सामग्री पर जाएँ

अर्थशास्त्रम् अध्याय 05

विकिपुस्तकानि तः

(ईन्fलिच्तिओन् ओf सेच्रेत् पुनिस्ह्मेन्त्)

अशा-०५.१.०१
दुर्ग.राष्ट्रयोः कण्टक.शोधनम् उक्तम् ॥

अशा-०५.१.०२
राज.राज्ययोर् वक्ष्यामः ॥

अशा-०५.१.०३
राजानम् अवगृह्य_उपजीविनः शत्रु.साधारणा वा ये मुख्यास् तेषु गूढ.पुरुष.प्रणिधिः कृत्य.पक्ष.उपग्रहो वा सिद्धिः यथा.उक्तं पुरस्ताद्, उपजापो_अपसर्पो वा यथा पारग्रामिके वक्ष्यामः ॥

अशा-०५.१.०४
राज्य.उपघातिनस् तु वल्लभाः संहता वा ये मुख्याः प्रकाशम् अशक्याः प्रतिषेद्धुं दूष्याः तेषु धर्म.रुचिर् उपांशु.दण्डं प्रयुञ्जीत ॥

अशा-०५.१.०५
दूष्य.महा.मात्र.भ्रातरम् असत्.कृतं सत्त्री प्रोत्साह्य राजानं दर्शयेत् ॥

अशा-०५.१.०६
तं राजा दूष्य.द्रव्य.उपभोग.अतिसर्गेण दूष्ये विक्रमयेत् ॥

अशा-०५.१.०७
शस्त्रेण रसेन वा विक्रान्तं तत्र_एव घातयेद् "भ्रातृ.घातको_अयम्" इति ॥

अशा-०५.१.०८
तेन पारशवः परिचारिका.पुत्रश् च व्याख्यातौ ॥

अशा-०५.१.०९
दूष्यं.महामात्रं वा सत्त्रि.प्रोत्साहितो भ्राता दायं याचेत ॥

अशा-०५.१.१०
तं दूष्य.गृह.प्रतिद्वारि रात्राव् उपशयानम् अन्यत्र वा वसन्तं तीक्ष्णो हन्ता ब्रूयाद् "हतो_अयं दाय.कामुकः" इति ॥

अशा-०५.१.११
ततो हत.पक्षम् उपगृह्य_इतरं निगृह्णीयात् ॥

अशा-०५.१.१२
दूष्य.समीपस्था वा सत्त्रिणो भ्रातरं दायं याचमानं घातेन परिभर्त्सयेयुः ॥

अशा-०५.१.१३
तं रात्रौ इति समानम् ॥

अशा-०५.१.१४
दूष्य.महा.मात्रयोर् वा यः पुत्रः पितुः पिता वा पुत्रस्य दारान् अधिचरति, भ्राता वा भ्रातुः, तयोः कापटिक.मुखः कलहः पूर्वेण व्याख्यातः ॥

अशा-०५.१.१५
दूष्य.महा.मात्र.पुत्रम् आत्म.संभावितं वा सत्त्री "राज.पुत्रस् त्वम्, शत्रु.भयाद् इह न्यस्तो_असि" इत्य् उपजपेत् ॥

अशा-०५.१.१६
प्रतिपन्नं राजा रहसि पूजयेत् "प्राप्त.यौवराज्य.कालं त्वां महा.मात्र.भयान् न_अभिषिञ्चामि" इति ॥

अशा-०५.१.१७
तं सत्त्री महा.मात्र.वधे योजयेत् ॥

अशा-०५.१.१८
विक्रान्तं तत्र_एव घातयेत् "पितृ.घातको_अयम्" इति ॥

अशा-०५.१.१९
भिक्षुकी वा दूष्य.भार्यां सांवदनिकीभिर् औषधीभिः संवास्य रसेन_अतिसंदध्यात् ॥

अशा-०५.१.२०
इत्य् आप्य.प्रयोगः ॥

अशा-०५.१.२१
दूष्य.महा.मात्रम् अटवीं पर.ग्रामं वा हन्तुं कान्तार.व्यवहिते वा देशे राष्ट्र.पालम् अन्त.पालं वा स्थापयितुं नागर.स्थानं वा कुपितम् अवग्राहितुं सार्थ.अतिवाह्यं प्रत्यन्ते वा स-प्रत्यादेयम् आदातुं फल्गु.बलं तीक्ष्ण.युक्तं प्रेषयेत् ॥

अशा-०५.१.२२
रात्रौ दिवा वा युद्धे प्रवृत्ते तीक्ष्णाः प्रतिरोधक.व्यञ्जना वा हन्युः "अभियोगे हतः" इति ॥

अशा-०५.१.२३
यात्रा.विहार.गतो वा दूष्य.महा.मात्रान् दर्शनाय_आह्वयेत् ॥

अशा-०५.१.२४
ते गूढ.शस्त्रैस् तीक्ष्णैः सह प्रविष्टा मध्यम.कक्ष्यायाम् आत्म.विचयम् अन्तः.प्रवेशन.अर्थं दद्युः ॥

अशा-०५.१.२५
ततो दौवारिक.अभिगृहीतास् तीक्ष्णाः "दूष्य.प्रयुक्ताः स्म" इति ब्रूयुः ॥

अशा-०५.१.२६
ते तद्.अभिविख्याप्य दूष्यान् हन्युः ॥

अशा-०५.१.२७
तीक्ष्ण.स्थाने च_अन्ये वध्याः ॥

अशा-०५.१.२८
बहिर्.विहार.गतो वा दूष्यान् आसन्न.आवासान् पूजयेत् ॥

अशा-०५.१.२९
तेषां देवी.व्यञ्जना वा दुःस्त्री रात्राव् आवासेषु गृह्येत_इति समानं पूर्वेण ॥

