अर्थशास्त्रम् अध्याय 04

विकिपुस्तकानि तः

(षुप्प्रेस्सिओन् ओf च्रिमिनल्स्) (Kएएपिन्ग् अ wअत्छ् ओवेर् अर्तिसन्स्)

अशा-०४.१.०१
प्रदेष्टारस् त्रयस् त्रयो_अमात्याः कण्टक.शोधनं कुर्युः ॥

अशा-०४.१.०२
अर्थ्य.प्रतीकाराः कारु.शासितारः संनिक्षेप्तारः स्व.वित्त.कारवः श्रेणी.प्रमाणा निक्षेपं गृह्णीयुः ॥

अशा-०४.१.०३
विपत्तौ श्रेणी निक्षेपं भजेत ॥

अशा-०४.१.०४
निर्दिष्ट.देश.काल.कार्यं च कर्म कुर्युः, अनिर्दिष्ट.देश.कालं कार्य.अपदेशम् ॥

अशा-०४.१.०५
काल.अतिपातने पाद.हीनं वेतनं तद्.द्वि.गुणश् च दण्डः ॥

अशा-०४.१.०६
अन्यत्र भ्रेष.उपनिपाताभ्यां नष्टं विनष्टं वा_अभ्यावहेयुः ॥

अशा-०४.१.०७
कार्यस्य_अन्यथा.करणे वेतन.नाशस् तद्.द्वि.गुणश् च दण्डः ॥

अशा-०४.१.०८
तन्तु.वाया दश.एकादशिकं सूत्रं वर्धयेयुः ॥

अशा-०४.१.०९
वृद्धिच्.छेदे छेद.द्वि.गुणो दण्डः ॥

अशा-०४.१.१०
सूत्र.मूल्यं वान.वेतनं, क्षौम.कौशेयानाम् अध्यर्ध.गुणं, पत्त्र.ऊर्णा.कम्बल.दुकूलानां द्वि.गुणम् ॥

अशा-०४.१.११
मान.हीने हीन.अवहीनं वेतनं तद्.द्वि.गुणश् च दण्डः, तुला.हीने हीन.चतुर्.गुणो दण्डः, सूत्र.परिवर्तने मूल्य.द्वि.गुणः ॥

अशा-०४.१.१२
तेन द्वि.पट.वानं व्याख्यातम् ॥

अशा-०४.१.१३
ऊर्णा.तुलायाः पञ्च.पलिको विहननच्.छेदो रोमच्.छेदश् च ॥

अशा-०४.१.१४
रजकाः काष्ठ.फलक.श्लक्ष्ण.शिलासु वस्त्राणि नेनिज्युः ॥

अशा-०४.१.१५
अन्यत्र नेनिजतो वस्त्र.उपघातं षट्.पणं च दण्डं दद्युः ॥

अशा-०४.१.१६
मुद्गर.अङ्काद् अन्यद् वासः परिदधानास् त्रि.पणं दण्डं दद्युः ॥

अशा-०४.१.१७
पर.वस्त्र.विक्रय.अवक्रय.आधानेषु च द्वादश.पणो दण्डः, परिवर्तने मूल्य.द्वि.गुणो वस्त्र.दानं च ॥

अशा-०४.१.१८
मुकुल.अवदातं शिला.पट्ट.शुद्धं धौत.सूत्र.वर्णं प्रमृष्ट.श्वेतं च_एक.रात्र.उत्तरं दद्युः ॥

अशा-०४.१.१९
पञ्च.रात्रिकं तनु.रागं, षड्.रात्रिकं नीलं, पुष्प.लाक्षा.मञ्जिष्ठा.रक्तं गुरु.परिकर्म यत्न.उपचार्यं जात्यं वासः सप्त.रात्रिकम् ॥

अशा-०४.१.२०
ततः परं वेतन.हानिं प्राप्नुयुः ॥

अशा-०४.१.२१
श्रद्धेया राग.विवादेषु वेतनं कुशलाः कल्पयेयुः ॥

अशा-०४.१.२२
परार्ध्यानां पणो वेतनं, मध्यमानाम् अर्ध.पणः, प्रत्यवराणां पादः, स्थूलकानां माषक.द्वि.माषकं, द्वि.गुणं रक्तकानाम् ॥

अशा-०४.१.२३
प्रथम.नेजने चतुर्.भागः क्षयः, द्वितीये पञ्च.भागः ॥

अशा-०४.१.२४
तेन_उत्तरं व्याख्यातम् ॥

अशा-०४.१.२५
रजकैस् तुन्न.वाया व्याख्याताः ॥

अशा-०४.१.२६
सुवर्ण.काराणाम् अशुचि.हस्ताद् रूप्यं सुवर्णम् अनाख्याय सरूपं क्रीणतां द्वादशपणो दण्डः, विरूपं चतुर्.विंशति.पणः, चोर.हस्ताद् अष्ट.चत्वारिंशत्.पणः ॥

अशा-०४.१.२७
प्रच्छन्न.विरूप.मूल्य.हीन.क्रयेषु स्तेय.दण्डः, कृत.भाण्ड.उपधौ च ॥

अशा-०४.१.२८
सुवर्णान् माषकम् अपहरतो द्वि.शतो दण्डः, रूप्य.धरणान् माषकम् अपहरतो द्वादश.पणः ॥

अशा-०४.१.२९
तेन_उत्तरं व्याख्यातम् ॥

अशा-०४.१.३०
वर्ण.उत्कर्षम् अपसारणं योगं वा साधयतः पञ्च.शतो दण्डः ॥

अशा-०४.१.३१
तयोर् अपचरणे रागस्य_अपहारं विद्यात् ॥

अशा-०४.१.३२
माषको वेतनं रूप्य.धरणस्य, सुवर्णस्य_अष्ट.भागः ॥

अशा-०४.१.३३
शिक्षा.विशेषेण द्वि.गुणो वेतन.वृद्धिः ॥

अशा-०४.१.३४
तेन_उत्तरं व्याख्यातम् ॥

अशा-०४.१.३५
ताम्र.वृत्त.कंस.वैकृन्तक.आर.कूटकानां पञ्चकं शतं वेतनम् ॥

अशा-०४.१.३६
ताम्र.पिण्डो दश.भाग.क्षयः ॥

अशा-०४.१.३७
पल.हीने हीन.द्वि.गुणो दण्डः ॥

अशा-०४.१.३८
तेन_उत्तरं व्याख्यातम् ॥

अशा-०४.१.३९
सीस.त्रपु.पिण्डो विंशति.भाग.क्षयः ॥

अशा-०४.१.४०
काकणी च_अस्य पल.वेतनम् ॥

अशा-०४.१.४१
काल.आयस.पिण्डः पञ्च.भाग.क्षयः ॥

अशा-०४.१.४२
काकणी.द्वयं च_अस्य पल.वेतनम् ॥

अशा-०४.१.४३
तेन_उत्तरं व्याख्यातम् ॥

अशा-०४.१.४४
रूप.दर्शकस्य स्थितां पण.यात्राम् अकोप्यां कोपयतः कोप्याम् अकोपयतो द्वादश.पणो दण्डः ॥

अशा-०४.१.४५
व्याजी.परिशुद्धौ पण.यात्रा ॥

अशा-०४.१.४६
पणान् माषकम् उपजीवतो द्वादश.पणो दण्डः ॥

अशा-०४.१.४७
तेन_उत्तरं व्याख्यातम् ॥

अशा-०४.१.४८
कूट.रूपं कारयतः प्रतिगृह्णतो निर्यापयतो वा सहस्रं दण्डः, कोशे प्रक्षिपतो वधः ॥

अशा-०४.१.४९
चरक.पांसु.धावकाः सार.त्रि.भागं, द्वौ राजा रत्नं च ॥

अशा-०४.१.५०
रत्न.अपहार उत्तमो दण्डः ॥

अशा-०४.१.५१
खनि.रत्न.निधि.निवेदनेषु षष्ठम् अंशं निवेत्ता लभेत, द्वादशम् अंशं भृतकः ॥

अशा-०४.१.५२
शत.सहस्राद् ऊर्ध्वं राज.गामी निधिः ॥

अशा-०४.१.५३
ऊने षष्ठम् अंशं दद्यात् ॥

अशा-०४.१.५४
पौर्वपौरुषिकं निधिं जानपदः शुचिः स्व.करणेन समग्रं लभेत ॥

अशा-०४.१.५५
स्व.करण.अभावे पञ्च.शतो दण्डः, प्रच्छन्न.आदाने सहस्रम् ॥

अशा-०४.१.५६
भिषजः प्राण.आबाधिकम् अनाख्याय_उपक्रममाणस्य विपत्तौ पूर्वः साहस.दण्डः, कर्म.अपराधेन विपत्तौ मध्यमः ॥

अशा-०४.१.५७
मर्म.वध.वैगुण्य.करणे दण्ड.पारुष्यं विद्यात् ॥

अशा-०४.१.५८
कुशीलवा वर्षा.रात्रम् एकस्था वसेयुः ॥

अशा-०४.१.५९
काम.दानम् अतिमात्रम् एकस्य_अतिवादं च वर्जयेयुः ॥

अशा-०४.१.६०
तस्य_अतिक्रमे द्वादश.पणो दण्डः ॥

अशा-०४.१.६१
कामं देश.जाति.गोत्र.चरण.मैथुन.अवहासेन नर्मयेयुः ॥

अशा-०४.१.६२
कुशीलवैश् चारणा भिक्षुकाश् च व्याख्याताः ॥

अशा-०४.१.६३
तेषाम् अयः.शूलेन यावतः पणान् अभिवदेयुस् तावन्तः शिफा.प्रहारा दण्डाः ॥

अशा-०४.१.६४
शेषाणां कर्मणां निष्पत्ति.वेतनं शिल्पिनां कल्पयेत् ॥

अशा-०४.१.६५कख’’’
एवं चोरान् अचोर.आख्यान् वणिक्.कारु.कुशीलवान् ।


अशा-०४.१.६६गघ’’’
भिक्षुकान् कुहकांश् च_अन्यान् वारयेद् देश.पीडनात् ॥

(Kएएपिन्ग् अ wअत्छ् ओवेर् त्रदेर्स्)

अशा-०४.२.०१
संस्था.अध्यक्षः पण्य.संस्थायां पुराण.भाण्डानां स्व.करण.विशुद्धानाम् आधानं विक्रयं वा स्थापयेत् ॥

