अर्थशास्त्रम् अध्याय 02

विकिपुस्तकानि तः
Jump to navigation Jump to search

(Bओओक् ट्wओ॒ ठे अच्तिवित्य् ओf थे हेअद्स् ओf देपर्त्मेन्त्स्) (Cहप्, १, षेच्, १९॒ षेत्त्लेमेन्त् ओf थे चोउन्त्र्य्सिदे)

अशा-०२.०१.०१
भूत.पूर्वम् अभूत.पूर्वं वा जन.पदं पर.देश.अपवाहनेन स्व.देश.अभिष्यन्द.वमनेन वा निवेशयेत् ॥

अशा-०२.०१.०२
शूद्र.कर्षक.प्रायं कुल.शत.अवरं पञ्च.कुल.शत.परं ग्रामं क्रोशद्.विक्रोश.सीमानम् अन्योन्य.आरक्षं निवेशयेत् ॥

अशा-०२.०१.०३
नली.शैल.वन.भृष्टि.दरी.सेतु.बन्ध.शमी.शाल्मली.क्षीर.वृक्षान् अन्तेषु सीम्नां स्थापयेत् ॥

अशा-०२.०१.०४
अष्टशत.ग्राम्या मध्ये स्थानीयम्, चतुह्शत.ग्राम्या द्रोण.मुखम्, द्विशत.ग्राम्याः कार्वटिकम्, दश.ग्रामी.संग्रहेण संग्रहं स्थापयेत् ॥

अशा-०२.०१.०५
अन्तेष्व् अन्त.पाल.दुर्गाणि जन.पद.द्वाराण्य् अन्त.पाल.अधिष्ठितानि स्थापयेत् ॥

अशा-०२.०१.०६
तेषाम् अन्तराणि वागुरिक.शबर.पुलिन्द.चण्डाल.अरण्य.चरा रक्षेयुः ॥

अशा-०२.०१.०७क
ऋत्विग्.आचार्य.पुरोहित.श्रोत्रियेभ्यो ब्रह्म.देयान्य् अदण्ड.कराण्य् अभिरूप.दायादकानि प्रयच्छेत् -

अशा-०२.०१.०७ख
अध्यक्ष.संख्यायक.आदिभ्यो गोप.स्थानिक.अनीकस्थ.चिकित्सक.अश्व.दमक.जङ्घाकारिकेभ्यश् च विक्रय.आधान.वर्जानि ॥

अशा-०२.०१.०८
करदेभ्यः कृत.क्षेत्राण्य् ऐकपुरुषिकाणि प्रयच्छेत् ॥

अशा-०२.०१.०९
अकृतानि कर्तृभ्यो न_आदेयानि ॥

अशा-०२.०१.१०
अकृषताम् आछिद्य_अन्येभ्यः प्रयच्छेत् ॥

अशा-०२.०१.११
ग्राम.भृतक.वैदेहका वा कृषेयुः ॥

अशा-०२.०१.१२
अकृषन्तो वा_अवहीनं दद्युः ॥

अशा-०२.०१.१३
धान्य.पशु.हिरण्यैश् च_एतान् अनुगृह्णीयात् ॥

अशा-०२.०१.१४
तान्य् अनु सुखेन दद्युः ॥

अशा-०२.०१.१५
अनुग्रह.परिहारौ च_एतेब्भ्यः कोश.वृद्धि.करौ दद्यात्, कोश.उपघातकौ वर्जयेत् ॥

अशा-०२.०१.१६
अल्प.कोशो हि राजा पौर.जानपदान् एव ग्रसते ॥

अशा-०२.०१.१७
निवेश.सम.कालं यथा.आगतकं वा परिहारं दद्यात् ॥

अशा-०२.०१.१८
निवृत्त.परिहारान् पिता_इव_अनुगृह्णीयात् ॥

अशा-०२.०१.१९
आकर.कर्म.अन्त.द्रव्य.हस्ति.वन.व्रज.वणिक्.पथ.प्रचारान् वारि.स्थल.पथ.पण्य.पत्तनानि च निवेशयेत् ॥

अशा-०२.०१.२०
सह.उदकम् आहार्य_उदकं वा सेतुं बन्धयेत् ॥

अशा-०२.०१.२१
अन्येषां वा बध्नतां भूमि.मार्ग.वृक्ष.उपकरण.अनुग्रहं कुर्यात्, पुण्य.स्थान.आरामाणां च ॥

अशा-०२.०१.२२
सम्भूय.सेतु.बन्धाद् अपक्रामतः कर्मकर.बलीवर्दाः कर्म कुर्युः ॥

अशा-०२.०१.२३
व्ययकर्मणि च भागी स्यात्, न च_अंशं लभेत ॥

अशा-०२.०१.२४
मत्स्य.प्लव.हरि.तपण्यानां सेतुषु राजा स्वाम्यं गच्छेत् ॥

अशा-०२.०१.२५
दास.आहितक.बन्धून् अशृण्वतो राजा विनयं ग्राहयेत् ॥

अशा-०२.०१.२६
बाल.वृद्ध.व्यसन्य्.अनाथांश् च राजा बिभृयात्, स्त्रियम् अप्रजातां प्रजातायश् च पुत्रान् ॥

अशा-०२.०१.२७
बाल.द्रव्यं ग्राम.वृद्धा वर्धयेयुर् आ व्यवहार.प्रापणात्, देव.द्रव्यं च ॥

अशा-०२.०१.२८
अपत्य.दारं माता.पितरौ भ्रातृऋन् अप्राप्त.व्यवहारान् भगिनीः कन्या विधवाश् च_अबिभ्रतः शक्तिमतो द्वादश.पणो दण्डः, अन्यत्र पतितेभ्यः, अन्यत्र मातुः ॥

अशा-०२.०१.२९
पुत्र.दारम् अप्रतिविधाय प्रव्रजतः पूर्वः साहस.दण्डः, स्त्रियं च प्रव्राजयतः ॥

अशा-०२.०१.३०
लुप्त.व्यायामः प्रव्रजेद् आपृच्छ्य धर्मस्थान् ॥

अशा-०२.०१.३१
अन्यथा नियम्येत ॥

अशा-०२.०१.३२
वानप्रस्थाद् अन्यः प्रव्रजित.भावः, सजाताद् अन्यः संघः, सामुत्थायिकाद् अन्यः समय.अनुबन्धो वा न_अस्य जन.पदम् उपनिविशेत ॥

अशा-०२.०१.३३
न च तत्र_आरामा विहार.अर्था वा शालाः स्युः ॥

अशा-०२.०१.३४
नट.नर्तक.गायन.वादक.वाग्.जीवन.कुशीलवा न कर्म.विघ्नं कुर्युः ॥

अशा-०२.०१.३५
निराश्रयत्वाद् ग्रामाणां क्षेत्र.अभिरतत्वाच् च पुरुषाणां कोश.विष्टि.द्रव्य.धान्य.रस.वृद्धिर् भवति ॥

अशा-०२.०१.३६कख’’’
पर.चक्र.अटवी.ग्रस्तं व्याधि.दुर्भिक्ष.पीडितम् ।[श्]


अशा-०२.०१.३६गघ’’’
देशं परिहरेद् राजा व्यय.क्रीडाश् च वारयेत् ॥[श्]


अशा-०२.०१.३७कख’’’
दण्ड.विष्टि.कर.आबाधै रक्षेद् उपहतां कृषिम् ।[श्]


अशा-०२.०१.३७गघ’’’
स्तेन.व्याल.विष.ग्राहैर् व्याधिभिश् च पशु.व्रजान् ॥[श्]


अशा-०२.०१.३८कख’’’
वल्लभैः कार्मिकैः स्तेनैर् अन्त.पालैश् च पीडितम् ।[श्]


अशा-०२.०१.३८गघ’’’
शोधयेत् पशु.संघैश् च क्षीयमाणं वणिक्.पथम् ॥[श्]


अशा-०२.०१.३९कख’’’
एवं द्रव्य.द्वि.पवनं सेतु.बन्धम् अथ_आकरान् ।[श्]


अशा-०२.०१.३९गघ’’’
रक्षेत् पूर्व.कृतान् राजा नवांश् च_अभिप्रवर्तयेत् ॥[श्] E

(डिस्पोसल् ओf नोन्-अग्रिचुल्तुरल् लन्द्)

अशा-०२.२.०१
अकृष्यायां भूमौ पशुभ्यो विवीतानि प्रयच्छेत् ॥

अशा-०२.२.०२
प्रदिष्ट.अभय.स्थावर.जङ्गमानि च ब्रह्म.सोम.अरण्यानि तपस्विभ्यो गो.रुत.पराणि प्रयच्छेत् ॥

अशा-०२.२.०३
तावन्.मात्रम् एक.द्वारं खात.गुप्तं स्वादु.फल.गुल्म.गुच्छम् अकण्टकि.द्रुमम् उत्तान.तोय.आशयं दान्त.मृग.चतुष्पदं भग्न.नख.दंष्ट्र.व्यालं मार्गयुक.हस्ति.हस्तिनीक.लभं मृग.वनं विहार.अर्थं राज्ञः कारयेत् ॥

अशा-०२.२.०४
सर्व.अतिथि.मृगं प्रत्यन्ते च_अन्यन्.मृग.वनं भूमि.वशेन वा निवेशयेत् ॥

अशा-०२.२.०५
कुप्य.प्रदिष्टानां च द्रव्याणाम् एक.एकशो वनानि निवेशयेत्, द्रव्य.वन.कर्म.अन्तान् अटवीश् च द्रव्य.वन.अपाश्रयाः ॥

अशा-०२.२.०६
प्रत्यन्ते हस्ति.वनम् अटव्य्.आरक्षं निवेशयेत् ॥

अशा-०२.२.०७
नाग.वन.अध्यक्षः पार्वतं न_आदेयं सार.सम.अनूपं च नाग.वनं विदित.पर्यन्त.प्रवेश.निष्कासं नाग.वन.पालैः पालयेत् ॥

अशा-०२.२.०८
हस्ति.घातिनं हन्युः ॥

अशा-०२.२.०९
दन्त.युगं स्वयं.मृतस्य_आहरतः सपाद.चतुष्पणो लाभः ॥

अशा-०२.२.१०
नाग.वन.पाला हस्तिपक.पाद.पाशिक.सैमिक.वन.चरक.पारिकर्मिक.सखा हस्ति.मूत्र.पुरीषच्.छन्न.गन्धा भल्लातकी.शाखा.प्रच्छन्नाः पञ्चभिः सप्तभिर् वा हस्ति.बन्धकीभिः सह चरन्तः शय्या.स्थान.पद्या.लेण्ड.कूल.घात.उद्देशेन हस्ति.कुल.पर्यग्रं विद्युः ॥

अशा-०२.२.११
यूथ.चरम् एक.चरं निर्यूथं यूथ.पतिं हस्तिनं व्यालं मत्तं पोतं बन्ध.मुक्तं च निबन्धेन विद्युः ॥

अशा-०२.२.१२
अनीकस्थ.प्रमाणैः प्रशस्त.व्यञ्जन.आचारान् हस्तिनो गृह्णीयुः ॥

अशा-०२.२.१३
हस्ति.प्रधानं विजयो राज्ञः ॥

अशा-०२.२.१४
पर.अनीक.व्यूह.दुर्ग.स्कन्ध.आवार.प्रमर्दना ह्य् अतिप्रमाण.शरीराः प्राण.हर.कर्माणो हस्तिनः ॥

अशा-०२.२.१५कख’’’
कालिङ्ग.अङ्गरजाः श्रेष्ठाः प्राच्याश् चेदि.करूषजाः ।[श्]


अशा-०२.२.१५गघ’’’
दाशार्णाश् च_अपर.अन्ताश् च द्विपानां मध्यमा मताः ॥[श्]


अशा-०२.२.१६कख’’’
सौराष्ट्रिकाः पाञ्चनदास् तेषां प्रत्यवराः स्मृताः ।[श्]


अशा-०२.२.१६गघ’’’
सर्वेषां कर्मणा वीर्यं जवस् तेजश् च वर्धते ॥[श्] E

(Cओन्स्त्रुच्तिओन् ओf fओर्त्स्)

अशा-०२.३.०१
चतुर्दिशं जन.पद.अन्ते साम्परायिकं दैव.कृतं दुर्गं कारयेत्, अन्तर्.द्वीपं स्थलं वा निम्न.अवरुद्धम् औदकम्, प्रास्तरं गुहां वा पार्वतम्, निरुदक.स्तम्बम् इरिणं वा धान्वनम्, खञ्जन.उदकं स्तम्ब.गहनं वा वन.दुर्गम् ॥

अशा-०२.३.०२
तेषां नदी.पर्वत.दुर्गं जन.पद.आरक्ष.स्थानम्, धान्वन.वन.दुर्गम् अटवी.स्थानम् आपद्य् अपसारो वा ॥

अशा-०२.३.०३
जन.पद.मध्ये समुदय.स्थानं स्थानीयं निवेशयेत्, वास्तुक.प्रशस्ते देशे नदी.सङ्गमे ह्रदस्य_अविशोषस्य_अङ्के सरसस् तटाकस्य वा, वृत्तं दीर्घं चतुर्.अश्रं वा वास्तु.वशेन वा प्रदक्षिण.उदकं पण्य.पुट.भेदनम् अंसपथ.वारि.पथाभ्याम् उपेतम् ॥

अशा-०२.३.०४
तस्य परिखास् तिस्रो दण्ड.अन्तराः कारयेत् चतुर्दश द्वादश दश_इति दण्डान् विस्तीर्णाः, विस्ताराद् अवगाढाः पाद.ऊनम् अर्धं वा, त्रिभाग.मूलाः, मूल.चतुर्.अश्रा वा, पाषाण.उपहिताः पाषाण.इष्टका.बद्ध.पार्श्वा वा, तोय.अन्तिकीर् आगन्तु.तोय.पूर्णा वा सपरिवाहाः पद्म.ग्राहवतीश् च ॥

अशा-०२.३.०५
चतुर्दण्ड.अपकृष्टं परिखायाः षड्दण्ड.उच्छ्रितम् अवरुद्धं तद्.द्विगुण.विष्कम्भं खाताद् वप्रं कारयेद् ऊर्ध्व.चयं मञ्च.पृष्ठं कुम्भ.कुक्षिकं वा हस्तिभिर् गोभिश् च क्षुण्णं कण्टकि.गुल्म.विष.वल्ली.प्रतानवन्तम् ॥

अशा-०२.३.०६
पांसु.शेषेण वास्तुच्.छिद्रं राज.भवनं वा पूरयेत् ॥

अशा-०२.३.०७क
वप्रस्य_उपरि प्राकारं विष्कम्भ.द्विगुण.उत्सेधम् ऐष्टकं द्वादश.हस्ताद् ऊर्ध्वम् ओजं युग्मं वा आ चतुर्विंशति.हस्ताद् इति कारयेत् -

अशा-०२.३.०७ख
रथ.चर्या.संचारं ताल.मूलं मुरजकैः कपि.शीर्षकैश् च_आचित.अग्रम् ॥

अशा-०२.३.०८
पृथु.शिला.संहतं वा शैलं कारयेत्, न त्व् एव काष्टमयम् ॥

अशा-०२.३.०९
अग्निर् अवहितो हि तस्मिन् वसति ॥

अशा-०२.३.१०
विष्कम्भ.चतुर्.अश्रम् अट्टालकम् उत्सेध.सम.अवक्षेप.सोपानं कारयेत् त्रिंशद्.दण्ड.अन्तरं च ॥

अशा-०२.३.११
द्वयोर् अट्टालकयोर् मध्ये सहर्म्य.द्वि.तलाम् अध्यर्धाय.आयामां प्रतोलीं कारयेत् ॥

अशा-०२.३.१२
अट्टालक.प्रतोली.मध्ये त्रि.धानुष्क.अधिष्ठानं स-अपिधानच्.छिद्र.फलक.संहतम् इन्द्र.कोशं कारयेत् ॥

अशा-०२.३.१३
अन्तरेषु द्विहस्त.विष्कम्भं पार्श्वे चतुर्.गुण.आयामं देव.पथं कारयेत् ॥

अशा-०२.३.१४
दण्ड.अन्तरा द्वि.दण्ड.अन्तरा वा चर्याः कारयेत्, अग्राह्ये देशे प्रधावनिकां निष्किर.द्वारं च ॥

अशा-०२.३.१५
बहिर्.जानु.भञ्जनी.शूल.प्रकर.कूप.कूट.अवपात.कण्टक.प्रतिसर.अहि.पृष्ठ.ताल.पत्त्र.शृङ्ग.अटक.श्व.दंष्ट्र.अर्गल.उपस्कन्दन.पादुक.अम्बरीष.उद.पानकैः प्रतिच्छन्नं छन्न.पथं कारयेत् ॥

अशा-०२.३.१६
प्राकारम् उभयतो मेण्ढकम् अध्यर्ध.दण्डं कृत्वा प्रतोली.षट्.तुला.अन्तरं द्वारं निवेशयेत् पञ्च.दण्डाद् एक.उत्तरम् आ.अष्ट.दण्डाद् इति चतुर्.अश्रं षड्.भागम् आयामाद्.अधिकम् अष्ट.भागं वा ॥

अशा-०२.३.१७
पञ्च.दश.हस्ताद् एक.उत्तरम् आ.अष्टादश.हस्ताद् इति तल.उत्सेधः ॥

अशा-०२.३.१८
स्तम्भस्य परिक्षेपः षड्.आयामो, द्विगुणो निखातः, चूलिकायाश् चतुर्.भागः ॥

अशा-०२.३.१९
आदि.तलस्य पञ्च.भागाः शाला वापी सीमा.गृहं च ॥

अशा-०२.३.२०
दश.भागिकौ द्वौ प्रतिमञ्चौ, अन्तरम् आणी.हर्म्यं च ॥

अशा-०२.३.२१
समुच्छ्रयाद् अर्ध.तले स्थूणा.बन्धश् च ॥

अशा-०२.३.२२
अर्ध.वास्तुकम् उत्तम.अगारम्, त्रिभाग.अन्तरं वा, इष्टका.अवबद्ध.पार्श्वम्, वामतः प्रदक्षिण.सोपानं गूढ.भित्ति.सोपानम् इतरतः ॥

अशा-०२.३.२३
द्वि.हस्तं तोरण.शिरः ॥

अशा-०२.३.२४
त्रि.पञ्च.भागिकौ द्वौ कपाट.योगौ ॥

अशा-०२.३.२५
द्वौ परिघौ ॥

अशा-०२.३.२६
अरत्निर् इन्द्र.कीलः ॥

अशा-०२.३.२७
पञ्च.हस्तम् आणि.द्वारम् ॥

अशा-०२.३.२८
चत्वारो हस्ति.परिघाः ॥

अशा-०२.३.२९
निवेश.अर्धं हस्ति.नखम् ॥

अशा-०२.३.३०
मुख.समः संक्रमः संहार्यो भूमिमयो वा निरुदके ॥

अशा-०२.३.३१
प्राकार.समं मुखम् अवस्थाप्य त्रि.भाग.गोधा.मुखं गोपुरं कारयेत् ॥

अशा-०२.३.३२
प्राकार.मध्ये वापीं कृत्वा पुष्करिणी.द्वारम्, चतुः.शालम् अध्यर्ध.अन्तरं साणिकं कुमारी.पुरम्, मुण्ड.हर्म्य.द्वि.तलं मुण्डक.द्वारम्, भूमि.द्रव्य.वशेन वा निवेशयेत् ॥

अशा-०२.३.३३
त्रि.भाग.अधिक.आयामा भाण्ड.वाहिनीः कुल्याः कारयेत् ॥

अशा-०२.३.३४कख’’’
तासु पाषाण.कुद्दालाः कुठारी.काण्ड.कल्पनाः ।[श्]


अशा-०२.३.३४गघ’’’
मुषुण्ढी.मुद्गरा दण्डाश् चक्र.यन्त्र.शतघ्नयः ॥[श्]


अशा-०२.३.३५कख’’’
कार्याः कार्मारिकाः शूला वेधन.अग्राश् च वेणवः ।[श्]


अशा-०२.३.३५गघ’’’
उष्ट्र.ग्रीव्यो_अग्नि.सम्योगाः कुप्य.कल्पे च यो विधिः ॥[श्] E

(ऌअय्-ओउत् ओf थे fओर्तिfइएद् चित्य्)

अशा-०२.४.०१
त्रयः प्राचीना राज.मार्गास् त्रय उदीचीना इति वास्तु.विभागः ॥

अशा-०२.४.०२
स द्वादश.द्वारो युक्त.उदक.भ्रमच्.छन्न.पथः ॥

अशा-०२.४.०३
चतुर्.दण्ड.अन्तरा रथ्याः ॥

अशा-०२.४.०४
राज.मार्ग.द्रोण.मुख.स्थानीय.राष्ट्र.विवीत.पथाः सम्यानीय.व्यूह.श्मशान.ग्राम.पथाश् च_अष्ट.दण्डाः ॥

अशा-०२.४.०५
चतुर्.दण्डः सेतु.वन.पथः, द्वि.दण्डो हस्ति.क्षेत्र.पथः, पञ्च.अरत्नयो रथ.पथः, चत्वारः पशु.पथः, द्वौ क्षुद्र.पशु.मनुष्य.पथः ॥

अशा-०२.४.०६
प्रवीरे वास्तुनि राज.निवेशश् चातुर्वर्ण्य.समाजीवे ॥

अशा-०२.४.०७
वास्तु.हृदयाद् उत्तरे नव.भागे यथा.उक्त.विधानम् अन्तःपुरं प्रान्.मुखम् उदन्.मुखं वा कारयेत् ॥

अशा-०२.४.०८
तस्य पूर्व.उत्तरं भागम् आचार्य.पुरोहित.इज्या.तोय.स्थानं मन्त्रिणश् च_आवसेयुः, पूर्व.दक्षिणं भाग्म् महानसं हस्ति.शाला कोष्ठ.अगारं च ॥

अशा-०२.४.०९
ततः परं गन्ध.माल्य.रस.पण्याः प्रसाधन.कारवः क्षत्रियाश् च पूर्वां दिशम् अधिवसेयुः ॥

अशा-०२.४.१०
दक्षिण.पूर्वं भागं भाण्ड.अगारम् अक्ष.पटलं कर्म.निषद्याश् च, दक्षिण.पश्चिमं भागं कुप्य.गृहम् आयुध.अगारं च ॥

अशा-०२.४.११
ततः परं नगर.धान्य.व्यावहारिक.कार्मान्तिक.बल.अध्यक्षाः पक्व.अन्न.सुरा.मांस.पण्या रूपाजीवास् तालावचरा वैश्याश् च दक्षिणां दिशम् अधिवसेयुः ॥

अशा-०२.४.१२
पश्चिम.दक्षिणं भागं खर.उष्ट्र.गुप्ति.स्थानं कर्म.गृहं च, पश्चिम.उत्तरं भागं यान.रथ.शालाः ॥

अशा-०२.४.१३
ततः परम् ऊर्णा.सूत्र.वेणु.चर्म.वर्म.शस्त्र.आवरण.कारवः शूद्राश् च पश्चिमां दिशम् अधिवसेयुः ॥

अशा-०२.४.१४
उत्तर.पश्चिमं भागं पण्य.भैषज्य.गृहम्, उत्तर.पूर्वं भागं कोशो गव.अश्वं च ॥

अशा-०२.४.१५
ततः परं नगर.राज.देवता.लोह.मणि.कारवो ब्राह्मणाश् च_उत्तरां दिशम् अधिवसेयुः ॥

अशा-०२.४.१६
वास्तुच्.छिद्र.अनुशालेषु श्रेणी.प्रपणि.निकाया आवसेयुः ॥

अशा-०२.४.१७
अपर.अजित.अप्रतिहत.जयन्त.वैजयन्त.कोष्ठान् शिव.वैश्रवण.अश्वि.श्री.मदिरा.गृहाणि च पुर.मध्ये कारयेत् ॥

अशा-०२.४.१८
यथा.उद्देशं वास्तु.देवताः स्थापयेत् ॥

अशा-०२.४.१९
ब्राह्म.ऐन्द्र.याम्य.सैनापत्यानि द्वाराणि ॥

अशा-०२.४.२०
बहिः परिखाया धनुः.शत.अपकृष्टाश् चैत्य.पुण्य.स्थान.वन.सेतु.बन्धाः कार्याः, यथा.दिशं च दिग्.देवताः ॥

अशा-०२.४.२१
उत्तरः पूर्वो वा श्मशान.भागो वर्ण.उत्तमानाम्, दक्षिणेन श्मशानं वर्ण.अवराणाम् ॥

अशा-०२.४.२२
तस्य_अतिक्रमे पूर्वः साहस.दण्डः ॥

अशा-०२.४.२३
पाषण्ड.चण्डालानां श्मशान.अन्ते वासः ॥

अशा-०२.४.२४
कर्म.अन्त.क्षेत्र.वशेन कुटुम्बिनां सीमानं स्थापयेत् ॥

अशा-०२.४.२५
तेषु पुष्प.फल.वाटान् धान्य.पण्य.निचयांश् च_अनुज्ञाताः कुर्युः ॥

अशा-०२.४.२६
दश.कुली.वाटं कूप.स्थानम् ॥

अशा-०२.४.२७
सर्व.स्नेह.धान्य.क्षार.लवण.गन्ध.भैषज्य.शुष्क.शाक.यवस.वल्लूर.तृण.काष्ठ.लोह.चर्म.अङ्गार.स्नायु.विष.विषाण.वेणु.वल्कल.सार.दारु.प्रहरण.आवरण.अश्म.निचयान् अनेक.वर्ष.उपभोग.सहान् कारयेत् ॥

अशा-०२.४.२८
नवेन_अनवं शोधयेत् ॥

अशा-०२.४.२९
हस्ति.अश्व.रथ.पादातम् अनेक.मुख्यम् अवस्थापयेत् ॥

अशा-०२.४.३०
अनेक.मुख्यं हि परस्पर.भयात् पर.उपजापं न_उपैति ॥

अशा-०२.४.३१
एतेन_अन्त.पाल.दुर्ग.संस्कारा व्याख्याताः ॥

अशा-०२.४.३२कख’’’
न च बाहिरिकान् कुर्यात् पुरे राष्ट्र.उपघातकान् ।[श्]


अशा-०२.४.३२गघ’’’
क्षिपेज् जन.पदे च_एतान् सर्वान् वा दापयेत् करान् ॥[श्] E

(ठे wओर्क् ओf स्तोरे-केएपिन्ग् ब्य् थे दिरेच्तोर् ओf स्तोरिएस्)

अशा-०२.५.०१
सम्निधाता कोश.गृहं पण्य.गृहं कोष्ठ.अगारं कुप्य.गृहम् आयुध.अगारं बन्धन.अगारं च कारयेत् ॥

अशा-०२.५.०२
चतुर्.अश्रां वापीम् अन्-उदक.उपस्नेहां खानयित्वा पृथु.शिलाभिर् उभयतः पार्श्वं मूलं च प्रचित्य सार.दारु.पञ्जरं भूमि.समं त्रि.तलम् अनेक.विधानं कुट्टिम.देश.स्थान.तलम् एक.द्वारं यन्त्र.युक्त.सोपानं भूमि.गृहं कारयेत् ॥

अशा-०२.५.०३
तस्य_उपरि_उभयतो.निषेधं स-प्रग्रीवम् ऐष्टकं भाण्ड.वाहिनी.परिक्षिप्तं कोश.गृहं कारयेत्, प्रासादं वा ॥

अशा-०२.५.०४
जन.पद.अन्ते ध्रुव.निधिम् आपद्.अर्थम् अभित्यक्तैः कारयेत् ॥

अशा-०२.५.०५क
पक्व.इष्टका.स्तम्भं चतुः.शालम् एक.द्वारम् अनेक.स्थान.तलं विवृत.स्तम्भ.अपसारम् उभयतः पण्य.गृहं कोष्ठ.अगारं च -

अशा-०२.५.०५ख
दीर्घ.बहु.शालं कक्ष्य.आवृत.कुड्यम् अन्तः कुप्य.गृहम्, तद् एव भूमि.गृह.युक्तम् आयुध.अगारं -

अशा-०२.५.०५ग
पृथग्.धर्म.स्थीयं महा.मात्रीयं विभक्त.स्त्री.पुरुष.स्थानम् अपसारतः सुगुप्त.कक्ष्यं बन्धन.अगारं कारयेत् ॥

अशा-०२.५.०६
सर्वेषां शालाः खात.उद.पान.वर्च.स्नान.गृह.अग्नि.विष.त्राण.मार्जार.नकुल.आरक्षा.स्व.दैवत.पूजन.युक्ताः कारयेत् ॥

अशा-०२.५.०७
कोष्ठ.अगारे वर्षमानम् अरत्नि.मुखं कुण्डं स्थापयेत् ॥

अशा-०२.५.०८
तत्.जात.करण.अधिष्ठितः पुराणं नवं च रत्नं सारं फल्गु कुप्यं वा प्रतिगृह्णीयात् ॥

अशा-०२.५.०९
तत्र रत्न.उपधाव् उत्तमो दण्डः कर्तुः कारयितुश् च सार.उपधौ मध्यमः, फल्गु.कुप्य.उपधौ तत्_ च तावत्_ च दण्डः ॥

अशा-०२.५.१०
रूप.दर्शक.विशुद्धं हिरण्यं प्रतिगृह्णीयात् ॥

अशा-०२.५.११
अशुद्धं छेदयेत् ॥

अशा-०२.५.१२
आहर्तुः पूर्वः साहस.दण्डः ॥

अशा-०२.५.१३
शुद्धं पूर्णम् अभिनवं च धान्यं प्रतिगृह्णीयात् ॥

अशा-०२.५.१४
विपर्यये मूल्य.द्विगुणो दण्डः ॥

अशा-०२.५.१५
तेन पण्यं कुप्यम् आयुधं च व्याख्यातम् ॥

अशा-०२.५.१६
सर्व.अधिकरणेषु युक्त.उपयुक्त.तत्पुरुषाणां पण.आदि.चतुष्.पण.परम.अपहारेषु पूर्व.मध्यम.उत्तम.वधा दण्डाः ॥

अशा-०२.५.१७
कोश.अधिष्ठितस्य कोश.अवच्छेदे घातः ॥

अशा-०२.५.१८
तद्.वैयावृत्य.कराणाम् अर्ध.दण्डाः ॥

अशा-०२.५.१९
परिभाषणम् अविज्ञाते ॥

अशा-०२.५.२०
चोराणाम् अभिप्रधर्षणे चित्रो घातः ॥

अशा-०२.५.२१
तस्माद् आप्त.पुरुॡअ.अधिष्ठितः सम्निधाता निचयान् अनुतिष्ठेत् ॥

अशा-०२.५.२२क
बाह्यम् अभ्यन्तरं चायं विद्याद् वर्ष.शताद् अपि । [श्]