अशा-०५.१.३०
दूष्य.महा.मात्रं वा "सूदो भक्ष.कारो वा ते शोभनः" इति स्तवेन भक्ष्य.भोज्यं याचेत, बहिर् वा क्वचिद् अध्व.गतः पानीयम् ॥

अशा-०५.१.३१
तद्.उभयं रसेन योजयित्वा प्रतिस्वादने ताव् एव_उपयोजयेत् ॥

अशा-०५.१.३२
तद्.अभिविख्याप्य "रसदौ" इति घातयेत् ॥

अशा-०५.१.३३
अभिचार.शीलं वा सिद्ध.व्यञ्जनो "गोधा.कूर्म.कर्कटक.कूटानां लक्षण्यानाम् अन्यतम.प्राशनेन मनोरथान् अवाप्स्यसि" इति ग्राहयेत् ॥

अशा-०५.१.३४
प्रतिपन्नं कर्मणि रसेन लोह.मुसलैर् वा घातयेत् "कर्म.व्यापदा हतः" इति ॥

अशा-०५.१.३५
चिकित्सक.व्यञ्जनो वा दौरात्मिकम् असाध्यं वा व्याधिं दूष्यस्य स्थापयित्वा भैषज्य.आहार.योगेषु रसेन_अतिसंदध्यात् ॥

अशा-०५.१.३६
सूद.आरालिक.व्यञ्जना वा प्रणिहिता दूष्यं रसेन_अतिसंदध्युः ॥

अशा-०५.१.३७
इत्य् उपनिषत्.प्रतिषेधः ॥

अशा-०५.१.३८
उभय.दूष्य.प्रतिषेधस् तु ॥

अशा-०५.१.३९
यत्र दूष्यः प्रतिषेद्धव्यस् तत्र दूष्यम् एव फल्गु.बल.तीक्ष्ण.युक्तं प्रेषयेत्, गच्छ, अमुष्मिन् दुर्गे राष्ट्रे वा सैन्यम् उत्थापय हिरण्यं वा, वल्लभाद् वा हिरण्यम् आहारय, वल्लभ.कन्यां वा प्रसह्य_आनय, दुर्ग.सेतु.वणिक्.पथ.शून्य.निवेश.खनि.द्रव्य.हस्ति.वन.कर्मणाम् अन्यतमद् वा कारय राष्ट्र.पाल्यम् अन्त.पाल्यं वा_ यश् च त्वा प्रतिषेधयेन् न वा ते साहाय्यं दद्यात् स बन्धव्यः स्यात्" इति ॥

अशा-०५.१.४०
तथैव_इतरेषां प्रेषयेद् "अमुष्य_अविनयः प्रतिषेद्धव्यः" इति ॥

अशा-०५.१.४१
तम् एतेषु कलह.स्थानेषु कर्म.प्रतिघातेषु वा विवदमानं तीक्ष्णाः शस्त्रं पातयित्वा प्रच्छन्नं हन्युः ॥

अशा-०५.१.४२
तेन दोषेण_इतरे नियन्तव्याः ॥

अशा-०५.१.४३
पुराणां ग्रामाणां कुलानां वा दूष्याणां सीमा.क्षेत्र.खल.वेश्म.मर्यादासु द्रव्य.उपकरण.सस्य.वाहन.हिंसासु प्रेक्षा.कृत्य_उत्सवेषु वा समुत्पन्ने कलहे तीक्ष्णैर् उत्पादिते वा तीक्ष्णाः शस्त्रं पातयित्वा ब्रूयुः "एवं क्रियन्ते ये_अमुना कलहायन्ते॒ इति ॥

अशा-०५.१.४४
तेन दोषेण_इतरे नियन्तव्याः ॥

अशा-०५.१.४५
येषां वा दूष्याणां जात.मूलाः कलहास् तेषां क्षेत्र.खल.वेश्मान्य् आदीपयित्वा बन्धु.संबन्धिषु वाहनेषु वा तीक्ष्णाः शस्त्रं पातयित्वा तथैव ब्रूयुः "अमुना प्रयुक्ताः स्मः" इति ॥

अशा-०४.४.४६
तेन दोषेण_इतरे नियन्तव्याः ॥

अशा-०५.१.४७
दुर्ग.राष्ट्र.दूष्यान् वा सत्त्रिणः परस्परस्य_आवेशनिकान् कारयेयुः ॥

अशा-०५.१.४८
तत्र रसदा रसं दद्युः ॥

अशा-०५.१.४९
तेन दोषेण_इतरे नियन्तव्याः ॥

अशा-०५.१.५०
भिक्षुकी वा दूष्य.राष्ट्र.मुख्यं "दूष्य.राष्ट्र.मुख्यस्य भार्या स्नुषा दुहिता वा कामयते" इत्य् उपजपेत् ॥

अशा-०५.१.५१
प्रतिपन्नस्य_आभरणम् आदाय स्वामिने दर्शयेत् "असौ ते मुख्यो यौवन.उत्सिक्तो भार्यां स्नुषां दुहितरं वा_अभिमन्यते" इति ॥

अशा-०५.१.५२
तयोः कलहो रात्रौ इति समानम् ॥

अशा-०५.१.५३
दूष्य.दण्ड.उपनतेषु तु - युव.राजः सेना.पतिर् वा किंचिद् अपकृत्य_अपक्रान्तो विक्रमेत ॥

अशा-०५.१.५४
ततो राजा दूष्य.दण्ड.उपनतान् एव प्रेषयेत् फल्गु.बल.तीक्ष्ण.युक्तान् इति समानाः सर्व एव योगाः ॥