अशा-०४.२.०२
तुला.मान.भाण्डानि च_अवेक्षेत पौतव.अपचारात् ॥

अशा-०४.२.०३
परिमाणी.द्रोणयोर् अर्ध.पल.हीन.अतिरिक्तम् अदोषः ॥

अशा-०४.२.०४
पल.हीन.अतिरिक्ते द्वादश.पणो दण्डः ॥

अशा-०४.२.०५
तेन पल.उत्तरा दण्ड.वृद्धिर् व्याख्याता ॥

अशा-०४.२.०६
तुलायाः कर्ष.हीन.अतिरिक्तम् अदोषः ॥

अशा-०४.२.०७
द्वि.कर्ष.हीन.अतिरिक्ते षट्.पणो दण्डः ॥

अशा-०४.२.०८
तेन कर्ष.उत्तरा दण्ड.वृद्धिर् व्याख्याता ॥

अशा-०४.२.०९
आढकस्य_अर्ध.कर्ष.हीन.अतिरिक्तम् अदोषः ॥

अशा-०४.२.१०
कर्ष.हीन.अतिरिक्ते त्रि.पणो दण्डः ॥

अशा-०४.२.११
तेन कर्ष.उत्तरा दण्ड.वृद्धिर् व्याख्याता ॥

अशा-०४.२.१२
तुला.मान.विशेषाणाम् अतो_अन्येषाम् अनुमानं कुर्यात् ॥

अशा-०४.२.१३
तुला.मानाभ्याम् अतिरिक्ताभ्यां क्रीत्वा हीनाभ्यां विक्रीणानस्य त एव द्वि.गुणा दण्डाः ॥

अशा-०४.२.१४
गण्य.पण्येष्व् अष्ट.भागं पण्य.मूल्येष्व् अपहरतः षण्.णवतिर् दण्डः ॥

अशा-०४.२.१५
काष्ठ.लोह.मणि.मयं रज्जु.चर्म.मृण्.मयं सूत्र.वल्क.रोम.मयं वा जात्यम् इत्य् अजात्यं विक्रय.आधानं नयतो मूल्य.अष्ट.गुणो दण्डः ॥

अशा-०४.२.१६
सार.भाण्डम् इत्य् असार.भाण्डं तज्.जातम् इत्य् अतज्.जातं राधा.युक्तम् इत्य् उपधियुक्तं समुद्ग.परिवर्तिमं वा विक्रय.आधानं नयतो हीन.मूल्यं चतुष्पञ्चाशत्.पणो दण्डः, पण.मूल्यं द्वि.गुणो, द्वि.पण.मूल्यं द्वि.शतः ॥

अशा-०४.२.१७
तेन_अर्घ.वृद्धौ दण्ड.वृद्धिर् व्याख्याता ॥

अशा-०४.२.१८
कारु.शिल्पिनां कर्म.गुण.अपकर्षम् आजीवं विक्रय.क्रय.उपघातं वा सम्भूय समुत्थापयतां सहस्रं दण्डः ॥

अशा-०४.२.१९
वैदेहकानां वा सम्भूय पण्यम् अवरुन्धताम् अनर्घेण विक्रीणतां वा सहस्रं दण्डः ॥

अशा-०४.२.२०
तुला.मान.अन्तरम् अर्घ.वर्ण.अन्तरं वा - धरकस्य मायकस्य वा पण.मूल्याद् अष्ट.भागं हस्त.दोषेण_आचरतो द्वि.शतो दण्डः ॥

अशा-०४.२.२१
तेन द्वि.शत.उत्तरा दण्ड.वृद्धिर् व्याख्याता ॥

अशा-०४.२.२२
धान्य.स्नेह.क्षार.लवण.गन्ध.भैषज्य.द्रव्याणां सम.वर्ण.उपधाने द्वादश.पणो दण्डः ॥

अशा-०४.२.२३
यन्.निषृष्टम् उपजीवेयुस् तद् एषां दिवस.संजातं संख्याय वणिक् स्थापयेत् ॥

अशा-०४.२.२४
क्रेतृ.विक्रेत्रोर् अन्तर.पतितम् आदायाद् अन्यद् भवति ॥

अशा-०४.२.२५
तेन धान्य.पण्य.निचयांश् च_अनुज्ञाताः कुर्युः ॥

अशा-०४.२.२६
अन्यथा.निचितम् एषां पण्य.अध्यक्षो गृह्णीयात् ॥

अशा-०४.२.२७
तेन धान्य.पण्य.विक्रये व्यवहरेत_अनुग्रहेण प्रजानाम् ॥

अशा-०४.२.२८
अनुज्ञात.क्रयाद् उपरि च_एषां स्व.देशीयानां पण्यानां पञ्चकं शतम् आजीवं स्थापयेत्, पर.देशीयानां दशकम् ॥

अशा-०४.२.२९
ततः परम् अर्घं वर्धयतां क्रये विक्रये वा भावयतां पण.शते पञ्च.पणाद् द्वि.शतो दण्डः ॥

अशा-०४.२.३०
तेन_अर्घ.वृद्धौ दण्ड.वृद्धिर् व्याख्याता ॥

अशा-०४.२.३१
सम्भूय.क्रये च_एषाम् अविक्रीते न_अन्यं सम्भूय.क्रयं दद्यात् ॥

अशा-०४.२.३२
पण्य.उपघाते च_एषाम् अनुग्रहं कुर्यात् ॥

अशा-०४.२.३३
पण्य.बाहुल्यात् पण्य.अध्यक्षः सर्व.पण्यान्य् एक.मुखानि विक्रीणीत ॥

अशा-०४.२.३४
तेष्व् अविक्रीतेषु न_अन्ये विक्रीणीरन् ॥

अशा-०४.२.३५
तानि दिवस.वेतनेन विक्रीणीरन्न् अनुग्रहेण प्रजानाम् ॥

अशा-०४.२.३६कख’’’
देश.काल.अन्तरितानां तु पण्यानां - प्रक्षेपं पण्य.निष्पत्तिं शुल्कं वृद्धिम् अवक्रयम् ।


अशा-०४.२.३६गघ’’’
व्ययान् अन्यांश् च संख्याय स्थापयेद् अर्घम् अर्घवित् ॥

(ऋएमेदिअल् मेअसुरेस् दुरिन्ग् चलमितिएस्)

अशा-०४.३.०१
दैवान्य् अष्टौ महा.भयानि - अग्निर् उदकं व्याधिर् दुर्भिक्षं मूषिका व्यालाः सर्पा रक्षांसि_इति ॥

अशा-०४.३.०२
तेभ्यो जन.पदं रक्षेत् ॥

अशा-०४.३.०३
ग्रीष्मे बहिर्.अधिश्रयणं ग्रामाः कुर्युः, दश.मूली.संग्रहेण_अधिष्ठिता वा ॥

अशा-०४.३.०४
नागरिक.प्रणिधाव् अग्नि.प्रतिषेधो व्याख्यातः, निशान्त.प्रणिधौ राज.परिग्रहे च ॥

अशा-०४.३.०५
बलि.होम.स्वस्ति.वाचनैः पर्वसु च_अग्नि.पूजाः कारयेत् ॥

अशा-०४.३.०६
वर्षा.रात्रम् आनूप.ग्रामाः पूर.वेलाम् उत्सृज्य वसेयुः ॥

अशा-०४.३.०७
काष्ठ.वेणु.नावश् च_उपगृह्णीयुः ॥

अशा-०४.३.०८
उह्यमानम् अलाबु.दृति.प्लव.गण्डिका.वेणिकाभिस् तारयेयुः ॥

अशा-०४.३.०९
अनभिसरतां द्वादश.पणो दण्डः, अन्यत्र प्लव.हीनेभ्यः ॥

अशा-०४.३.१०
पर्वसु च नदी.पूजाः कारयेत् ॥

अशा-०४.३.११
माया.योगविदो वेदविदो वा वर्षम् अभिचरेयुः ॥

अशा-०४.३.१२
वर्ष.अवग्रहे शची.नाथ.गङ्गा.पर्वत.महा.कच्छ.पूजाः कारयेत् ॥

अशा-०४.३.१३
व्याधि.भयम् औपनिषदिकैः प्रतीकारैः प्रतिकुर्युः, औषधैश् चिकित्सकाः शान्ति.प्रायश्चित्तैर् वा सिद्ध.तापसाः ॥

अशा-०४.३.१४
तेन मरको व्याख्यातः ॥

अशा-०४.३.१५
तीर्थ.अभिषेचनं महा.कच्छ.वर्धनं गवां श्मशान.अवदोहनं कबन्ध.दहनं देव.रात्रिं च कारयेत् ॥

अशा-०४.३.१६
पशु.व्याधि.मरके स्थान.अर्थ.नीराजनं स्व.दैवत.पूजनं च कारयेत् ॥

अशा-०४.३.१७
दुर्भिक्षे राजा बीज.भक्त.उपग्रहं कृत्वा_अनुग्रहं कुर्यात्, दुर्ग.सेतु.कर्म वा भक्त.अनुग्रहेण, भक्त.संविभागं वा, देश.निक्षेपं वा ॥

अशा-०४.३.१८
मित्राणि वा व्यपाश्रयेत, कर्शनं वमनं वा कुर्यात् ॥

अशा-०४.३.१९
निष्पन्न.सस्यम् अन्य.विषयं वा सजन.पदो यायात्, समुद्र.सरस्.तटाकानि वा संश्रयेत ॥

अशा-०४.३.२०
धान्य.शाक.मूल.फल.आवापान् वा सेतुषु कुर्वीत, मृग.पशु.पक्षि.व्याल.मत्स्य.आरम्भान् वा ॥

अशा-०४.३.२१
मूषिक.भये मार्जार.नकुल.उत्सर्गः ॥

अशा-०४.३.२२
तेषां ग्रहण.हिंसायां द्वादश.पणो दण्डः, शुनाम् अनिग्रहे च_अन्यत्र_अरण्य.चरेभ्यः ॥

अशा-०४.३.२३
स्नुहि.क्षीर.लिप्तानि धान्यानि विसृजेद्, उपनिषद्.योग.युक्तानि वा ॥

अशा-०४.३.२४
मूषिक.करं वा प्रयुञ्जीत ॥

अशा-०४.३.२५
शान्तिं वा सिद्ध.तापसाः कुर्युः ॥

अशा-०४.३.२६
पर्वसु च मूषिक.पूजाः कारयेत् ॥

अशा-०४.३.२७
तेन शलभ.पक्षि.क्रिमि.भय.प्रतीकारा व्याख्याताः ॥

अशा-०४.३.२८
व्याल.भये मदन.रस.युक्तानि पशु.शवानि प्रसृजेत्, मदन.कोद्रव.पूर्णान्य् औदर्याणि वा ॥

