह्याभिश् च दासीभिः प्रतिषेधयेत् ॥

अशा-०१.२०.१९
न च_एनाः कुल्याः पश्येयुः, अन्यत्र गर्भ.व्याधि.संस्थाभ्यः ॥

अशा-०१.२०.२०
रूप.आजीवाः स्नान.प्रघर्ष.शुद्ध.शरीराः परिवर्तित.वस्त्र.अलंकाराः पश्येयुः ॥

अशा-०१.२०.२१
अशीतिकाः पुरुषाः पञ्चाशत्काः स्त्रियो वा माता.पितृ.व्यञ्जनाः स्थविर.वर्षधर.अभ्यागारिकाश् च_अवरोधानां शौच.आशौचं विद्युः, स्थापयेयुश् च स्वामि.हिते, ॥

अशा-०१.२०.२२कख
स्व.भूमौ च वसेत् सर्वः पर.भूमौ न संचरेत् ।[श्]

अशा-०१.२०.२२गघ
न च बाह्येन संसर्गं कश्चिद् आभ्यन्तरो व्रजेत् ॥[श्]

अशा-०१.२०.२३कख
सर्वं च_अवेक्षितं द्रव्यं निबद्ध.आगम.निर्गमम् ।[श्]

अशा-०१.२०.२३गघ
निर्गच्छेद् अभिगच्छेद् वा मुद्रा.संक्रान्त.भूमिकम् ॥[श्] E


(Concerning the protection of (the king's) own person)

अशा-०१.२१.०१
शयनाद् उत्थितः स्त्री.गणैर् धन्विभिः परिगृह्यते, द्वितीयस्यां कक्ष्यायां कञ्चुक.उष्णीषिभिर् वर्ष.धर.अभ्यागारिकैः, तृतीयस्यां कुब्ज.वामन.किरातैः, चतुर्थ्यां मन्त्रिभिः सम्बन्धिभिर् दौवारिकैश् च प्रास.पाणिभिः ॥

अशा-०१.२१.०२
पितृ.पैतामहं सम्बन्ध.अनुबद्धं शिक्षितम् अनुरक्तं कृत.कर्माणं च जनम् आसन्नं कुर्वीत, न_अन्यतो.देशीयम् अकृत.अर्थ.मानं स्व.देशीयं वा_अप्य् अपकृत्य_उपगृहीतम् ॥

अशा-०१.२१.०३
अन्तर्.वंशिक.सैन्यं राजानम् अन्तःपुरं च रक्षेत् ॥

अशा-०१.२१.०४
गुप्ते देशे माहानसिकः सर्वम् आस्वाद.बाहुल्येन कर्म कारयेत् ॥

अशा-०१.२१.०५
तद् रजा तथैव प्रतिभुञ्जीत पूर्वम् अग्नये वयोभ्यश् च बलिं कृत्वा ॥

अशा-०१.२१.०६
अग्नेर् ज्वाला.धूम.नीलता शब्द.स्फोटनं च विष.युक्तस्य, वयसां विपत्तिश् च ॥

अशा-०१.२१.०७क
अन्नस्य ऊष्मा मयूर.ग्रीव.आभः शैत्यम् आशु क्लिष्टस्य_इव वैवर्ण्यं स-उदकत्वम् अक्लिन्नत्वं च -

अशा-०१.२१.०७ख
व्यञ्जनानाम् आशु शुष्कत्वं च क्वाथ.ध्याम.फेन.पटल.विच्छिन्न.भावो गन्ध.स्पर्श.रस.वधश् च -

अशा-०१.२१.०७ग
द्रवेषु हीन.अतिरिक्तच्.छाया.दर्शनं फेन.पटल.सीमन्त.ऊर्ध्व.राजी.दर्शनं च -

अशा-०१.२१.०७घ
रसस्य मध्ये नीला राजी, पयसस् ताम्रा, मद्य.तोययोः काली, दध्नः श्यामा, मधुनः श्वेता, द्रव्याणाम् आर्द्राणाम् आशु प्रम्लानत्वम् उत्पक्व.भावः क्वाथ.नील.श्यावता च -

अशा-०१.२१.०७च
शुष्काणाम् आशु शातनं वैवर्ण्यं च, -

अशा-०१.२१.०७छ
कठिनानां मृदुत्वं मृदूनां च कठिनत्वम्, तद्.अभ्याशे क्षुद्र.सत्त्व.वधश् च, -