अशा-०५.१.५५
तेषां च पुत्रेष्व् अनुक्षियत्सु यो निर्विकारः स पितृ.दायं लभेत ॥

अशा-०५.१.५६
एवम् अस्य पुत्र.पौत्रान् अनुवर्तते राज्यम् अपास्त.पुरुष.दोषम् ॥

अशा-०५.१.५७कख’’’
स्व.पक्षे पर.पक्षे वा तूष्णीं दण्डं प्रयोजयेत् ।


अशा-०५.१.५७गघ’’’
आयत्यां च तदात्वे च क्षमावान् अविशङ्कितः ॥

(ऋएप्लेनिस्ह्मेन्त् ओf थे त्रेअसुर्य्)

अशा-०५.२.०१
कोशम् अकोशः प्रत्युत्पन्न.अर्थ.कृच्छ्रः संगृह्णीयात् ॥

अशा-०५.२.०२
जन.पदं महान्तम् अल्प.प्रमाणं वा_अदेव.मातृकं प्रभूत.धान्यं धान्यस्य_अंशं तृतीयं चतुर्थं वा याचेत, यथा.सारं मध्यम् अवरं वा ॥

अशा-०५.२.०३
दुर्ग.सेतु.कर्म.वणिक्.पथ.शून्य.निवेश.खनि.द्रव्य.हस्ति.वन.कर्म.उपकारिणं प्रत्यन्तम् अल्प.प्रमाणं वा न याचेत ॥

अशा-०५.२.०४
धान्य.पशु.हिरण्य.आदि निविशमानाय दद्यात् ॥

अशा-०५.२.०५
चतुर्थम् अंशं धान्यानां बीज.भक्त.शुद्धं च हिरण्येन क्रीणीयात् ॥

अशा-०५.२.०६
अरण्य.जातं श्रोत्रिय.स्वं च परिहरेत् ॥

अशा-०५.२.०७
तद् अप्य् अनुग्रहेण क्रीणीयात् ॥

अशा-०५.२.०८
तस्य_अकरणे वा समाहर्तृ.पुरुषा ग्रीष्मे कर्षकाणाम् उद्वापं कारयेयुः ॥

अशा-०५.२.०९
प्रमाद.अवस्कन्नस्य_अत्ययं द्वि.गुणम् उदाहरन्तो बीज.काले बीज.लेख्यं कुर्युः ॥

अशा-०५.२.१०
निष्पन्ने हरित.पक्व.आदानं वारयेयुः, अन्यत्र शाक.कट.भङ्ग.मुष्टिभ्यां देव.पितृ.पूजा.दान.अर्थं गव.अर्थं वा ॥

अशा-०५.२.११
भिक्षुक.ग्राम.भृतक.अर्थं च राशि.मूलं परिहरेयुः ॥

अशा-०५.२.१२
स्व.सस्य.अपहारिणः प्रतिपातो_अष्ट.गुणः ॥

अशा-०५.२.१३
पर.सस्य.अपहारिणः पञ्चाशद्.गुणः सीता.अत्ययः, स्व.वर्गस्य, बाह्यस्य तु वधः ॥

अशा-०५.२.१४
चतुर्थम् अंशं धान्यानां षष्ठं वन्यानां तूल.लाक्षा.क्षौम.वल्क.कार्पास.रौम.कौशेय.कौषध.गन्ध.पुष्प.फल.शाक.पण्यानां काष्ठ.वेणु.मांस.वल्लूराणां च गृह्णीयुः, दन्त.अजिनस्य_अर्धम् ॥

अशा-०५.२.१५
तद् अनिसृष्टं विक्रीणानस्य पूर्वः साहस.दण्डः ॥

अशा-०५.२.१६
इति कर्षकेषु प्रणयः ॥

अशा-०५.२.१७
सुवर्ण.रजत.वज्र.मणि.मुक्ता.प्रवाल.अश्व.हस्ति.पण्याः पञ्चाशत्.कराः ॥

अशा-०५.२.१८
सूत्र.वस्त्र.ताम्र.वृत्त.कंस.गन्ध.भैषज्य.शीधु.पण्याश् चत्वारिंशत्.कराः ॥

अशा-०५.२.१९
धान्य.रस.लोह.पण्याः शकट.व्यवहारिणश् च त्रिंशत्.कराः ॥

अशा-०५.२.२०
काच.व्यवहारिणो महा.कारवश् च विंशति.कराः ॥

अशा-०५.२.२१
क्षुद्र.कारवो बन्धकी.पोषकाश् च दश.कराः ॥

अशा-०५.२.२२
काष्ठ.वेणु.पाषाण.मृद्.भाण्ड.पक्व.अन्न.हरित.पण्याः पञ्च.कराः ॥

अशा-०५.२.२३
कुशीलवा रूप.आजीवाश् च वेतन.अर्धं दद्युः ॥

अशा-०५.२.२४
हिरण्य.करं कर्मण्यान् आहारयेयुः, न च_एषां कंचिद् अपराधं परिहरेयुः ॥

अशा-०५.२.२५
ते ह्य् अपरिगृहीतम् अभिनीय विक्रीणीरन् ॥

अशा-०५.२.२६
इति व्यवहारिषु प्रणयः ॥०५.२.२७
कुक्कुट.सूकरम् अर्धं दद्यात्, क्षुद्र.पशवः षड्.भागम्, गो.महिष.अश्वतर.खर.उष्ट्राश् च दश.भागम् ॥