अशा-०४.३.२९
लुब्धकाः श्व.गणिनो वा कूट.पञ्जर.अवपातैश् चरेयुः ॥

अशा-०४.३.३०
आवरणिनः शस्त्र.पाणयो व्यालान् अभिहन्युः ॥

अशा-०४.३.३१
अनभिसर्तुर् द्वादश.पणो दण्डः ॥

अशा-०४.३.३२
स एव लाभो व्याल.घातिनः ॥

अशा-०४.३.३३
पर्वसु च पर्वत.पूजाः कारयेत् ॥

अशा-०४.३.३४
तेन मृग.पशु.पक्षि.संघ.ग्राह.प्रतीकारा व्याख्याताः ॥

अशा-०४.३.३५
सर्प.भये मन्त्रैर् ओषधिभिश् च जाङ्गुलीविदश् चरेयुः ॥

अशा-०४.३.३६
सम्भूय वा_अपि सर्पान् हन्युः ॥

अशा-०४.३.३७
अथर्व.वेदविदो वा_अभिचरेयुः ॥

अशा-०४.३.३८
पर्वसु च नाग.पूजाः कारयेत् ॥

अशा-०४.३.३९
तेन_उदक.प्राणि.भय.प्रतीकारा व्याख्याताः ॥

अशा-०४.३.४०
रक्षो.भये रक्षो.घ्नान्य् अथर्व.वेदविदो माया.योगविदो वा कर्माणि कुर्युः ॥

अशा-०४.३.४१
पर्वसु च वितर्दिच्.छत्र.उल्लोपिका.हस्त.पताकाच्.छाग.उपहारैश् चैत्य.पूजाः कारयेत् ॥

अशा-०४.३.४२
"चरुं वश् चरामः" इत्य् एवं सर्व.भयेष्व् अहो.रात्रं चरेयुः ॥

अशा-०४.३.४३
सर्वत्र च_उपहतान् पिता_इव_अनुगृह्णीयात् ॥

अशा-०४.३.४४कख’’’
माया.योगविदस् तस्माद् विषये सिद्ध.तापसाः ।


अशा-०४.३.४४गघ’’’
वसेयुः पूजिता राज्ञा दैव.आपत्.प्रतिकारिणः ॥

(ङुअर्दिन्ग् अगैन्स्त् पेर्सोन्स् wइथ् सेच्रेत् मेअन्स् ओf इन्चोमे)

अशा-०४.४.०१
समाहर्तृ.प्रणिधौ जन.पद.रक्षणम् उक्तम् ॥

अशा-०४.४.०२
तस्य कण्टक.शोधनं वक्ष्यामः ॥

अशा-०४.४.०३
समाहर्ता जन.पदे सिद्ध.तापस.प्रव्रजित.चक्र.चर.चारण.कुहक.प्रच्छन्दक.कार्तान्तिक.नैमित्तिक.मौहूर्तिक.चिकित्सक.उन्मत्त.मूक.बधिर.जड.अन्ध.वैदेहक.कारु.शिल्पि.कुशीलव.वेश.शौण्डिक.आपूपिक.पाक्व.मांसिक.औदनिक.व्यञ्जनान् प्रणिदध्यात् ॥

अशा-०४.४.०४
ते ग्रामाणाम् अध्यक्षाणां च शौच.आशौचं विद्युः ॥

अशा-०४.४.०५
यं च_अत्र गूढ.आजीविनं शङ्केत तं सत्त्रिणा_अपसर्पयेत् ॥

अशा-०४.४.०६
धर्मस्थं विश्वास.उपगतं सत्त्री ब्रूयात् - "असौ मे बन्धुर् अभियुक्तः, तस्य_अयम् अनर्थः प्रतिक्रियताम्, अयं च_अर्थः प्रतिगृह्यताम्" इति ॥

अशा-०४.४.०७
स चेत् तथा कुर्याद् उपदा.ग्राहक इति प्रवास्येत ॥

अशा-०४.४.०८
तेन प्रदेष्टारो व्याख्याताः ॥

अशा-०४.४.०९
ग्राम.कूटम् अध्यक्षं वा सत्त्री ब्रूयात् - "असौ जाल्मः प्रभूत.द्रव्यः, तस्य_अयम् अनर्थः, तेन_एनम् आहारयस्व" इति ॥

अशा-०४.४.१०
स चेत् तथा कुर्याद् उत्कोचक इति प्रवास्येत ॥

अशा-०४.४.११
कृतक.अभियुक्तो वा कूट.साक्षिणो_अभिज्ञात.अनर्थ.वैपुल्येन_आरभेत ॥

अशा-०४.४.१२
ते चेत् तथा कुर्युः कूट.साक्षिण इति प्रवास्येरन् ॥

अशा-०४.४.१३
तेन कूट.श्रावण.कारका व्याख्याताः ॥

अशा-०४.४.१४
यं वा मन्त्र.योग.मूल.कर्मभिः श्माशानिकैर् वा संवदन.करकं मन्येत तं सत्त्री ब्रूयात् - "अमुष्य भार्यां स्नुषां दुहितरं वा कामये, सा मां प्रतिकामयताम्, अयं च_अर्थः प्रतिगृह्यताम्" इति ॥

अशा-०४.४.१५
स चेत् तथा कुर्यात् संवदन.कारक इति प्रवास्येत ॥

अशा-०४.४.१६
तेन कृत्य.अभिचार.शीलौ व्याख्यातौ ॥

अशा-०४.४.१७
यं वा रसस्य कर्तारं क्रेतारं विक्रेतारं भैषज्य.आहार.व्यवहारिणं वा रसदं मन्येत तं सत्त्री ब्रूयात् - "असौ मे शत्रुः, तस्य_उपघातः क्रियताम्, अयं च_अर्थः प्रतिगृह्यताम्" इति ॥

अशा-०४.४.१८
स चेत् तथा कुर्याद् रसद इति प्रवास्येत ॥

अशा-०४.४.१९
तेन मदन.योग.व्यवहारी व्याख्यातः ॥

अशा-०४.४.२०
यं वा नाना.लोह.क्षाराणाम् अङ्गार.भस्म.असंदंश.मुष्टिक.अधिकरणी.बिम्ब.टङ्क.मूषाणाम् अभीक्ष्ण.क्रेतारं मषी.भस्म.धूम.दिग्ध.हस्त.वस्त्र.लिङ्गं कर्मार.उपकरण.संसर्गं कूट.रूप.कारकं मन्येत तं सत्त्री शिष्यत्वेन संव्यवहारेण च_अनुप्रविश्य प्रज्ञापयेत् ॥

अशा-०४.४.२१
प्रज्ञातः कूट.रूप.कारक इति प्रवास्येत ॥

अशा-०४.४.२२
तेन रागस्य_अपहर्ता कूट.सुवर्ण.व्यवहारी च व्याख्यातः ॥

अशा-०४.४.२३कख’’’
आरब्धारस् तु हिंसायां गूढ.आजीवास् त्रयोदश ।


अशा-०४.४.२३गघ’’’
प्रवास्या निष्क्रय.अर्थं वा दद्युर् दोष.विशेषतः ॥

(डेतेच्तिओन् ओf च्रिमिनल्स् थ्रोउघ् सेच्रेत् अगेन्त्स् इन् थे दिस्गुइसे ओf होल्य् मेन्)

अशा-०४.५.०१
सत्त्रि.प्रयोगाद् ऊर्ध्वं सिद्ध.व्यञ्जना माणवान् माणव.विद्याभिः प्रलोभयेयुः, प्रस्वापन.अन्तर्.धान.द्वार.अपोह.मन्त्रेण प्रतिरोधकान्, संवदन.मन्त्रेण पारतल्पिकान् ॥

अशा-०४.५.०२
तेषां कृत.उत्साहानां महान्तं संघम् आदाय रात्राव् अन्यं ग्रामम् उद्दिश्य_अन्यं ग्रामं कृतक.स्त्री.पुरुषं गत्वा ब्रूयुः - "इह_एव विद्या.प्रभावो दृश्यतां, कृच्छ्रः पर.ग्रामो गन्तुम्" इति ॥

अशा-०४.५.०३
ततो द्वार.अपोह.मन्त्रेण द्वाराण्य् अपोह्य "प्रविश्यताम्" इति ब्रूयुः ॥

अशा-०४.५.०४
अन्तर्.धान.मन्त्रेण जाग्रताम् आरक्षिणां मध्येन माणवान् अतिक्रामयेयुः ॥

अशा-०४.५.०५
प्रस्वापन.मन्त्रेण प्रस्वापयित्वा रक्षिणः शयाभिर् माणवैः संचारयेयुः ॥

अशा-०४.५.०६
संवदन.मन्त्रेण भार्या.व्यञ्जनाः परेषां माणवैः सम्मोदयेयुः ॥

अशा-०४.५.०७
उपलब्ध.विद्या.प्रभावाणां पुरश्चरणा.आद्य् आदिशेयुर् अभिज्ञान.अर्थम् ॥

अशा-०४.५.०८
कृत.लक्षण.द्रव्येषु वा वेश्मसु कर्म कारयेयुः ॥

अशा-०४.५.०९
अनुप्रविष्टा वा_एकत्र ग्राहयेयुः ॥

अशा-०४.५.१०
कृत.लक्षण.द्रव्य.क्रय.विक्रय.आधानेषु योग.सुरा.मत्तान् वा ग्राहयेयुः ॥

अशा-०४.५.११
गृहीतान् पूर्व.अपदान.सहायान् अनुयुञ्जीत ॥

अशा-०४.५.१२
पुराण.चोर.व्यञ्जना वा चोरान् अनुप्रविष्टास् तथा_एव कर्म कारयेयुर् ग्राहयेयुश् च ॥

अशा-०४.५.१३
गृहीतान् समाहर्ता पौर.जानपदानां दर्शयेत् - "चोर.ग्रहणीं विद्याम् अधीते राजा, तस्य_उपदेशाद् इमे चोरा गृहीताः, भूयश् च ग्रहीष्यामि, वारयितव्यो वः स्व.जनः पाप.आचारह्_" इति ॥

अशा-०४.५.१४
यं च_अत्र_अपसर्प.उपदेशेन शम्या.प्रतोद.आदीनाम् अपहर्तारं जानीयात् तम् एषां प्रत्यादिशेत् "एष राज्ञः प्रभावः" इति ॥

अशा-०४.५.१५
पुराण.चोर.गो.पालक.व्याध.श्व.गणिनश् च वन.चोर.आटविकान् अनुप्रविष्टाः प्रभूत.कूट.हिरण्य.कुप्य.भाण्डेषु सार्थ.व्रज.ग्रामेष्व् एनान् अभियोजयेयुः ॥

अशा-०४.५.१६
अभियोगे गूढ.बलैर् घातयेयुः, मदन.रस.युक्तेन वा पथ्य्.अदनेन ॥

अशा-०४.५.१७
गृहीत.लोप्त्र.भारान् आयत.गत.परिश्रान्तान् प्रस्वपतः प्रहवणेषु योग.सुरा.मत्तान् वा ग्राहयेयुः ॥

अशा-०४.५.१८कख’’’
पूर्ववच् च गृहीत्वा_एनान् समाहर्ता प्ररूपयेत् ।


अशा-०४.५.१८गघ’’’
सर्वज्ञ.ख्यापनं राज्ञः कारयन् राष्ट्र.वासिषु ॥

(आर्रेस्त् ओन् सुस्पिचिओन्, wइथ् थे स्तोलेन् अर्तिच्ले अन्द् ब्य् इन्दिचतिओन्स् ओf थे अच्त्)