अशा-०१.२१.०७ग्
आस्तरण.प्रवरणानां ध्याम.मण्डलता तन्तुरोम.पक्ष्म.शातनं च, -

अशा-०१.२१.०७ह्
लोह.मणिमयानां पङ्कम.लोपदेहता स्नेह.राग.गौरव.प्रभाव.वर्ण.स्पर्शवधश् च - इति विषयुक्तस्य लिङ्गानि ॥

अशा-०१.२१.०८
विष.प्रदस्य तु शुष्क.श्याव.वक्त्रता वाक्.सङ्गः स्वेदो विजृम्भणं च_अतिमात्रं वेपथुः प्रस्खलनं वाक्य.विप्रेक्षणम् आवेगः कर्मणि स्व.भूमौ च_अनवस्थानम् इति ॥

अशा-०१.२१.०९
तस्माद् अस्य जाङ्गुलीविदो भिषजश् च_आसन्नाः स्युः ॥

अशा-०१.२१.१०
भिषग्.भैषज्य.अगाराद् आस्वाद.विशुद्धम् औषधं गृहीत्वा पाचक.पेषकाभ्याम् आत्मना च प्रतिस्वाद्य राज्ञे प्रयच्छेत् ॥

अशा-०१.२१.११
पानं पानीयं च_औषधेन व्याख्यातम् ॥

अशा-०१.२१.१२
कल्पक.प्रसाधकाः स्नान.शुद्ध.वस्त्र.हस्ताः समुद्रम् उपकरणम् अन्तर्वंशिक.हस्ताद् आदाय परिचरेयुः ॥

अशा-०१.२१.१३
स्नापक.संवाहक.आस्तरक.रजक.माला.कार.कर्म दास्यः प्रसिद्ध.शौचाः कुर्युः, ताभिर् अधिष्ठिता वा शिल्पिनः ॥

अशा-०१.२१.१४
आत्म.चक्षुषि निवेश्य वस्त्र.माल्यं दद्युः, स्नान.अनुलेपन.प्रघर्ष.चूर्ण.वास.स्नानीयानि च स्व.वक्षो.बाहुषु च ॥

अशा-०१.२१.१५
एतेन परस्माद् आगतकं व्याख्यातम् ॥

अशा-०१.२१.१६
कुशीलवाः शस्त्र.अग्नि.रस.क्रीडा.वर्जं नर्मयेयुः ॥

अशा-०१.२१.१७
आतोद्यानि च_एषाम् अन्तस् तिष्ठेयुः, अश्व.रथ.द्विप.अलंकाराश् च ॥

अशा-०१.२१.१८
आप्त.पुरुष.अधिष्ठितं यान.वाहनम् आरोहेत्, नावं च_आप्त.नाविक.अधिष्ठितम् ॥

अशा-०१.२१.१९
अन्य.नौ.प्रतिबद्धां वात.वेग.वशां च न_उपेयात् ॥

अशा-०१.२१.२०
उदक.अन्ते सैन्यम् आसीत ॥

अशा-०१.२१.२१
मत्स्य.ग्राह.विशुद्धम् उदकम् अवगाहेत ॥

अशा-०१.२१.२२
व्याल.ग्राह.विशुद्धम् उद्यानं गच्छेत् ॥

अशा-०१.२१.२३
लुब्धक.श्व.गणिभिर् अपास्त.स्तेन.व्याल.पर.आबाध.भयं चल.लक्ष्य.परिचय.अर्थं मृग.अरण्यं गच्छेत् ॥

अशा-०१.२१.२४
आप्त.शस्त्र.ग्राह.अधिष्ठितः सिद्ध.तापसं पश्येत्, मन्त्रि.परिषदा सह सामन्त.दूतम् ॥

अशा-०१.२१.२५
सम्नद्धो_अश्वं हस्तिनं वा_आरूढः सम्नद्धम् अनीकं पश्येत् ॥

अशा-०१.२१.२६
निर्याणे_अभियाने च राज.मार्गम् उभयतः कृत.आरक्षं शस्त्रिभिर् दण्डिभिश् च_अपास्त.शस्त्र.हस्त.प्रव्रजित.व्यङ्गं गच्छेत् ॥

अशा-०१.२१.२७
न पुरुष.सम्बाधम् अवगाहेत ॥

अशा-०१.२१.२८
यात्रा.समाज.उत्सव.प्रहवणानि च दश.वर्गिक.अधिष्ठितानि गच्छेत् ॥

अशा-०१.२१.२९कख
यथा च योग.पुरुषैर् अन्यान् राजा_अधितिष्ठति ।[श्]

अशा-०१.२१.३०गघ
तथा_अयम् अन्य.आबाधेभ्यो रक्षेद् आत्मानम् आत्मवान् ॥[श्] E