अशा-०२.५.२२ख
यथा पृष्टो न सज्जेत व्यये शेषे च संचये ॥ [श्] E

Cहप्तेर् ६ सेच्तिओन्२४ ठे सेत्तिङ्ग् उप् ओf रेवेनुए ब्य् थे अद्मिनिस्त्रतिओन्

अशा-०२.६.०१
समाहर्ता दुर्गं राष्ट्रं खनिं सेतुं वनं व्रजं वणिक्.पथं च_अवेक्षेत ॥

अशा-०२.६.०२
शुल्कं दण्डः पौतवं नागरिको लक्षण.अध्यक्षो मुद्रा.अध्यक्षः सुरा सूना सूत्रं तैलं घृतं क्षारः सौवर्णिकः पण्य.संस्था वेश्या द्यूतं वास्तुकं कारु.शिल्पि.गणो देवता.अध्यक्षो द्वार.बहिरिका.आदेयं च दुर्गम् ॥

अशा-०२.६.०३
सीता भागो बलिः करो वणिक् नदी.पालस् तरो नावः पत्तनं विविचितं वर्तनी रज्जुश् चोर.रज्जुश् च राष्ट्रम् ॥

अशा-०२.६.०४
सुवर्ण.रजत.वज्र.मणि.मुक्ता.प्रवाल.शङ्ख.लोह.लवण.भूमि.प्रस्तर.रस.धातवः खनिः ॥

अशा-०२.६.०५
पुष्प.फल.वाट.षण्ड.केदार.मूल.वापाः सेतुः ॥

अशा-०२.६.०६
पशु.मृग.द्रव्य.हस्ति.वन.परिग्रहो वनम् ॥

अशा-०२.६.०७
गो.महिषम् अज.अविकं खर.उष्त्रम् अश्व.अश्वतरं च व्रजः ॥

अशा-०२.६.०८
स्थल.पथो वारि.पथश् च वणिक्.पथः ॥

अशा-०२.६.०९
इत्य् आय.शरीरम् ॥

अशा-०२.६.१०
मूल्यं भागो व्याजी परिघः क्ल्प्तम्(क्लृप्तम्) रूपिकम् अत्ययश् च_आय.मुखम् ॥

अशा-०२.६.११
देव.पितृ.पूजा.दान.अर्थम्, स्वस्ति.वाचनम्, अन्तःपुरम्, महानसम्, दूत.प्रावर्तिमम्, कोष्ठ.अगारम्, आयुध.अगारम्, पण्य.गृहम्, कुप्य.गृहम्, कर्म.अन्तो, विष्टिः, पत्ति.अश्व.रथ.द्विप.परिग्रहो, गो.मण्डलम्, पशु.मृग.पक्षि.व्याल.वाटाः, काष्ठ.तृण.वाटाश् च_इति व्यय.शरीरम् ॥

अशा-०२.६.१२
राज.वर्षं मासः पक्षो दिवसश् च व्युष्टम्, वर्षा.हेमन्त.ग्रीष्माणां तृतीय.सप्तमा दिवस.ऊनाः पक्षाः शेषाः पूर्णाः, पृथग्.अधिमासकः, इति कालः ॥

अशा-०२.६.१३
करणीयं सिद्धं शेषम् आय.व्ययौ नीवी च ॥

अशा-०२.६.१४
संस्थानं प्रचारः शरीर.अवस्थापनम् आदानं सर्व.समुदय.पिण्डः संजातं - एतत् करणीयम् ॥

अशा-०२.६.१५
कोश.अर्पितं राज.हारः पुर.व्ययश् च प्रविष्टं परम.संवत्सर.अनुवृत्तं शासन.मुक्तं मुख.आज्ञप्तं च_अपातनीयं - एतत् सिद्धम् ॥

अशा-०२.६.१६
सिद्धि.कर्म.योगः दण्ड.शेषम् आहरणीयं बलात्.कृत.प्रतिष्टब्धम् अवमृष्टं च प्रशोध्यं - एतत्_शेषम्, असारम् अल्प.सारं च ॥

अशा-०२.६.१७
वर्तमानः पर्युषितो_अन्य.जातश् च_आयः ॥

अशा-०२.६.१८
दिवस.अनुवृत्तो वर्तमानः ॥

अशा-०२.६.१९
परम.सांवत्सरिकः पर.प्रचार.संक्रान्तो वा पर्युषितः ॥

अशा-०२.६.२०
नष्ट.प्रस्मृतम् आयुक्त.दण्डः पार्श्वं पारिहीणिकम् औपायनिकं डमर.गतक.स्वम् अपुत्रकं निधिश् च_अन्य.जातः ॥

अशा-०२.६.२१
विक्षेप.व्याधित.अन्तर.आरम्भ.शेषं च व्यय.प्रत्यायः ॥

अशा-०२.६.२२
विक्रिये पण्यानाम् अर्घ.वृद्धिर् उपजा, मान.उन्मान.विशेषो व्याजी, क्रय.संघर्षे वार्ध.वृद्धिः - इत्य् आयः ॥

अशा-०२.६.२३
नित्यो नित्य.उत्पादिको लाभो लाभ.उत्पादिक इति व्ययः ॥

अशा-०२.६.२४
दिवस.अनुवृत्तो नित्यः ॥

अशा-०२.६.२५
पक्ष.मास.संवत्सर.लाभो लाभः ॥

अशा-०२.६.२६
तयोर् उत्पन्नो नित्य.उत्पादिको लाभ.उत्पादिक इति व्ययः ॥

अशा-०२.६.२७
संजाताद् आय.व्यय.विशुद्धा नीवी, प्राप्ता च_अनुवृत्ता च ॥

अशा-०२.६.२८कख’’’
एवं कुर्यात् समुदयं वृद्धिं च_आयस्य दर्शयेत् ।[श्]


अशा-०२.६.२८गघ’’’
ह्रासं व्ययस्य च प्राज्ञः साधयेच् च विपर्ययम् ॥[श्] E

(ठे तोपिच् ओf अच्चोउन्त्स् इन् थे रेचोर्द्स् अन्द् औदित् ओffइचे)

अशा-०२.७.०१
अक्ष.पटलम् अध्यक्षः प्रान्.मुखम् उदन्.मुखं वा विभक्त.उपस्थानं निबन्ध.पुस्तक.स्थानं कारयेत् ॥

अशा-०२.७.०२
तत्र_अधिकरणानां संख्या.प्रचार.संजात.अग्रम्, कर्म.अन्तानां द्रव्य.प्रयोग.वृद्धि.क्षय.व्यय.प्रयाम.व्याजी.योग.स्थान.वेतन.विष्टि.प्रमाणम्, रत्न.सार.फल्गु.कुप्यानाम् अर्घ.प्रतिवर्णक.मान.प्रतिमान.उन्मान.अवमान.भाण्डम्, देश.ग्राम.जाति.कुल.संघानां धर्म.व्यवहार.चरित्र.संस्थानम्, राज.उपजीविनां प्रग्रह.प्रदेश.भोग.परिहार.भक्त.वेतन.लाभम्, राज्ञश् च पत्नी.पुत्राणां रत्न.भूमि.लाभं निर्देश.उत्पातिक.प्रतीकार.लाभम्, मित्र.अमित्राणां च संधि.विग्रह.प्रदान.आदानं निबन्ध.पुस्तकस्थं कारयेत् ॥

अशा-०२.७.०३
ततः सर्व.अधिकरणानां करणीयं सिद्धं शेषम् आय.व्ययौ नीवीम् उपस्थानं प्रचारं चरित्रं संस्थानं च निबन्धेन प्रयच्छेत् ॥

अशा-०२.७.०४
उत्तम.मध्यम.अवरेषु च कर्मसु तज्.जातिकम् अध्यक्षं कुर्यात्, सामुदयिकेष्व् अवक्लृप्तिकम्(अवकॢप्तिकम्) यम् उपहत्य राजा न_अनुतप्येत ॥

अशा-०२.७.०५
सहग्राहिणः प्रतिभुवः कर्म.उपजीविनः पुत्रा भ्रातरो भार्या दुहितरो भृत्याश् च_अस्य कर्मच्.छेदं वहेयुः ॥

अशा-०२.७.०६
त्रि.शतं चतुः.पञ्चाशत्_ च_अहोरात्राणां कर्म.संवत्सरः ॥

अशा-०२.७.०७
तम् आषाढी.पर्यवसानम् ऊनं पूर्णं वा दद्यात् ॥

अशा-०२.७.०८
करण.अधिष्ठितम् अधिमासकं कुर्यात् ॥

अशा-०२.७.०९
अपसर्प.अधिष्ठितंच प्रचारम् ॥

अशा-०२.७.१०
प्रचार.चरित्र.संस्थानान्य् अनुपलभमानो हि प्रकृतः समुदयम् अज्ञानेन परिहापयति, उत्थान.क्लेश.असहत्वाद् आलस्येन, शब्दादिष्व् इन्द्रिय.अर्थेषु प्रसक्तः प्रमादेन, संक्रोश.अधर्म.अनर्थ.भीरु.भायेन, कार्य.अर्थिष्व् अनुग्रह.बुद्धिः कामेन, हिंसा.बुद्धिः कोपेन, विद्या.द्रव्य.वल्लभ.अपाश्रयाद् दर्पेण, तुला.मान.तर्क.गणित.अन्तर.उपधानात्_ लोभेन ॥

अशा-०२.७.११
"तेषाम् आनुपूर्व्या यावान् अर्थ.उपघातस् तावान् एक.उत्तरो दण्डः" इति मानवाः ॥

अशा-०२.७.१२
"सर्वत्र_अष्ट.गुणः" इति पाराशराः ॥

अशा-०२.७.१३
"दश.गुणः" इति बार्हस्पत्याः ॥

अशा-०२.७.१४
"विंशति.गुणः" इत्य् औशनसाः ॥

अशा-०२.७.१५
यथा.अपराधम् इति कौटिल्यः ॥

अशा-०२.७.१६
गाणनिक्यानि आषाढीम् आगच्छेयुः ॥

अशा-०२.७.१७
आगतानां समुद्र.पुस्तक.भाण्ड.नीवीकानाम् एकत्र.असम्भाषा.अवरोधं कारयेत् ॥

अशा-०२.७.१८
आय.व्यय.नीवीनाम् अग्राणि श्रुत्वा नीवीम् अवहारयेत् ॥

अशा-०२.७.१९
यच् च_अग्राद् आयस्य_अन्तर.पर्णे नीव्यां वर्धेत व्ययस्य वा यत् परिहापयेत्, तद् अष्ट.गुणम् अध्यक्षं दापयेत् ॥

अशा-०२.७.२०
विपर्यये तम् एव प्रति स्यात् ॥

अशा-०२.७.२१
यथा.कालम् अनागतानाम् अपुस्तक.भाण्ड.नीवीकानां वा देय.दश.बन्धो दण्डः ॥

अशा-०२.७.२२
कार्मिके च_उपस्थिते कारणिकस्य_अप्रतिबध्नतः पूर्वः साहस.दण्डः ॥

अशा-०२.७.२३
विपर्यये कार्मिकस्य द्वि.गुणः ॥

अशा-०२.७.२४
प्रचार.समं महा.मात्राः समग्राः श्रावयेयुर् अविषम.मन्त्राः ॥

अशा-०२.७.२५
पृथग्.भूतो मिथ्या.वादी च_एषाम् उत्तमं दण्डं दद्यात् ॥

अशा-०२.७.२६
अकृत.अहो.रूप.हरं मासम् आकाङ्क्षेत ॥

अशा-०२.७.२७
मासाद् ऊर्ध्वं मास.द्विशत.उत्तरं दण्डं दद्यात् ॥

अशा-०२.७.२८
अल्प.शेष.लेख्य.नीवीकं पञ्च.रात्रम् आकाङ्क्षेत ॥

अशा-०२.७.२९
ततः परं कोश.पूर्वम् अहो.रूप.हरं धर्म.व्यवहार.चरित्र.संस्थान.संकलन.निर्वर्तन.अनुमान.चार.प्रयोगैर् अवेक्षेत ॥

अशा-०२.७.३०
दिवस.पञ्च.रात्र.पक्ष.मास.चातुर्मास्य.संवत्सरैश् च प्रतिसमानयेत् ॥

अशा-०२.७.३१
व्युष्ट.देश.काल.मुख.उत्पत्ति.अनुवृत्ति.प्रमाण.दायक.दापक.निबन्धक.प्रतिग्राहकैश् च_अयं समानयेत् ॥

अशा-०२.७.३२
व्युष्ट.देश.काल.मुख.लाभ.कारण.देय.योग.प्रमाण.आज्ञापक.उद्धारक.विधातृक.प्रतिग्राहकैश् च व्ययं समानयेत् ॥

अशा-०२.७.३३
व्युष्ट.देश.काल.मुख.अनुवर्तन.रूप.लक्षण.प्रमाण.निक्षेप.भाजन.गोपायकैश् च नीवीं समानयेत् ॥

अशा-०२.७.३४
राज.अर्थे कारणिकस्य_अप्रतिबध्नतः प्रतिषेधयतो वा_आज्ञां निबन्धाद् आय.व्ययम् अन्यथा नीवीम् अवलिखतो द्वि.गुणः ॥

अशा-०२.७.३५
क्रम.अवहीनम् उत्क्रमम् अविज्ञातं पुनर्.उक्तं वा वस्तुकम् अवलिखतो द्वादश.पणो दण्डः ॥

अशा-०२.७.३६
नीवीम् अवलिखतो द्वि.गुणः ॥

अशा-०२.७.३७
भक्षयतो_अष्ट.गुणः ॥

अशा-०२.७.३८
नाशयतः पञ्च.बन्धः प्रतिदानं च ॥

अशा-०२.७.३९
मिथ्या.वादे स्तेय.दण्डः ॥

अशा-०२.७.४०
पश्चात्.प्रतिज्ञाते द्वि.गुणः, प्रस्मृत.उत्पन्ने च ॥

अशा-०२.७.४१कख’’’
अपराधं सहेत_अल्पं तुष्येद् अल्पे_अपि च_उदये । [श्]


अशा-०२.७.४१गघ’’’
महा.उपकारं च_अध्यक्षं प्रग्रहेण_अभिपूजयेत् ॥[श्] E

(ऋएचोवेर्य् ओf रेवेनुए मिसप्प्रोप्रिअतेद् ब्य् स्तते एम्प्लोयेएस्)

अशा-०२.८.०१
कोश.पूर्वाः सर्व.आरम्भाः ॥

अशा-०२.८.०२
तस्मात् पूर्वं कोशम् अवेक्षेत ॥

अशा-०२.८.०३
प्रचार.समृद्धिश् चरित्र.अनुग्रहश् चोर.निग्रहो युक्त.प्रतिषेधः सस्य.सम्पत् पण्य.बाहुल्यम् उपसर्ग.प्रमोक्षः परिहार.क्षयो हिरण्य.उपायनम् इति कोश.वृद्धिः ॥

अशा-०२.८.०४
प्रतिबन्धः प्रयोगो व्यवहारो_अवस्तारः परिहापणम् उपभोगः परिवर्तनम् अपहारश् च_इति कोश.क्षयः ॥

अशा-०२.८.०५
सिद्धीनाम् असाधनम् अनवतारणम् अप्रवेशनं वा प्रतिबन्धः ॥

अशा-०२.८.०६
तत्र दश.बन्धो दण्डः ॥

अशा-०२.८.०७
कोश.द्रव्याणां वृद्धि.प्रयोगाः प्रयोगः ॥

अशा-०२.८.०८
पण्य.व्यवहारो व्यवहारः ॥

अशा-०२.८.०९
तत्र फल.द्वि.गुणो दण्डः ॥

अशा-०२.८.१०
सिद्धं कालम् अप्राप्तं करोति_ अप्राप्तं प्राप्तं वा_इत्य् अवस्तारः ॥

अशा-०२.८.११
तत्र पञ्च.बन्धो दण्डः ॥

अशा-०२.८.१२
क्लृप्तम्(कॢप्तम्) आयं परिहापयति व्ययं वा विवर्धयति_इति परिहापणम् ॥

अशा-०२.८.१३
तत्र हीन.चतुर्.गुणो दण्डः ॥

अशा-०२.८.१४
स्वयम् अन्यैर् वा राज.द्रव्याणाम् उपभोजनम् उपभोगः ॥

अशा-०२.८.१५
तत्र रत्न.उपभोगे घातः, सार.उपभोगे मध्यमः साहस.दण्डः, फल्गु.कुप्य.उपभोगे तच् च तावत्_ च दण्डः ॥

अशा-०२.८.१६
राज.द्रव्याणाम् अन्य.द्रव्येन_आदानं परिवर्तनम् ॥

अशा-०२.८.१७
तद् उपभोगेन व्याख्यातम् ॥

अशा-०२.८.१८
सिद्धम् आयं न प्रवेशयति, निबद्धं व्ययं न प्रयच्छति, प्राप्तां नीवीं विप्रतिजानीत इत्य् अपहारः ॥

अशा-०२.८.१९
तत्र द्वादश.गुणो दण्डः ॥

अशा-०२.८.२०
तेषां हरण.उपायाश् चत्वारिंशत् ॥

अशा-०२.८.२१क
पूर्वं सिद्धं पश्चाद् अवतारितम्, पश्चात् सिद्धं पूर्वम् अवतारितम्, साध्यं न सिद्धम्, असाध्यं सिद्धम्, सिद्धम् असिद्धं कृतम्, असिद्धं सिद्धं कृतम्, अल्प.सिद्धं बहु कृतम्, बहु.सिद्धम् अल्पं कृतम्, अन्यत् सिद्धम् अन्यत् कृतम्, अन्यतः सिद्धम् अन्यतः कृतम्,-

अशा-०२.८.२१ख
देयं न दत्तम्, अदेयं दत्तम्, काले न दत्तम्, अकाले दत्तम्, अल्पं दत्तं बहु कृतम्, बहु दत्तम् अल्पं कृतम्, अन्यद् दत्तम् अन्यत् कृतम्, अन्यतो दत्तम् अन्यतः कृतम्,-

अशा-०२.८.२१ग
प्रविष्टम् अप्रविष्टं कृतम्, अप्रविष्टं प्रविष्टं कृतम्, कुप्यम् अदत्त.मूल्यं प्रविष्टम्, दत्त.मूल्यं न प्रविष्टं -

अशा-०२.८.२१घ
संक्षेपो विक्षेपः कृतः, विक्षेपः संक्षेपो वा, महा.अर्घम् अल्प.अर्घेण परिवर्तितम्, अल्प.अर्घं महा.अर्घेण वा -

अशा-०२.८.२१च
समारोपितो_अर्घः, प्रत्यवरोपितो वा, संवत्सरो मास.विषमः कृतः, मासो दिवस.विषमो वा, समागम.विषमः, मुख.विषमः, कार्मिक.विषमः -

अशा-०२.८.२१छ
निर्वर्तन.विषमः, पिण्ड.विषमः, वर्ण.विषमः, अर्घ.विषमः, मान.विषमः, मापन.विषमः, भाजन.विषमः - इति हरण.उपायाः ॥ -

अशा-०२.८.२२
तत्र_उपयुक्त.निधायक.निबन्धक.प्रतिग्राहक.दायक.दापक.मन्त्रि.वैयावृत्य.करान् एक.एकशो_अनुयुञ्जीत ॥

अशा-०२.८.२३
मिथ्या.वादे च_एषां युक्त.समो दण्डः ॥

अशा-०२.८.२४
प्रचारे च_अवघोषयेत् "अमुना प्रकृतेन_उपहताः प्रज्ञापयन्तु" इति ॥

अशा-०२.८.२५
प्रज्ञापयतो यथा.उपघातं दापयेत् ॥

अशा-०२.८.२६
अनेकेषु च_अभियोगेष्व् अपव्ययमानः सकृद् एव पर.उक्तः सर्वं भजेत ॥

अशा-०२.८.२७
वैषम्ये सर्वत्र_अनुयोगं दद्यात् ॥

अशा-०२.८.२८
महत्य् अर्थ.अपहारे च_अल्पेन_अपि सिद्धः सर्वं भजेत ॥

अशा-०२.८.२९
कृत.प्रतिघात.अवस्थः सूचको निष्पन्न.अर्थः षष्ठम् अंशं लभेत, द्वादशम् अंशं भृतकः ॥

अशा-०२.८.३०
प्रभूत.अभियोगाद् अल्प.निष्पत्तौ निष्पन्नस्य_अंशं लभेत ॥

अशा-०२.८.३१
अनिष्पन्ने शारीरं हैरण्यं वा दण्डं लभेत, न च_अनुग्राह्यः ॥

अशा-०२.८.३२कख’’’
निष्पत्तौ निक्षिपेद् वादम् आत्मानं वा_अपवाहयेत् ।[श्]


अशा-०२.८.३२गघ’’’
अभियुक्त.उपजापात् तु सूचको वधम् आप्नुयात् ॥[श्] E

(ईन्स्पेच्तिओन् ओf थे ऋओर्क् ओf ओffइचेर्स्)

अशा-०२.९.०१
अमात्य.सम्पदा_उपेताः सर्व.अध्यक्षाः शक्तितः कर्मसु नियोज्याः ॥

अशा-०२.९.०२
कर्मसु च_एषां नित्यं परीक्षां कारयेत्, चित्त.अनित्यत्वात्_ मनुष्यानाम् ॥

अशा-०२.९.०३
अश्व.सधर्माणो हि मनुष्या नियुक्ताः कर्मसु विकुर्वते ॥

अशा-०२.९.०४
तस्मात् कर्तारं करणं देशं कालं कार्यं प्रक्षेपम् उदयं च_एषु विद्यात् ॥

अशा-०२.९.०५
ते यथा.संदेशम् असंहता अविगृहीताः कर्माणि कुर्युः ॥

अशा-०२.९.०६
संहता भक्षयेयुः, विगृहीता विनाशयेयुः ॥

अशा-०२.९.०७
न च_अनिवेद्य भर्तुः कंचिद् आरम्भं कुर्युः, अन्यत्र_आपत्.प्रतीकारेभ्यः ॥

अशा-०२.९.०८
प्रमाद.स्थानेषु च_एषाम् अत्ययं स्थापयेद् दिवस.वेतन.व्यय.द्वि.गुणम् ॥

अशा-०२.९.०९
यश् च_एषां यथा.आदिष्टम् अर्थं सविशेषं वा करोति स स्थान.मानौ लभेत ॥

अशा-०२.९.१०
"अल्प.आयतिश् चेत्_ महा.व्ययो भक्षयति ॥

अशा-०२.९.११
विपर्यये यथा.आयति.व्ययश् च न भक्षयति" इत्य् आचार्याः ॥

अशा-०२.९.१२
अपसर्पेण_एव_उपलभ्येत_इति कौटिल्यः ॥

अशा-०२.९.१३
यः समुदयं परिहापयति स राज.अर्थं भक्षयति ॥

अशा-०२.९.१४
स चेद् अज्ञान.आदिभिः परिहापयति तद् एनं यथा.गुणं दापयेत् ॥

अशा-०२.९.१५
यः समुदयं द्वि.गुणम् उद्भावयति स जन.पदं भक्षयति ॥

अशा-०२.९.१६
स चेद् राज.अर्थम् उपनयत्य् अल्प.अपराधे वारयितव्यः, महति यथा.अपराधं दण्डयितव्यः ॥

अशा-०२.९.१७
यः समुदयं व्ययम् उपनयति स पुरुष.कर्माणि भक्षयति ॥

अशा-०२.९.१८
स कर्म.दिवस.द्रव्य.मूल्य.पुरुष.वेतन.अपहारेषु यथा.अपराधं दण्डयितव्यः ॥

अशा-०२.९.१९
तस्माद् अस्य यो यस्मिन्न् अधिकरणे शासनस्थः स तस्य कर्मणो याथातथ्यम् आय.व्ययौ च व्यास.समासाभ्याम् आचक्षीत ॥

अशा-०२.९.२०
मूल.हर.तादात्विक.कदर्यांश् च प्रतिषेधयेत् ॥

अशा-०२.९.२१
यः पितृ.पैतामहम् अर्थम् अन्यायेन भक्षयति स मूल.हरः ॥

अशा-०२.९.२२
यो यद् यद् उत्पद्यते तत् तद् भक्षयति स तादात्विकः ॥

अशा-०२.९.२३
यो भृत्य.आत्म.पीडाभ्याम् उपचिनोत्य् अर्थं स कदर्यः ॥

अशा-०२.९.२४
स पक्षवांश् चेद् अनादेयः, विपर्यये पर्यादातव्यः ॥

अशा-०२.९.२५
यो महत्य् अर्थ.समुदये स्थितः कदर्यः सम्निधत्ते_अवनिधत्ते_अवस्रावयति वा - सम्निधत्ते स्व.वेश्मनि, अवनिधत्ते पौर.जानपदेषु, अवस्रावयति पर.विषये - तस्य सत्त्री मन्त्रि.मित्र.भृत्य.बन्धु.पक्षम् आगतिं गतिं च द्रव्याणाम् उपलभेत ॥

अशा-०२.९.२६
यश् च_अस्य पर.विषये संचारं कुर्यात् तम् अनुप्रविश्य मन्त्रं विद्यात् ॥

अशा-०२.९.२७
सुविदिते शत्रु.शासन.अपदेशेन_एनं घातयेत् ॥

अशा-०२.९.२८
तस्माद् अस्य_अध्यक्षाः संख्यायक.लेखक.रूप.दर्शक.नीवी.ग्राहक.उत्तर.अध्यक्ष.सखाः कर्मणि कुर्युः ॥

अशा-०२.९.२९
उत्तर.अध्यक्षा हस्ति.अश्व.रथ.आरोहाः ॥

अशा-०२.९.३०
तेषाम् अन्तेवासिनः शिल्प.शौच.युक्ताः संख्यायक.आदीनाम् अपसर्पाः ॥

अशा-०२.९.३१
बहु.मुख्यम् अनित्यं च_अधिकरणं स्थापयेत् ॥

अशा-०२.९.३२कख’’’
यथा ह्य् अनास्वादयितुं न शक्यं जिह्वा.तलस्थं मधु७ वा विषं वा । [श्]


अशा-०२.९.३२गघ’’’
अर्थस् तथा ह्य् अर्थ.चरेण राज्ञः स्वल्पो_अप्य् अनास्वादयितुं न शक्यः ॥[श्]


अशा-०२.९.३३कख’’’
मत्स्या यथा_अन्तः सलिले चरन्तो ज्ञातुं न शक्याः सलिलं पिबन्तः ।[श्]


अशा-०२.९.३३गघ’’’
युक्तास् तथा कार्य.विधौ नियुक्ता ज्ञातुं न शक्या धनम् आददानाः ॥[श्]


अशा-०२.९.३४कख’’’
अपि शक्या गतिर् ज्ञातुं पततां खे पतत्रिणाम् ।[श्]


अशा-०२.९.३४गघ’’’
न तु प्रच्छन्न.भावानां युक्तानां चरतां गतिः ॥[श्]


अशा-०२.९.३५कख’’’
आस्रावयेच् च_उपचितान् विपर्यस्येच् च कर्मसु ।[श्]


अशा-०२.९.३५गघ’’’
यथा न भक्षयन्त्य् अर्थं भक्षितं निर्वमन्ति वा ॥[श्]


अशा-०२.९.३६कख’’’
न भक्षयन्ति ये त्व् अर्थान् न्यायतो वर्धयन्ति च ।[श्]


अशा-०२.९.३६गघ’’’
नित्य.अधिकाराः कार्यास् ते राज्ञः प्रिय.हिते रताः ॥[श्] E

(Oन् एदिच्त्स्)

अशा-०२.१०.०१
शासने शासनम् इत्य् आचक्षते ॥

अशा-०२.१०.०२
शासन.प्रधाना हि राजानः, तन्.मूलत्वात् संधि.विग्रहयोः ॥

अशा-०२.१०.०३
तस्माद् अमात्य.सम्पदा_उपेतः सर्व.समयविद् आशु.ग्रन्थश् चारु.अक्षरो लेखन.वाचन.समर्थो लेखकः स्यात् ॥

अशा-०२.१०.०४
सो_अव्यग्र.मना राज्ञः संदेशं श्रुत्वा निश्चित.अर्थं लेखं विदध्यात् देश.ऐश्वर्य.वंश.नामधेय.उपचारम् ईश्वरस्य, देश.नामधेय.उपचारम् अनीश्वरस्य ॥

अशा-०२.१०.०५कख’’’
जातिं कुलं स्थान.वयः.श्रुतानि कर्म.ऋद्धि.शीलान्य् अथ देश.कालौ ।[श्]


अशा-०२.१०.०५गघ’’’
यौन.अनुबन्धं च समीक्ष्य कार्ये लेखं विदध्यात् पुरुष.अनुरूपम् ॥[श्]


अशा-०२.१०.०६
अर्थ.क्रमः सम्बन्धः परिपूर्णता माधुर्यम् औदार्यं स्पष्टत्वम् इति लेख.सम्पत् ॥

अशा-०२.१०.०७
तत्र यथावद् अनुपूर्व.क्रिया प्रधानस्य_अर्थस्य पूर्वम् अभिनिवेश इत्य् अर्थ.क्रमः ॥

अशा-०२.१०.०८
प्रस्तुतस्य_अर्थस्य_अनुपरोधाद् उत्तरस्य विधानम् आ.समाप्तेर् इति सम्बन्धः ॥

अशा-०२.१०.०९
अर्थ.पद.अक्षराणाम् अन्यून.अतिरिक्तता हेतु.उदाहरण.दृष्टान्तैर् अर्थ.उपवर्णना_अश्रान्त.पदता_इति परिपूर्णता ॥