अशा-०४.६.०१
सिद्ध.प्रयोगाद् ऊर्ध्वं शङ्का.रूप.कर्म.अभिग्रहः ॥

अशा-०४.६.०२क
क्षीण.दाय.कुटुम्बम्, अल्प.निर्वेशं, विपरीत.देश.जाति.गोत्र.नाम.कर्म.अपदेशं, प्रच्छन्न.वृत्ति.कर्माणं,-

अशा-०४.६.०२ख
मांस.सुरा.भक्ष्य.भोजन.गन्ध.माल्य.वस्त्र.विभूषणेषु प्रसक्तम्, अतिव्यय.कर्तारं, पुंश्चली.द्यूत.शौण्डिकेषु प्रसक्तम्,-

अशा-०४.६.०२ग
अभीक्ष्ण.प्रवासिनम्, अविज्ञात.स्थान.गमनम्, एकान्त.अरण्य.निष्कुट.विकाल.चारिणं, प्रच्छन्ने स.आमिषे वा देशे बहु.मन्त्र.संनिपातं,-

अशा-०४.६.०२घ
सद्यः.क्षत.व्रणानां गूढ.प्रतीकार.कारयितारम्, अन्तर्.गृह.नित्यम्, अभ्यधिगन्तारं, कान्ता.परं,-

अशा-०४.६.०२च
पर.परिग्रहाणां पर.स्त्री.द्रव्य.वेश्मनाम् अभीक्ष्ण.प्रष्टारं, कुत्सित.कर्म.शास्त्र.उपकरण.संसर्गं,-

अशा-०४.६.०२छ
विरात्रे छन्न.कुड्यच्.छाया.संचारिणं, विरूप.द्रव्याणाम् अदेश.काल.विक्रेतारं, जात.वैरशयं, हीन.कर्म.जातिं,-

अशा-०४.६.०२ग्
विगूहमान.रूपं, लिङ्गेन_आलिङ्गिनं, लिङ्गिनं वा भिन्न.आचारं, पूर्व.कृत.अपदानं, स्व.कर्मभिर् अपदिष्टं,-

अशा-०४.६.०२ह्
नागरिक.महा.मात्र.दर्शने गुहमानम् अपसरन्तम् अनुच्छ्वास.उपवेशिनम् आविग्नं शुष्क.भिन्न.स्वर.मुख.वर्णं,-

अशा-०४.६.०२इ
शस्त्र.हस्त.मनुष्य.सम्पात.त्रासिनं, हिंस्र.स्तेन.निधि.निक्षेप.अपहार.पर.प्रयोग.गूढ.आजीविनाम् अन्यतमं शङ्केत ॥ इति शङ्का.अभिग्रहः ॥

अशा-०४.६.०३
रूप.अभिग्रहस् तु - नष्ट.अपहृतम् अविद्यमानं तज्.जात.व्यवहारिषु निवेदयेत् ॥

अशा-०४.६.०४
तच् चेन् निवेदितम् आसाद्य प्रच्छादयेयुः साचिव्य.कर.दोषम् आप्नुयुः ॥०४.६.०५
अजानन्तो_अस्य द्रव्यस्य_अतिसर्गेण मुच्येरन् ॥


अशा-०४.६.०६
न च_अनिवेद्य संस्था.अध्यक्षस्य पुराण.भाण्डानाम् आधानं विक्रयं वा कुर्युः ॥

अशा-०४.६.०७
तच् चेन् निवेदितम् आसाद्येत, रूप.अभिगृहीतम् आगमं पृच्छेत् "कुतस् ते लब्धम्" इति ॥

अशा-०४.६.०८
स चेत् ब्रूयात् "दायाद्याद् अवाप्तम्, अमुष्माल् लब्धं क्रीतं कारितम् आधि.प्रच्छन्नम्, अयम् अस्य देशः कालश् च_उपसम्प्राप्तेः, अयम् अस्य_अर्घः प्रमाणं लक्षणं मूल्यं च" इति, तस्य_आगम.समाधौ मुच्येत ॥

अशा-०४.६.०९
नाष्टिकश् चेत् तद् एव प्रतिसंदध्यात्, यस्या पूर्वो दीर्घश् च परिभोगः शुचिर् वा देशस् तस्य द्रव्यम् इति विद्यात् ॥

अशा-०४.६.१०
चतुष्पद.द्विपदानाम् अपि हि रूप.लिङ्ग.सामान्यं भवति, किम् अङ्ग पुनर् एक.योनि.द्रव्य.कर्तृ.प्रसूतानां कुप्य.आभरण.भाण्डानाम् इति ॥

अशा-०४.६.११
स चेद् ब्रूयात् "याचितकम् अवक्रीतकम् आहितकं निक्षेपम् उपनिधिं वैयावृत्य.कर्म वा_अमुष्य" इति, तस्य_अपसार.प्रतिसंधानेन मुच्येत ॥

अशा-०४.६.१२
"न_एवम्" इत्य् अपसारो वा ब्रूयात्, रूप.अभिगृहीतः परस्य दान.कारणम् आत्मनः प्रतिग्रह.कारणम् उपलिङ्गनं वा दायक.दापक.निबन्धक.प्रतिग्राहक.उपद्रष्टृभिर् उपश्रोतृभिर् वा प्रतिसमानयेत् ॥

अशा-०४.६.१३
उज्झित.प्रनष्ट.निष्पतित.उपलब्धस्य देश.काल.लाभ.उपलिङ्गनेन शुद्धिः ॥

अशा-०४.६.१४
अशुद्धस् तच् च तावच् च दण्डं दद्यात् ॥

अशा-०४.६.१५
अन्यथा स्तेय.दण्डं भजेत ॥ इति रूप.अभिग्रहः ।

अशा-०४.६.१६
कर्म.अभिग्रहस् तु - मुषित.वेश्मनः प्रवेश.निष्कसनम् अद्वारेण, द्वारस्य संधिना बीजेन वा वेधम्, उत्तम.अगारस्य जाल.वात.अयन.नीप्र.वेधम्, आरोहण.अवतरणे च कुड्यस्य वेधम्, उपखननं वा गूढ.द्रव्य.निक्षेपण.ग्रहण.उपायम्, उपदेश.उपलभ्यम् अभ्यन्तरच्.छेद.उत्कर.परिमर्द.उपकरणम् अभ्यन्तर.कृतं विद्यात् ॥

अशा-०४.६.१७
विपर्यये बाह्य.कृतम्, उभयत उभय.कृतम् ॥

अशा-०४.६.१८क
अभ्यन्तर.कृते पुरुषम् आसन्नं व्यसनिनं क्रूर.सहायं तस्कर.उपकरण.संसर्गं, स्त्रियं वा दरिद्र.कुलाम् अन्य.प्रसक्तां वा,-

अशा-०४.६.१८ख
परिचारक.जनं वा तद्.विध.आचारम्, अतिस्वप्नं, निद्रा.क्लान्तम्, आविग्नं. शुष्क.भिन्न.स्वर.मुख.वर्णम्, अनवस्थितम्,-

अशा-०४.६.१८ग
अतिप्रलापिनम्, उच्च.आरोहण.संरब्ध.गात्रं, विलून.निघृष्ट.भिन्न.पाटित.शरीर.वस्त्रं, जात.किण.संरब्ध.हस्त.पादं,-

अशा-०४.६.१८घ
पांसु.पूर्ण.केश.नखं विलून.भुग्न.केश.नखं वा, सम्यक्.स्नात.अनुलिप्तं तैल.प्रमृष्ट.गात्रं सद्यो.दौत.हस्त.पादं वा,-

अशा-०४.६.१८च
पांसु.पिच्छिलेषु तुल्य.पाद.पद.निक्षेपं, प्रवेश.निष्कसनयोर् वा तुल्य.माल्य.मद्य.गन्ध.वस्त्रच्.छेद.विलेपन.स्वेदं परीक्षेत ॥

अशा-०४.६.१९
चोरं पारदारिकं वा विद्यात् ॥

अशा-०४.६.२०कख’’’
सगोप.स्थानिको बाह्यं प्रदेष्टा चोर.मार्गणम् ।


अशा-०४.६.२०गघ’’’
कुर्यान् नागरिकश् च_अन्तर्.दुर्गे निर्दिष्ट.हेतुभिः ॥

(ईनॄउएस्त् ओf सुद्देन् देअथ्स्)

अशा-०४.७.०१
तैल.अभ्यक्तम् आशु.मृतकं परीक्षेत ॥

अशा-०४.७.०२
निष्कीर्ण.मूत्र.पुरीषं वात.पूर्ण.कोष्ठ.त्वक्कं शून.पाद.पाणिमान् मीलित.अक्षं सव्यञ्जन.कण्ठं पीटन.निरुद्ध.उच्छ्वास.हतं विद्यात् ॥

अशा-०४.७.०३
तम् एव संकुचित.बाहु.सक्थिम् उद्बन्ध.हतं विद्यात् ॥

अशा-०४.७.०४
शून.पाणि.पाद.उदरम् अपगत.अक्षम् उद्वृत्त.नाभिम् अवरोपितं विद्यात् ॥

अशा-०४.७.०५
निस्तब्ध.गुद.अक्षं संदष्ट.जिह्वम् आध्मात.उदरम् उदक.हतं विद्यात् ॥

अशा-०४.७.०६
शोणित.अनुसिक्तं भग्न.भिन्न.गात्रं काष्ठैर् अश्मभिर् वा हतं विद्यात् ॥

अशा-०४.७.०७
सम्भग्न.स्फुटित.गात्रम् अवक्षिप्तं विद्यात् ॥

अशा-०४.७.०८
श्याव.पाणि.पाद.दन्त.नखं शिथिल.मांस.रोम.चर्माणं फेन.उपदिग्ध.मुखं विष.हतं विद्यात् ॥

अशा-०४.७.०९
तम् एव स-शोणित.दंशं सर्प.कीट.हतं विद्यात् ।

अशा-०४.७.१०
विक्षिप्त.वस्त्र.गात्रम् अतिवन्त.विरिक्तं मदन.योग.हतं विद्यात् ॥

अशा-०४.७.११
अतो_अन्यतमेन कारणेन हतं हत्वा वा दण्ड.भयाद् उद्बद्ध.निकृत्त.कण्ठं विद्यात् ॥

अशा-०४.७.१२
विष.हतस्य भोजन.शेषं वयोभिः परीक्षेत ॥

अशा-०४.७.१३
हृदयाद् उद्धृत्य_अग्नौ प्रक्षिप्तं चिटिचिटायद्.इन्द्र.धनुर्.वर्णं वा विष.युक्तं विद्यात्, दग्धस्य हृदयम् अदग्धं दृष्ट्वा वा ॥