अशा-०५.२.२८
बन्धकी.पोषका राज.प्रेष्याभिः परम.रूप.यौवनाभिः कोशं संहरेयुः ॥

अशा-०५.२.२९
इति योनि.पोषकेषु प्रणयः ॥

अशा-०५.२.३०
सकृद् एव न द्विः प्रयोज्यः ॥

अशा-०५.२.३१
तस्य_अकरणे वा समाहर्ता कार्यम् अपदिश्य पौर.जानपदान् भिक्षेत ॥

अशा-०५.२.३२
योग.पुरुषाश् च_अत्र पूर्वम् अतिमात्रं दद्युः ॥

अशा-०५.२.३३
एतेन प्रदेशेन राजा पौर.जानपदान् भिक्षेत ॥

अशा-०५.२.३४
कापटिकाश् च_एनान् अल्पं प्रयच्छतः कुत्सयेयुः ॥

अशा-०५.२.३५
सारतो वा हिरण्यम् आढ्यान् याचेत, यथा.उपकारं वा, स्व.वशा वा यद् उपहरेयुः ॥

अशा-०५.२.३६
स्थानच्.छत्र.वेष्टन.विभूषाश् च_एषां हिरण्येन प्रयच्छेत् ॥

अशा-०५.२.३७
पाषण्ड.संघ.द्रव्यम् अश्रोत्रिय.उपभोग्यं देव.द्रव्यं वा कृत्य.कराः प्रेतस्य दग्ध.गृहस्य वा हस्ते न्यस्तम् इत्य् उपहरेयुः ॥

अशा-०५.२.३८
देवता.अध्यक्षो दुर्ग.राष्ट्र.देवतानां यथा.स्वम् एकस्थं कोशं कुर्यात्, तथैव च_उपहरेत् ॥

अशा-०५.२.३९
दैवत.चैत्यं सिद्ध.पुण्य.स्थानम् औपपादिकं वा रात्राव् उत्थाप्य यात्रा.समाजाभ्याम् आजीवेत् ॥

अशा-०५.२.४०
चैत्य.उपवन.वृक्षेण वा देवता.अभिगमनम् अनार्तव.पुष्प.फल.युक्तेन ख्यापयेत् ॥

अशा-०५.२.४१
मनुष्य.करं वा वृक्षे रक्षो.भयं प्ररूपयित्वा सिद्ध.व्यञ्जनाः पौर.जानपदानां हिरण्येन प्रतिकुर्युः ॥

अशा-०५.२.४२
सुरुङ्गा.युक्ते वा कूपे नागम् अनियत.शिरस्कं हिरण्य.उपहारेण दर्शयेत् ॥

अशा-०५.२.४३
नाग.प्रतिमायाम् अन्तश्.छन्नायां चैत्यच्.छिद्रे वल्मीकच्.छिद्रे वा सर्प.दर्शनम् आहारेण प्रतिबद्ध.संज्ञं कृत्वा श्रद्दधानानां दर्शयेत् ॥

अशा-०५.२.४४
अश्रद्दधानानाम् आचमन.प्रोक्षणेषु रसम् उपचार्य देवता.अभिशापं ब्रूयात्, अभित्यक्तं वा दंशयित्वा ॥

अशा-०५.२.४५
योग.दर्शन.प्रतीकारेण वा कोश.अभिसंहरणं कुर्यात् ॥

अशा-०५.२.४६
वैदेहक.व्यञ्जनो वा प्रभूत.पण्य.अन्तेवासी व्यवहरेत ॥

अशा-०५.२.४७
स यदा पण्य.मूल्ये निक्षेप.प्रयोगैर् उपचितः स्यात् तदा_एनं रात्रौ मोषयेत् ॥

अशा-०५.२.४८
एतेन रूप.दर्शकः सुवर्ण.कारश् च व्याख्यातौ ॥

अशा-०५.२.४९
वैदेहक.व्यञ्जनो वा प्रख्यात.व्यवहारः प्रहवण.निमित्तं याचितकम् अवक्रीतकं वा रूप्य.सुवर्ण.भाण्डम् अनेकं गृह्णीयात् ॥

अशा-०५.२.५०
समाजे वा सर्व.पण्य.संदोहेन प्रभूतं हिरण्य.सुवर्णम् ऋणं गृह्णीयात्, प्रतिभाण्ड.मूल्यं च ॥

अशा-०५.२.५१
तद् उभयं रात्रौ मोषयेत् ॥

अशा-०५.२.५२
साध्वी.व्यञ्जनाभिः स्त्रीभिर् दूष्यान् उन्मादयित्वा तासाम् एव वेश्मस्व् अभिगृह्य सर्व.स्वान्य् आहरेयुः ॥

अशा-०५.२.५३
दूष्य.कुल्यानां वा विवादे प्रत्युत्पन्ने रसदाः प्रणिहिता रसं दद्युः ॥

अशा-०५.२.५४
तेन दोषेण_इतरे पर्यादातव्याः ॥

अशा-०५.२.५५
दूष्यम् अभित्यक्तो वा श्रद्धेय.अपदेशं पण्यं हिरण्य.निक्षेपम् ऋण.प्रयोगं दायं वा याचेत ॥

अशा-०५.२.५६
दास.शब्देन वा दूष्यम् आलम्बेत, भार्याम् अस्य स्नुषां दुहितरं वा दासी.शब्देन भार्या.शब्देन वा ॥

अशा-०५.२.५७
तं दूष्य.गृह.प्रतिद्वारि रात्राव् उपशयानम् अन्यत्र वा वसन्तं तीक्ष्णो हत्वा ब्रूयात् "हतो_अयम् अर्थ.कामुकः" इति ॥