अशा-०२.१०.१०
सुख.उपनीत.चारु.अर्थ.शब्द.अभिधानं माधुर्यम् ॥

अशा-०२.१०.११
अग्राम्य.शब्द.अभिधानम् औदार्यम् ॥

अशा-०२.१०.१२
प्रतीत.शब्द.प्रयोगः स्पष्टत्वम् इति ॥

अशा-०२.१०.१३
अ.कार.आदयो वर्णास् त्रिषष्टिः ॥

अशा-०२.१०.१४
वर्ण.संघातः पदम् ॥

अशा-०२.१०.१५
तच् चतुर्विधं नाम.आख्यात.उपसर्ग.निपाताश् च_इति ॥

अशा-०२.१०.१६
तत्र नाम सत्त्व.अभिधायि ॥

अशा-०२.१०.१७
अविशिष्ट.लिङ्गम् आख्यातं क्रिया.वाचि ॥

अशा-०२.१०.१८
क्रिया.विशेषकाः प्र.आदय उपसर्गाः ॥

अशा-०२.१०.१९
अव्ययाश् च.आदयो निपाताः ॥

अशा-०२.१०.२०
पद.समूहो वाक्यम् अर्थ.परिसमाप्तौ ॥

अशा-०२.१०.२१
एक.पद.अवरस् त्रि.पद.परः पर.पद.अर्थ.अनुपरोधेन वर्गः कार्यः ॥

अशा-०२.१०.२२
लेख.परिसंहरण.अर्थ इति.शब्दो वाचिकम् अस्य_इति च ॥

अशा-०२.१०.२३कख’’’
निन्दा प्रशंसा पृच्छा च तथा_आख्यानम् अथ_अर्थना ।[श्]


अशा-०२.१०.२३गघ’’’
प्रत्याख्यानम् उपालम्भः प्रतिषेधो_अथ चोदना ॥[श्]


अशा-०२.१०.२४कख’’’
सान्त्वम् अभ्युपपत्तिश् च भर्त्सन.अनुनयौ तथा ।[श्]


अशा-०२.१०.२४गघ’’’
एतेष्व् अर्थाः प्रवर्तन्ते त्रयोदशसु लेखजाः ॥[श्]


अशा-०२.१०.२५
तत्र_अभिजन.शरीर.कर्मणां दोष.वचनं निन्दा ॥

अशा-०२.१०.२६
गुण.वचनम् एतेषाम् एव प्रशंसा ॥

अशा-०२.१०.२७
"कथम् एतद्" इति पृच्छा ॥

अशा-०२.१०.२८
"एवम्" इत्य् आख्यानम् ॥

अशा-०२.१०.२९
"देहि" इत्य् अर्थना ॥

अशा-०२.१०.३०
"न प्रयच्छामि" इति प्रत्याख्यानम् ॥

अशा-०२.१०.३१
"अननुरूपं भवतः" इत्य् उपालम्भः ॥

अशा-०२.१०.३२
"मा कार्षीः" इति प्रतिषेधः ॥

अशा-०२.१०.३३
"इदं क्रियताम्" इति चोदना ॥

अशा-०२.१०.३४
"यो_अहं स भवान्, यन् मम द्रव्यं तद् भवतः" इत्य् उपग्रहः सान्त्वम् ॥

अशा-०२.१०.३५
व्यसन.साहाय्यम् अभ्युपपत्तिः ॥

अशा-०२.१०.३६
सदोषम् आयति.प्रदर्शनम् अभिभर्त्सनम् ॥

अशा-०२.१०.३७
अनुनयस् त्रिविधो_अर्थ.कृताव् अतिक्रमे पुरुष.आदि.व्यसने च_इति ॥

अशा-०२.१०.३८कख’’’
प्रज्ञापन.आज्ञा.परिदान.लेखास् तथा परीहार.निसृष्टि.लेखौ ।[श्]


अशा-०२.१०.३८गघ’’’
प्रावृत्तिकश् च प्रतिलेख एव सर्वत्रगश् च_इति हि शासनानि ॥[श्]


अशा-०२.१०.३९कख’’’
अनेन विज्ञापितम् एवम् आह तद् दीयतां चेद् यदि तत्त्वम् अस्ति ।[श्]


अशा-०२.१०.३९गघ’’’
राज्ञः समीपे वर.कारम् आह प्रज्ञापना_एषा विविधा_उपदिष्टा ॥[श्]


अशा-०२.१०.४०कख’’’
भर्तुर् आज्ञा भवेद् यत्र निग्रह.अनुग्रहौ प्रति ।[श्]


अशा-०२.१०.४०गघ’’’
विशेषेण तु भृत्येषु तद्.आज्ञा.लेख.लक्षणम् ॥[श्]


अशा-०२.१०.४१कख’’’
यथा.अर्ह.गुण.सम्युक्ता पूजा यत्र_उपलक्ष्यते ।[श्]


अशा-०२.१०.४१गघ’’’
अप्य् आधौ परिदाने वा भवतस् ताव् उपग्रहौ ॥[श्]


अशा-०२.१०.४२कख’’’
जातेर् विशेषेषु परेषु चैव ग्रामेषु देशेषु च तेषु तेषु ।[श्]


अशा-०२/१०.४२गघ’’’
अनुग्रहो यो नृप्तेर् निदेशात् तज्.ज्ञः परीहार इति व्यवस्येत् ॥[श्]


अशा-०२.१०.४३कख’’’
निसृष्टिस्था_आपना कार्य.करणे वचने तथा ।[श्]


अशा-०२.१०.४३गघ’’’
एष वाचिक.लेखः स्याद् भवेन् नैसृष्टिको_अपि वा ॥[श्]


अशा-०२.१०.४४कख’’’
विविधां दैव.सम्युक्तां तत्त्वजां चैव मानुषीम् ।[श्]


अशा-०२.१०.४४गघ’’’
द्वि.विधां तां व्यवस्यन्ति प्रवृत्तिं शासनं प्रति ॥[श्]


अशा-०२.१०.४५कख’’’
दृष्ट्वा लेखं यथा.तत्त्वं ततः प्रत्यनुभाष्य च ।[श्]


अशा-०२.१०.४५गघ’’’
प्रतिलेखो भवेत् कार्यो यथा राज.वचस् तथा ॥[श्]


अशा-०२.१०.४६कख’’’
यत्र_ईश्वरांश् च_अधिकृतांश् च राजा रक्षा.उपकारौ पथिक.अर्थम् आह ।[श्]


अशा-०२.१०.४६गघ’’’
सर्वत्रगो नाम भवेत् स मार्गे देशे च सर्वत्र च वेदितव्यः ॥


अशा-०२.१०.४७
उपायाः साम.उपप्रदान.भेद.दण्डाः ॥

अशा-०२.१०.४८
तत्र साम पञ्चविधं - गुण.संकीर्तनम्, सम्बन्ध.उपाख्यानम्, परस्पर.उपकार.संदर्शनम्, आयति.प्रदर्शनम्, आत्म.उपनिधानम् इति ॥

अशा-०२.१०.४९
तत्र_अभिजन.शरीर.कर्म.प्रकृति.श्रुत.द्रव्य.आदीनां गुण.ग्रहणं प्रशंसा स्तुतिर् गुण.संकीर्तनम् ॥

अशा-०२.१०.५०
ज्ञाति.यौन.मौख.स्रौव.कुल.हृदय.मित्र.संकीर्तनं सम्बन्ध.उपाख्यानम् ॥

अशा-०२.१०.५१
स्व.पक्ष.पर.पक्षयोर् अन्योन्य.उपकार.संकीर्तनं परस्पर.उपकार.संदर्शनम् ॥

अशा-०२.१०.५२
"अस्मिन्न् एवं कृत इदम् आवयोर् भवति" इत्य् आशा.जननम् आयति.प्रदर्शनम् ॥

अशा-०२.१०.५३
"यो_अहं स भवान्, यन् मम द्रव्यं तद् भवता स्व.कृत्येषु प्रयोज्यताम्" इत्य् आत्म.उपनिधानम् । इति ॥

अशा-०२.१०.५४
उपप्रदानम् अर्थ.उपकारः ॥

अशा-०२.१०.५५
शङ्का.जननं निर्भर्त्सनं च भेदः ॥

अशा-०२.१०.५६
वधः परिक्लेशो_अर्थ.हरणं दण्डः । इति ॥

अशा-०२.१०.५७
अकान्तिर् व्याघातः पुनर्.उक्तम् अपशब्दः सम्प्लव इति लेख.दोषः ॥

अशा-०२.१०.५८
तत्र काल.पत्त्रकम् अचारु.विषम् अविराग.अक्षरत्वम् अकान्तिः ॥

अशा-०२.१०.५९
पूर्वेण पश्चिमस्य_अनुपपत्तिर् व्याघातः ॥

अशा-०२.१०.६०
उक्तस्य_अविशेषेण द्वितीयम् उच्चारणं पुनर्.उक्तम् ॥

अशा-०२.१०.६१
लिङ्ग.वचन.काल.कारकाणाम् अन्यथा.प्रयोगो_अपशब्दः ॥

अशा-०२.१०.६२
अवर्गे वर्ग.करणं च_अवर्ग.क्रिया गुण.विपर्यासः सम्प्लवः । इति ॥

अशा-०२.१०.६३कख’’’
सर्व.शास्त्राण्य् अनुक्रम्य प्रयोगम् उपलभ्य च ।[श्]


अशा-०२.१०.६३गघ’’’
कौटिल्येन नर.इन्द्र.अर्थे शासनस्य विधिः कृतः ॥[श्] E

(Exअमिनतिओन् ओf थे प्रेचिओउस् अर्तिच्लेस् तो बे रेचेइवेद् इन्तो थे त्रेअसुर्य्)

अशा-०२.११.०१
कोश.अध्यक्षः कोश.प्रवेश्यं रत्नं सारं फल्गुं कुप्यं वा तज्.जात.करण.अधिष्ठितः प्रतिगृह्णीयात् ॥

अशा-०२.११.०२
ताम्र.पर्णिकं पाण्ड्यक.वाटकं पाशिक्यं कौलेयं चौर्णेयं माहेन्द्रं कार्दमिकं स्रौतसीयं ह्रादीयं हैमवतं च मौक्तिकम् ॥

अशा-०२.११.०३
शुक्तिः शङ्खः प्रकीर्णकं च योनयः ॥

अशा-०२.११.०४
मसूरकं त्रि.पुटकं कूर्मकम् अर्ध.चन्द्रकं कञ्चुकितं यमकं कर्तकं खरकं सिक्तकं कामण्डलुकं श्यावं नीलं दुर्विद्धं च_अप्रशस्तम् ॥

अशा-०२.११.०५
स्थूलं वृत्तं निस्तलं भ्राजिष्णु श्वेतं गुरु स्निग्धं देश.विद्धं च प्रशस्तम् ॥

अशा-०२.११.०६
शीर्षकम् उपशीर्षकं प्रकाण्डकम् अवघाटकं तरल.प्रतिबद्धं च_इति यष्टि.प्रभेदाः ॥

अशा-०२.११.०७
यष्टीनाम् अष्ट.सहस्रम् इन्द्रच्.छन्दः ॥

अशा-०२.११.०८
ततो_अर्धं विजयच्.छन्दः ॥

अशा-०२.११.०९
चतुष्षष्टिर् अर्ध.हारः ॥

अशा-०२.११.१०
चतुष्.पञ्चाशद् रश्मि.कलापः ॥

अशा-०२.११.११
द्वात्रिंशद् गुच्छः ॥

अशा-०२.११.१२
सप्त.विंशतिर् नक्षत्र.माला ॥

अशा-०२.११.१३
चतुर्विंशतिर् अर्ध.गुच्छः ॥

अशा-०२.११.१४
विंशतिर् माणवकः ॥

अशा-०२.११.१५
ततो_अर्धम् अर्ध.माणवकः ॥

अशा-०२.११.१६
एत एव मणि.मध्यास् तन्.माणवका भवन्ति ॥

अशा-०२.११.१७
एक.शीर्षकः शुद्धो हारः ॥

अशा-०२.११.१८
तद्वत्.शेषाः ॥

अशा-०२.११.१९
मणि.मध्यो_अर्ध.माणवकः ॥

अशा-०२.११.२०
त्रि.फलकः फलक.हारः, पञ्च.फलको वा ॥

अशा-०२.११.२१
सूत्रम् एकावली शुद्धा ॥

अशा-०२.११.२२
सा_एव मणि.मध्या यष्टिः ॥

अशा-०२.११.२३
हेम.मणि.चित्रा रत्नावली ॥

अशा-०२.११.२४
हेम.मणि.मुक्ता.अन्तरो_अपवर्तकः ॥

अशा-०२.११.२५
सुवर्ण.सूत्र.अन्तरं सोपानकम् ॥

अशा-०२.११.२६
मणि.मध्यं वा मणि.सोपानकम् ॥

अशा-०२.११.२७
तेन शिरो.हस्त.पाद.कटी.कलाप.जालक.विकल्पा व्याख्याताः ॥

अशा-०२.११.२८
मणिः कौटो.मालेयकः पार.समुद्रकश् च ॥

अशा-०२.११.२९
सौगन्धिकः पद्म.रागो_अनवद्य.रागः पारिजात.पुष्पको बाल.सूर्यकः ॥

अशा-०२.११.३०
वैडूर्यम् उत्पल.वर्णः शिरीष.पुष्पक उदक.वर्णो वंश.रागः शुक.पत्त्र.वर्णः पुष्य.रागो गो.मूत्रको गो.मेदकः ॥

अशा-०२.११.३१
इन्द्र.नीलो नील.अवलीयः कलाय.पुष्पको महा.नीलो जम्ब्व्.आभो जीमूत.प्रभो नन्दकः स्रवन्.मध्यः ॥

अशा-०२.११.३२
शुद्ध.स्फटिको मूलाट.वर्णः शीत.वृष्टिः सूर्य.कान्तश् च । इति मणयः ॥

अशा-०२.११.३३
षड्.अश्रश् चतुर्.अश्रो वृत्तो वा तीव्र.रागः संस्थानवान् अछः स्निग्धो गुरुर् अर्चिष्मान् अन्तर्.गत.प्रभः प्रभा.अनुलेपी च_इति मणि.गुणाः ॥

अशा-०२.११.३४
मन्द.राग.प्रभः स-शर्करः पुष्पच्.छिद्रः खण्डो दुर्विद्धो लेख.आकीर्ण इति दोषाः ॥

अशा-०२.११.३५
विमलकः सस्यको_अञ्जन.मूलकः पित्तकः सुलभको लोहित.अक्षो मृग.अश्मको ज्योती.रसको मालेयको_अहिच्.छत्रकः कूर्पः प्रतिकूर्पः सुगन्धि.कूर्पः क्षीरवकः श्शुक्ति.चूर्णकः शिला.प्रवालकः पुलकः शुक्ल.पुलक इत्य् अन्तर.जातयः ॥

अशा-०२.११.३६
शेषाः काच.मणयः ॥

अशा-०२.११.३७
सभा.राष्ट्रकं तज्जमा.राष्ट्रकं कास्तीर.राष्ट्रकं श्री.कटनकं मणिमन्तकम् इन्द्र.वानकं च वज्रम् ॥

अशा-०२.११.३८
खनिः स्रोतः प्रकीर्णकं च योनयः ॥

अशा-०२.११.३९
मार्जार.अक्षकं शिरीष.पुष्पकं गो.मूत्रकं गो.मेदकं शुद्ध.स्फटिकं मूलाटी.वर्णं मणि.वर्णानाम् अन्यतम.वर्णम् इति वज्र.वर्णाः ॥

अशा-०२.११.४०
स्थूलं गुरु प्रहार.सहं समकोटिकं भाजन.लेखि तर्कु.भ्रामि भ्राजिष्णु च प्रशस्तम् ॥

अशा-०२.११.४१
नष्ट.कोणं निराश्रि पार्श्व.अपवृत्तं च_अप्रशस्तम् ॥

अशा-०२.११.४२
प्रवालकम् आल.कन्दकं वैवर्णिकं च, रक्तं पद्म.रागं च करट.गर्भिणिका.वर्जम् इति ॥

अशा-०२.११.४३
चन्दनं सातनं रक्तं भूमि.गन्धि ॥

अशा-०२.११.४४
गो.शीर्षकं काल.ताम्रं मत्स्य.गन्धि ॥

अशा-०२.११.४५
हरि.चन्दनं शुक.पत्त्र.वर्णम् आम्र.गन्धि, तार्णसं च ॥

अशा-०२.११.४६
ग्रामेरुकं रक्तं रक्त.कालं वा बस्त.मूत्र.गन्धि ॥

अशा-०२.११.४७
दैवसभेयं रक्तं पद्म.गन्धि, जापकं च ॥

अशा-०२.११.४८
जोङ्गकं रक्तं रक्त.कालं वा स्निग्धम्, तौरूपं च ॥

अशा-०२.११.४९
मालेयकं पाण्डु.रक्तम् ॥

अशा-०२.११.५०
कुचन्दनं रूक्षम् अगुरु.कालं रक्तं रक्त.कालं वा ॥

अशा-०२.११.५१
काल.पर्वतकं रक्त.कालम् अनवद्य.वर्णं वा ॥

अशा-०२.११.५२
कोश.अगार.पर्वतकं कालं काल.चित्रं वा ॥

अशा-०२.११.५३
शीत.उदकीयं पद्म.आभं काल.स्निग्धं वा ॥

अशा-०२.११.५४
नाग.पर्वतकं रूक्षं शैवल.वर्णं वा ॥

अशा-०२.११.५५
शाकलं कपिलम् । इति ॥

अशा-०२.११.५६
लघु स्निग्धम् अश्यानं सर्पिः.स्नेह.लेपि गन्ध.सुखं त्वग्.अनुसार्य् अनुल्बणम् अविराग्य् उष्ण.सहं दाह.ग्राहि सुख.स्पर्शनम् इति चन्दन.गुणाः ॥

अशा-०२.११.५७
अगुरु जोङ्गकं कालं काल.चित्रं मण्डल.चित्रं वा ॥

अशा-०२.११.५८
श्यामं दोङ्गकम् ॥

अशा-०२.११.५९
पार.समुद्रकं चित्र.रूपम् उशीर.गन्धि नव.मालिका.गन्धि वा । इति ॥

अशा-०२.११.६०
गुरु स्निग्धं पेशल.गन्धि निर्हार्य् अग्नि.सहम् असम्प्लुत.धूमं विमर्द.सहम् इत्य् अगुरु.गुणाः ॥

अशा-०२.११.६१
तैल.पर्णिकम् अशोक.ग्रामिकं मांस.वर्णं पद्म.गन्धि ॥

अशा-०२.११.६२
जोङ्गकं रक्त.पीतकम् उत्पल.गन्धि गो.मूत्र.गन्धि वा ॥

अशा-०२.११.६३
ग्रामेरुकं स्निग्धं गो.मूत्र.गन्धि ॥

अशा-०२.११.६४
सौवर्ण.कुड्यकं रक्त.पीतं मातुलुङ्ग.गन्धि ॥

अशा-०२.११.६५
पूर्णक.द्वीपकं पद्म.गन्धि नव.नीत.गन्धि वा ॥

अशा-०२.११.६६
भद्र.श्रियं पारलौहित्यकं जाती.वर्णम् ॥

अशा-०२.११.६७
आन्तरवत्यम् उशीर.वर्णम् ॥

अशा-०२.११.६८
उभयं कुष्ठ.गन्धि च । इति ॥

अशा-०२.११.६९
कालेयकः स्वर्ण.भूमिजः स्निग्ध.पीतकः ॥

अशा-०२.११.७०
औत्तर.पर्वतको रक्त.पीतकः ॥ इति साराः ।

अशा-०२.११.७१
पिण्ड.क्वाथ.धूम.सहम् अविरागि योग.अनुविधायि च ॥

अशा-०२.११.७२
चन्दन.अगुरुवच् च तेषां गुणाः ॥

अशा-०२.११.७३
कान्तनावकं प्रैयकं च_उत्तर.पर्वतकं चर्म ॥

अशा-०२.११.७४
कान्तनावकं मयूर.ग्रीव.आभम् ॥

अशा-०२.११.७५
प्रैयकं नील.पीत.श्वेत.लेखा.बिन्दु.चित्रम् ॥

अशा-०२.११.७६
तद्.उभयम् अष्ट.अङ्गुल.आयामम् ॥

अशा-०२.११.७७
बिसी महा.बिसी च द्वादश.ग्रामीये ॥

अशा-०२.११.७८
अव्यक्त.रूपा दुहिलितिका चित्रा वा बिसी ॥

अशा-०२.११.७९
परुषा श्वेत.प्राया महाबिसी ॥

अशा-०२.११.८०
द्वादश.अङ्गुल.आयामम् उभयम् ॥

अशा-०२.११.८१
श्यामिका कालिका कदली चन्द्र.उत्तरा शाकुला च_आरोहजाः ॥

अशा-०२.११.८२
कपिला बिन्दु.चित्रा वा श्यामिका ॥

अशा-०२.११.८३
कालिका कपिला कपोत.वर्णा वा ॥

अशा-०२.११.८४
तद् उभयम् अष्ट.अङ्गुल.आयामम् ॥

अशा-०२.११.८५
परुषा कदली हस्त.आयता ॥

अशा-०२.११.८६
सा_एव चन्द्र.चित्रा चन्द्र.उत्तरा ॥

अशा-०२.११.८७
कदली.त्रि.भागा शाकुला कोठ.मण्डल.चित्रा कृत.कर्णिका_अजिन.चित्रा वा । इति ॥

अशा-०२.११.८८
सामूरं चीनसी सामूली च बाह्लवेयाः ॥

अशा-०२.११.८९
षट्.त्रिंशद्.अङ्गुलम् अञ्जन.वर्णं सामूरम् ॥

अशा-०२.११.९०
चीनसी रक्त.काली पाण्डु.काली वा ॥

अशा-०२.११.९१
सामूली गो.धूम.वर्णा । इति ॥

अशा-०२.११.९२
सांतिना नल.तूला वृत्त.पृच्छा चौद्राः ॥

अशा-०२.११.९३
सातिना कृष्णा ॥

अशा-०२.११.९४
नल.तूला नल.तूल.वर्णा ॥

अशा-०२.११.९५
कपिला वृत्त.पुच्छा च ॥ इति चर्म.जातयः ।

अशा-०२.११.९६
चर्मणां मृदु स्निग्धं बहुल.रोम च श्रेष्ठम् ॥

अशा-०२.११.९७
शुद्धं शुद्ध.रक्तं पक्ष.रक्तं च_आविकम्, खचितं वान.चित्रं खण्ड.संघात्यं तन्तु.विच्छिन्नं च ॥

अशा-०२.११.९८
कम्बलः कौचपकः कुलमितिका सौमितिका तुरग.आस्तरणं वर्णकं तलिच्छकं वार.वाणः परिस्तोमः समन्त.भद्रकं च_आविकम् ॥

अशा-०२.११.९९
पिच्छिलम् आर्द्रम् इव च सूक्ष्मं मृदु च श्रेष्ठम् ॥

अशा-०२.११.१००
अष्ट.प्रोति.संघात्या कृष्णा भिङ्गिसी वर्ष.वारणम् अपसारक इति नैपालकम् ॥

अशा-०२.११.१०१
सम्पुटिका चतुर्.अश्रिका लम्बरा कटवानकं प्रावरकः सत्तलिका_इति मृग.रोम ॥

अशा-०२.११.१०२
वाङ्गकं श्वेतं स्निग्धं दुकूलम् ॥

अशा-०२.११.१०३
पौण्ड्रकं श्यामं मणि.स्निग्धम् ॥

अशा-०२.११.१०४
सौवर्ण.कुड्यकं सूर्य.वर्णं मणि.स्निग्ध.उदक.वानं चतुर्.अश्र.वानं व्यामिश्र.वानं च ॥

अशा-०२.११.१०५
एतेषाम् एक.अंशुकम् अध्यर्ध.द्वि.त्रि.चतुर्.अंशुकम् इति ॥

अशा-०२.११.१०६
तेन काशिकं पौण्ड्रकं च क्षौमं व्याख्यातम् ॥

अशा-०२.११.१०७
मागधिका पौण्ड्रिका सौवर्ण.कुड्यका च पत्त्र.ऊर्णा ॥

अशा-०२.११.१०८
नाग.वृक्षो लिकुचो बकुलो वटश् च योनयः ॥

अशा-०२.११.१०९
पीतिका नाग.वृक्षिका ॥

अशा-०२.११.११०
गो.धूम.वर्णा लैकुची ॥

अशा-०२.११.१११
श्वेता बाकुली ॥

अशा-०२.११.११२
शेषा नव.नीत.वर्णा ॥

अशा-०२.११.११३
तासां सौवर्ण.कुड्यका श्रेष्ठा ॥

अशा-०२.११.११४
तया कौशेयं चीन.पट्टाश् च चीन.भूमिजा व्याख्याताः ॥

अशा-०२.११.११५
माधुरम् आपरान्तकं कालिङ्गं काशिकं वाङ्गकं वात्सकं माहिषकं च कार्पासिकं श्रेष्ठम् । इति ॥

अशा-०२.११.११६
अतः परेषां रत्नानां प्रमाणं मूल्य.लक्षणम् ।

अशा-०२.११.११७
जातिं रूपं च जानीयान् निधानं नव.कर्म च ॥

अशा-०२.११.११८
पुराण.प्रतिसंस्कारं कर्म गुह्यम् उपस्करान् ।

अशा-०२.११.११९
देश.काल.परीभोगं हिंस्राणां च प्रतिक्रियाम् ॥

(ष्तर्तिन्ग् ओर् मिनेस् अन्द् fअच्तोरिएस्)

अशा-०२.१२.०१
आकर.अध्यक्षः शुल्ब.धातु.शास्त्र.रस.पाक.मणि.रागज्ञस् तज्ज्ञ.सखो वा तज्.जात.कर्म.कर.उपकरण.सम्पन्नः किट्ट.मूष.अङ्गार.भस्म.लिङ्गं वा_आकरं भूत.पूर्वम् अभुत.पूर्वं वा भूमि.प्रस्तर.रस.धातुम् अत्यर्थ.वर्ण.गौरवम् उग्र.गन्ध.रसं परीक्षेत ॥

अशा-०२.१२.०२
पर्वतानाम् अभिज्ञात.उद्देशानां बिल.गुह.उपत्यक.आलयन.गूढ.खातेष्व् अन्तः प्रस्यन्दिनो जम्बू.चूत.ताल.फल.पक्व.हरिद्रा.भेद.गुड(गूड?).हरि.ताल.मनः.शिला.क्षौद्र.हिङ्गुलुक.पुण्डरीक.शुक.मयूर.पत्त्र.वर्णाः सवर्ण.उदक.ओषधि.पर्यन्ताश् चिक्कणा विशदा भारिकाश् च रसाः काञ्चनिकाः ॥

अशा-०२.१२.०३
अप्सु निष्ठ्यूतास् तैलवद्.विसर्पिणः षङ्क.मल.ग्राहिणश् च ताम्र.रूप्ययोः शताद् उपरि वेद्धारः ॥

अशा-०२.१२.०४
तत्.प्रतिरूपकम् उग्र.गन्ध.रसं शिला.जतु विद्यात् ॥

अशा-०२.१२.०५
पीतकास्.ताम्रकास् ताम्र.पीतका वा भूमि.प्रस्तर.धातवो भिन्ना नील.राजीवन्तो मुद्ग.माष.कृसर.वर्णा वा दधि.बिन्दु.पिण्ड.चित्रा हरिद्रा.हरीतकी.पद्म.पत्त्र.शैवल.यकृत्.प्लीह.अनवद्य.वर्णा भिन्नाश् चुञ्चु.वालुक.आलेखा.बिन्दु.स्वस्तिकवन्तः सुगुलिका अर्चिष्मन्तस् ताप्यमाना न भिद्यन्ते बहु.फेन.धूमाश् च सुवर्ण.धातवः प्रतीवाप.अर्थास् ताम्र.रूप्य.वेधनाः ॥

अशा-०२.१२.०६
शङ्ख.कर्पूर.स्फटिक.नव.नीत.कपोत.पारावत.विमलक.मयूर.ग्रीवा.वर्णाः सस्यक.गोमेदक.गुड.मत्स्यण्डिका.वर्णाः कोविदार.पद्म.पाटलीक.लाय.क्षौम.अतसी.पुष्प.वर्णाः स-सीसाः स.अञ्जना विस्रा भिन्नाः श्वेत.आभाः कृष्णाः कृष्ण.आभाः श्वेताः सर्वे वा लेखा.बिन्दु.चित्रा मृदवो ध्मायमाना न स्फुटन्ति बहु.फेन.धूमाश् च रूप्य.धातवः ॥

अशा-०२.१२.०७
सर्व.धातूनां गौरव.वृद्धौ सत्त्व.वृद्धिः ॥

अशा-०२.१२.०८
तेषाम् अशुद्धा मूढ.गर्भा वा तीक्ष्ण.मूत्र.क्षर.भाविता राज.वृक्ष.वट.पीलु.गो.पित्त.रोचना.महिष.खर.करभ.मूत्र.लेण्ड.पिण्ड.बद्धास् तत्.प्रतीवापास् तद्.अवलेपा वा विशुद्धाः स्रवन्ति ॥

अशा-०२.१२.०९
यव.माष.तिल.पलाश.पीलु.क्षारैर्.गो.क्षीर.अज.क्षीरैर् वा कदली.वज्र.कन्द.प्रतीवपो मार्दव.करः ॥

अशा-०२.१२.१०कख’’’
मधु.मधुकम् अजा.पयः स-तैलं घृत.गुड.किण्व.युतं स-कन्दलीकम् ।


अशा-०२.१२.१०गघ’’’
यद् अपि शत.सहस्रधा विभिन्नं भवति मृदु त्रिभिर् एव तन्.निषेकैः ॥


अशा-०२.१२.११
गो.दन्त.शृङ्ग.प्रतीवापो मृदु.स्तम्भनः ॥

अशा-०२.१२.१२
भारिकः स्निग्धो मृदुश् च प्रस्तर.धातुर् भूमि.भागो वा पिङ्गलो हरितः पाटलो लोहितो वा ताम्र.धातुः ॥

अशा-०२.१२.१३
काक.मोचकः कपोत.रोचना.वर्णः श्वेत.राजि.नद्धो वा विस्रः सीस.धातुः ॥

अशा-०२.१२.१४
ऊषर.कर्बुरः पक्व.लोष्ठ.वर्णो वा त्रपु.धातुः ॥

अशा-०२.१२.१५
खरुम्बः पाण्डु.रोहितः सिन्दु.वार.पुष्प.वर्णो वा तीक्ष्ण.धातुः ॥

अशा-०२.१२.१६
काक.अण्ड.भुज.पत्त्र.वर्णो वा वैकृन्तक.धातुः ॥

अशा-०२.१२.१७
अच्छः स्निग्धः स-प्रभो घोषवान् शीतस् तीव्रस् तनु.रागश् च मणि.धातुः ॥