अशा-०४.७.१४
तस्य परिचारक.जनं वाग्.दण्ड.पारुष्य.अतिलब्धं मार्गेत, दुःख.उपहतम् अन्य.प्रसक्तं वा स्त्री.जनं, दाय.वृत्ति.स्त्री.जन.अभिमन्तारं वा बन्धुम् ॥

अशा-०४.७.१५
तद् एव हत.उद्बद्धस्य परीक्षेत ॥

अशा-०४.७.१६
स्वयम् उद्बद्धस्य वा विप्रकारम् अयुक्तं मार्गेत ॥

अशा-०४.७.१७
सर्वेषां वा स्त्री.दायाद्य.दोषः कर्म.स्पर्धा प्रतिपक्ष.द्वेषः पण्य.संस्था.समवायो वा विवाद.पदानाम् अन्यतमद् वा रोष.स्थानम् ॥

अशा-०४.७.१८
रोष.निमित्तो घातः ॥

अशा-०४.७.१९
स्वयं.आदिष्ट.पुरुषैर् वा, चोरैर् अर्थ.निमित्तं, सादृश्याद् अन्य.वैरिभिर् वा हतस्य घातम् आसन्नेभ्यः परीक्षेत ॥

अशा-०४.७.२०
येन_आहूतः सह स्थितः प्रस्थितो हत.भूमिम् आनीतो वा तम् अनुयुञ्जीत ॥

अशा-०४.७.२१
ये च_अस्य हत.भूमाव् आसन्न.चरास् तान् एक.एकशः पृच्छेत् "केन_अयम् इह_आनीतो हतो वा, कः स.शस्त्रः संगूहमान उद्विग्नो वा युष्माभिर् दृष्टः" इति ॥

अशा-०४.७.२२
ते यथा ब्रूयुस् तथा_अनुयुञ्जीत ॥

अशा-०४.७.२३कख’’’
अनाथस्य शरीर.स्थम् उपभोगं परिच्छदम् ।


अशा-०४.७.२३गघ’’’
वस्त्रं वेषं विभूषां वा दृष्ट्वा तद्.व्यवहारिणः ॥


अशा-०४.७.२४कख’’’
अनुयुञ्जीत संयोगं निवासं वास.कारणम् ।


अशा-०४.७.२४गघ’’’
कर्म च व्यवहारं च ततो मार्गणम् आचरेत् ॥


अशा-०४.७.२५कख’’’
रज्जु.शस्त्र.विषैर् वा_अपि काम.क्रोध.वशेन यः ।


अशा-०४.७.२५गघ’’’
घातयेत् स्वयम् आत्मानं स्त्री वा पापेन मोहिता ॥


अशा-०४.७.२६कख’’’
रज्जुना राज.मार्गे तांश् चण्डालेन_अपकर्षयेत् ।


अशा-०४.७.२६गघ’’’
न श्मशान.विधिस् तेषां न सम्बन्धि.क्रियास् तथा ॥


अशा-०४.७.२७कख’’’
बन्धुस् तेषां तु यः कुर्यात् प्रेत.कार्य.क्रिया.विधिम् ।


अशा-०४.७.२७गघ’’’
तद्.गतिं स चरेत् पश्चात् स्व.जनाद् वा प्रमुच्यते ॥


अशा-०४.७.२८कख’’’
संवत्सरेण पतति पतितेन समाचरन् ।


अशा-०४.७.२८गघ’’’
याजन.अध्यापनाद् यौनात् तैश् च_अन्यो_अपि समाचरन् ॥

(ईन्वेस्तिगतिओन् थ्रोउघ् इन्तेर्रोगतिओन् अन्द् थ्रोउघ् तोर्तुरे)

अशा-०४.८.०१
मुषित.संनिधौ बाह्यानाम् अभ्यन्तराणां च साक्षिणाम् अभिशस्तस्य देश.जाति.गोत्र.नाम.कर्म.सार.सहाय.निवासान् अनुयुञ्जीत ॥

अशा-०४.८.०२
तांश् च_अपदेशैः प्रतिसमानयेत् ॥

अशा-०४.८.०३
ततः पूर्वस्य_अह्नः प्रचारं रात्रौ निवासं च<चा> ग्रहणाद् इत्य् अनुयुञ्जीत ॥

अशा-०४.८.०४
तस्य_अपसार.प्रतिसंधाने शुद्धः स्यात्, अन्यथा कर्म.प्राप्तः ॥

अशा-०४.८.०५
त्रि.रात्राद् ऊर्ध्वम् अग्राह्यः शङ्कितकः पृच्छा.अभावाद् अन्यत्र_उपकरण.दर्शनात् ॥

अशा-०४.८.०६
अचोरं चोर इत्य् अभिव्याहरतश् चोर.समो दण्डः, चोरं प्रच्छादयतश् च ॥

अशा-०४.८.०७
चोरेण_अभिशस्तो वैर.द्वेषाभ्याम् अपदिष्टकः शुद्धः स्यात् ॥

अशा-०४.८.०८
शुद्धं परिवासयतः पूर्वः साहस.दण्डः ॥

अशा-०४.८.०९
शङ्का.निष्पन्नम् उपकरण.मन्त्रि.सहाय.रूप.वैयावृत्य.करान् निष्पादयेत् ॥

अशा-०४.८.१०
कर्मणश् च प्रदेश.द्रव्य.आदान.अंश.विभागैः प्रतिसमानयेत् ॥

अशा-०४.८.११
एतेषां कारणानाम् अनभिसंधाने विप्रलपन्तम् अचोरं विद्यात् ॥

अशा-०४.८.१२
दृश्यते ह्य् अचोरो_अपि चोर.मार्गे यदृच्छया संनिपाते चोर.वेष.शस्त्र.भाण्ड.सामान्येन गृह्यमाणश् चोर.भाण्डस्य_उपवासेन वा, यथा_अणि.माण्डव्यः कर्म.क्लेश.भयाद् अचोरः "चोरो_अस्मि" इति ब्रुवाणः ॥

अशा-०४.८.१३
तस्मात् समाप्त.करणं नियमयेत् ॥

अशा-०४.८.१४
मन्द.अपराधं बालं वृद्धं व्याधितं मत्तम् उन्मत्तं क्षुत्.पिपासा.अध्व.क्लान्तम् अत्याशितम् आमक.अशितं दुर्बलं वा न कर्म कारयेत् ॥

अशा-०४.८.१५
तुल्य शील.पुंश्चली.प्रापाविक.कथा.अवकाश.भोजन.दातृभिर् अपसर्पयेत् ॥

अशा-०४.८.१६
एवम् अतिसंदध्यात्, यथा वा निक्षेप.अपहारे व्याख्यातम् ॥

अशा-०४.८.१७
आप्त.दोषं कर्म कारयेत्, न त्व् एव स्त्रियं गर्भिणीं सूतिकां वा मास.अवर.प्रजाताम् ॥

अशा-०४.८.१८
स्त्रियास् त्व् अर्ध.कर्म, वाक्य.अनुयोगो वा ॥

अशा-०४.८.१९
ब्राह्मणस्य सत्त्रि.परिग्रहः श्रुतवतस् तपस्विनश् च ॥

अशा-०४.८.२०
तस्य_अतिक्रम उत्तमो दण्डः कर्तुः कारयितुश् च, कर्मणा व्यापादनेन च ॥

अशा-०४.८.२१
व्यावहारिकं कर्म.चतुष्कं - षड् दण्डाः, सप्त कशाः, द्वाव् उपरि.निबन्धौ, उदक.नालिका च ॥

अशा-०४.८.२२
परं पाप.कर्मणां नव वेत्र.लताः, द्वादश कशाः, द्वाव् ऊरु.वेष्टौ, विंशतिर् नक्त.माल.लताः, द्वात्रिंशत्.तलाः, द्वौ वृश्चिक.बन्धौ, उल्लंबने च द्वे, सूची हस्तस्य, यवागू.पीतस्य एक.पर्व.दहनम् अङ्गुल्याः, स्नेह.पीतस्य प्रतापनम् एकम् अहः, शिशिर.रात्रौ बल्बज.अग्र.शय्या च ॥

अशा-०४.८.२३
इत्य् अष्टादशकं कर्म ॥

अशा-०४.८.२४
तस्य.उपकरणं प्रमाणं प्रहरणं प्रधरणम् अवधारणं च खर.पट्टाद् आगमयेत् ॥

अशा-०४.८.२५
दिवस.अन्तरम् एक.एकं च कर्म कारयेत् ॥

अशा-०४.८.२६
पूर्व.कृत.अपदानं प्रतिज्ञाय_अपहरन्तम् एक.देश.दृष्ट.द्रव्यं कर्मणा रूपेण वा गृहीतं राज.कोशम् अवस्तृणन्तं कर्म.वध्यं वा राज.वचनात् समस्तं व्यस्तम् अभ्यस्तं वा कर्म कारयेत् ॥

अशा-०४.८.२७
सर्व.अपराधेष्व् अपीडनीयो ब्राह्मणः ॥

अशा-०४.८.२८
तस्य_अभिशस्त.अङ्को ललाटे स्याद् व्यवहार.पतनाय, स्तेयो श्वा, मनुष्य.वधे कबन्धः, गुरु.तल्पे भगम्, सुरा.पाने मद्य.ध्वजः ॥

अशा-०४.८.२९कख’’’
ब्राह्मणं पाप.कर्माणम् उद्घुष्य_अङ्क.कृत.व्रणम् ।


अशा-०४.८.२९गघ’’’
कुर्यान् निर्विषयं राजा वासयेद् आकरेषु वा ॥

(Kएएपिन्ग् अ wअत्छ् ओवेर् ओffइचेर्स् ओf अल्ल् देपर्त्मेन्त्स्)

अशा-०४.९.०१
समाहर्तृ.प्रदेष्टारः पूर्वम् अध्यक्षाणाम् अध्यक्ष.पुरुषाणां च नियमनं कुर्युः ॥

अशा-०४.९.०२
खनि.सार.कर्म.अन्तेभ्यः सारं रत्नं वा_अपहरतः शुद्ध.वधः ॥

अशा-०४.९.०३
फल्गु.द्रव्य.कर्म.अन्तेभ्यः फल्गु द्रव्यम् उपस्करं वा पूर्वः साहस.दण्डः ॥

अशा-०४.९.०४
पण्य.भूमिभ्यो वा राज.पण्यं माष.मूल्याद् ऊर्ध्वम् आपाद.मूल्याद् इत्य् अपहरतो द्वादश.पणो दण्डः, आ.द्वि.पाद.मूल्याद् इति चतुर्.विंशति.पणः, आ.त्रि.पाद.मूल्याद् इति षट्.त्रिंशत्.पणः, आ.पण.मूल्याद् इत्य् अष्ट.चत्वारिंशत्.पणः, आ.द्वि.पण.मूल्याद् इति पूर्वः साहस.दण्डः, आ.चतुष्पण.मूल्याद् इति मध्यमः, आ.अष्ट.पण.मूल्याद् इत्य् उत्तमः, आ.दश.पण.मूल्याद् इति वधः ॥