अशा-०५.२.५८
तेन दोषेण_इतरे पर्यादातव्याः ॥

अशा-०५.२.५९
सिद्ध.व्यञ्जनो वा दूष्यं जम्भक.विद्याभिः प्रलोभयित्वा ब्रूयात् "अक्षय.हिरण्यं राज.द्वारिकं स्त्री.हृदयम् अरि.व्याधि.करम् आयुष्यं पुत्रीयं वा कर्म जानामि" इति ॥

अशा-०५.२.६०
प्रतिपन्नं चैत्य.स्थाने रात्रौ प्रभूत.सुरा.मांस.गन्धम् उपहारं कारयेत् ॥

अशा-०५.२.६१
एक.रूपं च_अत्र हिरण्यं पूर्व.निखातं प्रेत.अङ्गं प्रेत.शिशुर् वा यत्र निहितः स्यात्, ततो हिरण्यम् अस्य दर्शयेद् "अत्यल्पम्" इति च ब्रूयात् ॥

अशा-०५.२.६२
"प्रभूत.हिरण्य.हेतोः पुनर् उपहारः कर्तव्य इति स्वयम् एव_एतेन हिरण्येन श्वो.भूते प्रभूतम् औपहारिकं क्रीणीहि" इति ॥

अशा-०५.२.६३
स तेन हिरण्येन_औपहारिक.क्रये गृह्येत ॥

अशा-०५.२.६४
मातृ.व्यञ्जनया वा "पुत्रो मे त्वया हतः" इत्य् अवकुपिता स्यात् ॥

अशा-०५.२.६५
संसिद्धम् एव_अस्य रात्रि.यागे वन.यागे वन.क्रीडायां वा प्रवृत्तायां तीक्ष्णा विशस्य_अभित्यक्तम् अतिनयेयुः ॥

अशा-०५.२.६६
दूष्यस्य वा भृतक.व्यञ्जनो वेतन.हिरण्ये कूट.रूपं प्रक्षिप्य प्ररूपयेत् ॥

अशा-०५.२.६७
कर्म.कर.व्यञ्जनो वा गृहे कर्म कुर्वाणः स्तेन.कूट.रूप.कारक.उपकरणम् उपनिदध्यात्, चिकित्सक.व्यञ्जनो वा गरम् अगद.अपदेशेन ॥

अशा-०५.२.६८
प्रत्यासन्नो वा दूष्यस्य सत्त्री प्रणिहितम् अभिषेक.भाण्डम् अमित्र.शासनं च कापटिक.मुखेन_आचक्षीत, कारणं च ब्रूयात् ॥

अशा-०५.२.६९
एवं दूष्येष्व् अधार्मिकेषु च वर्तेत, न_इतरेषु ॥

अशा-०५.२.७०कख’’’
पक्वं पक्वम् इव_आरामात् फलं राज्याद् अवाप्नुयात् ।


अशा-०५.२.७०गघ’’’
आत्मच्.छेद.भयाद् आमं वर्जयेत् कोप.कारकम् ॥

(षलरिएस् ओf स्तते सेर्वन्त्स्)

अशा-०५.३.०१
दुर्ग.जन.पद.शक्त्या भृत्य.कर्म समुदय.पादेन स्थापयेत्, कार्य.साधन.सहेन वा भृत्य.लाभेन ॥

अशा-०५.३.०२
शरीरम् अवेक्षेत, न धर्म.अर्थौ पीडयेत् ॥

अशा-०५.३.०३
ऋत्विग्.आचार्य.मन्त्रि.पुरोहित.सेना.पति.युव.राज.राज.मातृ.राज.महिष्यो_अष्ट.चत्वारिंशत्.साहस्राः ॥

अशा-०५.३.०४
एतावता भरणेन_अनास्पद्यत्वम् अकोपकं च_एषां भवति ॥

अशा-०५.३.०५
दौवारिक.अन्तर्.वंशिक.प्रशास्तृ.समाहर्तृ.संनिधातारश् चतुर्.विंशति.साहस्राः ॥

अशा-०५.३.०६
एतावता कर्मण्या भवन्ति ॥

अशा-०५.३.०७
कुमार.कुमार.मातृ.नायक.पौर.व्यावहारिक.कार्मान्तिक.मन्त्रि.परिषद्.राष्ट्र.अन्त.पालाश् च द्वादश.साहस्राः ॥

अशा-०५.३.०८
स्वामि.परिबन्ध.बल.सहाया ह्य् एतावता भवन्ति ॥

अशा-०५.३.०९
श्रेणी.मुख्या हस्त्य्.अश्व.रथ.मुख्याः प्रदेष्टारश् च_अष्ट.साहस्राः ॥

अशा-०५.३.१०
स्व.वर्ग.अनुकर्षिणो ह्य् एतावता भवन्ति ॥

अशा-०५.३.११
पत्त्य्.अश्व.रथ.हस्त्य्.अध्यक्षा द्रव्य.हस्ति.वन.पालाश् च चतुः.साहस्राः ॥

अशा-०५.३.१२
रथिक.अनीकस्थ.चिकित्सक.अश्व.दमक.वर्धकयो योनि.पोषकाश् च द्वि.साहस्राः ॥

अशा-०५.३.१३
कार्तान्तिक.नैमित्तिक.मौहूर्तिक.पौराणिक.सूत.मागधाः पुरोहित.पुरुषाः सर्व.अध्यक्षाश् च साहस्राः ॥

अशा-०५.३.१४
शिल्पवन्तः पादाताः संख्यायक.लेखक.आदि.वर्गश् च पञ्च.शताः ॥

अशा-०५.३.१५
कुशीलवास् त्व् अर्ध.तृतीय.शताः, द्वि.गुण.वेतनाश् च_एषां तूर्य.कराः ॥

अशा-०५.३.१६
कारु.शिल्पिनो विंशति.शतिकाः ॥

अशा-०५.३.१७
चतुष्पद.द्विपद.परिचारक.पारिकर्मिक.औपस्थायिक.पालक.विष्टि.बन्धकाः षष्टि.वेतनाः, आर्य.युक्त.आरोहक.माणवक.शैल.खनकाः सर्व.उपस्थायिनश् च ॥