अशा-०२.१२.१८
धातु.समुत्थं तज्.जात.कर्म.अन्तेषु प्रयोजयेत् ॥

अशा-०२.१२.१९
कृत.भाण्ड.व्यवहारम् एक.मुखम्, अत्ययं च_अन्यत्र कर्तृ.क्रेतृ.विक्रेतृऋणां स्थापयेत् ॥

अशा-०२.१२.२०
आकरिकम् अपहरन्तम् अष्ट.गुणं दापयेद् अन्यत्र रत्नेभ्यः ॥

अशा-०२.१२.२१
स्तेनम् अनिसृष्ट.उपजीविनं च बद्धं कर्म कारयेत्, दण्ड.उपकारिणं च ॥

अशा-०२.१२.२२
व्यय.क्रिया.भारिकम् आअकरं भागेन प्रक्रयेण वा दद्यात्, लाघविकम् आत्मना कारयेत् ॥

अशा-०२.१२.२३
लोह.अध्यक्षस् ताम्र.सीस.त्रपु.वैकृन्त.कार.कूट.वृत्त.कंस.ताल.लोह.कर्म.अन्तान् कारयेत्, लोह.भाण्ड.व्यवहारं च ॥

अशा-०२.१२.२४
लक्षण.अध्यक्षश् चतुर्.भाग.ताम्रं रूप्य.रूपं तीक्ष्ण.त्रपु.सीस.अञ्जनानाम् अन्यतम.माष.बीज.युक्तं कारयेत् - पणम् अर्ध.पणं पादम्, अष्ट.भागम् इति, पाद.आजीवं ताम्र.रूपं - माषकम् अर्ध.माषकं काकणीम् अर्ध.काकणीम् इति ॥

अशा-०२.१२.२५
रूप.दर्शकः पण.यात्रां व्यावहारिकीं कोश.प्रवेश्यां च स्थापयेत् ॥

अशा-०२.१२.२६
रूपिकम् अष्टकं शतम्, पञ्चकं शतं व्याजीम्, पारीक्षिकम् अष्ट.भागिकम्, शतम्, पञ्च.विंशति.पणम् अत्ययं च अन्यत्र.कर्तृ.क्रेतृ.विक्रेतृ.परीक्षितृभ्यः ॥

अशा-०२.१२.२७
खन्य्.अध्यक्षः शङ्ख.वज्र.मणि.मुक्ता.प्रवाल.क्षार.कर्म.अन्तान् कारयेत्, पणन.व्यवहारं च ॥

अशा-०२.१२.२८
लवण.अध्यक्षः पाक.मुक्तं लवण.भागं प्रक्रयं च यथा.कालं संगृह्णीयाद्, विक्रयाच् च मूल्यं रूपं व्याजीं च ॥

अशा-०२.१२.२९
आगन्तु.लवणं षड्.भागं दद्यात् ॥

अशा-०२.१२.३०
दत्त.भाग.विभागस्य विक्रयः, पञ्चकं शतं व्याजीं रूपं रूपिकं च ॥

अशा-०२.१२.३१
क्रेता शुल्कं राज.पण्यच्.छेद.अनुरूपं च वैधरणं दद्यात्, अन्यत्र क्रेता षट्.छतम् अत्ययं च ॥

अशा-०२.१२.३२
विलवणम् उत्तमं दण्डं दद्याद्, अनिषृष्ट.उपजीवी च_अन्यत्र वानप्रस्थेभ्यः ॥

अशा-०२.१२.३३
श्रोत्रियास् तपस्विनो विष्टयश् च भक्त.लवणं हरेयुः ॥

अशा-०२.१२.३४
अतो_अन्यो लवण.क्षार.वर्गः शुल्कं दद्यात् ॥

अशा-०२.१२.३५कख’’’
एवं मूल्यं च भागं च व्याजीं परिघम् अत्ययम् ।


अशा-०२.१२.३५गघ’’’
शुल्कं वैधरणं दण्डं रूपं रूपिकम् एव च ॥


अशा-०२.१२.३६कख’’’
खनिभ्यो द्वादश.विधं धातुं पण्यं च संहरेत् ।


अशा-०२.१२.३६गघ’’’
एवं सर्वेषु पण्येषु स्थापयेन् मुख.संग्रहम् ॥


अशा-०२.१२.३७कख’’’
आकर.प्रभः कोशः कोशाद् दण्डः प्रजायते ।


अशा-०२.१२.३७गघ’’’
पृथिवी कोश.दण्डाभ्यां प्राप्यते कोश.भूषणा ॥

(षुपेरिन्तेन्देन्त् ओf गोल्द् इन् थे ऋओर्क्स्होप्)

अशा-०२.१३.०१
सुवर्ण.अध्यक्षः सुवर्ण.रजत.कर्म.अन्तानाम् असम्बन्ध.आवेशन.चतुः.शालाम् एक.द्वाराम् अक्ष.शालां कारयेत् ॥

अशा-०२.१३.०२
विशिखा.मध्ये सौवर्णिकं शिल्पवन्तम् अभिजातं प्रात्ययिकं च स्थापयेत् ॥

अशा-०२.१३.०३
जाम्बूनदं शातकुम्भं हाटकं वैणवं शृङ्ग.शुक्तिजं जात.रूपं रस.विद्धम् आकर.उद्गतं च सुवर्णम् ॥

अशा-०२.१३.०४
किञ्जल्क.वर्णं मृदु स्निग्धम् अनादि भ्राजिष्णु च श्रेष्ठम्, रक्त.पीतकं मध्यमम्, रक्तम् अवरम् ॥

अशा-०२.१३.०५
श्रेष्ठानां पाण्डु श्वेतं च_अप्राप्तकम् ॥

अशा-०२.१३.०६
तद् येन_अप्राप्तकं तच् चतुर्.गुणेन सीसेन शोधयेत् ॥

अशा-०२.१३.०७
सीस.अन्वयेन भिद्यमानं शुष्क.पटलैर् ध्मापयेत् ॥

अशा-०२.१३.०८
रूक्षत्वाद् भिद्यमानं तैल.गोमये निषेचयेत् ॥

अशा-०२.१३.०९
आकर.उद्गतं सीस.अन्वयेन भिद्यमानं पाक.पत्त्राणि कृत्वा गण्डिकासु कुट्टयेत्, कदली.वज्र.कन्द.कल्के वा निषेचयेत् ॥

अशा-०२.१३.१०
तुत्थ.उद्गतं गौडिकं काम्बुकं चाक्रवालिकं च रूप्यम् ॥

अशा-०२.१३.११
श्वेतं स्निग्धं मृदु च श्रेष्ठम् ॥

अशा-०२.१३.१२
विपर्यये स्फोटनं च दुष्टम् ॥

अशा-०२.१३.१३
तत्.सीस.चतुर्.भागेन शोधयेत् ॥

अशा-०२.१३.१४
उद्गत.चूलिकम् अच्छं भ्राजिष्णु दधि.वर्णं च शुद्धम् ॥

अशा-०२.१३.१५
शुद्धस्य_एको हारिद्रस्य सुवर्णो वर्णकः ॥

अशा-०२.१३.१६
ततः शुल्ब.काकण्य्.उत्तर.अपसारिता आ.चतुः.सीम.अन्ताद् इति षोडश वर्णकाः ॥

अशा-०२.१३.१७
सुवर्णं पूर्वं निकष्य पश्चाद् वर्णिकां निकषयेत् ॥

अशा-०२.१३.१८
सम.राग.लेखम् अनिम्न.उन्नते देशे निकषितम्, परिमृदितं परिलीढं नख.अन्तराद् वा गैरिकेण.अवचूर्णितम् उपधिं विद्यात् ॥

अशा-०२.१३.१९
जाति.हिङ्गुलुकेन पुष्पका.सीसेन वा गो.मूत्र.भावितेन दिग्धेन_अग्र.हस्तेन संस्पृष्टं सुवर्णं श्वेती.भवति ॥

अशा-०२.१३.२०
स-केसरः स्निग्धो मृदुर् भाजिष्णुश् च निकष.रागः श्रेष्ठः ॥

अशा-०२.१३.२१
कालिङ्गकस् तापी.पाषाणो वा मुद्ग.वर्णो निकषः श्रेष्ठः ॥

अशा-०२.१३.२२
सम.रागी विक्रय.क्रय.हितः ॥

अशा-०२.१३.२३
हस्तिच्.छविकः सहरितः प्रति.रागी विक्रय.हितः ॥

अशा-०२.१३.२४
स्थिरः परुषो विषम.वर्णश् च_अप्रतिरागी क्रय.हितः ॥

अशा-०२.१३.२५
छेदश् चिक्कणः सम.वर्णः श्लक्ष्णो मृदुर् भाजिष्णुश् च श्रेष्ठः ॥

अशा-०२.१३.२६
तापो बहिर्.अन्तश् च समः किञ्जल्क.वर्णः कुरण्डक.पुष्प.वर्णो वा श्रेष्ठः ॥

अशा-०२.१३.२७
श्यावो नीलश् च_अप्राप्तकः ॥

अशा-०२.१३.२८
तुला.प्रतिमानं पौतव.अध्यक्षे वक्ष्यामः ॥

अशा-०२.१३.२९
तेन_उपदेशेन रूप्य.सुवर्णं दद्याद् आददीत च ॥

अशा-०२.१३.३०
अक्ष.शालाम् अनायुक्तो न_उपगच्छेत् ॥

अशा-०२.१३.३१
अभिगच्छन्न् उच्छेद्यः ॥

अशा-०२.१३.३२
आयुक्तो वा सरूप्य.सुवर्णस् तेन_एव जीयेत ॥

अशा-०२.१३.३३
विचित.वस्त्र.हस्त.गुह्याः काञ्चन.पृषत.त्वष्टृ.तपनीय.कारवो ध्मायक.चरक.पांसु.धावकाः प्रविशेयुर् निष्कसेयुश् च ॥

अशा-०२.१३.३४
सर्वं च_एषाम् उपकरणम् अनिष्ठिताश् च प्रयोगास् तत्र_एव_अवतिष्ठेरन् ॥

अशा-०२.१३.३५
गृहीतं सुवर्णं धृतं च प्रयोगं करण.मध्ये दद्यात् ॥

अशा-०२.१३.३६
सायं प्रातश् च लक्षितं कर्तृ.कारयितृ.मुद्राभ्यां निदध्यात् ॥

अशा-०२.१३.३७
क्षेपणो गुणः क्षुद्रकम् इति कर्माणि ॥

अशा-०२.१३.३८
क्षेपणः काच.अर्पण.आदीनि ॥

अशा-०२.१३.३९
गुणः सूत्र.वान.आदीनि ॥

अशा-०२.१३.४०
घनं सुषिरं पृषत.आदि.युक्तं क्षुद्रकम् इति ॥

अशा-०२.१३.४१
अर्पयेत् काच.कर्मणः पञ्च.भागं काञ्चनं दश.भागं कटु.मानम् ॥

अशा-०२.१३.४२
ताम्र.पाद.युक्तं रूप्यं रूप्य.पाद.युक्तं वा सुवर्णं संस्कृतकम्, तस्माद् रक्षेत् ॥

अशा-०२.१३.४३
पृषत.काच.कर्मणः त्रयो हि भागाः परिभाण्डं द्वौ वास्तुकम्, चत्वारो वा वास्तुकं त्रयः परिभाण्डम् ॥

अशा-०२.१३.४४
त्वष्टृ.कर्मणः शुल्ब.भाण्डं सम.सुवर्णेन सम्यूहयेत् ॥

अशा-०२.१३.४५
रूप्य.भाण्डं घनं सुषिरं वा सुवर्ण.अर्धेन_अवलेपयेत् ॥

अशा-०२.१३.४६
चतुर्.भाग.सुवर्णं वा वालुका.हिङ्गुलुकस्य रसेन चूर्णेन वा वासयेत् ।

अशा-०२.१३.४७
तपनीयं ज्येष्ठं सुवर्णं सुरागं सम.सीस.अतिक्रान्तं पाक.पत्त्र.पक्वं सैन्धविकया_उज्ज्वालितं नील.पीत.श्वेत.हरित.शुक.पत्त्र.वर्णानां प्रकृतिर् भवति ॥

अशा-०२.१३.४८
तीक्ष्णं च_अस्य मयूर.ग्रीव.आभं श्वेत.भङ्गं चिमिचिमायितं पीत.चूर्णितं काकणिकः सुवर्ण.रागः ॥

अशा-०२.१३.४९
तारम् उपशुद्धं वा - अस्थि.तुत्थे चतुः सम.सीसे चतुः शुष्क.तुत्थे चतुः कपाले त्रिर् गोमये द्विर् एवं सप्त.दश.तुत्थ.अतिक्रान्तं सैन्धविकया_उज्ज्वालितम् ॥

अशा-०२.१३.५०
एतस्मात् काकण्य्.उत्तरमाद् विमाषाद् इति सुवर्णे देयम्, पश्चाद् राग.योगः, श्वेत.तारं भवति ।

अशा-०२.१३.५१
त्रयो_अंशास् तपनीयस्य द्वात्रिंशद्.भाग.श्वेत.तारम् ऊर्च्छिताः तत् श्वेत.लोहितकं भवति ॥

अशा-०२.१३.५२
ताम्रं पीतकं करोति ॥

अशा-०२.१३.५३
तपनीयम् उज्ज्वाल्य राग.त्रि.भागं दद्यात्, पीत.रागं भवति ॥

अशा-०२.१३.५४
श्वेत.तार.भागौ द्वाव् एकस् तपनीयस्य मुद्ग.वर्णं करोति ॥

अशा-०२.१३.५५
काल.अयसस्य_अर्ध.भाग.अभ्यक्तं कृष्णं भवति ॥

अशा-०२.१३.५६
प्रतिलेपिना रसेन द्वि.गुण.अभ्यक्तं तपनीयं शुक.पत्त्र.वर्णं भवति ॥

अशा-०२.१३.५७
तस्य.आरम्भे राग.विशेषेषु प्रतिवर्णिकां गृह्णीयात् ॥

अशा-०२.१३.५८
तीक्ष्ण.ताम्र.संस्कारं च बुध्येत ॥

अशा-०२.१३.५९
तस्माद् वज्र.मणि.मुक्ता.प्रवाल.रूपाणाम् अपनेयि.मानं च रूप्य.सुवर्ण.भाण्ड.बन्ध.प्रमाणानि च ॥

अशा-०२.१३.६०कख’’’
सम.रागं सम.द्वन्द्वम् असक्त.पृषतं स्थिरम् ।


अशा-०२.१३.६०गघ’’’
सुप्रमृष्टम् असम्पीतं विभक्तं धारणे सुखम् ॥


अशा-०२.१३.६१कख’’’
अभिनीतं प्रभा.युक्तं संस्थानम् अधुरं समम् ।


अशा-०२.१३.६१गघ’’’
मनो.नेत्र.अभिरामं च तपनीय.गुणाः स्मृताः ॥

(आच्तिवित्य् ओf थे गोल्द्स्मिथ् इन् थे मर्केत्-हिघृअय्)

अशा-०२.१४.०१
सौवर्णिकः पौर.जान.पदानां रूप्य.सुवर्णम् आवेशनिभिः कारयेत् ॥

अशा-०२.१४.०२
निर्दिष्ट.काल.कार्यं च कर्म कुर्युः, अनिर्दिष्ट.कालं कार्य.अपदेशम् ॥

अशा-०२.१४.०३
कार्यस्य.अन्यथा.करणे वेतन.नाशः, तद्.द्वि.गुणश् च दण्डः ॥

अशा-०२.१४.०४
काल.अतिपातने पाद.हीनं वेतनं तद्.द्वि.गुणश् च दण्डः ॥

अशा-०२.१४.०५
यथा.वर्ण.प्रमाणं निक्षेपं गृह्णीयुस् तथा.विधम् एव_अर्पयेयुः ॥

अशा-०२.१४.०६
काल.अन्तराद् अपि च तथा.विधम् एव प्रतिगृह्णीयुः, अन्यत्र क्षीण.परिशीर्णाभ्याम् ॥

अशा-०२.१४.०७
आवेशनिभिः सुवर्ण.पुद्गल.लक्षण.प्रयोगेषु तत्.तज् जानीयात् ॥

अशा-०२.१४.०८
तप्त.कल.धौतकयोः काकणिकः सुवर्णे क्षयो देयः ॥

अशा-०२.१४.०९
तीक्ष्ण.काकणी - रूप्य.द्वि.गुणः - राग.प्रक्षेपः, तस्य षड्.भागः क्षयः ॥

अशा-०२.१४.१०
वर्ण.हीने माष.अवरे पूर्वः साहस.दण्डः, प्रमाण.हीने मध्यमः, तुला.प्रतिमान.उपधाव् उत्तमः, कृत.भाण्ड.उपधौ च ॥

अशा-०२.१४.११
सौवर्णिकेन_अदृष्टम् अन्यत्र वा प्रयोगं कारयतो द्वादश.पणो दण्डः ॥

अशा-०२.१४.१२
कर्तुर् द्वि.गुणः स-अपसारश् चेत् ॥

अशा-०२.१४.१३
अनपसारः कण्टक.शोधनाय नीयेत ॥

अशा-०२.१४.१४
कर्तुश् च द्वि.शतो दण्डः पणच्.छेदनं वा ॥

अशा-०२.१४.१५
तुला.प्रतिमान.भाण्डं पौतव.हस्तात् क्रीणीयुः ॥

अशा-०२.१४.१६
अन्यथा द्वादश.पणो दण्डः ॥

अशा-०२.१४.१७
घनं सुषिरं सम्यूह्यम् अवलेप्यं संघात्यं वासितकं च कारु.कर्म ॥

अशा-०२.१४.१८
तुला.विषमम् अपसारणं विस्रावणं पेटकः पिङ्कश् च_इति हरण.उपायाः ॥

अशा-०२.१४.१९
सम्नामिन्य् उत्कीर्णिका भिन्न.मस्तक.उपकण्ठी कुशिक्या सकटु.कक्ष्या परिवेल्या_अयस्.कान्ता च दुष्ट.तुलाः ॥

अशा-०२.१४.२०
रूप्यस्य द्वौ भागाव् एकः शुल्बस्य त्रिपुटकम् ॥

अशा-०२.१४.२१
तेन_अकरोद् गतम् अपसार्यते तत्.त्रिपुटक.अपसारितम् ॥

अशा-०२.१४.२२
शुल्बेन शुल्ब.अपसारितम्, वेल्लकेन वेल्लक.अपसारितम्, शुल्ब.अर्ध.सारेण हेम्ना हेम.अपसारितम् ॥

अशा-०२.१४.२३
मूक.मूषा पूति.किट्टः करटुक.मुखं नाली संदंशो जोङ्गनी सुवर्चिका.लवणं तद् एव सुवर्णम् इत्य् अपसारण.मार्गाः ॥

अशा-०२.१४.२४
पूर्व.प्रणिहिता वा पिण्ड.वालुका मूषा.भेदाद् अग्निष्ठाद् उद्ध्रियन्ते ॥

अशा-०२.१४.२५
पश्चाद् बन्धने आचितक.पत्त्र.परीक्षायां वा रूप्य.रूपेण परिवर्तनं विस्रावणम्, पिण्ड.वालुकानां लोह.पिण्ड.वालुकाभिर् वा ॥

अशा-०२.१४.२६
गाढश् च_अभ्युद्धार्यश् च पेटकः सम्यूह्य_अवलेप्य.संघात्येषु क्रियते ॥

अशा-०२.१४.२७
सीस.रूपं सुवर्ण.पत्त्रेण_अवलिप्तम् अभ्यन्तरम् अष्टकेन बद्धं गाढ.पेटकः ॥

अशा-०२.१४.२८
स एव पटल.सम्पुटेष्व् अभ्युद्धार्यः ॥

अशा-०२.१४.२९
पत्त्रम् आश्लिष्टं यमकपत्त्रं वा_अवलेप्येषु क्रियते ॥

अशा-०२.१४.३०
शुल्बं तारं वा गर्भः पत्त्राणां संघात्येषु क्रियते ॥

अशा-०२.१४.३१
शुल्ब.रूपं सुवर्ण.पत्त्र.संहतं प्रमृष्टं सुपार्श्वम्, तद् एव यमक.पत्त्र.संहतं प्रमृष्टं ताम्र.तार.रुपं च_उत्तर.वर्णकः ॥

अशा-०२.१४.३२
तद् उभयं तापनि.कषाभ्यां निह्शब्द.उल्लेखनाभ्यां वा विद्यात् ॥

अशा-०२.१४.३३
अभ्युद्धार्यं बदर.आम्ले लवण.उदके वा सादयन्ति ॥ इति पेटकः ॥

अशा-०२.१४.३४
घने सुषिरे वा रूपे सुवर्ण.मृन्.मालुका.हिङ्गुलुक.कल्पो वा तप्तो_अवतिष्ठते ॥

अशा-०२.१४.३५
दृढ.वास्तुके वा रूपे वालुका.मिश्रं जतु गान्धार.पङ्को वा तप्तो_अवतिष्ठते ॥

अशा-०२.१४.३६
तयोस् तापनम् अवध्वंसनं वा शुद्धिः ॥

अशा-०२.१४.३७
स-परिभाण्डे वा रूपे लवणम् उल्कया कटु.शर्करया तप्तम् अवतिष्ठते ॥

अशा-०२.१४.३८
तस्य क्वाथनं शुद्धिः ॥

अशा-०२.१४.३९
अभ्र.पटलम् अष्टकेन द्वि.गुण.वास्तुके वा रूपे बध्यते ॥

अशा-०२.१४.४०
तस्य_अपिहित.काचकस्य_उदके निमज्जत एक.देशः सीदति, पटल.अन्तरेषु वा सूच्या भिद्यते ॥

अशा-०२.१४.४१
मणयो रूप्यं सुवर्णं वा घन.सुषिराणां पिङ्कः ॥

अशा-०२.१४.४२
तस्य तापनम् अवध्वंसनं वा शुद्धिः । इति पिङ्कः ॥

अशा-०२.१४.४३
तस्माद् वज्र.मणि.मुक्ता.प्रवाल.रूपाणां जाति.रूप.वर्ण.प्रमाण.पुद्गल.लक्षणान्य् उपलभेत ॥

अशा-०२.१४.४४
कृत.भाण्ड.परीक्षायां पुराण.भाण्ड.प्रतिसंस्कारे वा चत्वारो हरण.उपायाः - परिकुट्टनम् अवच्छेदनम् उल्लेखनं परिमर्दनं वा ॥

अशा-०२.१४.४५
पेटक.अपदेशेन पृषतं गुणं पिटकां वा यत् परिशातयन्ति तत्.परिकुट्टनम् ॥

अशा-०२.१४.४६
यद्.द्वि.गुण.वास्तुकानां वा रूपे सीस.रूपं प्रक्षिप्य_आभ्यन्तरम् अवच्छिन्दन्ति तद् अवच्छेदनम् ॥

अशा-०२.१४.४७
यद् घनानां तीक्ष्णेन_उल्लिखन्ति तद् उल्लेखनम् ॥

अशा-०२.१४.४८
हरि.ताल.मनः.शिला.हिङ्गुलुक.चूर्णानाम् अन्यतमेन कुरु.विन्द.चूर्णेन वा वस्त्रं सम्यूह्य यत् परिमृद्नन्ति तत् परिमर्दनम् ॥

अशा-०२.१४.४९
तेन सौवर्ण.राजतानि भाण्डानि क्षीयन्ते, न च_एषां किंचिद् अवरुग्णं भवति ॥

अशा-०२.१४.५०
भग्न.खण्ड.घृष्टानां सम्यूह्यानां सदृशेन_अनुमानं कुर्यात् ॥०२.१४.५१
अवलेप्यानां यावद् उत्पाटितं तावद् उत्पाट्य_अनुमानं कुर्यात् ॥


अशा-०२.१४.५२
विरूपाणां वा तापनम् उदक.पेषणं च बहुशः कुर्यात् ॥

अशा-०२.१४.५३
अवक्षेपः प्रतिमानम् अग्निर् गण्डिका भण्डिक.अधिकरणी पिञ्छः सूत्रं चेल्लं बोल्लनं शिर उत्सङ्गो मक्षिका स्व.काय.ईक्षा दृतिर् उदक.शरावम् अग्निष्ठम् इति काचं विद्यात् ॥

अशा-०२.१४.५४
राजतानां विस्रं मल.ग्राहि परुषं प्रस्तीनं विवर्णं वा दुष्टम् इति विद्यात् ॥

अशा-०२.१४.५५कख’’’
एवं नवं च जीर्णं च विरूपं च_अपि भाण्डकम् ।


अशा-०२.१४.५५गघ’’’
परीक्षेत_अत्ययं च_एषां यथा.उद्दिष्टं प्रकल्पयेत् ॥

(षुपेरिन्तेन्देन्त् ओf थे मगशिन्)

अशा-०२.१५.०१
कोष्ठ.अगार.अध्यक्षः सीता.राष्ट्र.क्रयिम.परिवर्तक.प्रामित्यक.आपमित्यक.संहनिक.अन्य.जात.व्यय.प्रत्याय.उपस्थानान्य् उपलभेत् ॥

अशा-०२.१५.०२
सीता.अध्यक्ष.उपनीतः सस्य.वर्णकः सीता ॥

अशा-०२.१५.०३
पिण्ड.करः षड्.भागः सेना.भक्तं बलिः कर उत्सङ्गः पार्श्वं पारिहीणिकम् औपायनिकं कौष्ठेयकं च राष्ट्रम् ॥

अशा-०२.१५.०४
धान्य.मूल्यं कोश.निर्हारः प्रयोग.प्रत्यादानं च क्रयिमम् ॥

अशा-०२.१५.०५
सस्य.वर्णानाम् अर्घ.अन्तरेण विनिमयः परिवर्तकः ॥

अशा-०२.१५.०६
सस्य.याचनम् अन्यतः प्रामित्यकम् ॥

अशा-०२.१५.०७
तद् एव प्रतिदान.अर्थम् आपमित्यकम् ॥

अशा-०२.१५.०८
कुट्टक.रोचक.सक्तु.शुक्त.पिष्ट.कर्म तज्.जीवनेषु तैल.पीडन.मौद्र.चाक्रिकेष्व् इक्षूणां च क्षार.कर्म संहनिका ॥

अशा-०२.१५.०९
नष्ट.प्रस्मृत.आदिर् अन्य.जातः ॥

अशा-०२.१५.१०
विक्षेप.व्याधित.अन्तर.आरम्भ.शेषं च व्यय.प्रत्यायः ॥

अशा-०२.१५.११
तुला.मान.अन्तरं हस्त.पूरणम् उत्करो व्याजी पर्युषितं प्रार्जितं च_उपस्थानम् । इति ॥

अशा-०२.१५.१२
धान्य.स्नेह.क्षार.लवणानां धान्य.कल्पं सीता.अध्यक्षे वक्ष्यामः ॥

अशा-०२.१५.१३
सर्पिस्.तैल.वसा.मज्जानः स्नेहाः ॥

अशा-०२.१५.१४
फाणित.गुड.मत्स्यण्डिक.अखण्ड.शर्कराः क्षार.वर्गः ॥

अशा-०२.१५.१५
सैन्धव.सामुद्र.बिड.यव.क्षार.सौवर्चल.उद्भेदजा लवण.वर्गः ॥

अशा-०२.१५.१६
क्षौद्रं मार्द्वीकं च मधु ॥

अशा-०२.१५.१७
इक्षु.रस.गुड.मधु.फाणित.जाम्बव.पनसानाम् अन्यतमो मेष.शृङ्गी.पिप्पली.क्वाथ.अभिषुतो मासिकः षाण्मासिकः सांवत्सरिको वा चिद्भिटोर् वारुक.इक्षु.काण्ड.आम्र.फल.आमलक.अवसुतः शुद्धो वा शुक्त.वर्गः ॥

अशा-०२.१५.१८
वृक्ष.आम्ल.कर.मर्द.आम्र.विदल.आमलक.मातुलुङ्ग.कोल.बदर.सौवीरक.परूषक.आदिः फल.आम्ल.वर्गः ॥

अशा-०२.१५.१९
दधि.धान्य.आम्ल.आदिर् द्रव.आम्ल.वर्गः ॥

अशा-०२.१५.२०
पिप्पली.मरिच.शृङ्गि.बेरा.अजाजी.किरात.तिक्त.गौर.सर्षप.कुस्तुम्बुरु.चोरक.दमनक.मरुवक.शिग्रु.काण्ड.आदिः कटुक.वर्गः ॥

अशा-०२.१५.२१
शुष्क.मत्स्य.मांस.कन्द.मूल.फल.शाक.आदि च शाक.वर्गः ॥

अशा-०२.१५.२२
ततो_अर्धम् आपद्.अर्थं जानपदानां स्थापयेद्, अर्धम् उपयुञ्जीत ॥

अशा-०२.१५.२३
नवेन च_अनवं शोधयेत् ॥

अशा-०२.१५.२४
क्षुण्ण.घृष्ट.पिष्ट.भृष्टानाम् आर्द्र.शुष्क.सिद्धानां च धान्यानां वृद्धि.क्षय.प्रमाणानि प्रत्यक्षी.कुर्वीत ॥

अशा-०२.१५.२५
कोद्रव.व्रीहीणाम् अर्धं सारः, शालीनाम् अर्ध.भाग.ऊनः, त्रि.भाग.ऊनो वरकाणाम् ॥

अशा-०२.१५.२६
प्रियङ्गूणाम् अर्धं सारो नव.भाग.वृद्धिश् च ॥

अशा-०२.१५.२७
उदारकस् तुल्यः, यवा गो.धूमाश् च क्षुण्णाः, तिला यवा मुद्ग.माषाश् च घृष्टाः ॥

अशा-०२.१५.२८
पञ्च.भाग.वृद्धिर्.गो.धूमः, सक्तवश् च ॥

अशा-०२.१५.२९
पाद.ऊना कलाय.चमसी ॥

अशा-०२.१५.३०
मुद्ग.माषाणाम् अर्ध.पाद.ऊना ॥

अशा-०२.१५.३१/शौम्ब्यानाम् अर्धं सारः, त्रि.भाग.ऊनो मसूराणाम् ॥

अशा-०२.१५.३२
पिष्टम् आमं कुल्माषाश् च_अध्यर्ध.गुणाः ॥

अशा-०२.१५.३३
द्वि.गुणो यावकः, पुलाकः, पिष्टं च सिद्धम् ॥

अशा-०२.१५.३४
कोद्रव.वरक.उदारक.प्रियङ्गूणां त्रि.गुणम् अन्नम्, चतुर्.गुणं व्रीहीणाम्, पञ्च.गुणं शालीनाम् ॥