अशा-०४.९.०५
कोष्ठ.पण्य.कुप्य.आयुध.अगारेभ्यः कुप्य.भाण्ड.उपस्कर.अपहारेष्व् अर्ध.मूल्येषु एत एव दण्डाः ॥

अशा-०४.९.०६
कोश.भाण्ड.अगार.अक्ष.शालाभ्यश् चतुर्.भाग.मूल्येषु एत एव द्वि.गुणा दण्डाः ॥

अशा-०४.९.०७
चोराणाम् अभिप्रधर्षणे चित्रो घातः ॥

अशा-०४.९.०८
इति राज.परिग्रहेषु व्याख्यातम् ॥

अशा-०४.९.०९
बाह्येषु तु - प्रच्छन्नम् अहनि क्षेत्र.खल.वेश्म.आपणेभ्यः कुप्य.भाण्डम् उपस्करं वा माष.मूल्याद् ऊर्ध्वम् आ.पाद.मूल्याद् इत्य् अपहरतस् त्रि.पणो दण्डः, गोमय.प्रदेहेन वा प्रलिप्य_अवघोषणम्_ आ.द्वि.पाद.मूल्याद् इति षट्.पणः, गोमय.भस्मना वा प्रलिप्य_अवघोषणम्, आ.त्रि.पाद.मूल्याद् इति नव.पणः, गोमय.भस्मना वा प्रलिप्य_अवघोषणम्, शराव.मेखलया वा_ आ.पण.मूल्याद् इति द्वादश.पणः, मुण्डनं प्रव्राजनं वा_ आ.द्वि.पण.मूल्याद् इति चतुर्.विंशति.पणः, मुण्डस्य_इष्टका.शकलेन प्रव्राजनं वा_ आ.चतुष्.पण.मूल्याद् इति षट्.त्रिंशत्.पणह्_ आ.पञ्च.पण.मूल्याद् इत्य् अष्ट.चत्वारिंशत्.पणः, आ.दश.पण.मूल्याद् इति पूर्वः साहस.दण्डह्_ आ.विंशति.पण.मूल्याद् इत् द्विशतह्_ आ.त्रिंशत्.पण.मूल्याद् इति पञ्च.शतह्_ आ.चत्वारिंशत्.पण.मूल्याद् इति साहस्रह्_ आ.पञ्चाशत्.पण.मूल्याद् इति वधः ॥

अशा-०४.९.१०
प्रसह्य दिवा रात्रौ वा_आन्तर्यामिकम् अपहरतो_अर्ध.मूल्येषु एत एव दण्डाः ॥

अशा-०४.९.११
प्रसह्य दिवा रात्रौ वा स-शस्त्रस्य_अपहरतश् चतुर्.भाग.मूल्येषु एत एव द्वि.गुणा दण्डाः ॥

अशा-०४.९.१२
कुटुंबिक.अध्यक्ष.मुख्य.स्वामिनां कूट.शासन.मुद्रा.कर्मसु पूर्व.मध्य.उत्तम.वधा दण्डाः, यथा.अपराधं वा ॥

अशा-०४.९.१३
धर्मस्थश् चेद् विवदमानं पुरुषं तर्जयति भर्त्सयत्य् अपसारयत्य् अभिग्रसते वा पूर्वम् अस्मै साहस.दण्डं कुर्यात्, वाक्.पारुष्ये द्वि.गुणम् ॥

अशा-०४.९.१४
पृच्छ्यं न पृच्छति, अपृच्छ्यं पृच्छति, पृष्ट्वा वा विसृजति, शिक्षयति, स्मारयति, पूर्वं ददाति वा, इति मध्यमम् अस्मै साहस.दण्डं कुर्यात् ॥

अशा-०४.९.१५
देयं देशं न पृच्छति, अदेयं देशं पृच्छति, कार्यम् अदेशेन_अतिवाहयति, छलेन_अतिहरति, काल.हरणेन श्रान्तम् अपवाहयति, मार्ग.आपन्नं वाक्यम् उत्क्रमयति, मति.साहाय्यं साक्षिभ्यो ददाति, तारित.अनुशिष्टं कार्यं पुनर् अपि गृह्णाति, उत्तमम् अस्मै साहस.दण्डं कुर्यात् ॥

अशा-०४.९.१६
पुनर्.अपराधे द्वि.गुणं स्थानाद् व्यवरोपणं च ॥

अशा-०४.९.१७
लेखकश् चेद् उक्तं न लिखति, अनुक्तं लिखति, दुरुक्तम् उपलिखति, सूक्तम् उल्लिखति, अर्थ.उत्पत्तिं वा विकल्पयति, इति पूर्वम् अस्मै साहस.दण्डं कुर्याद्, यथा.अपराधं वा ॥

अशा-०४.९.१८
धर्मस्थः प्रदेष्टा वा हैरण्य.दण्डम् अदण्ड्ये क्षिपति क्षेप.द्वि.गुणम् अस्मै दण्डं कुर्यात्, हीन.अतिरिक्त.अष्ट.गुणं वा ॥

अशा-०४.९.१९
शरीर.दण्डं क्षिपति शारीरम् एव दण्डं भजेत, निष्क्रय.द्वि.गुणं वा ॥

अशा-०४.९.२०
यं वा भूतम् अर्थं नाशयति अभूतम् अर्थं करोति तद्.अष्ट.गुणं दण्डं दद्यात् ॥

अशा-०४.९.२१
धर्मस्थीये चारके बन्धन.अगारे वा शय्या.आसन.भोजन.उच्चार.संचार.रोध.बन्धनेषु त्रि.पण.उत्तरा दण्डाः कर्तुः कारयितुश् च ॥

अशा-०४.९.२२
चारकाद् अभियुक्तं मुञ्चतो निष्पातयतो वा मध्यमः साहस.दण्डः, अभियोग.दानं च, बन्धन.अगारात् सर्व.स्वं वधश् च ॥

अशा-०४.९.२३
बन्धन.अगार.अध्यक्षस्य संरुद्धकम् अनाख्याय चारयतश् चतुर्.विंशति.पणो दण्डः, कर्म कारयतो द्वि.गुणः, स्थान.अन्यत्वं गमयतो_अन्न.पानं वा रुन्धतः षण्.णवतिर् दण्डः, परिक्लेशयत उत्कोटयतो वा मध्यमः साहस.दण्डः, घ्नतः साहस्रः ॥

अशा-०४.९.२४
परिगृहीतां दासीम् आहितिकां वा संरुद्धिकाम् अधिचरतः पूर्वः साहस.दण्डः, चोर.डामरिक.भार्यां मध्यमः, संरुद्धिकाम् आर्याम् उत्तमः ॥

अशा-०४.९.२५
संरुद्धस्य वा तत्र_एव घातः ॥

अशा-०४.९.२६
तद् एव_अक्षण.गृहीतायाम् आर्यायां विद्यात्, दास्यां पूर्वः साहस.दण्डः ॥

अशा-०४.९.२७
चारकम् अभित्त्वा निष्पातयतो मध्यमः, भित्त्वा वधः, बन्धन.अगारात् सर्व.स्वं वधश् च ॥

अशा-०४.९.२८कख’’’
एवम् अर्थ.चरान् पूर्वं राजा दण्डेन शोधयेत् ।


अशा-०४.९.२८गघ’’’
शोधयेयुश् च शुद्धास् ते पौर.जानपदान् दमैः ॥

(ऋएदेम्प्तिओन् fरोम् थे चुत्तिन्ग् ओf इन्दिविदुअल् लिम्ब्स्)

अशा-०४.१०.०१
तीर्थ.घात.ग्रन्थि.भेद.ऊर्ध्व.कराणां प्रथमे_अपराधे संदेशच्.छेदनं चतुष्.पञ्चाशत्.पणो वा दण्डः, द्वितीये छेदनं पणस्य शत्यो वा दण्डः, तृतीये दक्षिण.हस्त.वधश् चतुः.शतो वा दण्डः, चतुर्थे यथा.कामी वधः ॥

अशा-०४.१०.०२
पञ्च.विंशति.पण.अवरेषु कुक्कुट.नकुल.मार्जार.श्व.सूकर.स्तेयेषु हिंसायां वा चतुष्.पञ्चाशत्.पणो दण्डः, नास.अग्रच्.छेदनं वा_ चण्डाल.अरण्य.चराणाम् अर्ध.दण्डाः ॥

अशा-०४.१०.०३
पाश.जाल.कूट.अवपातेषु बद्धानां मृग.पशु.पक्षि.व्याल.मत्स्यानाम् आदाने तच् च तावच् च दण्डः ॥

अशा-०४.१०.०४
मृग.द्रव्य.वनान् मृग.द्रव्य.अपहारे शात्यो दण्डः ॥

अशा-०४.१०.०५
बिंब.विहार.मृग.पक्षि.स्तेये हिंसायां वा द्वि.गुणो दण्डः ॥

अशा-०४.१०.०६
कारु.शिल्पि.कुशीलव.तपस्विनां क्षुद्रक.द्रव्य.अपहारे शत्यो दण्डः, स्थूलक.द्रव्य.अपहारे द्वि.शतः, कृषि.द्रव्य.अपहारे च ॥

अशा-०४.१०.०७
दुर्गम् अकृत.प्रवेशस्य प्रविशतः प्राकारच्.छिद्राद् वा निक्षेपं गृहीत्वा_अपसरतः काण्डरा.वधो, द्वि.शातो वा दण्डः ॥

अशा-०४.१०.०८
चक्र.युक्तं नावं क्षुद्र.पशुं वा_अपहरत एक.पाद.वधः, त्रि.शतो वा दण्डः ॥

अशा-०४.१०.०९
कूट.काकण्य्.अक्ष.अराला.शलाका.हस्त.विषम.कारिण एक.हस्त.वधः, चतुः.शतो वा दण्डः ॥

अशा-०४.१०.१०
स्तेन.पारदारिकयोः साचिव्य.कर्मणि स्त्रियाः संगृहीतायाश् च कर्ण.नासाच्.छेदनम्, पञ्च.शतो वा दण्डः, पुंषो द्वि.गुणः ॥

अशा-०४.१०.११
महा.पशुम् एकं दासं दासीं वा_अपहरतः प्रेत.भाण्डं वा विक्रीणानस्य द्वि.पाद.वधः, षट्.छतो वा दण्डः ॥

अशा-०४.१०.१२
वर्ण.उत्तमानां गुरूणां च हस्त.पाद.लङ्घने राज.यान.वाहन.आद्य्.आरोहणे च_एक.हस्त.पाद.वधः, सप्त.शतो वा दण्डः ॥