अशा-०५.३.१८
आचार्या विद्यावन्तश् च पूजा.वेतनानि यथा.अर्हं लभेरन् पञ्च.शत.अवरं सहस्र.परम् ॥

अशा-०५.३.१९
दश.पणिको योजने दूतो मध्यमः, दश.उत्तरे द्वि.गुण.वेतन आ.योजन.शताद् इति ॥

अशा-०५.३.२०
समान.विद्येभ्यस् त्रि.गुण.वेतनो राजा राज.सूय.आदिषु क्रतुषु ॥

अशा-०५.३.२१
राज्ञः सारथिः साहस्रः ॥

अशा-०५.३.२२
कापटिक.उदास्थित.गृह.पतिक.वैदेहक.तापस.व्यञ्जनाः साहस्राः ॥

अशा-०५.३.२३
ग्राम.भृतक.सत्त्रि.तीक्ष्ण.रसद.भिक्षुक्यः पञ्च.शताः ॥

अशा-०५.३.२४
चार.संचारिणो_अर्ध.तृतीय.शताः, प्रयास.वृद्ध.वेतना वा ॥

अशा-०५.३.२५
शत.वर्ग.सहस्र.वर्गाणाम् अध्यक्षा भक्त.वेतन.लाभम् आदेशं विक्षेपं च कुर्युः ॥

अशा-०५.३.२६
अविक्षेपो राज.परिग्रह.दुर्ग.राष्ट्र.रक्ष.अवेक्षणेषु च ॥

अशा-०५.३.२७
नित्य.मुख्याः स्युर् अनेक.मुख्याश् च ॥

अशा-०५.३.२८
कर्मसु मृतानां पुत्र.दारा भक्त.वेतनं लभेरन् ॥

अशा-०५.३.२९
बाल.वृद्ध.व्याधिताश् च_एषाम् अनुग्राह्याः ॥

अशा-०५.३.३०
प्रेत.व्याधित.सूतिका.कृत्येषु च_एषाम् अर्थ.मान.कर्म कुर्यात् ॥

अशा-०५.३.३१
अल्प.कोशः कुप्य.पशु.क्षेत्राणि दद्यात्, अल्पं च हिरण्यम् ॥

अशा-०५.३.३२
शून्यं वा निवेशयितुम् अभ्युत्थितो हिरण्यम् एव दद्यात्, न ग्रामं ग्राम.संजात.व्यवहार.स्थापन.अर्थम् ॥

अशा-०५.३.३३
एतेन भृतानाम् अभृतानां च विद्या.कर्मभ्यां भक्त.वेतन.विशेषं च कुर्यात् ॥

अशा-०५.३.३४
षष्टि.वेतनस्य_आढकं कृत्वा हिरण्य.अनुरूपं भक्तं कुर्यात् ॥

अशा-०५.३.३५
पत्त्य्.अश्व.रथ.द्विपाः सूर्य.उदये बहिः संधि.दिवस.वर्जं शिल्प.योग्याः कुर्युः ॥

अशा-०५.३.३६
तेषु राजा नित्य.युक्तः स्यात्, अभीक्ष्णं च_एषां शिल्प.दर्शनं कुर्यात् ॥

अशा-०५.३.३७
कृत.नर.इन्द्र.अङ्कं शस्त्र.आवरणम् आयुध.अगारं प्रवेशयेत् ॥

अशा-०५.३.३८
अशस्त्राश् चरेयुः, अन्यत्र मुद्रा.अनुज्ञातात् ॥

अशा-०५.३.३९
नष्टं.विनष्टं वा द्वि.गुणं दद्यात् ॥

अशा-०५.३.४०
विध्वस्त.गणनां च कुर्यात् ॥

अशा-०५.३.४१
सार्थिकानां शस्त्र.आवरणम् अन्त.पाला गृह्णीयुः, समुद्रम् अवचारयेयुर् वा ॥

अशा-०५.३.४२
यात्राम् अभ्युत्थितो वा सेनाम् उद्योजयेत् ॥

अशा-०५.३.४३
ततो वैदेहक.व्यञ्जनाः सर्व.पण्यान्य् आयुधीयेभ्यो यात्रा.काले द्वि.गुण.प्रत्यादेयानि दद्युः ॥

अशा-०५.३.४४
एवं राज.पण्य.योग.विक्रयो वेतन.प्रत्यादानं च भवति ॥

अशा-०५.३.४५
एवम् अवेक्षित.आय.व्ययः कोश.दण्ड.व्यसनं न_अवाप्नोति ॥

अशा-०५.३.४६
इति भक्त.वेतन.विकल्पः ॥

अशा-०५.३.४७कख’’’
सत्त्रिणश् च_आयुधीयानां वेश्याः कारु.कुशीलवाः ।


अशा-०५.३.४७गघ’’’
दण्ड.वृद्धाश् च जानीयुः शौच.अशौचम् अतन्द्रिताः ॥

(ড়्रोपेर् चोन्दुच्त् fओर् अ देपेन्दन्त्)

अशा-०५.४.०१
लोक.यात्राविद् राजानम् आत्म.द्रव्य.प्रकृति.संपन्नं प्रिय.हित.द्वारेण_आश्रयेत ॥

अशा-०५.४.०२
यं वा मन्येत "यथा_अहम् आश्रय.ईप्सुर् एवम् असौ विनय.ईप्सुर् आभिगामिक.गुण.युक्तः" इति, द्रव्य.प्रकृति.हीनम् अप्य् एनम् आश्रयेत, न त्व् एव_अनात्म.संपन्नम् ॥