अशा-०२.१५.३५
तिमितम् अपर.अन्नं द्वि.गुणम्, अर्ध.अधिकं विरूढानाम् ॥

अशा-०२.१५.३६
पञ्च.भाग.वृद्धिर् भृष्टानाम् ॥

अशा-०२.१५.३७
कलायो द्वि.गुणः, लाजा भरुजाश् च ॥

अशा-०२.१५.३८/षट्कं तैलम् अतसीनाम् ॥

अशा-०२.१५.३९
निम्ब.कुश.आम्रक.पित्थ.आदीनां पञ्च.भागः ॥

अशा-०२.१५.४०
चतुर्.भागिकास् तिल.कुसुम्भ.मधूक.इङ्गुदी.स्नेहाः ॥

अशा-०२.१५.४१
कार्पास.क्षौमाणां पञ्च.पले पलं सूत्रम् ॥

अशा-०२.१५.४२
पञ्च.द्रोणे शालीनां द्वादश.आढकं तण्डुलानां कलभ.भोजनम्, एकादशकं व्यालानाम्, दशकम् औपवाह्यानां नवकं साम्नाह्यानाम्, अष्टकं पत्तीनाम्, सप्तकं मुख्यानाम्, षट्कं देवी.कुमाराणाम्, पञ्चकं राज्ञाम्, अखण्ड.परिशुद्धानां वा तुअण्डुलानां प्रस्थः ॥

अशा-०२.१५.४३
तण्डुलानां प्रस्थः चतुर्.भागः सूपः सूप.षोडशो लवणस्य_अंशः चतुर्.भागः सर्पिषस् तैलस्य वा_एकम् आर्य.भक्तं पुंसः ॥

अशा-०२.१५.४४/षड्.भागः सूपः अर्ध.स्नेहम् अवराणाम् ॥

अशा-०२.१५.४५
पाद.ऊनं स्त्रीणाम् ॥

अशा-०२.१५.४६
अर्धं बालानाम् ॥

अशा-०२.१५.४७
मांस.पल.विंशत्या स्नेह.अर्ध.कुडुबः पलिको लवणस्य_अंशः क्षार.पल.योगो द्वि.धरणिकः कटुक.योगो दध्नुश् च_अर्ध.प्रस्थः ॥

अशा-०२.१५.४८
तेन_उत्तरं व्याख्यातम् ॥

अशा-०२.१५.४९
शाकानाम् अध्यर्ध.गुणः, शुष्काणां द्वि.गुणः, स चैव योगः ॥

अशा-०२.१५.५०
हस्त्य्.अश्वयोस् तद्.अध्यक्षे विधा.प्रमाणं वक्ष्यामः ॥

अशा-०२.१५.५१
बली.वर्दानां माष.द्रोणं यवानां वा पुलाकः, शेषम् अश्व.विधानम् ॥

अशा-०२.१५.५२
विशेषो घाण.पिण्याक.तुला, कण.कुण्डकं दश.आढकं वा ॥

अशा-०२.१५.५३
द्वि.गुणं महिष.उष्ट्राणाम् ॥

अशा-०२.१५.५४
अर्ध.द्रोणं खर.पृषत.रोहितानाम् ॥

अशा-०२.१५.५५
आढकम् एण.कुरङ्गाणाम् ॥

अशा-०२.१५.५६
अर्ध.आढकम् अज.एडक.वराहाणाम्, द्वि.गुणं वा कण.कुण्डकम् ॥

अशा-०२.१५.५७
प्रस्थ.ओदनः शुनाम् ॥

अशा-०२.१५.५८
हंस.क्रौञ्च.मयूराणाम् अर्ध.प्रस्थः ॥

अशा-०२.१५.५९
शेषाणाम् अतो मृग.पशु.पक्षि.व्यालानाम् एक.भक्ताद् अनुमानं ग्राहयेत् ॥

अशा-०२.१५.६०
अङ्गारांस् तुषान् लोह.कर्म.अन्त.भित्ति.लेप्यानां हारयेत् ॥

अशा-०२.१५.६१
कणिका दास.कर्म.कर.सूप.काराणाम्, अतो_अन्यद् औदनिक.अपूपिकेभ्यः प्रयच्छेत् ॥

अशा-०२.१५.६२
तुला.मान.भाण्डं रोचनी.दृषन्.मुसल.उलूखल.कुट्टक.रोचक.यन्त्र.पत्त्रक.शूर्प.चालनिक.अकण्डोली.पिटक.सम्मार्जन्यश् च_उपकरणानि ॥

अशा-०२.१५.६३
मार्जक.रक्षक.धरक.मायक.मापक.दायक.दापक.शलाक.अप्रतिग्राहक.दास.कर्म.कर.वर्गश् च विष्टिः ॥

अशा-०२.१५.६४कख’’’
उच्चैर् धान्यस्य निक्षेपो मूताः क्षारस्य संहताः ।


अशा-०२.१५.६४गघ’’’
मृत्.काष्ठ.कोष्ठाः स्नेहस्य पृथिवी लवणस्य च ॥

(डिरेच्तोर् ओf त्रदे)

अशा-०२.१६.०१
पण्य.अध्यक्षः स्थल.जलजानां नाना.विधानां पण्यानां स्थल.पथ.वारि.पथ.उपयातानां सार.फल्ग्व्.अर्घ.अन्तरं प्रिय.अप्रियतां च विद्यात्, तथा विक्षेप.संक्षेप.क्रय.विक्रय.प्रयोग.कालान् ॥

अशा-०२.१६.०२
यच् च पण्यं प्रचुरं स्यात् तद् एकी.कृत्य_अर्घम् आरोपयेत् ॥

अशा-०२.१६.०३
प्राप्ते_अर्घे वा_अर्घ.अन्तरं कारयेत् ॥

अशा-०२.१६.०४
स्व.भूमिजानां राज.पण्यानाम् एक.मुखं व्यवहारं स्थापयेत्, पर.भूमिजानाम् अनेक.मुखम् ॥

अशा-०२.१६.०५
उभयं च प्रजानाम् अनुग्रहेण विक्रापयेत् ॥

अशा-०२.१६.०६
स्थूलम् अपि च लाभं प्रजानाम् औपघातिकं वारयेत् ॥

अशा-०२.१६.०७
अजस्र.पण्यानां काल.उपरोधं संकुल.दोषं वा न_उत्पादयेत् ॥

अशा-०२.१६.०८
बहु.मुखं वा राज.पण्यं वैदेहकाः कृत.अर्घं विक्रीणीरन् ॥

अशा-०२.१६.०९
छेद.अनुरूपं च वैधरणं दद्युः ॥

अशा-०२.१६.१०
षोडश.भागो मान.व्याजी, विंशति.भागस् तुला.मानम्, गण्य.पण्यानाम् एकादश.भागः ॥

अशा-०२.१६.११
पर.भूमिजं पण्यम् अनुग्रहेण_आवाहयेत् ॥

अशा-०२.१६.१२
न_अविकस.अर्थ.वाहेभ्यश् च परिहारम् आयति.क्षमं दद्यात् ॥

अशा-०२.१६.१३
अनभियोगश् च_अर्थेष्व् आगन्तूनाम्, अन्यत्र सभ्या.उपकारिभ्यः ॥

अशा-०२.१६.१४
पण्य.अधिष्ठातारः पण्य.मूल्यम् एक.मुखं काष्ठ.द्रोण्याम् एकच्.छिद्र.अपिधानायां निदध्युः ॥

अशा-०२.१६.१५
अह्नश् च_अष्टमे भागे पण्य.अध्यक्षस्य_अर्पयेयुः - "इदं विक्रीतम्, इदं शेषम्" इति ॥

अशा-०२.१६.१६
तुला.मान.भाण्डं च_अर्पयेयुः ॥

अशा-०२.१६.१७
इति स्व.विषये व्याख्यातम् ॥

अशा-०२.१६.१८
पर.विषये तु - पण्य.प्रतिपण्ययोर् अर्घं मूल्यं च_आगमय्य शुल्क.वर्तन्या_आतिवाहिक.गुल्मतर.देय.भक्त.भाग.व्यय.शुद्धम् उदयं पश्येत् ॥

अशा-०२.१६.१९
असत्य् उदये भाण्ड.निर्वहणेन पण्य.प्रतिपण्य.आनयनेन वा लाभं पश्येत् ॥

अशा-०२.१६.२०
ततः सार.पादेन स्थल.व्यवहारम् अध्वना क्षेमेण प्रयोजयेत् ॥

अशा-०२.१६.२१
अटव्य्.अन्त.पाल.पुर.राष्ट्र.मुख्यैश् च प्रतिसंसर्गं गच्छेद् अनुग्रह.अर्थम् ॥

अशा-०२.१६.२२
आपदि सारम् आत्मानं वा मोक्षयेत् ॥

अशा-०२.१६.२३
आत्मनो वा भूमिं प्राप्तः सर्व.देय.विशुद्धं व्यवहरेत ॥

अशा-०२.१६.२४
वारि.पथे वा यान.भागक.पथ्य्.अदन.पण्य.प्रतिपण्य.अर्घ.प्रमाण.यात्रा.काल.भय.प्रतीकार.पण्य.पत्तन.चारित्राण्य् उपलभेत ॥

अशा-०२.१६.२५कख’’’
नदी.पथे च विज्ञाय व्यवहारं चरित्रतः ।


अशा-०२.१६.२५गघ’’’
यतो लाभस् ततो गच्छेद् अलाभं परिवर्जयेत् ॥

(डिरेच्तोर् ओf fओरेस्त् प्रोदुचे)

अशा-०२.१७.०१
कुप्य.अध्यक्षो द्रव्य.वन.पालैः कुप्यम् आनाययेत् ॥

अशा-०२.१७.०२
द्रव्य.वन.कर्म.अन्तांश् च प्रयोजयेत् ॥

अशा-०२.१७.०३
द्रव्य.वनच्.छिद्रां च देयम् अत्ययं च स्थापयेद् अन्यत्र_आपद्भ्यः ॥

अशा-०२.१७.०४
कुप्य.वर्गः - शाक.तिनिश.धन्वन.अर्जुन.मधूक.तिलक.साल.शिंशपा.अरिमेद.राज.अदन.शिरीष.खदिर.सरल.ताल.सर्ज.अश्व.कर्ण.सोम.वल्क.कुश.आम्र.प्रियक.धव.आदिः सार.दारु.वर्गः ॥

अशा-०२.१७.०५
उटज.चिमिय.चाप.वेणु.वंश.सातिन.कण्टक.भाल्लूक.आदिर् वेणु.वर्गः ॥

अशा-०२.१७.०६
वेत्र.शीक.वल्ली.वाशी.श्याम.लता.नाग.लता.आदिर् वल्ली.वर्गः ॥

अशा-०२.१७.०७
मालती.मूर्वा.अर्क.शण.गवेधुका.अतस्य्.आदिर् वल्क.वर्गः ॥

अशा-०२.१७.०८
मुञ्ज.बल्बज.आदि रज्जु.भाण्डम् ॥

अशा-०२.१७.०९
ताली.ताल.भूर्जानां पत्त्रम् ॥

अशा-०२.१७.१०
किंशुक.कुसुम्भ.कुङ्कुमानां पुष्पम् ॥

अशा-०२.१७.११
कन्द.मूल.फल.आदिर् औषध.वर्गः ॥

अशा-०२.१७.१२
काल.कूट.वत्स.नाभ.हालाहल.मेष.शृङ्ग.मुस्ता.कुष्ठ.महा.विष.वेल्लितक.गौर.अर्द्र.बालक.मार्कट.हैमवत.कालिङ्गक.दारदक.अङ्कोल.सारक.उष्ट्रक.आदीनि विषाणि, सर्पाः कीटाश् च त एव कुम्भ.गताः विष.वर्गः ॥

अशा-०२.१७.१३
गोधा.सेरक.द्वीप्य्.ऋक्ष.शिंशुमार.सिंह.व्याघ्र.हस्ति.महिष.चमर.सृमर.खड्ग.गो.मृग.गवयानां चर्म.अस्थि.पित्त.स्नाय्व्.अक्षि.दन्त.शृङ्ग.खुर.पुच्छानि, अन्येषां वा_अपि मृग.पशु.पक्षि.व्यालानाम् ॥

अशा-०२.१७.१४
काल.अयस.ताम्र.वृत्त.कंस.सीस.त्रपु.वैकृन्तक.आर.कूटानि लोहानि ॥

अशा-०२.१७.१५
विदल.मृत्तिकामयं भाण्डम् ॥

अशा-०२.१७.१६
अङ्गार.तुष.भस्मानि, मृग.पशु.पक्षि.व्याल.वाटाः काष्ठ.तृण.वाटाश् च । इति ॥

अशा-०२.१७.१७कख’’’
बहिर् अन्तश् च कर्म.अन्ता विभक्ताः सार्वभाण्डिकाः ।


अशा-०२.१७.१७गघ’’’
आजीव.पुर.रक्षा.अर्थाः कार्याः कुप्य.उपजीविना ॥

(षुपेरिन्तेन्देन्त् ओf थे अर्मोउर्य्)

अशा-०२.१८.०१
आयुध.अगार.अध्यक्षः सांग्रामिकं दौर्गकर्मिकं पर.पुर.अभिघातिकं च यन्त्रम् आयुधम् आवरणम् उपकरणं च तज्.जात.कारु.शिल्पिभिः कृत.कर्म.प्रमाण.काल.वेतन.फल.निष्पत्तिभिः कारयेत्, स्व.भूमिषु च स्थापयेत् ॥

अशा-०२.१८.०२
स्थान.परिवर्तनम् आतप.प्रवात.प्रदानं च बहुशः कुर्यात् ॥

अशा-०२.१८.०३
ऊष्म.उपस्नेह.क्रिमिभिर् उपहन्यमानम् अन्यथा स्थापयेत् ॥

अशा-०२.१८.०४
जाति.रूप.लक्षण.प्रमाण.आगम.मूल्य.निक्षेपैश् च_उपलभेत ॥

अशा-०२.१८.०५
सर्वतो.भद्र.जामदग्न्य.बहु.मुख.विश्वास.घाति.संघाटी.यानक.पर्जन्यक.बाहु.ऊर्ध्व.बाह्व्.अर्ध.बाहूनि स्थित.यन्त्राणि ॥

अशा-०२.१८.०६
पाञ्चालिक.देव.दण्ड.सूकरिका.मुसल.यष्टि.हस्ति.वारक.ताल.वृन्त.मुद्गर.गदा.स्पृक्तला.कुद्दाल.आस्फाटिम.उत्पाटिम.उद्घाटिम.शतघ्नि.त्रि.शूल.चक्राणि चल.यन्त्राणि ॥

अशा-०२.१८.०७
शक्ति.प्रास.कुन्त.हाटक.भिण्डि.पाल.शूल.तोमर.वराह.कर्ण.कणय.कर्पण.त्रासिक.आदीनि च हुल.मुखानि ॥

अशा-०२.१८.०८
ताल.चाप.दारव.शार्ङ्गाणि कार्मुक.कोदण्ड.द्रूणा धनूंषि ॥

अशा-०२.१८.०९
मूर्वा.अर्क.शन.गवेधु.वेणु.स्नायूनि ज्याः ॥

अशा-०२.१८.१०
वेणु.शर.शलाका.दण्ड.आसन.नाराचाश् च_इषवः ॥

अशा-०२.१८.११
तेषां मुखानि छेदन.भेदन.ताडनान्य् आयस.अस्थि.दारवाणि ॥

अशा-०२.१८.१२
निस्त्रिंश.मण्डल.अग्र.असि.यष्टयः खड्गाः ॥

अशा-०२.१८.१३
खड्ग.महिष.वारण.विषाण.दारु.वेणु.मूलानि त्सरवः ॥

अशा-०२.१८.१४
परशु.कुठार.पट्टस.खनित्र.कुद्दाल.क्रकच.काण्डच्.छेदनाः क्षुर.कल्पाः ॥

अशा-०२.१८.१५
यन्त्र.गोष्पण.मुष्टि.पाषाण.रोचनी.दृषदश् च_अश्म.आयुधानि ॥

अशा-०२.१८.१६
लोह.जालिका.पट्ट.कवच.सूत्र.कङ्कट.शिंशुमारक.खड्गि.धेनुक.हस्ति.गो.चर्म.खुर.शृङ्ग.संघातं वर्माणि ॥

अशा-०२.१८.१७
शिरस्.त्राण.कण्ठ.त्राण.कूर्पास.कञ्चुक.वार.वाण.पट्ट.नाग.उदरिकाः पेटी.चर्म.हस्ति.कर्ण.ताल.मूल.धमनि.काक.पाट.किटिका.अप्रतिहत.बलाह.कान्ताश् च_आवरणाणि ॥

अशा-०२.१८.१८
हस्ति.रथ.वाजिनां योग्या.भाण्डम् आलंकारिकं सम्नाह.कल्पनाश् च_उपकरणानि ॥

अशा-०२.१८.१९
ऐन्द्रजालिकम् औपनिषदिकं च कर्म ॥

अशा-०२.१८.२०कख’’’
कर्म.अन्तानां च - इच्छाम् आरम्भ.निष्पत्तिं प्रयोगं व्याजम् उद्दयम् ।


अशा-०२.१८.२०गघ’’’
क्षय.व्ययौ च जानीयात् कुप्यानाम् आयुध.ईश्वरः ॥

(ष्तन्दर्दिसतिओन् ओf ऋएइघ्त्स् अन्द् मेअसुरेस्)

अशा-०२.१९.०१
पौतव.अध्यक्षः पौतव.कर्म.अन्तान् कारयेत् ॥

अशा-०२.१९.०२
धान्य.माषा दश सुवर्ण.माषकः, पञ्च वा गुञ्जाः ॥

अशा-०२.१९.०३
ते षोडश सुवर्णः कर्षो वा ॥

अशा-०२.१९.०४
चतुष्.कर्षं पलम् ॥

अशा-०२.१९.०५
अष्ट.अशीतिर् गौर.सर्षपा रूप्य.माषकः ॥

अशा-०२.१९.०६
ते षोडश धरणम्, शौम्ब्यानि वा विंशतिः ॥

अशा-०२.१९.०७
विंशति.तण्डुलं वज्र.धरणम् ॥

अशा-०२.१९.०८
अर्ध.माषकः माषकः द्वौ चत्वारः अष्टौ माषकाः सुवर्णो द्वौ चत्वारः, अष्टौ सुवर्णाः दश विंशतिः त्रिंशत् चत्वारिंशत् शतम् इति ॥

अशा-०२.१९.०९
तेन धरणानि व्याख्यातानि ॥

अशा-०२.१९.१०
प्रतिमानान्य् अयोमयानि मागध.मेकल.शैलमयानि यानि वा न_उदक.प्रदेहाभ्यां वृद्धिं गच्छेयुर् उष्णेन वा ह्रासम् ॥

अशा-०२.१९.११
षडङ्गुलाद् ऊर्ध्वम् अष्ट.अङ्गुल.उत्तरा दश तुलाः कारयेत् लोह.पलाद् ऊर्ध्वम् एक.पल.उत्तराः, यन्त्रम् उभयतः.शिक्यं वा ॥

अशा-०२.१९.१२
पञ्च.त्रिंशत्.पललोहां द्वि.सप्तत्य्.अङ्गुल.आयामां सम.वृत्तां कारयेत् ॥

अशा-०२.१९.१३
तस्याः पञ्च.पलिकं मण्डलं बद्ध्वा सम.करणं कारयेत् ॥

अशा-०२.१९.१४
ततः कर्ष.उत्तरं पलं पल.उत्तरं दश.पलं द्वादश पञ्चदश विंशतिर् इति पदानि कारयेत् ॥

अशा-०२.१९.१५
तत आ.शताद् दश.उत्तरं कारयेत् ॥

अशा-०२.१९.१६
अक्षेषु नान्दी.पिनद्धं कारयेत् ॥

अशा-०२.१९.१७
द्वि.गुण.लोहां तुलाम् अतः षण्णवत्य्.अङ्गुल.आयामां परिमाणीं कारयेत् ॥

अशा-०२.१९.१८
तस्याः शत.पदाद् ऊर्ध्वं विंशतिः पञ्चाशत् शतम् इति पदानि कारयेत् ॥

अशा-०२.१९.१९
विंशति.तौलिको भारः ॥

अशा-०२.१९.२०
दश.धारणिकं पलम् ॥

अशा-०२.१९.२१
तत्.पल.शतम् आय.मानी ॥

अशा-०२.१९.२२
पञ्च.पल.अवरा व्यावहारिकी भाजन्य् अन्तः.पुर.भाजनी च ॥

अशा-०२.१९.२३
तासाम् अर्ध.धरण.अवरं पलम्, द्वि.पल.अवरम् उत्तर.लोहम्, षड्.अङ्गुल.अवराश् च_आयामाः ॥

अशा-०२.१९.२४
पूर्वयोः पञ्च.पलिकः प्रयामो मांस.लोह.लवण.मणि.वर्जम् ॥

अशा-०२.१९.२५
काष्ठ.तुला अष्ट.हस्ता पदवती प्रतिमानवती मयूर.पद.अधिष्ठिता ॥

अशा-०२.१९.२६
काष्ठ.पञ्चविंशति.पलं तण्डुल.प्रस्थ.साधनम् ॥

अशा-०२.१९.२७
एष प्रदेशो बह्व्.अल्पयोः ॥

अशा-०२.१९.२८
इति तुला.प्रतिमानं व्याख्यातम् ॥

अशा-०२.१९.२९
अथ धान्य.माष.द्वि.पल.शतं द्रोणम् आय.मानम्, सप्त.अशीति.पल.शतम् अर्ध.पलं च व्यावहारिकम्, पञ्च.सप्तति.पल.शतं भाजनीयम्, द्वि.षष्टि.पल.शतम् अर्ध.पलं च_अन्तः.पुर.भाजनीयम् ॥

अशा-०२.१९.३०
तेषाम् आढक.प्रस्थ.कुडुबाश् चतुर्.भाग.अवराः ॥

अशा-०२.१९.३१
षोडश.द्रोणा खारी ॥

अशा-०२.१९.३२
विंशति.द्रोणिकः कुम्भः ॥

अशा-०२.१९.३३
कुम्भैर् दशभिर् वहः ॥

अशा-०२.१९.३४
शुष्क.सार.दारु.मयं समं चतुर्.भाग.शिखं मानं कारयेत्, अन्तः.शिखं वा ॥

अशा-०२.१९.३५
रसस्य तु सुरायाः पुष्प.फलयोस् तुष.अङ्गाराणां सुधायाश् च शिखा.मानं द्वि.गुण.उत्तरा वृद्धिः ॥

अशा-०२.१९.३६
स-पाद.पणो द्रोण.मूल्यम् आढकस्य पाद.ऊनः, षण्.माषकाः प्रस्थस्य, माषकः कुडुबस्य ॥

अशा-०२.१९.३७
द्वि.गुणं रस.आदीनां मान.मूल्यम् ॥

अशा-०२.१९.३८
विंशति.पणाः प्रतिमानस्य ॥

अशा-०२.१९.३९
तुला.मूल्यं त्रि.भागः ॥

अशा-०२.१९.४०
चतुर्.मासिकं प्रातिवेधनिकं कारयेत् ॥

अशा-०२.१९.४१
अप्रतिविद्धस्य_अत्ययः स-पादः सप्त.विंशति.पणः ॥

अशा-०२.१९.४२
प्रातिवेधनिकं काकणीकम् अहर् अहः पौतव.अध्यक्षाय दद्युः ॥

अशा-०२.१९.४३
द्वात्रिंशद्.भागस् तप्त.व्याजी सर्पिषः, चतुः.षष्टि.भागस् तैलस्य ॥

अशा-०२.१९.४४
पञ्चाशद् भागो मान.स्रावो द्रवाणाम् ॥

अशा-०२.१९.४५
कुडुब.अर्ध.चतुर्.अष्ट.भागानि मानानि कारयेत् ॥

अशा-०२.१९.४६
कुडुबाश् चतुर्.अशीतिर् वारकः सर्पिषो मतः ॥

अशा-०२.१९.४७
चतुः.षष्टिस् तु तैलस्य पादश् च घटिका_अनयोः ॥

(ंेअसुरेस् ओf स्पचे अन्द् तिमे)

अशा-०२.२०.०१
मान.अध्यक्ष्यो देश.काल.मानं विद्यात् ॥

अशा-०२.२०.०२
अष्टौ परम.अणवो रथ.चक्र.विप्रुट् ॥

अशा-०२.२०.०३
ता अष्टौ लिक्षा ॥

अशा-०२.२०.०४
ता अष्तौ यूका ॥

अशा-०२.२०.०५
ता अष्टौ यव.मध्यः ॥

अशा-०२.२०.०६
अष्टौ यव.मध्या अङ्गुलम् ॥

अशा-०२.२०.०७
मध्यमस्य पुरुषस्य मध्यमाया अनुगुल्या मध्य.प्रकर्षो वा_अङ्गुलम् ॥

अशा-०२.२०.०८
चतुर्.अङ्गुलो धनुर्.ग्रहः ॥

अशा-०२.२०.०९
अष्ट.अङ्गुला धनुर्.मुष्टिः ॥

अशा-०२.२०.१०
द्वादश.अङ्गुला वितस्तिः, छाया.पौरुषं च ॥

अशा-०२.२०.११
चतुर्.दश.अङ्गुलं शमः शलः परीरयः पदं च ॥

अशा-०२.२०.१२
द्वि.वितस्तिर् अरत्निः प्राजापत्यो हस्तः ॥

अशा-०२.२०.१३
स-धनुर्.ग्रहः पौतव.विवीत.मानम् ॥

अशा-०२.२०.१४
स-धनुर्.मुष्टिः कुष्कुः कंसो वा ॥

अशा-०२.२०.१५
द्वि.चत्वारिंशद्.अङ्गुलस् तक्ष्णः क्राकचनिक.किष्कुः स्कन्ध.आवार.दुर्ग.राज.परिग्रह.मानम् ॥

अशा-०२.२०.१६
चतुष्.पञ्चाशद्.अङ्गुलः कूप्य.वन.हस्तः ॥

अशा-०२.२०.१७
चतुर्.अशीत्य्.अङ्गुलो व्यामो रज्जु.मानं खात.पौरुषं च ॥

अशा-०२.२०.१८
चतुर्.अरत्निर् दण्डो धनुर्.नालिका पौरुषं च गार्हपत्यम् ॥

अशा-०२.२०.१९
अष्ट.शत.अङ्गुलं धनुः पथि.प्राकार.मानं पौरुषं च_अग्नि.चित्यानाम् ॥

अशा-०२.२०.२०
षट्.कंसो दण्डो ब्रह्म.देय.आतिथ्य.मानम् ॥

अशा-०२.२०.२१
दश.दण्डो रज्जुः ॥

अशा-०२.२०.२२
द्वि.रज्जुकः परिदेशः ॥

अशा-०२.२०.२३
त्रि.रज्जुकं निवर्तनम् एकतः ॥

अशा-०२.२०.२४
द्वि.दण्ड.अधिको बाहुः ॥

अशा-०२.२०.२५
द्वि.धनुः.सहस्रं गो.रुतम् ॥

अशा-०२.२०.२६
चतुर्.गो.रुतं योजनम् ॥

अशा-०२.२०.२७
इति देश.मानम् ॥

अशा-०२.२०.२८
काल.मानम् अत ऊर्ध्वम् ॥

अशा-०२.२०.२९
तुटो लवो निमेषः काष्ठा कल्ला नालिका मुहूर्तः पूर्व.अपर.भागौ दिवसो रात्रिः पक्षो मास ऋतुर् अयनं संवत्सरो युगम् इति कालाः ॥

अशा-०२.२०.३०
द्वौ तुटौ लवः ॥

अशा-०२.२०.३१
द्वौ लवौ निमेषः ॥

अशा-०२.२०.३२
पञ्च.निमेषाः काष्ठाः ॥

अशा-०२.२०.३३
त्रिंशत्.काष्ठाः कलाः ॥

अशा-०२.२०.३४
चत्वारिंशत्.कलाः नालिका ॥

अशा-०२.२०.३५
सुवर्ण.माषकाश् चत्वारश् चतुर्.अङ्गुल.आयामाः कुम्भच्.छिद्रम् आढकम् अम्भसो वा नालिका ॥

अशा-०२.२०.३६
द्वि.नालिको मुहूर्तः ॥

अशा-०२.२०.३७
पञ्च.दश.मुहूर्तो दिवसो रात्रिश् च चैत्रे च_आश्वयुजे च मासि भवतः ॥

अशा-०२.२०.३८
ततः परं त्रिभिर् मुहूर्तैर् अन्यतरः षण्.मासं वर्धते ह्रसते च_इति ॥

अशा-०२.२०.३९
छायायाम् अष्ट.पौरुष्याम् अष्टादश.भागश् छेदः, षट्.पौरुष्यां चतुर्.दश.भागः, त्रि.पौरुष्याम् अष्ट.भागः, द्वि.पौरुष्यां षड्.भागः, पौरुष्यां चतुर्.भागः, अष्ट.अङ्गुलायां त्रयो दश.भागाः, चतुर्.अङ्गुलायां त्रयो_अष्ट.भागाः, अच्छायो मध्य.अह्न इति ॥

अशा-०२.२०.४०
परावृत्ते दिवसे शेषम् एवं विद्यात् ॥

अशा-०२.२०.४१
आषाढे मासि नष्टच्.छायो मध्य.अह्नो भवति ॥

अशा-०२.२०.४२
अतः परं श्रावण.आदीनां षण्.मासानां द्व्य्.अङ्गुल.उत्तरा माघ.आदीनां द्व्य्.अङ्गुल.अवरा छाया इति ॥