अशा-०४.१०.१३
शूद्रस्य ब्राह्मण.वादिनो देव.द्रव्यम् अवस्तृणतो राज.द्विष्टम् आदिशतो द्वि.नेत्र.भेदिनश् च योग.अञ्जनेन_अन्धत्वम्, अष्ट.शतो वा दण्डः ॥

अशा-०४.१०.१४
चोरं पारदारिकं वा मोक्षयतो राज.शासनम् ऊनम् अतिरिक्तं वा लिखतः कन्यां दासीं वा स-हिरण्यम् अपरहतः कूट.व्यवहारिणो विमांस.विक्रयिणश् च वाम.हस्त.द्वि.पाद.वधो, नव.शतो वा दण्डः ॥

अशा-०४.१०.१५
मानुष.मांस.विक्रये वधः ॥

अशा-०४.१०.१६
देव.पशु.प्रतिमा.मनुष्य.क्षेत्र.गृह.हिरण्य.सुवर्ण.रत्न.सस्य.अपहारिण उत्तमो दण्डः, शुद्ध.वधो वा ॥

अशा-०४.१०.१७कख’’’
पुरुषं च_अपराधं च कारणं गुरु.लाघवम् ।


अशा-०४.१०.१७गघ’’’
अनुबन्धं तदात्वं च देश.कालौ समीक्ष्य च ॥


अशा-०४.१०.१८कख’’’
उत्तम.अवर.मध्यत्वं प्रदेष्टा दण्ड.कर्मणि ।


अशा-०४.१०.१८गघ’’’
राज्ञश् च प्रकृतीनां च कल्पयेद् अन्तरा स्थितः ॥

(ऌअw ओf चपितल् पुनिस्ह्मेन्त्, सिम्प्ले अन्द् wइथ् तोर्तुरे)

अशा-०४.११.०१
कलहे घ्नतः पुरुषं चित्रो घातः ॥

अशा-०४.११.०२
सप्त.रात्रस्य_अन्तर्.मृते शुद्ध.वधः, पक्षस्य_अन्तर् उत्तमः, मासस्य_अन्तः पञ्च.शतः समुत्थान.व्ययश् च ॥

अशा-०४.११.०३
शस्त्रेण प्रहरत उत्तमो दण्डः ॥

अशा-०४.११.०४
मदेन हस्त.वधः, मोहेन द्वि.शतः ॥

अशा-०४.११.०५
वधे वधः ॥

अशा-०४.११.०६
प्रहारेण गर्भं पातयत उत्तमो दण्डः, भैषज्येन मध्यमः, परिक्लेशेन पूर्वः साहस.दण्डः ॥

अशा-०४.११.०७
प्रसभ.स्त्री.पुरुष.घातक.अभिसारक.निग्राहक.अवघोषक.अवस्कन्दक.उपवेधकान् पथि.वेश्म.प्रतिरोधकान् राज.हस्त्य्.अश्व.रथानां हिंसकान् स्तेनान् वा शूलान् आरोहयेयुः ॥

अशा-०४.११.०८
यश् च_एनान् दहेद् अपनयेद् वा स तम् एव दण्डं लभेत, साहसम् उत्तमं वा ॥

अशा-०४.११.०९
हिंस्र.स्तेनानां भक्त.वास.उपकरण.अग्नि.मन्त्र.दान.वैयावृत्य.कर्मसु_उत्तमो दण्डः, परिभाषणम् अविज्ञाते ॥

अशा-०४.११.१०
हिंस्र.स्तेनानां पुत्र.दारम् असमन्त्रं विसृजेत्, समन्त्रम् आददीत ॥

अशा-०४.११.११
राज्य.कामुकम् अन्तःपुर.प्रधर्षकम् अटव्य्.अमित्र.उत्साहकं दुर्ग.राष्ट्र.दण्ड.कोपकं वा शिरो.हस्त.प्रदीपिकं घातयेत् ॥

अशा-०४.११.१२
ब्राह्मणं तमः प्रवेशयेत् ॥

अशा-०४.११.१३
मातृ.पितृ.पुत्र.भ्रात्र्.आचार्य.तपस्वि.घातकं वा_अ.त्वक्.शिरः.प्रादीपिकं घातयेत् ॥

अशा-०४.११.१४
तेषाम् आक्रोशे जिह्वाच्.छेदः, अङ्ग.अभिरदने तद्.अङ्गान् मोच्यः ॥

अशा-०४.११.१५
यदृच्छा.घाते पुंसः पशु.यूथ.स्तेये च शुद्ध.वधः ॥

अशा-०४.११.१६
दश.अवरं च यूथं विद्यात् ॥

अशा-०४.११.१७
उदक.धारणं सेतुं भिन्दतस् तत्र_एव_अप्सु निमज्जनम्, अनुदकम् उत्तमः साहस.दण्डः, भग्न.उत्सृष्टकं मध्यमः ॥

अशा-०४.११.१८
विष.दायकं पुरुषं स्त्रियं च पुरुषघ्नीम् अपः प्रवेशयेद् अगर्भिणीम्, गर्भिणीं मास.अवर.प्रजाताम् ॥

अशा-०४.११.१९
पति.गुरु.प्रजा.घातिकाम् अग्नि.विषदां संधिच्.छेदिकां वा गोभिः पाटयेत् ॥

अशा-०४.११.२०
विवीत.क्षेत्र.खल.वेश्म.द्रव्य.हस्ति.वन.आदीपिकम् अग्निना दाहयेत् ॥

अशा-०४.११.२१
राज.आक्रोशक.मन्त्र.भेदकयोर् अनिष्ट.प्रवृत्तिकस्य ब्राह्मण.महानस.अवलेहिनश् च जिह्वाम् उत्पाटयेत् ॥

अशा-०४.११.२२
प्रहरण.आवरण.स्तेनम् अनायुधीयम् इषुभिर् घातयेत् ॥

अशा-०४.११.२३
आयुधीयस्य_उत्तमः ॥

अशा-०४.११.२४
मेढ्र.फल.उपघातिनस् तद् एवच्_छेदयेत् ॥

अशा-०४.११.२५
जिह्वा.नास.उपघाते संदंश.वधः ॥

अशा-०४.११.२६कख’’’
एते शास्त्रेष्व् अनुगताः क्लेश.दण्डा महात्मनाम् ।


अशा-०४.११.२६गघ’’’
अक्लिष्टानां तु पापानां धर्म्यः शुद्ध.वधः स्मृतः ॥

(Vइओलतिओन् ओf मैदेन्स्)

अशा-०४.१२.०१
सवर्णाम् अप्राप्त.फलां प्रकुर्वतो हस्त.वधः, चतुः.शतो वा दण्डः ॥

अशा-०४.१२.०२
मृतायां वधः ॥

अशा-०४.१२.०३
प्राप्त.फलां प्रकुर्वतो मध्यमा.प्रदेशिनी.वधो, द्वि.शतो वा दण्डः ॥

अशा-०४.१२.०४
पितुश् च_अवहीनं दद्यात् ॥

अशा-०४.१२.०५
न च प्राकाम्यम् अकामायां लब्भेत ॥

अशा-०४.१२.०६
सकामायां चतुष्.पञ्चाशत्.पणो दण्डः, स्त्रियास् त्व् अर्ध.दण्डः ॥

अशा-०४.१२.०७
पर.शुल्क.अवरुद्धायां हस्त.वधः, चतुः.शतो वा दण्डः, शुल्क.दानं च ॥

अशा-०४.१२.०८
सप्त.आर्तव.प्रजातां वरणाद् ऊर्ध्वम् अलभमानः प्रकृत्य प्राकामी स्यात्, न च पितुर् अवहीनं दद्यात् ॥

अशा-०४.१२.०९
ऋतु.प्रतिरोधिभिः स्वाम्याद् अपक्रामति ॥

अशा-०४.१२.१०
त्रि.वर्ष.प्रजात.आर्तवायास् तुल्यो गन्तुम् अदोषः, ततः परम् अतुल्यो_अप्य् अनलंकृतायाः ॥

अशा-०४.१२.११
पितृ.द्रव्य.आदाने स्तेयं भजेत ॥

अशा-०४.१२.१२
परम् उद्दिश्य_अन्यस्य विन्दतो द्वि.शतो दण्डः ॥

अशा-०४.१२.१३
न च प्राकांयम् अकामायां लभेत ॥

अशा-०४.१२.१४
कन्याम् अन्यां दर्शयित्वा_अन्यां प्रयच्छतः शत्यो दण्डस् तुल्यायाम्, हीनायां द्वि.गुणः ॥

अशा-०४.१२.१५
प्रकर्मण्य् अकुमार्याश् चतुष्.पञ्चाशत्.पणो दण्डः, शुल्क.व्यय.कर्मणी च प्रतिदद्यात् ॥

अशा-०४.१२.१६
अवस्थाय तज्.जातं पश्चात्.कृता द्वि.गुणं दद्यात् ॥

अशा-०४.१२.१७
अन्य.शोणित.उपधाने द्विशतो दण्डः, मिथ्या.अभिशंसिनश् च पुंसः ॥

अशा-०४.१२.१८
शुल्क.व्यय.कर्मणी च जीयेत ॥

अशा-०४.१२.१९
न च प्राकांयम् अकामायां लभेत ॥

अशा-०४.१२.२०
स्त्री.प्रकृता सकामा समाना द्वादश.पणं दण्डं दद्यात्, प्रकर्त्री द्वि.गुणम् ॥

अशा-०४.१२.२१
अकामायाः शत्यो दण्ड आत्म.राग.अर्थम्, शुल्क.दानं च ॥

अशा-०४.१२.२२
स्वयं प्रकृता राज.दास्यं गच्छेत् ॥

अशा-०४.१२.२३
बहिर्.ग्रामस्य प्रकृतायां मिथ्या.अभिशंसने च द्वि.गुणो दण्डः ॥

अशा-०४.१२.२४
प्रसह्य कन्याम् अपहरतो द्वि.शतः, स-सुवर्णाम् उत्तमः ॥

अशा-०४.१२.२५
बहूनां कन्या.अपहारिणां पृथग् यथा.उक्ता दण्डाः ॥

अशा-०४.१२.२६
गणिका.दुहितरं प्रकुर्वतश् चतुष्.पञ्चाशत्.पणो दण्डः, शुल्कं मातुर् भोगः षोडश.गुणः ॥०४.१२.२७
दासस्य दास्या वा दुहितरम् अदासीं प्रकुर्वतश् चतुर्.विंशति.पणो दण्डः शुल्क.आबन्ध्य.दानं च ॥


अशा-०४.१२.२८
निष्क्रय.अनुरूपां दासीं प्रकुर्वतो द्वादश.पणो दण्डो वस्त्र.आबन्ध्य.दानं च ॥