अशा-०५.४.०३
अनात्मवा हि नीति.शास्त्र.द्वेषाद् अनर्थ्य.संयोगाद् वा प्राप्य_अपि महद् ऐश्वर्यं न भवति ॥

अशा-०५.४.०४
आत्मवति लब्ध.अवकाशः शास्त्र.अनुयोगं दद्यात् ॥

अशा-०५.४.०५
अविसंवादाद्द् हि स्थान.स्थैर्यम् अवाप्नोति ॥

अशा-०५.४.०६
मति.कर्मसु पृष्ठस् तदात्वे च_आयत्यां च धर्म.अर्थ.संयुक्तं समर्थं प्रवीणवद् अपरिषद्.भीरुः कथयेत् ॥

अशा-०५.४.०७
ईप्सितः पणेत "धर्म.अर्थ.अनुयोगम् अविशिष्टेषु बलवत्.संयुक्तेषु दण्ड.धारणं मत्.संयोगे तदात्वे च दण्ड.धारणम् इति न कुर्याः, पक्षं वृत्तिं गुह्यं च मे न_उपहन्याः, संज्ञया च त्वां काम.क्रोध.दण्डनेषु वारयेयम्" इति ॥

अशा-०५.४.०८
आदिष्टः प्रदिष्टायां भूमाव् अनुज्ञातः प्रविशेत्, उपविशेच् च पार्श्वतः संनिकृष्ट.विप्रकृष्टः पर.आसनम् ॥

अशा-०५.४.०९
विगृह्य कथनम् असभ्यम् अप्रत्यक्षम् अश्रद्धेयम् अनृतं च वाक्यम् उच्चैर् अनर्मणि हासं वात.ष्ठीवने च शब्दवती न कुर्यात् ॥

अशा-०५.४.१०
मिथः कथनम् अन्येन, जन.वादे द्वन्द्व.कथनम्, राज्ञो वेषम् उद्धत.कुहकानां च, रत्न.अतिशय.प्रकाश.अभ्यर्थनम्, एक.अक्ष्य्.ओष्ठ.निर्भोगं भ्रुकुटी.कर्म वाक्य.अवक्षेपणं च ब्रुवति, बलवत् संयुक्त.विरोधम्, स्त्रीभिः स्त्री.दर्शिभिः सामन्त.दूतैर् द्वेष्य.पक्ष.अवक्षिप्तान् अर्थ्यैश् च प्रतिसंसर्गम् एक.अर्थ.चर्यां संघातं च वर्जयेत् //

अशा-०५.४.११कख’’’
अहीन.कालं राज.अर्थं स्व.अर्थं प्रिय.हितैः सह ।


अशा-०५.४.११गघ’’’
पर.अर्थं देश.काले च ब्रूयाद् धर्म.अर्थ.संहितम् ॥


अशा-०५.४.१२कख’’’
पृष्टः प्रिय.हितं ब्रूयान् न ब्रूयाद् अहितं प्रियम् ।


अशा-०५.४.१२गघ’’’
अप्रियं वा हितं ब्रूयात्_शृण्वतो_अनुमतो मिथः ॥


अशा-०५.४.१३कख’’’
तूष्णीं वा प्रतिवाक्ये स्याद् वेष्य.आदींश् च न वर्णयेत् ।


अशा-०५.४.१३गघ’’’
अप्रिया अपि दक्षाः स्युस् तद्.भावाद् ये बहिष्.कृताः ॥


अशा-०५.४.१४कख’’’
अनर्थ्याश् च प्रिया दृष्टाश् चित्त.ज्ञान.अनुवर्तिनः ।


अशा-०५.४.१४गघ’’’
अभिहास्येष्व् अभिहसेद् घोर.हासांश् च वर्जयेत् ॥



अशा-०५.४.१५कख’’’
परात् संक्रामयेद् घोरं न च घोरं परे वदेत् ।


अशा-०५.४.१५गघ’’’
तितिक्षेत_आत्मनश् चैव क्षमावान् पृथिवी.समः ॥


अशा-०५.४.१६कख’’’
आत्म.रक्षा हि सततं पूर्वं कार्या विजानता ।


अशा-०५.४.१६गघ’’’
अग्नाव् इव हि संप्रोक्ता वृत्ती राजा_उपजीविनाम् ॥


अशा-०५.४.१७कख’’’
एक.देशं दहेद् अग्निः शरीरं वा परं गतः ।


अशा-०५.४.१७गघ’’’
स-पुत्र.दारं राजा तु घातयेद् अर्धयेत वा ॥

(ড়्रोपेर् बेहविओउर् fओर् अ चोउर्तिएर्)

अशा-०५.५.०१
नियुक्तः कर्मसु व्यय.विशुद्धम् उदयं दर्शयेत् ॥

अशा-०५.५.०२
आभ्यन्तरं बाह्यं गुह्यं प्रकाश्यम् आत्ययिकम् उपेक्षितव्यं वा कार्यं "इदम् एवम्" इति विशेषयेच् च ॥

अशा-०५.५.०३
मृगया.द्यूत.मद्य.स्त्रीषु प्रसक्तं न_एनम् अनुवर्तेत प्रशंसाभिः ॥

अशा-०५.५.०४
आसन्नश् च_अस्य व्यसन.उपघाते प्रयतेत, पर.उपजाप.अतिसंधान.उपधिभ्यश् च रक्षेत् ॥