अशा-०२.२०.४३
पञ्चदश.अहो.रात्राः पक्षः ॥

अशा-०२.२०.४४
सोम.आप्यायनः शुक्लः ॥

अशा-०२.२०.४५
सोम.अवच्छेदनो बहुलः ॥

अशा-०२.२०.४६
द्वि.पक्षो मासः ॥

अशा-०२.२०.४७
त्रिंशद्.अहो.रात्रः कर्म.मासः ॥

अशा-०२.२०.४८
स-अर्धः सौरः ॥

अशा-०२.२०.४९
अर्ध.न्यूनश् चान्द्र.मासः ॥

अशा-०२.२०.५०
सप्त.विंशतिर् नाक्षत्र.मासः ॥

अशा-०२.२०.५१
द्वात्रिंशद् बल.मासः ॥

अशा-०२.२०.५२
पञ्चत्रिंशद् अश्व.वाहायाः ॥

अशा-०२.२०.५३
चत्वारिंशद्द्.हस्ति.वाहायाः ॥

अशा-०२.२०.५४
द्वौ मासाव् ऋतुः ॥

अशा-०२.२०.५५
श्रावणः प्रौष्ठपदश् च वर्षाः ॥

अशा-०२.२०.५६
आश्वयुजः कार्त्तिकश् च शरत् ॥

अशा-०२.२०.५७
मार्ग.शीर्षः पौषश् च हेमन्तः ॥

अशा-०२.२०.५८
माघः फाल्गुनश् च शिशिरः ॥

अशा-०२.२०.५९
चैत्रो वैशाखश् च वसन्तः ॥

अशा-०२.२०.६०
ज्येष्ठामूलीय आषाढश् च ग्रीष्मः ॥

अशा-०२.२०.६१
शिशिर.आद्य् उत्तर.अयणम् ॥

अशा-०२.२०.६२
वर्ष.आदि दक्षिण.अयनम् ॥

अशा-०२.२०.६३
द्व्य्.अयनः संवत्सरः ॥

अशा-०२.२०.६४
पञ्च.संवत्सरो युगम् । इति ॥

अशा-०२.२०.६५कख’’’
दिवसस्य हरत्य् अर्कः षष्टि.भागम् ऋतौ ततः ।


अशा-०२.२०.६५गघ’’’
करोत्य् एकम् अहश्.छेदं तथा_एव_एकं च चन्द्रमाः ॥


अशा-०२.२०.६६कख’’’
एवम् अर्ध.तृतीयानाम् अब्दानाम् अधिमासकम् ।


अशा-०२.२०.६६गघ’’’
ग्रीष्मे जनयतः पूर्वं पञ्च.अब्द.अन्ते च पश्चिमम् ॥

(Cओल्लेच्तोर् ओf चोस्तुम्स् अन्द् तोल्ल्स्)

अशा-०२.२१.०१
शुल्क.अध्यक्षः शुल्क.शालां ध्वजं च प्रान्.मुखम् उदन्.मुखं वा महा.द्वार.अभ्याशे निवेशयेत् ॥

अशा-०२.२१.०२
शुल्क.आदायिनश् चत्वारः पञ्च वा सार्थ.उपयातान् वणिजो लिखेयुः - के कुतस्त्याः कियत्.पण्याः क्व च_अभिज्ञानं मुद्रा वा कृता इति ॥

अशा-०२.२१.०३
अमुद्राणाम् अत्ययो देय.द्वि.गुणः ॥

अशा-०२.२१.०४
कूट.मुद्राणां शुल्क.अष्ट.गुणो दण्डः ॥

अशा-०२.२१.०५
भिन्न.मुद्राणाम् अत्ययो घटिका.स्थाने स्थानम् ॥

अशा-०२.२१.०६
राज.मुद्रा.परिवर्तने नाम.कृते वा स-पाद.पणिकं वहनं दापयेत् ॥

अशा-०२.२१.०७
ध्वज.मूल.उपस्थितस्य प्रमाणम् अर्घं च वैदेहिकाः पण्यस्य ब्रूयुः "एतत्.प्रमाणेन_अर्घेण पण्यम् इदं कः क्रेता" इति ॥

अशा-०२.२१.०८
त्रि.रुद्ध.उषितम् अर्थिभ्यो दद्यात् ॥

अशा-०२.२१.०९
क्रेतृ.संघर्षे मूल्य.वृद्धिः स-शुल्का कोशं गच्छेत् ॥

अशा-०२.२१.१०
शुल्क.भयात् पण्य.प्रमाण मूल्यं वा हीनं ब्रुवतस् तद् अतिरिक्तं राजा हरेत् ॥

अशा-०२.२१.११
शुल्कम् अष्ट.गुणं वा दद्यात् ॥

अशा-०२.२१.१२
तद् एव निविष्ट.पण्यस्य भाण्डस्य हीन.प्रतिवर्णकेन_अर्घ.अपकर्षणे सार.भाण्डस्य फल्गु.भाण्डेन प्रतिच्छादने च कुर्यात् ॥

अशा-०२.२१.१३
प्रतिक्रेतृ.भयाद् वा पण्य.मूल्याद् उपरि मूल्यं वर्धयतो मूल्य.वृद्धिं राजा हरेत्, द्वि.गुणं वा शुल्कं कुर्यात् ॥

अशा-०२.२१.१४
तद् एव_अष्ट.गुणम् अध्यक्षस्यच्. छादयतः ॥

अशा-०२.२१.१५
तस्माद् विक्रयः पण्यानां धृतो मितो गणितो वा कार्यः, तर्कः फल्गु.भाण्डानाम् आनुग्राहिकाणां च ॥

अशा-०२.२१.१६
ध्वज.मूलम् अतिक्रान्तानां च_अकृत.शुल्कानां शुल्काद् अष्ट.गुणो दण्डः ॥

अशा-०२.२१.१७
पथिक.उत्पथिकास् तद् विद्युः ॥

अशा-०२.२१.१८
वैवाहिकम् अन्वायनम् औपायिकं यज्ञ.कृत्य.प्रसव.नैमित्तिकं देव_इज्या.चौल.उपनयन.गो.दान.व्रत.दीक्षा.आदिषु क्रिया.विशेषेषु भाण्डम् उच्छुल्कं गच्छेत् ॥

अशा-०२.२१.१९
अन्यथा.वादिनः स्तेय.दण्डः ॥

अशा-०२.२१.२०
कृत.शुल्केन_अकृत.शुल्कं निर्वाहयतो द्वितीयम् एक.मुद्रया भित्त्वा पण्य.पुटम् अपहरतो वैदेहकस्य तच्_च तावच् च दण्डः ॥

अशा-०२.२१.२१
शुल्क.स्थानाद् गोमय.पलालं प्रमाणं कृत्वा_अपहरत उत्तमः साहस.दण्डः ॥

अशा-०२.२१.२२
शस्त्र.वर्म.कवच.लोह.रथ.रत्न.धान्य.पशूनाम् अन्यतमम् अनिर्वाह्यं निर्वाहयतो यथा_अवघुषितो दण्डः पण्य.नाशश्_च ॥

अशा-०२.२१.२३
तेषाम् अन्यतमस्य_आनयने बहिर् एव_उच्छुल्को विक्रयः ॥

अशा-०२.२१.२४
अन्त.पालः स-पाद.पणिकां वर्तनीं गृह्णीयात् पण्य.वहनस्य, पणिकाम् एक.खुरस्य, पशूनाम् अर्ध.पणिकां क्षुद्र.पशूनां पादिकाम्, अंस.भारस्य माषिकाम् ॥

अशा-०२.२१.२५
नष्ट.अपहृतं च प्रतिविदध्यात् ॥

अशा-०२.२१.२६
वैदेश्यं सार्थं कृत.सार.फल्गु.भाण्ड.विचयनम् अभिज्ञानं मुद्रां च दत्त्वा प्रेषयेद् अध्यक्षस्य ॥

अशा-०२.२१.२७
वैदेहक.व्यञ्जनो वा सार्थ.प्रमाणं राज्ञः प्रेषयेत् ॥

अशा-०२.२१.२८
तेन प्रदेशेन राजा शुल्क.अध्यक्षस्य सार्थ.प्रमाणम् उपदिशेत् सर्वज्ञ.ख्यापन_अर्थम् ॥

अशा-०२.२१.२९
ततः सार्थम् अध्यक्षो_अभिगम्य ब्रूयात् "इदम् अमुष्याम् उष्य च सार.भाण्डं फल्गु.भाण्डं च, न निहूहितव्यम्, एष राज्ञः प्रभावः" इति ॥

अशा-०२.२१.३०
निहूहतः फल्गु.भाण्डं शुल्क.अष्ट.गुणो दण्डः, सार.भाण्डं सर्व.अपहारः ॥

अशा-०२.२१.३१कख’’’
राष्ट्र.पीडा.करं भाण्डम् उच्छिन्द्याद् अफलं च यत् ।


अशा-०२.२१.३१गघ’’’
महा.उपकारम् उच्छुल्कं कुर्याद् बीजं च दुर्लभम् ॥

(टरिff ओf दुतिएस् अन्द् तोल्ल्स्)

अशा-०२.२२.०१
बाह्यम् आभ्यन्तरं च_आतिथ्यम् ॥

अशा-०२.२२.०२
निष्क्राम्यं प्रवेश्यं च शुल्कम् ॥

अशा-०२.२२.०३
प्रवेश्यानां मूल्य.पञ्च.भागः ॥

अशा-०२.२२.०४
पुष्प.फल.शाक.मूल.कन्द.वाल्लिक्य.बीज.शुष्क.मत्स्य.मांसानां षड्.भागं गृह्णीयात् ॥

अशा-०२.२२.०५
शङ्ख.वज्र.मणि.मुक्ता.प्रवाल.हाराणां तज्.जात.पुरुषैः कारयेत् कृत.कर्म.प्रमाण.काल.वेतन.फल.निष्पत्तिभिः ॥

अशा-०२.२२.०६
क्षौम.दुकूल.क्रिमि.तान.कङ्कट.हरि.ताल.मनः.शिला.अञ्जन.हिङ्गुलुक.लोह.वर्ण.धातूनां चन्दन.अगुरु.कटुक.किण्व.अवराणां चर्म.दन्त.आस्तरण.प्रावरण.क्रिमि.जातानाम् आज.एडकस्य च दश.भागः पञ्च.दश.भागो वा ॥

अशा-०२.२२.०७
वस्त्र.चतुष्पद.द्विपद.सूत्र.कार्पास.गन्ध.भैषज्य.काष्ठ.वेणु.वल्कल.चर्म.मृद्भ.अण्डानां धान्य.स्नेह.क्षार.लवण.मद्य.पक्वान् नादीनां च विंशति.भागः पञ्च.विंशति.भागो वा//

अशा-O२.२२.०८
द्वारादेयं शुल्कं पञ्च.भागः आनुग्राहिकं वा यथा.देश.उपकारं स्थापय्तेत्//

अशा-O२.२२.०९
जाति.भूमिषु च पण्यानां विक्रयः//

अशा-O२.२२.१०
खनिभ्यो धातु.पण्यादाने षट्.छतम् अत्ययः//

अशा-O२.२२.११
पुष्प.फल.वाटेभ्यः पुष्प.फल.आदाने चतुष्.पञ्चाशत्.पणो दण्डः ॥

अशा-O२.२२.१२ षण्डेभ्यः शाक.मूल.कन्द.आदाने पाद.ऊनं द्वि.पञ्चाशत्.पणो दण्डः ॥

अशा-०२.२२.१३
क्षेत्रेभ्यः सर्व.सस्य.आदाने त्रि.पञ्चाशत्.पणः ॥

अशा-०२.२२.१४
पणो_अध्यर्ध.पणश् च सीता.अत्ययः ॥

अशा-०२.२२.१५कख’’’
अतो नव.पुराणां देश.जाति.चरित्रतः ।


अशा-०२.२२.१५गघ’’’
पण्यानां स्थापयेच्_शुक्लम् अत्ययं च_अपकारतः ॥

(षुपेरिन्तेन्देन्त् ओf यर्न्स् (अन्द् तेष्तिलेस्))

अशा-०२.२३.०१
सूत्र.अध्यक्षः सूत्र.वर्म.वस्त्र.रज्जु.व्यवहारं तज्.जात.पुरुषैः कारयेत् ॥

अशा-०२.२३.०२
ऊर्णा.वल्क.कार्पास.तूल.शण.क्षौमाणि च विधवा.न्यङ्गा.कन्या.प्रव्रजिता.दण्ड.प्रतिकारिणीभी रूप.आजीवा.मातृकाभिर् वृद्ध.राज.दासीभिर् व्युपरत.उपस्थान.देव.दासीभिश् च कर्तयेत् ॥

अशा-०२.२३.०३
श्लक्ष्ण.स्थूल.मध्यतां च सूत्रस्य विदित्वा वेतनं कल्पयेत्, बह्व्.अल्पतां च ॥

अशा-०२.२३.०४
सूत्र.प्रमाण ज्ञात्वा तैल.आमलक.उद्वर्तनैर् एता अनुगृह्णीयात् ॥

अशा-०२.२३.०५
तिथिषु प्रतिमान.दानैश् च कर्म कारयितव्याः ॥

अशा-०२.२३.०६
सूत्र.ह्रासे वेतन.ह्रासो द्रव्य.सारात् ॥

अशा-०२.२३.०७
कृत.कर्म.प्रमाण.काल.वेतन.फल.निष्पत्तिभिः कारुभिश् च कर्म कारयेत्, प्रतिसंसर्गं च गच्छेत् ॥

अशा-०२.२३.०८
क्षौम.दुकूल.क्रिमि.तान.राङ्कव.कार्पास.सूत्र.वान.कर्म.अन्तांश् च प्रयुञ्जानो गन्ध.माल्य.दानैर् अन्यैश् च_औपग्राहिकैर् आराधयेत् ॥

अशा-०२.२३.०९
वस्त्र.आस्तरण.प्रावरण.विकल्पान् उत्थापयेत् ॥

अशा-०२.२३.१०
कङ्कट.कर्म.अन्तांश् च तज्.जात.कारु.शिल्पिभिः कारयेत् ॥

अशा-०२.२३.११
याश् च_अनिष्कासिन्यः प्रोषिता विधवा न्यङ्गाः कन्यका वा_आत्मानं बिभृयुः ताः स्व.दासीभिर् अनुसार्य स-उपग्रहं कर्म कारयितव्याः ॥

अशा-०२.२३.१२
स्वयम् आगच्छन्तीनां वा सूत्र.शालां प्रत्युषसि भाण्ड.वेतन.विनिमयं कारयेत् ॥

अशा-०२.२३.१३
सूत्र.परीक्षा.अर्थ.मात्रः प्रदीपः ॥

अशा-०२.२३.१४
स्त्रिया मुख.संदर्शने_अन्य.कार्य.सम्भाषायां वा पूर्वः साहस.दण्डः, वेतन.काल.अतिपातने मध्यमः, अकृत.कर्म.वेतन.प्रदाने च ॥

अशा-०२.२३.१५
गृहीत्वा वेतनं कर्म.अकुर्वत्या अङ्गुष्ठ.संदंशं दापयेत्, भक्षित.अपहृत.अवस्कन्दितानां च ॥

अशा-०२.२३.१६
वेतनेषु च कर्म.कराणाम् अपराधतो दण्डः ॥

अशा-०२.२३.१७
रज्जु.वर्तकैर् वर्म.कारैश् च स्वयं संसृज्येत ॥

अशा-०२.२३.१८
भाण्डानि च वरत्र.आदीनि वर्तयेत् ॥

अशा-०२.२३.१९कख’’’
सूत्र.वल्कमयी रज्जुर् वरत्रा वैत्र.वैणवीः ।


अशा-०२.२३.१९गघ’’’
साम्नाह्या बन्ध.नीयाश् च यान.युग्यस्य करयेत् ॥

(डिरेच्तोर् ओf अग्रिचुल्तुरे)

अशा-०२.२४.०१
सीता.अध्यक्षः कृषि.तन्त्र.शुल्ब.वृक्ष.आयुर्.वेदज्ञस् तज्.ज्ञ.सखो वा सर्व.धान्य.पुष्प.फल.शाक.कन्द.मूल.वाल्लिक्य.क्षौम.कार्पास.बीजानि यथा.कालं गृह्णीयात् ॥

अशा-०२.२४.०२
बहु.हल.परिकृष्टायां स्व.भूमौ दास.कर्म.कर.दण्ड.प्रतिकर्तृभिर् वापयेत् ॥

अशा-०२.२४.०३
कर्षण.यन्त्र.उपकरण.बलीवर्दैश् च_एषाम् असङ्गं कारयेत्, कारुभिश् च कर्मार.कुट्टाक.मेदक.रज्जु.वर्तक.सर्प.ग्राह.आदिभिश् च ॥

अशा-०२.२४.०४
तेषां कर्म.फल.विनिपाते तत्.फल.हानं दण्डः ॥

अशा-०२.२४.०५
षोडश.द्रोणं जाङ्गलानां वर्ष.प्रमाणम्, अध्यर्धम् आनूपानां देश.वापानाम्, अर्ध.त्रयोदश_अश्मकानाम्, त्रयोविंशतिर् अवन्तीनाम्, अमितम् अपर.अन्तानां हैमन्यानां च, कुल्या.आवापानां च कालतः ॥

अशा-०२.२४.०६
वर्ष.त्रि.भागः पूर्व.पश्चिम.मासयोः, द्वौ त्रि.भागौ मध्यमयोः - सुषमा.रूपम् ॥

अशा-०२.२४.०७
तस्य_उपलधिर् बृहस्पतेः स्थान.गमन.गर्भ.आधानेभ्यः शुक्र.उदय.अस्तमय.चारेभ्यः सूर्यस्य प्रकृति.वैकृताच् च ॥

अशा-०२.२४.०८
सूर्याद् बीज.सिद्धिः, बृहस्पतेः सस्यानां स्तम्ब.कारिता, शुक्राद् वृष्टिः । इति ॥

अशा-०२.२४.०९कख’’’
त्रयः सप्त.अहिका मेघा अशीतिः कण.शीकराः ।


अशा-०२.२४.०९गघ’’’
षष्टिर् आतप.मेघानाम् एषा वृष्टिः समा हिता ॥


अशा-०२.२४.१०कख’’’
वातम् आतप.योगं च विभजन् यत्र वर्षति ।


अशा-०२.२४.१०गघ’’’
त्रीन् करीषांश् च जनयंस् तत्र सस्य.आगमो ध्रुवः ॥


अशा-०२.२४.११
ततः प्रभूत.उदकम् अल्प.उदकं वा सस्यं वापयेत् ॥

अशा-०२.२४.१२
शालि.व्रीहि.कोद्रव.तिल.प्रियङ्गु.उदारक.वरकाः पूर्व.वापाः ॥

अशा-०२.२४.१३
मुद्ग.माष.शैम्ब्या मध्य.वापाः ॥

अशा-०२.२४.१४
कुसुम्भ.मसूर.कुलत्थ.यव.गो.धूम.कलाय.अतसी.सर्षपाः पश्चाद्.वापाः ॥

अशा-०२.२४.१५
यथा.ऋतु.वशेन वा बीज.वापाः ॥

अशा-O२.२४.१६
वाप.अतिरिक्तम् अर्ध.सीतिकाः कुर्युः, स्व.वीर्य.उपजीविनो वा चतुर्.थ.पञ्च.भागिकाः ॥

अशा-ऊ२.२४.१७
यथा_इष्टम् अनवसित.भागं दद्युः, अन्यत्र कृच्छ्रेभ्यः ॥

अशा-ऊ२.२४.१८
स्व.सेतुभ्यो हस्त.प्रावर्तिमम् उदक.भागं पञ्चमं दद्युः, स्कन्ध.प्रावर्तिमं चतुर्थम्, स्रोतो.यन्त्र.प्रावर्तिमं च तृतीयम्, चतुर्थं नदी.सरस्.तटाक.कूप.उद्धाटम् ॥

अशा-ऊ२.२४.१९
कर्म.उदक.प्रमाणेन कैदारं हैमनं ग्रैष्मिकं वा सस्यं स्थापयेत् ॥

अशा-ऊ२.२४.२०
शाल्य्.आदि ज्येष्ठम्, षण्डो मध्यमः, इक्षुः प्रत्यवरः ॥

अशा-०२.२४.२१
इक्षवो हि बह्व्.आबाधा व्यय.ग्राहिणश् च ॥

अशा-०२.२४.२२
फेन.आघातो वल्ली.फलानाम्, परीवाह.अन्ताः पिप्पली.मृद्वीक.इक्षूणाम्, कूप.पर्यन्ताः शाक.मूलानाम्, हरणी.पर्यन्ता हरितकानाम्, पाल्यो लवानां गन्ध.भैषज्य.उशीर.ह्रीबेर.पिण्डालुक.आदीनाम् ॥

अशा-०२.२४.२३
यथा.स्वं भूमिषु च स्थाल्याश् च_आनूप्याश् च_ओषधीः स्थापयेत् ॥

अशा-०२.२४.२४
तुषार.पायन.मुष्ण.शोषणं च_आ.सप्त.रात्राद् इति धान्य.बीजानाम्, त्रि.रात्रं वा पञ्च.रात्रं वा कोशी.धान्यानाम्, मधु.घृत.सूकर.वसाभिः शकृद्.युक्ताभिः काण्ड.बीजानां छेद.लेपो, मधु.घृतेन कन्दानाम्, अस्थि.बीजानां शकृद्.आलेपः, शाखिनां गर्त.दाहो गो.अस्थि.शकृद्भिः काले दौह्र्दं च ॥

अशा-०२.२४.२५
प्ररूढांश् च_अशुष्क.कटु.मत्स्यांश् च स्नुहि.क्षीरेण पाययेत् ॥

अशा-०२.२४.२६कख’’’
कार्पास.सारं निर्मोकं सर्पस्य च समाहरेत् ।


अशा-०२.२४.२६गघ’’’
न सर्पास् तत्र तिष्ठन्ति धूमो यत्र_एष तिष्ठति ॥


अशा-०२.२४.२७
सर्व.जीजानां तु प्रथम.वापे सुवर्ण.उदक.सम्प्लुतां पूर्व.मुष्टिं वापयेद्, अमुं च मन्त्रं ब्रूयात् - "प्रजापतये काश्यपाय देवाय च नमः सदा । सीता मे ऋध्यतां देवी बीजेषु च धनेषु च ॥

अशा-०२.२४.२८
षण्ड.वाट.गो.पालक.दास.कर्म.करेभ्यो यथा.पुरुष.परिवापं भक्तं कुर्यात्, स-पाद.पणिकं च मासं दद्यात् ॥

अशा-०२.२४.२९
कर्म.अनुरूपं कारुभ्यो भक्त.वेतनम् ॥

अशा-०२.२४.३०
प्रशीर्णं च पुष्प.फलं देव.कार्य.अर्थं व्रीहि.यवम् आग्रयण.अर्थं श्रोत्रियास् तपस्विनश् च_आहरेयुः, राशि.मूलम् उञ्छ.वृत्तयः ॥

अशा-०२.२४.३१कख’’’
यथा.कालं च सस्य.आदि जातं जातं प्रवेशयेत् ।


अशा-०२.२४.३१गघ’’’
न क्षेत्रे स्थापयेत् किंचित् पलालम् अपि पण्डितः ॥


अशा-०२.२४.३२कख’’’
प्राकाराणां समुच्छ्रयान् वलभीर् वा तथा.विधाः ।


अशा-०२.२४.३२गघ’’’
न संहतानि कुर्वीत न तुच्छानि शिरांसि च ॥


अशा-०२.२४.३३कख’’’
खलस्य प्रकरान् कुर्यान् मण्डल.अन्ते समाश्रितान् ।


अशा-०२.२४.३३गघ’’’
अनग्निकाः स-उदकाश् च खले स्युः परिकर्मिणः ॥

(Cओन्त्रोल्लेर् ओf स्पिरितुअल् लिॠउओर्स्)

अशा-०२.२५.०१
सुरा.अध्यक्षः सुरा.किण्व.व्यवहारान् दुर्गे जन.पदे स्कन्ध.आवारे वा तज्.जात.सुरा.किण्व.व्यवहारिभिः कारयेद्, एक.मुखम् अनेक.मुखं वा विक्रय.क्रय.वशेन वा ॥

अशा-०२.२५.०२
षट्.शतम् अत्ययम् अन्यत्र कर्तृ.क्रेतृ.विक्रेतृऋणां स्थापयेत् ॥

अशा-०२.२५.०३
ग्रामाद् अनिर्णयणम् असम्पातं च सुरायाः, प्रमाद.भयात् कर्मसु ञ्जिर्दिष्टानाम्, मर्याद.अतिक्रम.भयाद् आर्याणाम्, उत्साह.भयाच् च तीष्क्णानाम् ॥

अशा-०२.२५.०४
लक्षितम् अल्पं वा चतुर्.भागम् अर्ध.कुडुबं कुडुबम् अर्ध.प्रस्थं प्रस्थं वा_इति ज्ञात.शौचा निर्हरेयुः ॥

अशा-०२.२५.०५
पान.अगारेषु वा पिबेयुर् असंचारिणः ॥

अशा-०२.२५.०६
निक्षेप.उपनिधि.प्रयोग.अपहृतानाम् अनिष्ट.उपगतानां च द्रव्याणां ज्ञान.अर्थम् अस्वामिकं कुप्यं हिरण्यं च_उपलभ्य निष्केप्तारम् अन्यत्र व्यपदेशेन ग्राहयेद्, अतिव्यय.कर्तारम् अनायति.व्ययं च ॥

अशा-०२.२५.०७
न च_अनर्घेण कालिकां वा सुरां दद्याद्, अन्यत्र दुष्ट.सुरायाः ॥

अशा-०२.२५.०८
ताम् अन्यत्र विक्रापयेत् ॥

अशा-०२.२५.०९
दास.कर्म.करेभ्यो वा वेतनं दद्यात् ॥

अशा-०२.२५.१०
वाहन.प्रतिपानं सूकर.पोषणं वा दद्यात् ॥

अशा-०२.२५.११
पान.अगाराण्य्.अनेक.कक्ष्याणि विभक्त.शयन.आसनवन्ति पान.उद्देशानि गन्ध.माल्य.उदकवन्ति ऋतु.सुखानि कारयेत् ॥

अशा-०२.२५.१२
तत्रस्थाः प्रकृत्य्.औत्पत्तिकौ व्ययौ गूढा विद्युः, आगन्तूंश् च ॥

अशा-०२.२५.१३
क्रेतृऋणां मत्त.सुप्तानाम् अलङ्कारात्_छादन.हिरण्यानि च विद्युः ॥

अशा-०२.२५.१४
तन्.नाशे वणिजस् तच् च तावच् च दण्डं दद्युः ॥

अशा-०२.२५.१५
वणिजश्स् तु संवृतेषु कक्ष्या.विभागेषु स्व.दासीभिः पेशल.रूपाभिर् आगन्तूनां वास्तव्यानां च_आर्य.रूपाणां मत्त.सुप्तानां भावं विद्युः ॥

अशा-०२.२५.१६
मेदक.प्रसन्न.आसव.अरिष्ट.मैरेय.मधूनाम् ॥

अशा-०२.२५.१७
उदक.द्रोणं तण्डुलानाम् अर्ध.आढकं त्रयः प्रस्थाः किण्वस्य_इति मेदक.योगः ॥

अशा-०२.२५.१८
द्वादश.आढकं पिष्टस्य पञ्च प्रस्थाः किण्वस्य क्रमुक.त्वक्.फल.युक्तो वा जाति.सम्भारः प्रसन्ना.योगः ॥

अशा-०२.२५.१९
कपित्थ.तुला फाणितं पञ्च.तौलिकं प्रस्थो मधुन इत्य् आसव.योगः ॥

अशा-ऊ२.२५.२०
पाद्.अधिको ज्येष्ठः पाद.हीनः कनिष्ठः ॥

अशा-ऊ२.२५.२१
चिकित्सक.प्रमाणाः प्रत्येकशो विकाराणाम् अरिष्टाः ॥

अशा-ऊ२.२५.२२
मेष.शृङ्गी.त्वक्.क्वाथ.अभिषुतो गुड.प्रतीवापः पिप्पली.मरिच.सम्भारस् त्रि.फला.युक्तो वा मैरेयः ॥

अशा-य़्२.२५.२३
गुड.युक्तानां वा सर्वेषां त्रि.फला.सम्भारः ॥

अशा-ऊ२.२५.२४
मृद्वीका.रसो मधु ॥

अशा-उ२.२५.२५
तस्य स्व.देशो व्याख्यानं कापि.शायनं हार.हूरकम् इति ॥

अशा-ऊ२.२५.२६
माषकलनीद्रोणमामं सिद्धं वा त्रि.भाग.अधिक.तण्डुलं मोरट.आदीनां कार्षिक.भाग.युक्तं किण्व.बन्धः ॥

अशा-०२.२५.२७
पाठा.लोघ्र.तेजोवत्य्.एला.वालुक.मधुक.मधु.रसा.प्रियङ्गु.दारु.हरिद्रा.मरिच.पिप्पलीनां च पञ्च.कार्षिकः सम्भार.योगो मेदकस्य प्रसन्नायाश् च ॥

अशा-०२.२५.२८
मधुक.निर्यूह.युक्ता कट.शर्करा वर्ण.प्रसादनी च ॥

अशा-०२.२५.२९
चोच.चित्रक.विलङ्ग.गज.पिप्पलीनां च कार्षिकः क्रमुक.मधुक.मुस्ता.लोध्राणां द्वि.कार्षिकश् च_आसव.सम्भारः ॥

अशा-०२.२५.३०
दश.भागश् च_एषां बीज.बन्धः ॥

अशा-०२.२५.३१
प्रसन्ना.योगः श्वेत.सुरायाः ॥

अशा-०२.२५.३२
सहकार.सुरा रस.उत्तरा बीज.उत्तरा वा महा.सुरा सम्भारिकी वा ॥

अशा-०२.२५.३३
तासां मोरटा.पलाश.पत्तूर.मेष.शृङ्गी.करञ्ज.क्षीर.वृक्ष.कषाय.भावितं दग्ध.कट.शर्करा.चूर्णं लोघ्र.चित्रक.विलङ्ग.पाठा.मुस्ता.कलिङ्ग.यव.दारु.हरिद्र.इन्दीवर.शत.पुष्प.अपामार्ग.सप्त.पर्ण.निम्ब.आस्फोत.कल्क.अर्ध.युक्तम् अन्तर्.नखो मुष्टिः कुम्भीं राज.पेयां प्रसादयति ॥

अशा-०२.२५.३४
फाणितः पञ्च.पलिकश् च_अत्र रस.वृद्धिर् देयः ॥

अशा-०२.२५.३५
कुटुम्बिनः कृत्येषु श्वेत.सुराम्, औषध.अर्थं वारिष्टम्, अन्यद् वा कर्तुं लभेरन् ॥