अशा-०४.१२.२९
साचिव्य.अवकाश.दाने कर्तृ.समो दण्डः ॥

अशा-०४.१२.३०
प्रोषित.पतिकाम् अपचरन्तीं पति.बन्धुस् तत्.पुरुषो वा संगृह्णीयात् ॥

अशा-०४.१२.३१
संगृहीता पतिम् आकाङ्क्षेत ॥

अशा-०४.१२.३२
पतिश् चेत् क्षमेत विसृज्येत_उभयम् ॥

अशा-०४.१२.३३
अक्षमायां स्त्रियाः कर्ण.नास.आच्छेदनम्, वधं जारश् च प्राप्नुयात् ॥

अशा-०४.१२.३४
जारं चोर इत्य् अभिहरतः पञ्च.शतो दण्डः, हिरण्येन मुञ्चतस् तद्.अष्ट.गुणः ॥

अशा-०४.१२.३५
केशाकेशिकं संग्रहणम्, उपलिङ्गनाद् वा शरीर.उपभोगानाम्, तज्.जातेभ्यः(तज्.ज्ञातेभ्यः? च्f.ण्१२.६०)), स्त्री.वचनाद् वा ॥

अशा-०४.१२.३६
पर.चक्र.अटवी.हृताम् ओघ.प्रव्यूढाम् अरण्येषु दुर्भिक्षे वा त्यक्तां प्रेत.भाव.उत्सृष्टां वा पर.स्त्रियं निस्तारयित्वा यथा.संभाषितं समुपभुञ्जीत ॥

अशा-०४.१२.३७
जाति.विशिष्टाम् अकामाम् अपत्यवतीं निष्क्रयेण दद्यात् ॥

अशा-०४.१२.३८कख’’’
चोर.हस्तान् नदी.वेगाद् दुर्भिक्षाद् देश.विभ्रमात् ।


अशा-०४.१२.३८गघ’’’
निस्तारयित्वा कान्तारान् नष्टां त्यक्तां मृता_इति वा ॥


अशा-०४.१२.३९कख’’’
भुञ्जीत स्त्रियम् अन्येषां यथा.संभाषितं नरः ।


अशा-०४.१२.३९गघ’’’
न तु राज.प्रतापेन प्रमुक्तां स्वजनेन वा ॥


अशा-०४.१२.४०कख’’’
न च_उत्तमां न च_अकामां पूर्व.अपत्यवतीं न च ।


अशा-०४.१२.४०गघ’’’
ईदृशीं त्व् अनुरूपेण निष्क्रयेण_अपवाहयेत् ॥

(ড়ुनिस्ह्मेन्त्स् fओर् त्रन्स्ग्रेस्सिओन्स्)

अशा-०४.१३.०१
ब्राह्मणम् अपेयम् अभक्ष्यं वा ग्रासयत उत्तमो दण्डः, क्षत्रियं मध्यमः, वैश्यं पूर्वः साहस.दण्डः, शूद्रं चतुष्.पञ्चाशत्.पणो दण्डः ॥

अशा-०४.१३.०२
स्वयं ग्रसितारो निर्विषयाः कार्याः ॥

अशा-०४.१३.०३
पर.गृह.अभिगमने दिवा पूर्वः साहस.दण्डः, रात्रौ मध्यमः ॥

अशा-०४.१३.०४
दिवा रात्रौ वा सशस्त्रस्य प्रविशत उत्तमो दण्डः ॥

अशा-०४.१३.०५
भिक्षुक.वैदेहकौ मत्त.उन्मत्तौ बलाद् आपदि च_अतिसंनिकृष्टाः प्रवृत्त.प्रवेशाश् च_अदण्ड्याः, अन्यत्र प्रतिषेधात् ॥

अशा-०४.१३.०६
स्व.वेश्मनो विरात्राद् ऊर्ध्वं परिवारम् आरोहतः पूर्वः साहस.दण्डः, पर.वेश्मनो मध्यमः, ग्राम.आराम.वाट.भेदिनश् च ॥

अशा-०४.१३.०७
ग्रामेष्व् अन्तः सार्थिका ज्ञात.सारा वसेयुः ॥

अशा-०४.१३.०८
मुषितं प्रवासितं च_एषाम् अनिर्गतं रात्रौ ग्राम.स्वामी दद्यात् ॥

अशा-०४.१३.०९
ग्राम.अन्तरेषु वा मुषितं प्रवासितं विवीत.अध्यक्षो दद्यात् ॥

अशा-०४.१३.१०
अविवीतानां चोर.रज्जुकः ॥

अशा-०४.१३.११
तथा_अप्य् अगुप्तानां सीम.अवरोधेन विचयं दद्युः ॥

अशा-०४.१३.१२
असीम.अवरोधे पञ्च.ग्रामी दश.ग्रामी वा ॥

अशा-०४.१३.१३
दुर्बलं वेश्म शकटम् अनुत्तब्धम् ऊर्ध.स्तंभं शस्त्रम् अनपाश्रयम् अप्रतिच्छन्नं श्वभ्रं कूपं कूट.अवपातं वा कृत्वा हिंसायां दण्ड.पारुष्यं विद्यात् ॥

अशा-०४.१३.१४
वृक्षच्.छेदने दंय.रश्मि.हरणे चतुष्पदानाम् अदान्त.सेवने वाहने वा काष्ठ.लोष्ट.पाषाण.दण्ड.बाण.बाहु.विक्षेपणेषु याने हस्तिना च स्मघट्टने "अपेहि" इति प्रकोशन्न् अदण्ड्यः ॥

अशा-०४.१३.१५
हस्तिना रोषितेन हतो द्रोण.अन्नं मद्य.कुंभं माल्य.अनुलेपनं दन्त.प्रमार्जनं च पटं दद्यात् ॥

अशा-०४.१३.१६
अश्व.मेध.अवभृथ.स्नानेन तुल्यो हस्तिना वध इति पाद.प्रक्षालनम् ॥

अशा-०४.१३.१७
उदासीन.वधे यातुर् उत्तमो दण्डः ॥

अशा-०४.१३.१८
शृङ्गिणा दंष्ट्रिणा वा हिंस्यमानम् अमोक्षयतः स्वामिनः पूर्वः साहस.दण्डः, प्रतिक्रुष्टस्य द्वि.गुणः ॥

अशा-०४.१३.१९
शृङ्गि.दंष्ट्रिभ्याम् अन्योन्यं घातयतस् तच् च तावच् च दण्डः ॥

अशा-०४.१३.२०
देव.पशुम् ऋषभम् उक्षाणं गो.कुमारीं वा वाहयतः पञ्च.शतो दण्डः, प्रवासयत उत्तमः ॥

अशा-०४.१३.२१
लोम.दोह.वाहन.प्रजनन.उपकारिणां क्षुद्र.पशूनाम् अदाने तच् च तावच् च दण्डः, प्रवासने च, अन्यत्र देव.पितृ.कार्येभ्यः ॥

अशा-०४.१३.२२
छिन्न.नस्यं भग्न.युगं तिर्यक्.प्रतिमुख.आगतं प्रत्यासरद् वा चक्र.युक्तं याता पशु.मनुष्य.संबाधे वा हिंसायाम् अदण्ड्यः ॥

अशा-०४.१३.२३
अन्यथा यथा.उक्तं मानुष.प्राणि.हिंसायां दण्डम् अभ्यावहेत् ॥

अशा-०४.१३.२४
अमानुष.प्राणि.वधे प्राणि.दानं च ॥

अशा-०४.१३.२५
बाले यातरि यानस्थः स्वामी दण्ड्यः, अस्वामिनि यानस्थः, प्राप्त.व्यवहारो वा याता ॥

अशा-०४.१३.२६
बाल.अधिष्ठितम् अपुरुषं वा यानं राजा हरेत् ॥

अशा-०४.१३.२७
कृत्य.अभिचाराभ्यां यत्.परम् आपादयेत् तद्.आपादयितव्यः ॥

अशा-०४.१३.२८
कामं भार्यायाम् अनिच्छन्त्यां कन्यायां वा दार.अर्थिनो भर्तरि भार्याया वा संवदन.करणम् ॥

अशा-०४.१३.२९
अन्यथा.हिंसायां मध्यमः साहस.दण्डः ॥

अशा-०४.१३.३०
माता.पित्रोर् भगिनीं मातुलानीम् आचार्याणीं स्नुषां दुहितरं भगिनीं वा_अधिचरतस् त्रि.लिङ्गच्.छेदनं वधश् च ॥

अशा-०४.१३.३१
सकामा तद् एव लभेत, दास.परिचारक.आहितक.भुक्ता च ॥

अशा-०४.१३.३२
ब्राह्मण्याम् अगुप्तायां क्षत्रियस्य_उत्तमः, सर्व.स्वं वैश्यस्य, शूद्रः कट.अग्निना दह्येत ॥

अशा-०४.१३.३३
सर्वत्र राज.भार्या.गमने कुंभी.पाकः ॥

अशा-०४.१३.३४
श्व.पाकी.गमने कृत.कबन्ध.अङ्कः पर.विषयं गच्छेत्, श्व.पाकत्वं वा शूद्रः ॥

अशा-०४.१३.३५
श्व.पाकस्य_आर्या.गमने वधः, स्त्रियाः कर्ण.नास.आच्छेदनम् ॥

अशा-०४.१३.३६
प्रव्रजिता.गमने चतुर्.विंशति.पणो दण्डः ॥

अशा-०४.१३.३७
सकामा तद् एव लभेत ॥

अशा-०४.१३.३८
रूप.आजीवायाः प्रसह्य.उपभोगे द्वादश.पणो दण्डः ॥

अशा-०४.१३.३९
बहूनाम् एकाम् अधिचरतां पृथक् चतुर्.विंशति.पणो दण्डः ॥

अशा-०४.१३.४०
स्त्रियम् अयोनौ गच्छतः पूर्वः साहस.दण्डः, पुरुषम् अधिमेहतश् च ॥

अशा-०४.१३.४१कख’’’
मैथुने द्वादश.पणस् तिर्यग्.योनिष्व् अनात्मनः ।


अशा-०४.१३.४१गघ’’’
दैवत.प्रतिमानां च गमने द्वि.गुणः स्मृतः ॥


अशा-०४.१३.४२कख’’’
अदण्ड्य.दण्डने राज्ञो दण्डस् त्रिंशद्.गुणो_अंभसि ।


अशा-०४.१३.४२गघ’’’
वरुणाय प्रदातव्यो ब्राह्मणेभ्यस् ततः परम् ॥


अशा-०४.१३.४३कख’’’
तेन तत् पूयते पापं राज्ञो दण्ड.अपचारजम् ।


अशा-०४.१३.४३गघ’’’
शास्ता हि वरुणो राज्ञां मिथ्या व्याचरतां नृषु ॥