अशा-०२.२५.३६
उत्सव.समाज.यात्रासु चतुर्.अहः सौरिको देयः ॥

अशा-०२.२५.३७
तेष्व् अननुज्ञातानां प्रहवन.अन्तं दैवसिकम् अत्ययं गृह्णीयात् ॥

अशा-०२.२५.३८
सुरा.किण्व.विचयं स्त्रियो बालाश् च कुर्युः ॥

अशा-०२.२५.३९
अराज.पण्याः पञ्चकं शतं शुल्कं दद्युः, सुरका.मेदक.अरिष्ट.मधु.फल.आम्ल.आम्ल.शीधूनां च ॥

अशा-०२.२५.४०कख’’’
अह्नश् च विक्रयं ज्ञात्वा व्याजीं मान.हिरण्ययोः ।


अशा-०२.२५.४०गघ’’’
तथा वैधरणं कुर्याद् उचितं च_अनुवर्तयेत् ॥

(षुपेर्विसोर् ओf (अनिमल्-)स्लौघ्तेर्)

अशा-०२.२६.०१
सूना.अध्यक्षः प्रदिष्ट.अभयानाम् अभय.वन.वासिनां च मृग.पशु.पक्षि.मत्स्यानां बन्ध.वध.हिंसायाम् उत्तमं दण्डं कारयेत्, कुटुम्बिनाम् अभय.वन.परिग्रहेषु मध्यमम् ॥

अशा-०२.२६.०२
अप्रवृत्त.वधानां मत्स्य.पक्षिणां बन्ध.वध.हिंसायां पाद.ऊन.सप्त.विंशति.पणम् अत्ययं कुर्यात्, मृग.पशूनां द्वि.गुणम् ॥

अशा-०२.२६.०३
प्रवृत्त.हिंसानाम् अपरिगृहीतानां षड्.भागं गृह्णीयात्, मत्स्य.पक्षिणां दश.भागं वा_अधिकम्, मृग.पशूनां शुल्कं वा_अधिकम् ॥

अशा-०२.२६.०४
पक्षि.मृगाणां जीवत् षड्.भागम् अभय.वनेषु प्रमुञ्चेत् ॥

अशा-०२.२६.०५
सामुद्र.हस्त्य्.अश्व.पुरुष.वृष.गर्दभ.आकृतयो मत्स्याः सारसा न_आदेयास् तटाक.कुल्या.उद्भवा वा क्रौञ्च.उत्क्रोशक.दात्यूह.हंस.चक्रवाक.जीवन्.जीवक.भृङ्ग.राज.चकोर.मत्त.कोकिल.मयूर.शुक.मदन.शारिका विहार.पक्षिणो मङ्गल्याश् च_अन्ये_अपि प्राणिनः पक्षि.मृगा हिंसा.बाधेभ्यो रक्ष्याः ॥

अशा-०२.२६.०६
रक्षा.अतिक्रमे पूर्वः साहस.दण्डः ॥

अशा-०२.२६.०७
मृग.पशूनाम् अनस्थि.मांसं सद्यो.हतं विक्रीणीरन् ॥

अशा-०२.२६.०८
अस्थिमतः प्रतिपातं दद्युः ॥

अशा-०२.२६.०९
तुला.हीने हीन.अष्ट.गुणम् ॥

अशा-०२.२६.१०
वत्सो वृषो धेनुश् च_एषाम् अवध्याः ॥

अशा-०२.२६.११
घ्नतः पञ्चाशत्को दण्डः, क्लिष्ट.घातं घातयतश् च ॥

अशा-०२.२६.१२
परिशूनम् अशिरः.पाद.अस्थि विगन्धं स्वयं.मृतं च न विक्रीणीरन् ॥

अशा-०२.२६.१३
अन्यथा द्वादश.पणो दण्डः ॥

अशा-०२.२६.१४कख’’’
दुष्टाः पशु.मृग.व्याला मत्स्यश् च_अभय.चारिणः ।


अशा-०२.२६.१४गघ’’’
अन्यत्र गुप्ति.स्थानेभ्यो वध.बन्धम् अवाप्नुयुः ॥

(षुपेरिन्तेन्देन्त् ओf चोउर्तेसन्स्)

अशा-०२.२७.०१
गणिका.अध्यक्षो गणिका.अन्वयाम् अगणिका.अन्वयां वा रूप.यौवन.शिल्प.सम्पन्नां सहस्रेण गणिकां कारयेत्, कुटुम्ब.अर्धेन प्रतिगणिकाम् ॥

अशा-०२.२७.०२
निष्पतिता.प्रेतयोर् दुहिता भगिनी वा कुटुम्बं भरेत, माता वा प्रतिगणिकां स्थापयेत् ॥

अशा-०२.२७.०३
तासाम् अभावे राजा हरेत् ॥

अशा-०२.२७.०४
सौभाग्य.अलंकार.वृद्ध्या सहस्रेण वारं कनिष्ठं मध्यमम् उत्तमं वा_आरोपयेत् छत्र.भृङ्गार.व्यजन.शिबिका.पीठिका.रथेषु च विशेष.अर्थम् ॥

अशा-०२.२७.०५
सौभाग्य.भङ्गे मातृकां कुर्यात् ॥

अशा-०२.२७.०६
निष्क्रयश् चतुर्.विंशति.साहस्रो गणिकायाः, द्वादश.साहस्रो गणिका.पुत्रस्य ॥

अशा-०२.२७.०७
अष्ट.वर्षात् प्रभृति राज्ञः कुशीलव.कर्म कुर्यात् ॥

अशा-०२.२७.०८
गणिका.दासी भग्न.भोगा कोष्ठ.अगारे महानसे वा कर्म कुर्यात् ॥

अशा-०२.२७.०९
अविशन्ती सपाद.पणम् अवरुद्धा मास.वेतनं दद्यात् ॥

अशा-०२.२७.१०
भोगं दायमायं व्ययम् आयतिं च गणिकाया निबन्धयेत्, अति.व्यय.कर्म च वारयेत् ॥

अशा-०२.२७.११
मातृ.हस्ताद् अन्यत्र अभरण.न्यासे स.पाद.चतुष्.पणो दण्डः ॥

अशा-०२.२७.१२
स्वापतेयं विक्रयम् आधानं वा नयन्त्याः स.पाद.पञ्चाशत्.पणः पणो_अर्ध.पण.च्छेदने ॥

अशा-०२.२७.१३
अकामायाः कुमार्या वा साहसे उत्तमो दण्डः, स.कामायाः पूर्वः साहस.दण्डः ॥

अशा-०२.२७.१४
गणिकाम् अकामां रुन्धतो निष्पातयतो वा व्रण.विदारणेन वा रूपं.उपघ्नतः सहस्रं दण्डः ॥

अशा-०२.२७.१५
स्थान्.विशेषेण वा दण्ड.वृद्धिः आ.निष्क्रय.द्वि.गुणात् ॥

अशा-०२.२७.१६
प्राप्त.अधिकारं गणिकां घतयतो निष्क्रय.त्रि.गुणो दण्डः ॥

अशा-०२.२७.१७
मातृका.दुहितृका.रूप.दासीनां घाते उत्तमः साहस.दण्डः ॥

अशा-०२.२७.१८
सर्वत्र प्रथमे_अपराधे प्रथमः, द्वितीये द्वि.गुणः, तृतीये त्रि.गुणः, चतुर्थे यथा.कामी स्यात् ॥

अशा-०२.२७.१९
राज.आज्ञया पुरुषम् अनभिगच्छन्ती गणिका शिफा.सहस्रं लभेएत, पञ्च.सहस्रं वा दण्डः ॥

अशा-०२.२७.२०
भोगं गृहीत्वा द्विषत्या भोग.द्वि.गुणो दण्डः ॥

अशा-०२.२७.२१
वसति.भोग.अपहारे भोगम् अष्ट.गुणं दद्याद् अन्यत्र व्याधि.पुरुष.दोषेभ्यः ॥

अशा-०२.२७.२२
पुरुषं घ्नत्याश् चिता.प्रतापे_अप्सु प्रवेशनं वा ॥

अशा-०२.२७.२३
गणिका.भरणम् अर्थं भोगं वा_अपहरतो_अष्ट.गुणो दण्डः ॥

अशा-०२.२७.२४
गणिका भोगम् आयतिं पुरुषं च निवेदयेत् ॥

अशा-०२.२७.२५
एतेन नट.नर्तक.गायन.वादक.वाग्.जीवन.कुशीलव.प्लवक.सौभिक.चारणानां स्त्री.व्यवहारिणां स्त्रियो गूढ.आजीवाश् च व्याख्याताः ॥

अशा-०२.२७.२६
तेषां तूर्यम् आगन्तुकं पञ्च.पणं प्रेक्षा.वेतनं दद्यात् ॥

अशा-०२.२७.२७
रूप.आजीवा भोग.द्वय.गुणं मासं दद्युः ॥

अशा-०२.२७.२८
गीत.वाद्य.पाठ्य.नृत्य.नाट्य.अक्षर.चित्र.वीणा.वेणु.मृदङ्ग.पर.चित्त.ज्ञान.गन्ध.माल्य.सम्यूहन.संवादन.संवाहन.वैशिक.कला.ज्ञानानि गणिका दासी रङ्ग.उपजीविनीश् च ग्राहयतो राज.मण्डलाद् आजीवं कुर्यात् ॥

अशा-०२.२७.२९
गणिका.पुत्रान् रङ्ग.उपजीविनां च मुख्यान् निष्पादयेयुः, सर्व.ताल.अवचराणां च ॥

अशा-०२.२७.३०कख’’’
संज्ञा.भाषा.अन्तरज्ञाश् च स्त्रियस् तेषाम् अनात्मसु ।


अशा-०२.२७.३०गघ’’’
चार.घात.प्रमाद.अर्थं प्रयोज्या बन्धु.वाहनाः ॥

(Cओन्त्रोल्लेर् ओf स्हिप्पिन्ग्)

अशा-०२.२८.०१
नाव्.अध्यक्षः समुद्र.सम्यान.नदी.मुखतर.प्रचारान् देव.सरो.विसरो.नदी.तरांश् च स्थानीय.आदिष्व् अवेक्षेत ॥

अशा-०२.२८.०२
तद्.वेला.कूल.ग्रामाः क्लृप्तं दद्युः ॥

अशा-०२.२८.०३
मत्स्य.बन्धका नौका.भाटकं षड्.भागं दद्युः ॥

अशा-०२.२८.०४
पत्तन.अनुवृत्तं शुल्क.भागं वणिजो दद्युः, यात्रा.वेतनं राज.नौभिः सम्पतन्तः ॥

अशा-०२.२८.०५
शङ्ख.मुक्ता.ग्राहिणो नौ.भाटकं दद्युः, स्व.नौभिर् वा तरेयुः ॥

अशा-०२.२८.०६
अध्यक्षश् च_एषां खन्य्.अध्यक्षेण व्याख्यातः ॥

अशा-०२.२८.०७
पत्तन.अध्यक्ष.निबद्धं पण्य.पत्तन.चारित्रं नाव्.अध्यक्षः पालयेत् ॥

अशा-०२.२८.०८
मूढ.वात.आहता नावः पिता_इव_अनुगृह्णीयात् ॥

अशा-०२.२८.०९
उदक.प्राप्तं पण्यम् अशुल्कम् अर्ध.शुल्कं वा कुर्यात् ॥

अशा-०२.२८.१०
यथा.निर्दिष्टाश् च_एताः पण्य.पत्तन.यात्रा.कालेषु प्रेषयेत् ॥

अशा-०२.२८.११
सम्यातीर् नावः क्षेत्र.अनुगताः शुल्कं याचेत् ॥

अशा-०२.२८.१२
हिंस्रिका निर्घातयेत्, अमित्र.विषय.अतिगाः पण्य.पत्तन.चारित्र.उपघातिकाश् च ॥

अशा-०२.२८.१३
शासक.निर्यामक.दात्र..रश्मि.ग्राहक.उत्सेचक.अधिष्ठिताश् च महा.नावो हेमन्त.ग्रीष्म.तार्यासु महा.नदीषु प्रयोजयेत्, क्षुद्रिकाः क्षुद्रिकासु वर्षा.स्राविणीषु ॥

अशा-०२.२८.१४
बाध.तीर्थाश् च_एताः कार्या राज.द्विष्ट.कारिणां तरण.भयात् ॥

अशा-०२.२८.१५
अकाले_अतीर्थे च तरतः पूर्वः साहस.दण्डः ॥

अशा-०२.२८.१६
काले तीर्थे च_अनिषृष्ट.तारिणः पाद.ऊन.सप्त.विंशति.पणस् तर.अत्ययः ॥

अशा-०२.२८.१७
कैवर्तक.अष्ट.तृण.भार.पुष्प.फल.वाट.षण्ड.गो.पालकानाम् अनत्ययः, सम्भाव्य.दूत.अनुपातिनां च सेना.भाण्ड.प्रयोगाणां च स्व.तरणैस् तरताम्, बीज.भक्त.द्रव्य.उपस्करांश् च_आनूप.ग्रामाणां तारयताम् ॥

अशा-०२.२८.१८
ब्राह्मण.प्रव्रजित.बाल.वृद्ध.व्याधित.शासन.हर.गर्भिण्यो नाव्.अध्यक्ष.मुद्राभिस् तरेयुः ॥

अशा-०२.२८.१९
कृत.प्रवेशाः पारविषयिकाः सार्थ.प्रमाणा वा प्रविशेयुः ॥

अशा-०२.२८.२०
परस्य भार्यां कन्यां वित्तं वा_अपहरन्तं शवित्तं वा_अपहरन्तं शङ्कितम् आविग्नम् उद्भाण्डी.कृतं महा.भाण्डेन मूर्ध्नि भारेण_अवच्छादयन्तं सद्यो.गृहीत.लिङ्गिनम् अलिङ्गिनं वा प्रव्रजितम् अलक्ष्य.व्याधितं भय.विकारिणं गूढ.सार.भाण्ड.शासन.शस्त्र.अग्नियोगं विष.हस्तं दीर्घ.पथिकम् अमुद्रं च_उपग्राहयेत् ॥

अशा-०२.२८.२१
क्षुद्र.पशुर् मनुष्यश् च स.भारो माषकं दद्यात्, शिरो.भारः काय.भारो गव_अश्वं च द्वौ, उष्ट्र.महिषं चतुरः, पञ्च लभुयानम्, षड् गोलिङ्गम्, सप्त शकटम्, पन्य.भारः पादम् ॥

अशा-०२.२८.२२
तेन भाण्ड.भारो व्याख्यातः ॥

अशा-०२.२८.२३
द्वि.गुणो महा.नदीषु तरः ॥

अशा-०२.२८.२४
क्लृप्तम् आनूप.ग्रामा भक्त.वेतनं दद्युः ॥

अशा-०२.२८.२५
प्रत्यन्तेषु तराः शुल्कम् आतिवाहिकं वर्तनीं च गृह्णीयुः, निर्गच्छतश् च_अमुद्र.द्रव्यस्य भाण्डं हरेयुः, अतिभारेण_अवेलायाम् अतिर्थे तरतश् च ॥

अशा-०२.२८.२६
पुरुष.उपकरण.हीनायाम् असंस्कृतायां वा नावि विपन्नायां नाव्.अध्ह्यक्षो नष्टं विनष्टं वा_अभ्यावहेत् ॥

अशा-०२.२८.२७कख’’’
सप्त.अह.वृत्ताम् आषाढीं कार्त्तिकीं च_अन्तरा तरः ।


अशा-०२.२८.२७गघ’’’
कार्मिकः प्रत्ययं दद्यान् नित्यं च_आह्निकम् आवहेत् ॥

(षुपेरिन्तेन्देन्त् ओf चत्त्ले)

अशा-०२.२९.०१
गो.अध्यक्षो वेतन.उपग्राहिकं कर.प्रतिकरं भग्न.उत्सृष्टकं भाग.अनुप्रविष्टकं व्रज.पर्यग्रं नष्टं विनष्टं क्षीर.घृत.संजातं च_उपलभेत ॥

अशा-०२.२९.०२
गो.पालक.पिण्डारक.दोहक.मन्थक.लुब्धकाः शतं शतं धेनूनां हिरण्य.भृताः पालयेयुः ॥

अशा-०२.२९.०३
क्षीर.घृत.भृता हि वत्सान् उपहन्युः । इति वेतन.उपग्राहिकम् ॥

अशा-०२.२९.०४
जरद्गु.धेनु.गर्भिणी.पष्ठौही.वत्सतरीणां सम.विभागं रूप.शतम् एकः पालयेत् ॥

अशा-०२.२९.०५
घृतस्य_अष्टौ वारकान् पणिकं पुच्छम् अङ्क.चर्म च वार्षिकं दद्यात् । इति कर.प्रतिकरः ॥

अशा-०२.२९.०६
व्याधिता.न्यङ्गा.अनन्य.दोही.दुर्दोहा.पुत्रघ्नीनां च सम.विभागं रूप.शतं पालयन्तस् तज्.जातिकं भागं दद्युः । इति भग्न.उत्षृष्टकम् ॥

अशा-०२.२९.०७
पर.चक्र.अटवी.भयाद् अनुप्रविष्टानां पशूनां पालन.धर्मेण दश.भगं दद्युः । इति भाग.अनुप्रविष्टकम् ॥

अशा-०२.२९.०८
वत्सा वत्सतरा दम्या वहिनो वृषा उक्षाणश् च पुंगवाः, युग.वाहन.शकट.वहा वृषभाः सूना.महिषाः पृष्ट.स्कन्ध.वाहिनश् च महिषाः, वत्सिका वत्सतरी पष्टहुही गर्भिणी धेनुश् च_अप्रजाता वन्ध्याश् च गावो महिष्यश् च, मास.द्वि.मास.जातास् तासाम् उपजा वत्सा वत्सिकाश् च ॥

अशा-०२.२९.०९
मास.द्वि.मास.जातान् अङ्कयेत् ॥

अशा-०२.२९.१०
मास.द्वि.मास.पर्युषितम् अङ्कयेत् ॥

अशा-०२.२९.११
अङ्कं चिह्नं वर्णं शृङ्ग.अन्तरं च लक्षणम् एवम् उपजा निबन्धयेत् । इति व्रज.पर्यग्रम् ॥

अशा-०२.२९.१२
चोर.हृतम् अन्य.यूथ.प्रविष्टम् अवलीनं वा नष्टम् ॥

अशा-०२.२९.१३
पङ्क.विषम.व्याधि.जरा.तोय.आहार.अवसन्नं वृक्ष.तट.काष्ठ.शिला.अभिहतम् ईशान.व्याल.सर्प.ग्राह.दाव.अग्नि.विपन्नं विनष्टम् ॥

अशा-०२.२९.१४
प्रमादाद् अभ्यावहेयुः ॥

अशा-०२.२९.१५
एवं रूप.अग्रं विद्यात् ॥

अशा-०२.२९.१६
स्वयं हन्ता घातयिता हर्ता हारयिता च वध्यः ॥

अशा-०२.२९.१७
पर.पशूनां राज.अङ्केन परिवर्तयिता रूपस्य पूर्वं साहस.दण्डं दद्यात् ॥

अशा-०२.२९.१८
स्व.देशीयानां चोर.हृतं प्रत्यानीय पणितं रूपं हरेत् ॥

अशा-०२.२९.१९
पर.देशीयानां मोक्षयिता_अर्धं हरेत् ॥

अशा-०२.२९.२०
बाल.वृद्ध.व्याधितानां गो.पालकाः प्रतिकुर्युः ॥

अशा-०२.२९.२१
लुब्धक.श्व.गणिभिर् अपास्तस् तेन_अव्याल.पराबाध.भयम् ऋतु.विभक्तम् अरण्यं चारयेयुः ॥

अशा-०२.२९.२२
सर्प.व्याल.त्रासन.अर्थं गो.चर.अनुपात.ज्ञान.अर्थं च त्रस्नूनां घण्टा.तूर्यं च बध्नीयुः ॥

अशा-०२.२९.२३
सम.व्यूढ.तीर्थम् अकर्दम.ग्राहम् उदकम् अवतारयेयुः पालयेयुश् च ॥

अशा-०२.२९.२४
स्तेन.व्याल.सर्प.ग्राह.गृहीतं व्याधि.जरा.अवसन्नं च_आवेदयेयुः, अन्यथा रूप.मूल्यं भजेरन् ॥

अशा-०२.२९.२५
कारण.मृतस्य_अङ्क.चर्म गो.महिषस्य, कर्ण.लक्षणम् अज.अविकानाम्, पुच्छम् अङ्क.चर्म च_अश्व.खर.उष्ट्राणाम्, बाल.चर्म.बस्ति.पित्त.स्नायु.दन्त.खुर.शृङ्ग.अस्थीनि च_आहरेयुः ॥

अशा-०२.२९.२६
मांसम् आर्द्रं शुष्कं वा विक्रीणीयुः ॥

अशा-०२.२९.२७
उदश्वित्.श्व.वराहेभ्यो दद्युः ॥

अशा-०२.२९.२८
कूर्चिकां सेना.भक्त.अर्थम् आहरेयुः ॥

अशा-०२.२९.२९
किलाटो घाण.पिण्याक.क्लेद.अर्थः ॥

अशा-०२.२९.३०
पशु.विक्रेता पादिकं रूपं दद्यात् ॥

अशा-०२.२९.३१
वर्षा.शरद्द्.हेमन्तान् उभयतः.कालं दुह्युः, शिशिर.वसन्त.ग्रीष्मान् एक.कालम् ॥

अशा-०२.२९.३२
द्वितीय.काल.दोग्धुर् अङ्गुष्ठच्.छेदो दण्डः ॥

अशा-०२.२९.३३
दोहन.कालम् अतिक्रामतस् तत्.फल.हानं दण्डः ॥

अशा-०२.२९.३४
एतेन नस्य.दम्य.युग.पिङ्गन.वर्तन.काला व्याख्याताः ॥

अशा-०२.२९.३५
क्षीर.द्रोणे गवां घृत.प्रस्थः, पञ्च.भाग.अधिको महिषीणाम्, द्वि.भाग.अधिको_अज.अवीनाम् ॥

अशा-०२.२९.३६
मन्थो वा सर्वेषां प्रमाणम् ॥

अशा-०२.२९.३७
भूमि.तृण.उदक.विशेषाद्द् हि क्षीर.घृत.वृद्धिर् भवति ॥

अशा-०२.२९.३८
यूथ.वृषं वृषेण_अवपातयतः पूर्वः साहस.दण्डः, घातयत उत्तमः ॥

अशा-०२.२९.३९
वर्ण.अवरोधेन दशती रक्षा ॥

अशा-०२.२९.४०
उपनिवेश.दिग्.विभागो गो.प्रचाराद् बल_अन्वयतो वा गवां रक्षा.सामर्थ्याच् च//

अशा-०२.२९.४१
अजावीनां षण्.मासिकी.मूर्णां ग्राहयेत् ॥

अशा-०२.२९.४२
तेन_अश्व.खर.उष्ट्र.वराह.व्रजा व्याख्याताः ॥

अशा-०२.२९.४३
बलीवर्दानां नस्य.अश्व.भद्र.गति.वाहिनां यव.सस्य.अर्ध.भारस् तृणस्य द्वि.गुणम्, तुला घाण.पिण्याकस्य, दश.आढकं कण.कुण्डकस्य, पञ्च.पलिकं मुख.लवनाम्, तैल.कुडुबो नस्यं प्रस्थः पानं, मांस.तुला, दध्नश् च_आढकम्, यव.द्रोणं माषाणां वा पुलाकः, क्षीर.द्रोणम् अर्ध.आढकं वा सुरायाः स्नेह.प्रस्थः क्षार.दश.पलं शृङ्गिबेर.पलं च प्रतिपानम् ॥

अशा-०२.२९.४४
पाद.ऊनम् अश्वतर.गो.खराणाम्, द्वि.गुणं महिष.उष्ट्राणाम् ॥

अशा-०२.२९.४५
कर्म.कर.बलीवर्दानां पायन.अर्थानां च धेनूनां कर्म.कालतः फलतश् च विधा.दानम् ॥

अशा-०२.२९.४६
सर्वेषां तृण.उदक.प्राकाम्यम् ॥

अशा-०२.२९.४७
इति गो.मण्डलं व्याख्यातम् ॥

अशा-०२.२९.४८कख’’’
पञ्च.ऋषभं खर.अश्वानाम् अज.अवीनां दश.ऋषभम् ।


अशा-०२.२९.४८गघ’’’
शत्यं गो.महिष.उष्ट्राणां यूथं कुर्याच् चतुर्.वृषम् ॥

(षुपेरिन्तेन्देन्त् ओf होर्सेस्)

अशा-०२.३०.०१
अश्व.अध्यक्षः पण्य.आगारिकं क्रय.उपागतम् आहव.लब्धम् आजातं साहाय्य.आगतकं पण.स्थितं यावत्.कालिकं वा_अश्व.पर्यग्रं कुल.वयो.वर्ण.चिह्न.वर्ग.आगमैर् लेखयेत् ॥

अशा-०२.३०.०२
अप्रशस्त.न्यङ्ग.व्याधितांश् च_आवेदयेत् ॥

अशा-०२.३०.०३
कोश.कोष्ठ.अगाराभ्यां च गृहीत्वा मास.लाभम् अश्व.वाहश् चिन्तयेत् ॥

अशा-०२.३०.०४
अश्व.विभवेन_आयताम् अश्वायाम् अद्वि.गुण.विस्तारां चतुर्.द्वार.उपावर्तन.मध्यां स-प्रग्रीवां प्रद्वार.आसन.फलक.युक्तानां वानर.मयूर.पृषत.नकुल.चकोर.शुक.सारिक.आकीर्णां शालां निवेशयेत् ॥

अशा-०२.३०.०५
अश्वायाम् अचतुर्.अश्र.श्लक्ष्ण.फलक.आस्तारं स-खादन.कोष्ठकं स-मूत्र.पुरीष.उत्सर्गम् एक.एकशः प्रान्.मुखम् उदन्.मुखं वा स्थानं निवेशयेत् ॥

अशा-०२.३०.०६
शाला.वशेन वा दिग्.विभागं कल्पयेत् ॥

अशा-०२.३०.०७
वडवा.वृष.किशोराणाम् एक.अन्तेषु ॥

अशा-०२.३०.०८
वडवायाः प्रजतायास् त्रि.रात्रं घृत.प्रस्थः पानम् ॥

अशा-०२.३०.०९
अत ऊर्ध्वं सक्तु.प्रस्थः स्नेह.भैषज्य.प्रतिपानं दश.रात्रम् ॥

अशा-०२.३०.१०
ततः पुलाको यवसम् आर्तवश् च_आहारः ॥

अशा-०२.३०.११
दश.रात्राद् ऊर्ध्वं किशोरस्य घृत.चतुर्.भागः सक्तु.कुडुबः क्षीर.प्रस्थश् च_आहार आ.षण्.मासात् ॥

अशा-०२.३०.१२
ततः परं मास.उत्तरम् अर्ध.वृद्धिर् यव.प्रस्थ आ.त्रि.वर्षात्, द्रोण आ.चतुर्.वर्षात् ॥

अशा-०२.३०.१३
अत ऊर्ध्वं चतुर्.वर्षः पञ्च.वर्षो वा कर्मण्यः पूर्ण.प्रमाणः ॥

अशा-०२.३०.१४
द्वात्रिंशद्.अङ्गुलं मुखम् उत्तम.अश्वस्य, पञ्च.मुखान्य् आयामो, विंशत्य्.अङ्गुला जङ्घा, चतुर्.जङ्घ उत्सेधः ॥

अशा-०२.३०.१५
त्र्य्.अङ्गुल.अवरं मध्यम.अवरयोः ॥

अशा-०२.३०.१६
शत.अङ्गुलः परिणाहः ॥

अशा-०२.३०.१७
पञ्च.भाग.अवरो मध्यम.अवरयोः ॥

अशा-०२.३०.१८
उत्तम.अश्वस्य द्वि.द्रोणं शालि.व्रीहि.यव.प्रियङ्गूणाम् अर्ध.शुष्कम् अर्ध.सिद्धं वा मुद्ग.माषाणां वा पुलाकः स्नेह.प्रस्थश् च, पञ्च.पलं लवणस्य, मांसं पञ्चाशत्.पलिकं रसस्य_आढकं द्वि.गुणं वा दध्नः पिण्ड.क्लेदन.अर्थम्, क्षार.पञ्च.पलिकः सुरायाः प्रस्थः पयसो वा द्वि.गुणः प्रतिपानम् ॥

अशा-०२.३०.१९
दीर्घ.पथ.भार.क्लान्तानां च खादन.अर्थं स्नेह.प्रस्थो_अनुवासनं कुडुबो नस्य.कर्मणः, यवसस्य_अर्ध.भारस् तृणस्य द्वि.गुणः षड्.अरत्नि.परिक्षेपः पुञ्जील.ग्रहो वा ॥

अशा-०२.३०.२०
पाद.अवरम् एतन् मध्यम.अवरयोः ॥

अशा-०२.३०.२१
उत्तम.समो रथ्यो वृषश् च मध्यमः ॥

अशा-०२.३०.२२
मध्यम.समश् च_अवरः ॥

अशा-०२.३०.२३
पाद.हीनं वडवानां पारशमानां च ॥

अशा-०२.३०.२४
अतो_अर्धं किशोराणां च ॥

अशा-०२.३०.२५
इति विधा.योगः ॥

अशा-०२.३०.२६
विधा.पाचक.सूत्र.ग्राहक.चिकित्सकाः प्रतिस्वाद.भाजः ॥

अशा-०२.३०.२७
युद्ध.व्याधि.जरा.कर्म.क्षीणाः पिण्ड.गोचरिकाः स्युः ॥०२.३०.२८
असमर.प्रयोग्याः पौर.जानपदानाम् अर्थेन वृषा वडवास्व् आयोज्याः ॥


अशा-०२.३०.२९
प्रयोग्यानाम् उत्तमाः काम्बोज.सैन्धव.आरट्ट.वनायुजाः, मध्यमा बाह्लीक.पापेयक.सौवीरक.तैतलाः, शेषाः प्रत्यवराः ॥

अशा-०२.३०.३०
तेषां तीष्क्ण.भद्र.मन्द.वशेन साम्नाह्यम् औपवाह्यकं वा कर्म प्रयोजयेत् ॥

अशा-०२.३०.३१
चतुर्.अश्रं कर्म.अश्वस्य साम्नाह्यम् ॥

अशा-०२.३०.३२
वल्गनो नीचैर् गतो लङ्घनो घोरणो नारोष्ट्रश् च_औपवाह्याः ॥

अशा-०२.३०.३३
तत्र.औपवेणुको वर्धमानको यमक आलीढ.प्लुतः पृथुग्.अस्त्रिक.चाली च वल्गनः ॥

अशा-०२.३०.३४
स एव शिरः.कर्ण.विशुद्धो नीचैर् गतः, षोडश.मार्गो वा ॥

अशा-०२.३०.३५
प्रकीर्णकः प्रकीर्ण.उत्तरो निषण्णः पार्श्व.अनुवृत्त ऊर्मि.मार्गः शरभ.क्रीडितः शरभ.प्लुतस् त्रि.तालो बाह्य.अनुवृत्तः पञ्च.पाणिः सिंह.आयतः स्वाधूतः क्लिष्टः श्लिङ्गितो बृंहितः पुष्प.अभिकीर्णश् च_इति नीचैर् गत.मार्गः ॥

अशा-०२.३०.३६
कपि.प्लुतो भेक.प्लुत्_एण.प्लुत_एक.पाद.प्लुतः कोकिल.संचार्य्.उरस्यो बक.चारी च लङ्घनः ॥

अशा-०२.३०.३७
काङ्को वारि.काङ्को मायूरो_अर्ध.मायूरो नाकुलो_र्ध.नाकुलो वाराहो_अर्ध.वाराहश् च_इति धोरणः ॥

अशा-०२.३०.३८
संज्ञा.प्रतिकारो नार.उष्ट्र_इति ॥

अशा-०२.३०.३९
षण्णव द्वादश_इति योजनान्य् ध्वा रथ्यानाम्, पञ्च योजनान्य् अर्ध.अष्टमानि दश_इति पृष्ठ.वाहिनाम् अश्वानाम् अध्वा ॥

अशा-०२.३०.४०
विक्रमो भद्र.अश्वासो भार.वाह्य इति मार्गाः ॥

अशा-०२.३०.४१
विक्रमो वल्गितम् उपकण्ठम् उपजवो जवश् च धाराः ॥

अशा-०२.३०.४२
तेषां बन्धन.उपकरणं योग्य.आचार्याः प्रतिदिशेयुः, सांग्रामिकं रथ.अश्व.अलंकारं च सूताः ॥

अशा-०२.३०.४३
अश्वानां चिकित्सकाः शरीर.ह्रास.वृद्धि.प्रतीकारम् ऋतु.विभक्तं च_आहारम् ॥

अशा-०२.३०.४४
सूत्र.ग्राहक.अश्व.बन्धक.यावसिक.विधा.पाचक.स्थान.पाल.केश.कार.जाङ्गुलीविदश् च स्व.कर्मभिर् अश्वान् आराधयेयुः ॥

अशा-०२.३०.४५
कर्म.अतिक्रमे च_एषां दिवस.वेतनच्.छेदनं कुर्यात् ॥

अशा-०२.३०.४६
नीराजन.उपरुद्धं वाहयतश् चिकित्सक.उपरुद्धं वा द्वादश.पणो दण्डः ॥

अशा-०२.३०.४७
क्रिया.भैषज्य.सङ्गेन व्याधि.वृद्धौ प्रतीकार.द्वि.गुणो दण्डः ॥

अशा-०२.३०.४८
तद्.अपराधेन वैलोम्ये पत्त्र.मूल्यं दण्डः ॥

अशा-०२.३०.४९
तेन गो.मण्डलं खर.उष्ट्र.महिषम् अज.अविकं च व्याख्यातम् ॥

अशा-०२.३०.५०कख’’’
द्विर् अह्नः स्नानम् अश्वानां गन्ध.माल्यं च दापयेत् ।


अशा-०२.३०.५०गघ’’’
कृष्ण.संधिषु भूत.इज्याः शुक्लेषु स्वस्ति.वाचनम् ॥


अशा-०२.३०.५१कख’’’
नीराजनाम् आश्वयुजे कारयेन् नवमे_अहनि ।


अशा-०२.३०.५१गघ’’’
यात्रा.आदाव् अवसाने वा व्याधौ वा शान्तिके रतः ॥

(षुपेरिन्तेन्देन्त् ओf एलेफन्त्स्)

अशा-०२.३१.०१
हस्त्य्.अध्यक्षो हस्ति.वन.रक्षां दम्य.कर्म.क्षान्तानां हस्ति.हस्तिनी.कलभानां शाला.स्थान.शय्या.कर्म.विधा.यवस.प्रमाणं कर्मस्व् आयोगं बन्धन.उपकरणं सांग्रामिकम् अलंकारं चिकित्सक.अनीकस्थ.औपस्थायिक.वर्गं च_अनुतिष्ठेत् ॥

अशा-०२.३१.०२
हस्त्य्.आयाम.द्वि.गुण.उत्सेध.विष्कम्भ.आयामां हस्तिनी.स्थान.अधिकां सप्रग्रीवां कुमारी.संग्रहां प्रान्.मुखीम् उदन्.मुखीं वा शालां निवेशयेत् ॥

अशा-०२.३१.०३
हस्त्य्.आयाम.चतुर्.अश्र.श्लक्ष्ण.आलान.स्तम्भ.फलक.आस्तरकं स-मूत्र.पुरीष.उत्सर्गं स्थानं निवेशयेत् ॥

अशा-०२.३१.०४
स्थान.समां शय्याम् अर्ध.अपाश्रयां दुर्गे साम्नाह्य.औपवाह्यानां बहिर् दम्य.व्यालानाम् ॥

अशा-०२.३१.०५
प्रथम.सप्तम अष्टम.भागाव् अह्नः स्नान.कालौ, तद्.अनन्तरं विधायाः ॥

अशा-०२.३१.०६
पूर्व.अह्ने व्यायाम.कालः, पश्च.अह्नः प्रतिपान.कालः ॥

अशा-०२.३१.०७
रात्रि.भागौ द्वौ स्वप्न.काला, त्रि.भागः संवेशन.उत्थानिकः ॥

अशा-०२.३१.०८
ग्रीष्मे ग्रहण.कालः ॥

अशा-०२.३१.०९
विंशति.वर्षो ग्राह्यः ॥

अशा-०२.३१.१०
विक्को मोढो मक्कणो व्याथितो गर्भिणी धेनुका हस्तिनी च_अग्राह्याः ॥

अशा-०२.३१.११
सप्त.अरत्नि उत्सेधो नव.आयामो दश परिणाहः प्रमाणतश् चत्वारिंशद्.वर्षो भवत्य् उत्तमः, त्रिंशद्.वर्षो मध्यमः, पञ्च.विंशति.वर्षो_अवरः ॥

अशा-०२.३१.१२
तयोः पाद.अवरो विधा.विधिः ॥

अशा-०२.३१.१३
अरत्नौ तणुल.द्रोणः, अर्ध.आढकं तैलस्य, सर्पिषस् त्रयः प्रस्थाः, दश.पलं लवणस्य, मांसं पञ्चाशत्.पलिकम्, रसस्य_आढकं द्वि.गुणं वा दध्नः पिण्ड.क्लेदन.अर्थम्, क्षार.दश.पलिकं मद्यस्य_आढकं द्वि.गुणं वा पयसः प्रतिपानम्, गात्र.अवसेकस् तैल.प्रस्थः, शिरसो_अष्ट.भागः प्रादीपिकश् च, यवसस्य द्वौ भारौ स-पादौ, शष्पस्य शुष्कस्य_अर्ध.तृतीयो भारः, कडङ्करस्य_अनियमः ॥

अशा-०२.३१.१४
सप्त.अरत्निना तुल्य.भोजनो_अष्ट.अरत्निर् अत्यरालः ॥

अशा-०२.३१.१५
यथा.हस्तम् अवशेषः षड्.अरत्निः पञ्च.अरत्निश् च ॥

अशा-०२.३१.१६
क्षीर.यावसिको विक्कः क्रीडा.अर्थं ग्राह्यः ॥

अशा-०२.३१.१७
संजात.लोहिता प्रतिच्छन्ना सम्लिप्त.पक्षा सम.कक्ष्या व्यतिकीर्ण.मांसा सम.तल्प.तला जात.द्रोणिका_इति शोभाः ॥

अशा-०२.३१.१८कख’’’
शोभा.वशेन व्यायामं भद्र्म मन्दं च कारयेत् ।


अशा-०२.३१.१८गघ’’’
मृगं संकीर्ण.लिङ्गं च कर्मस्व् ऋतु.वशेन वा ॥

(आच्तिवित्य् ओf एलेफन्त्स्)

अशा-०२.३२.०१
कर्म.स्कन्धाश् चत्वारो दम्यः साम्नाह्य औपवाह्यो व्यालश् च ॥

अशा-०२.३२.०२
तत्र दम्यः पञ्च.विधः स्कन्ध.गतः स्तम्भ.गतो वारि.गतो_अवपात.गतो यूथ.गतश् च_इति ॥

अशा-०२.३२.०३
तस्य_उपविचारो विक्क.कर्म ॥

अशा-०२.३२.०४
साम्नाह्यः सप्त.क्रिया.पथ उपस्थानं संवर्तनं सम्यानं वध.आवधो हस्ति.युद्धं नाग.रायणं सांग्रामिकं च ॥

अशा-०२.३२.०५
तस्य_उपविचारः कक्ष्या.कर्म ग्रैवेय.कर्म यूथ.कर्म च ॥

अशा-०२.३२.०६
औपवाह्यो_अष्ट.विध आचरणः कुञ्जर.औपवाह्यो धोरण आधान.गतिको यष्ट्य्.उपवाह्यस् तोत्र.उपवाह्यः शुद्ध.उपवाह्यो मार्गयुकश् च_इति ॥

अशा-०२.३२.०७
तस्य_उपविचारः शारद.कर्म हीन.कर्म नार.उष्ट्र.कर्म च ॥

अशा-०२.३२.०८
व्याल_एक.क्रिया.पथः शङ्कितो_अवरुद्धो विषमः प्रभिन्नः प्रभिन्न.विनिश्चयो मद.हेतु.विनिश्चयश् च ॥

अशा-०२.३२.०९
तस्य-उपविचार आयम्य_एक.रक्षा.कर्म ॥

अशा-०२.३२.१०
क्रिया.विपन्नो व्यालः शुद्धः सु.व्रतो विषमः सर्व.दोष.प्रदुष्टश् च ॥

अशा-०२.३२.११
तेषां बन्धन.उपकरणम् अनीक.स्थ.प्रमाणम् ॥

अशा-०२.३२.१२
आलान.ग्रैवेय.कक्ष्या.पार.अयण.परिक्षेप.उत्तर.आदिकं बन्धनम् ॥

अशा-०२.३२.१३
अङ्कुश.वेणु.यन्त्र.आदिकम् उपकरणम् ॥

अशा-०२.३२.१४
वैजयन्ती.क्षुर.प्रमाल.आस्तरण.कुथा.आदिकं भूषणम् ॥

अशा-०२.३२.१५
वर्म.तोमर.शर.आवाप.यन्त्र.आदिकः सांग्रामिक.अलंकारः ॥

अशा-०२.३२.१६
चिकित्सक.अनीकस्थ.आरोहक.आधोरण.हस्तिप.कौपचारिक.विधा.पाचक.यावसिक.पादपाशिक.कुटीर्.रक्षक.औपशयैक.आदिर् औपस्थायिक.वर्गः ॥

अशा-०२.३२.१७
चिकित्सक.कुटी.रक्ष.विधा.पाचकाः प्रस्थ.ओदनं स्नेह.प्रसृतिं क्षार.लवणयोश् च द्वि.पलिकं हरेयुः, दश.पलं मांसस्य, अन्यत्र चिकित्सकेभ्यः ॥

अशा-०२.३२.१८
पथि.व्याधि.कर्म.मद.जरा.अभितप्तानां चिकित्सकाः प्रतिकुर्युः ॥

अशा-०२.३२.१९
स्थानस्य_अशुद्धिर् यवसस्य_अग्रहणं स्थले शायनम् अभागे घातः पर.आरोहणम् अकाले यानम् अभूमाव् अतीर्थे_अवतारणं तरु.षण्ड इत्य् अत्यय.स्थानानि ॥

अशा-०२.३२.२०
तम् एषां भक्त.वेतनाद् आददीत ॥

अशा-०२.३२.२१कख’’’
तिस्रो नीराजनाः कार्याश् चातुर्मास्य.ऋतु.संधिषु ।


अशा-०२.३२.२१गघ’’’
भूतानां कृष्ण.संधी_इज्याः सेनान्यः शुक्ल.संधुषु ॥


अशा-०२.३२.२२कख’’’
दन्त.मूल.परीणाह.द्वि.गुणं प्रोज्झ्य कल्पयेत् ।


अशा-०२.३२.२२गघ’’’
अब्दे द्व्य्.अर्धे नदी.जानां पञ्च.अब्दे पर्वत.ओकसाम् ॥

(षुपेरिन्तेन्देन्त् ओf छरिओत्स्) (षुपेरिन्तेन्देन्त् ओf fओओत्-सोल्दिएर्स्) (आच्तिवित्य् ओf थे चोम्मन्दन्त् ओf थे अर्म्य्)

अशा-०२.३३.०१
अश्व.अध्यक्षेण रथ.अध्यक्षो व्याख्यातः ॥

अशा-०२.३३.०२
स रथ.कर्म.अन्तान् कारयेत् ॥

अशा-०२.३३.०३
दश.पुरुषो द्वादश.अन्तरो रथः ॥

अशा-०२.३३.०४
तस्माद् एक.अन्तर.अवरा आ.षड्.अन्तराद् इति सप्त रथाः ॥

अशा-०२.३३.०५
देव.रथ.पुष्य.रथ.सांग्रामिक.पारियाणिक.पर.पुर.अभियानिक.वैनयिकांश् च रथान् कारयेत् ॥

अशा-०२.३३.०६
इष्व्.अस्त्र.प्रहरण.आवरण.उपकरण.कल्पनाः सारथि.रथिक.रथ्यानां च कर्मस्व् आयोगं विद्यात्, आ.कर्मभ्यश् च भक्त.वेतनं भृतानाम् अभृतानां च योग्या.रक्षा.अनुष्ठानम् अर्थ.मान.कर्म च ॥

अशा-०२.३३.०७
एतेन पत्त्य्.अध्यक्षो व्याख्यातः ॥

अशा-०२.३३.०८
स मौल.भृत.श्रेणि.मित्र.अमित्र.अटवी.बलानां सार.फल्गुतां विद्यात्, निम्न.स्थल.प्रकाश.कूट.खनक.आकाश.दिवा.रात्रि.युद्ध.व्यायामं च, आयोगम् अयोगं च कर्मसु ॥

अशा-०२.३३.०९
तेद् एव सेना.पतिः सर्व.युद्ध.प्रहरण.विद्या.विनीतो हस्त्य्.अश्व.रथ.चर्या.संघुष्टश् चतुर्.अङ्गस्य बलस्य_अनुष्ठान.अधिष्ठानं विद्यात् ॥

अशा-०२.३३.१०
स्व.भूमिं युद्ध.कालं प्रत्यनीकम् अभिन्न.भेदनं भिन्न.संधानं संहत.भेदनं भिन्न.वधं दुर्ग.वधं यात्रा.कालं च पश्येत् ॥

अशा-०२.३३.११कख’’’
तूर्य.ध्वज.पताकाभिर् व्यूह.संज्ञाः प्रकल्पयेत् ।


अशा-०२.३३.११गघ’’’
स्थाने याने प्रहरणे सैन्यानां विनये रतः ॥

(षुपेरिन्तेन्देन्त् ओf पस्स्पोर्त्स्) (षुपेरिन्तेन्देन्त् ओf पस्तुरे लन्द्स्)

अशा-०२.३४.०१
मुद्रा.अध्यक्षो मुद्रां माषकेण दद्यात् ॥

अशा-०२.३४.०२
स-मुद्रो जन.पदं प्रवेष्टुं निष्क्रमितुं वा लभेत ॥

अशा-०२.३४.०३
द्वादश.पणम् अमुद्रो जानपदो दद्यात् ॥

अशा-०२.३४.०४
कूट.मुद्रायां पूर्वः साहस.दण्डः तिरो.जन.पदस्य_उत्तमः ॥

अशा-०२.३४.०५
विवीत.अध्यक्षो मुद्रां पश्येत् ॥

अशा-०२.३४.०६
ग्राम.अन्तरेषु च विवीतं स्थापयेत् ॥

अशा-०२.३४.०७
चोर.व्याल.भयान्.निम्न.अरण्यानि शोधयेत् ॥

अशा-०२.३४.०८
अनुदके कूप.सेतु.बन्ध.उत्सान् स्थापयेत्, पुष्प.फल.वाटांश् च ॥

अशा-०२.३४.०९
लुब्धक.श्व.गणिनः परिव्रजेयुर् अरण्यानि ॥

अशा-०२.३४.१०
तस्कर.अमित्र.अभ्यागमे शङ्ख.दुन्दुभि.शब्दम् अग्राह्याः कुर्युः शैल.वृक्ष.अधिरूढा वा शीघ्र.वाहना वा ॥

अशा-०२.३४.११
अमित्र.अटवी.संचारं च राज्ञो गृह.कपोतैर् मुद्रा.युक्तैर् हारयेत्, धूम.अग्नि.परम्परया वा ॥

अशा-०२.३४.१२कख’’’
द्रव्य.हस्ति.वन.आजीवं वर्तनीं चोर.रक्षणम् ।


अशा-०२.३४.१२गघ’’’
सार्थ.अतिवाह्यं गो.रक्ष्यं व्यवहारं च कारयेत् ॥

(आच्तिवित्य् ओf थे अदिमिनिस्त्रतोर्) (षेच्रेत् अगेन्त्स् इन् थे दिस्गुइसे ओf होउसेहोल्देर्स्, त्रदेर्स्, अन्द् अस्चेतिच्स्)

अशा-०२.३५.०१
समाहर्ता चतुर्धा जन.अप्दं विभज्य ज्येष्ठ.मध्यम.कनिष्ठ.विभागेन ग्राम.अग्रं परिहारकम् आयुधीयं धान्य.पशु.हिरण्य.कुप्य.विष्टि.प्रतिकरम् इदम् एतावद् इति निबन्धयेत् ॥

अशा-०२.३५.०२
तत्.प्रदिष्टः पञ्च.ग्रामीं दश.ग्रामीं वा गोपश् चिन्तयेत् ॥

अशा-०२.३५.०३
सीम.अवरोधेन ग्राम.अग्रम्, कृष्ट.अकृष्ट.स्थल.केदार.आराम.षण्ड.वाट.वन.वास्तु.चैत्य.देव.गृह.सेतु.बन्ध.श्मशान.सत्त्र.प्रपा.पुण्य.स्थान.विवीत.पथि.सङ्ख्यानेन क्षेत्र.अग्रम्, तेन सीम्नां क्षेत्राणां च करद.अकरद.सङ्ख्यानेन ॥

अशा-०२.३५.०४
तेषु च_एतावच्_चातुर्.वार्ण्यम्, एतावन्तः कर्षक.गो.रक्षक.वैदेहक.कारु.कर्म.कर.दासाश् च, एतावच् च द्वि.पद.चतुष्.पदम्, इदं च_एषु हिरण्यल्विष्टि.शुल्क.दण्डं समुत्तिष्ठति_इति ॥

अशा-०२.३५.०५
कुलानां च स्त्री.पुरुषाणां बाल.वृद्ध.कर्म.चरित्र.आजीव.व्यय.परिमाणं विद्यात् ॥

अशा-०२.३५.०६
एवं च जन.पद.चतुर्.भागं स्थानिकश् चिन्तयेत् ॥

अशा-०२.३५.०७
गोप.स्थानिक.स्थानेषु प्रदेष्टारः कार्य.करणं बलि.प्रग्रहं च कुर्युः ॥

अशा-०२.३५.०८
समाहर्तृ.प्रदिष्टाश् च गृह.पतिक.व्यञ्जना येषु ग्रामेषु प्रणिहितास् तेषां ग्रामाणां क्षेत्र.गृह.कुल.अग्रं विद्युः, मान.संजाताभ्यां क्षेत्राणि भोग.परिहाराभ्यां गृहाणि वर्ण.कर्मभ्यां कुलानि च ॥

अशा-०२.३५.०९
तेषां जङ्घ.अग्रम् आय.व्ययौ च विद्युः ॥

अशा-०२.३५.१०
प्रस्थित.आगतानां च प्रवास.आवास.कारणम्, अनर्थ्यानां च स्त्री.पुरुषाणां चार.प्रचारं च विद्युः ॥

अशा-०२.३५.११
एवं वैदेहक.व्यञ्जनाः स्व.भूमिजानां राज.पण्यानां खनि.सेतु.वन.कर्म.अन्त.क्षेत्रजानां प्रमाणम् अर्घं च विद्युः ॥

अशा-०२.३५.१२
पर.भूमि.जातानां वारि.स्थल.पथ.उपयातानां सार.फल्गु.पुण्यानां कर्मसु च शुल्क.वर्तन्य्.आतिवाहिक.गुल्म.तर.देय.भाग.भक्त.पण्य.अगार.प्रमाणं विद्युः ॥

अशा-०२.३५.१३
एवं समाहर्तृ.प्रदिष्टास् तापस.व्यञ्जनाः कर्षक.गो.रक्षक.वैदेहकानाम् अध्यक्षाणां च शौच.आशौचं विद्युः ॥

अशा-०२.३५.१४
पुराण चोर.व्यञ्जनाश् च_अन्तेवासिनश् चैत्य.चतुष्पथ.शून्य.पद.उद.पान.नदी.निपान.तीर्थ.आयतन.आश्रम.अरण्य.शैल.वन.गहनेषु स्तेन.अमित्र.प्रवीर.पुरुषाणां च प्रवेशन.स्थान.गमन.प्रयोजनान्य् उपलभेरन् ॥

अशा-०२.३५.१५कख’’’
समाहर्ता जन.पदं चिन्तयेद् एवम् उत्थितः ।


अशा-०२.३५.१५गघ’’’
चिन्तयेयुश् च संस्थास् ताः संस्थाश् च_अन्याः स्व.योनयः ॥

(ऋउलेस् fओर् थे चित्य्-सुपेरिन्तेन्देन्त्)

अशा-०२.३६.०१
समाहर्तृवन् नागरिको नगरं चिन्तयेत् ॥

अशा-०२.३६.०२
दश.कुलीं गोपो विंशति.कुलीं चत्वारिंशत्.कुलीं वा ॥

अशा-०२.३६.०३
स तस्यां स्त्री.पुरुषाणां जाति.गोत्र.नाम.कर्मभिः जङ्घ.अग्रम् आय.व्ययौ च विद्यात् ॥

अशा-०२.३६.०४
एवं दुर्ग.चतुर्.भागं स्थानिकश् चिन्तयेत् ॥

अशा-०२.३६.०५
धर्म.आवसथिनः पाषण्डि.पथिकान् आवेद्य वासयेयुः, स्व.प्रत्ययाश् च तपस्विनः श्रोत्रियांश् च ॥

अशा-०२.३६.०६
कारु.शिल्पिनः स्व.कर्म.स्थानेषु स्व.जनं वासयेयुः, वैदेहकाश् च_अन्योन्यं स्व.कर्म.स्थानेषु ॥

अशा-०२.३६.०७
पण्यानाम् अदेश.काल.विक्रेतारम् अस्वकरणं च निवेदयेयुः ॥

अशा-०२.३६.०८
शौण्डिक.पाक्व.मांसिक.औदनिक.रूप.आजीवाः परिज्ञातम् आवासयेयुः ॥

अशा-०२.३६.०९
अतिव्यय.कर्तारम् अत्याहित.कर्माणं च निवेदयेयुः ॥

अशा-०२.३६.१०
चिकित्सकः प्रच्छन्न.व्रण.प्रतीकार.कारयितारम् अपथ्य.कारिणं च गृह.स्वामी च निवेद्य गोप.स्थानिकयोर् मुच्येत, अन्यथा तुल्य.दोषः स्यात् ॥

अशा-०२.३६.११
प्रस्थित.आगतौ च निवेदयेत्, अन्यथा रात्रि.दोषं भजेत ॥

अशा-०२.३६.१२
क्षेम.रात्रिषु त्रि.पणं दद्यात् ॥

अशा-०२.३६.१३
पथिक.उत्पथिकाश् च बहिर्.अन्तश् च नगरस्य देव.गृह.पुण्य.स्थान.वन.श्मशानेषु स-व्रणम् अनिष्ट.उपकरणम् उद्भाण्डी.कृतम् आविग्नम् अतिस्वप्नम् अध्व.क्लान्तम् अपूर्वं वा गृह्णीयुः ॥

अशा-०२.३६.१४
एवम् अभ्यन्तरे शून्य.निवेश.आवेशन.शौण्डिक.औदनिक.पाक्व.मांसिक.द्यूत.पाषण्ड.आवासेषु विचयं कुर्युः ॥

अशा-०२.३६.१५
अग्नि.प्रतीकारं च ग्रीष्मे ॥

अशा-०२.३६.१६
मध्यमयोर् अह्नश् चतुर्.भागयोर् अष्ट.भागो_अग्नि.दण्डः ॥

अशा-०२.३६.१७
बहिर्.अधिश्रयणं वा कुर्युः ॥

अशा-०२.३६.१८
पादः पञ्च.घटीनां कुम्भ.द्रोणि.निह्श्रेणी.परशु.शूर्प.अङ्कुश.कच.ग्रहणी.दृतीनां च_अकरणे ॥

अशा-०२.३६.१९
तृण.कटच्.छन्नान्य् अपनयेत् ॥

अशा-०२.३६.२०
अग्नि.जीविन एकस्थान् वासयेत् ॥

अशा-०२.३६.२१
स्व.गृह.प्रद्वारेषु गृह.स्वामिनो वसेयुः असम्पातिनो रात्रौ ॥

अशा-०२.३६.२२
रथ्यासु कुट.व्रजाः सहस्रं तिष्ठेयुः, चतुष्पथ.द्वार.राज.परिग्रहेषु च ॥

अशा-०२.३६.२३
प्रदीप्तम् अनभिधावतो गृह.स्वामिनो द्वादश.पणो दण्डः, षट्.पणो_अवक्रयिणः ॥

अशा-०२.३६.२४
प्रमादाद् दीप्तेषु चतुष्.पञ्चाशत्.पणो दण्डः ॥

अशा-०२.३६.२५
प्रदीपिको_अग्निना वध्यः ॥

अशा-०२.३६.२६
पांसु.न्यासे रथ्यायाम् अष्ट.भागो दण्डः, पङ्क.उदक.सम्निरोधे पादः ॥

अशा-०२.३६.२७
राज.मार्गे द्वि.गुणः ॥

अशा-०२.३६.२८
पण्य.स्थान.उदक.स्थान.देव.गृह.राज.परिग्रहेषु पण.उत्तरा विष्टा.दण्डाः, मूत्रेष्व् अर्ध.दण्डाः ॥

अशा-०२.३६.२९
भैषज्य.व्याधि.भय.निमित्तम् अदण्ड्याः ॥

अशा-०२.३६.३०
मार्जार.श्व.नकुल.सर्प.प्रेतानां नगरस्य.अन्तर्.उत्सर्गे त्रि.पणो दण्डः, खर.उष्ट्र.अश्वतर.अश्व.प्रेतानां षट्.पणः, मनुष्य.प्रेतानां पञ्चाशत्.पणः ॥

अशा-०२.३६.३१
मार्ग.विपर्यासे शव.द्वाराद् अन्यतश् च शव.निर्णयने पूर्वः साहस.दण्डः ॥

अशा-०२.३६.३२
द्वाः.स्थानां द्विशतम् ॥

अशा-०२.३६.३३
श्मशानाद् अन्यत्र न्यासे दहने च द्वादश.पणो दण्डः ॥

अशा-०२.३६.३४
विषण्ण.अलिकम् उभयतोर् आत्रं याम.तूर्यम् ॥

अशा-०२.३६.३५
तूर्य.शब्दे राज्ञो गृह.अभ्याशे स.पाद.पणं.अक्षण.ताडनं प्रथम.पश्चिम.यामिकम्, मध्यम.यामिकं द्वि.गुणम्, अन्तश्.चतुर्.गुणम् ॥

अशा-०२.३६.३६
शङ्कनीये देशे लिङ्गे पूर्व.अपदाने च गृहीतम् अनुयुञ्जीत ॥

अशा-०२.३६.३७
राज.परिग्रह.उपगमने नगर.रक्षा.आरोहणे च मध्यमः साहस.दण्डः ॥

अशा-०२.३६.३८
सूतिका.चिकित्सक.प्रेत.प्रदीप.यान.नागरिक.तूर्य.प्रेक्षा.अग्नि.निमित्तं मुद्राभिश् च_अग्राह्याः ॥

अशा-०२.३६.३९
चार.रात्रिषु प्रच्छन्न.विपरीत.वेषाः प्रव्रजिता दण्ड.शस्त्र.हस्ताश् च मनुष्या दोषतो दण्ड्याः ॥

अशा-०२.३६.४०
रक्षिणाम् अवार्यं वारयतां वार्यं च_आवारयतां क्षण.द्वि.गुणो दण्डः ॥

अशा-०२.३६.४१
स्त्रियं दासीम् अधिमेहयतां पूर्वः साहस.दण्डः, अदासीं मध्यमः, कृत.अवरोधाम् उत्तमः, कुल.स्त्रियं वधः ॥

अशा-०२.३६.४२
चेतन.अचेतनिकं रात्रि.दोषम् अशंसतो नागरिकस्य दोष.अनुरूपो दण्डः, प्रमाद.स्थाने च ॥

अशा-०२.३६.४३
नित्यम् उदक.स्थान.मार्ग.भ्रमच्.छन्न.पथ.वप्र.प्राकार.रक्षा.अवेक्षणं नष्ट.प्रस्मृत.अपसृतानां च रक्षणम् ॥

अशा-०२.३६.४४
बन्धन.अगारे च बाल.वृद्ध.व्याधित.अनाथानां जात.नक्षत्र.पौर्णमासीषु विसर्गः ॥

अशा-०२.३६.४५
पण्य.शीलाः समय.अनुबद्धा वा दोष.निष्क्रयं दद्युः ॥

अशा-०२.३६.४६कख’’’
दिवसे पञ्च.रात्रे वा बन्धनस्थान् विशोधयेत् ।


अशा-०२.३६.४६गघ’’’
कर्मणा काय.दण्डेन हिरण्य.अनुग्रहेण वा ॥


अशा-०२.३६.४७कख’’’
अपूर्व.देश.अधिगमे युव.राज.अभिषेचने ।


अशा-०२.३६.४७गघ’’’
पुत्र.जन्मनि वा मोक्षो बन्धनस्य विधीयते ॥