अशा-०५.५.०५
इङ्गित.आकारौ च_अस्य लक्षयेत् ॥

अशा-०५.५.०६
काम.द्वेष.हर्ष.दैन्य.व्यवसाय.भय.द्वन्द्व.विपर्यासम् इङ्गित.आकाराभ्यां हि मन्त्र.संवरण.अर्थम् आचरति प्राज्ञः ॥

अशा-०५.५.०७
दर्शने प्रसीदति, वाक्यं प्रतिगृह्णाति, आसनं ददाति, विविक्तो दर्शयते, शङ्का.स्थाने न_अतिशङ्कते, कथायां रमते, परिज्ञाप्येष्व् अवेक्षते, पथ्यम् उक्तं सहते, स्मयमानो नियुङ्क्ते, हस्तेन स्पृशति, श्लाघ्ये न_उपहसति, परोक्षं गुणं ब्रवीति, भक्ष्येषु स्मरति, सह विहारं याति, व्यसने_अभ्युपपद्यते, तद्.भक्तीन् पूजयति, गुह्यम् आचष्टे, मानं वर्धयति, अर्थं करोति, अनर्थं प्रतिहन्ति - इति तुष्ट.ज्ञानम् ॥

अशा-०५.५.०८
एतद् एव विपरीतम् अतुष्टस्य, भूयश् च वक्ष्यामः ॥

अशा-०५.५.०९
संदर्शने कोपः, वाक्यस्य_अश्रवण.प्रतिषेधौ, आसन.चक्षुषोर् अदानम्, वर्ण.स्वर.भेदः, एक.अक्षि.भ्रुकुट्य्.ओष्ठ.निर्भोगः, स्वेद.श्वास.स्मितानाम् अस्थान.उत्पत्तिः, पर.मन्त्रणम्, अकस्माद्.व्रजनम्, वर्धनम् अन्यस्य, भूमि.गात्र.विलेखनम्, अन्यस्य_उपतोदनम्, विद्या.वर्ण.देश.कुत्सा, सम.दोष.निन्दा, प्रतिदोष.निन्दा, प्रतिलोम.स्तवः, सुकृत.अनवेक्षणम्, दुष्कृत.अनुकीर्तनम्, पृष्ठ.अवधानम्, अतित्यागः, मिथ्या.अभिभाषणम्, राज.दर्शिनां च तद्.वृत्त.अन्यत्वम् ॥

अशा-०५.५.१०
वृत्ति.विकारं च_अवेक्षेत_अप्य् अमानुषाणाम् ॥

अशा-०५.५.११
"अयम् उच्चैः सिञ्चति" इति कात्यायनः प्रवव्राज, "क्रौञ्चो_अपसव्यम्" इति कणिङ्को भारद्वाजः, "तृणम्" इति दीर्घश् चारायणः, "शीता शाटी" इति घोट.मुखः, "हस्ती प्रत्यौक्षीत्" इति किञ्जल्कः, "रथ.अश्वं प्राशंसीत्" इति पिशुनः, प्रति.रवणे शुनः पिशुन.पुत्रः ॥

अशा-०५.५.१२
अर्थ.मान.अवक्षेपे च परित्यागः ॥

अशा-०५.५.१३
स्वामि.शीलम् आत्मनश् च किल्बिषम् उपलभ्य वा प्रतिकुर्वीत ॥

अशा-०५.५.१४
मित्रम् उपकृष्टं वा_अस्य गच्छेत् ॥

अशा-०५.५.१५कख’’’
तत्रस्थो दोष.निर्घातं मित्रैर् भर्तरि च_आचरेत् ।


अशा-०५.५.१५गघ’’’
ततो भर्तरि जीवे वा मृते वा पुनर् आव्रजेत् ॥

(Cओन्तिनुअन्चे ओf थे किन्ग्दोम्) (Cओन्तिनुओउस् सोवेरेइग्न्त्य्)

अशा-०५.६.०१
राज.व्यसनम् एवम् अमात्यः प्रतिकुर्वीत ॥

अशा-०५.६.०२
प्राग् एव मरण.आबाध.भयाद् राज्ञः प्रिय.हित.उपग्रहेण मास.द्वि.मास.अन्तरं दर्शनं स्थापयेद् "देश.पीडा.अपहम् अमित्र.अपहम् आयुष्यं पुत्रीयं वा कर्म राजा साधयति" इत्य् अपदेशेन ॥

अशा-०५.६.०३
राज.व्यञ्जनम् अरूप.वेलायां प्रकृतीनां दर्शयेत्, मित्र.अमित्र.दूतानां च ॥

अशा-०५.६.०४
तैश् च यथा.उचितां संभाषाम् अमात्य.मुखो गच्छेत् ॥

अशा-०५.६.०५
दौवारिक.अन्तर्.वंशिक.मुखश् च यथा.उक्तं राज.प्रणिधिम् अनुवर्तयेत् ॥

अशा-०५.६.०६
अपकारिषु च हेडं प्रसादं वा प्रकृति.कान्तं दर्शयेत्, प्रसादम् एव_उपकारिषु ॥

अशा-०५.६.०७
आप्त.पुरुष.अधिष्ठितौ दुर्ग.प्रत्यन्तस्थौ वा कोश.दण्डाव् एकस्थौ कारयेत्, कुल्य.कुमार.मुख्यांश् च_अन्य.अपदेशेन ॥

अशा-०५.६.०८
यश् च मुख्यः पक्षवान् दुर्ग.अटवीस्थो वा वैगुण्यं भजेत तम् उपग्राहयेत् ॥

अशा-०५.६.०९
बह्व्.आबाधं वा यात्रां प्रेषयेत्, मित्र.कुलं वा ॥

अशा-०५.६.१०
यस्माच् च सामन्ताद् आबाधं पश्येत् तम् उत्सव.विवाह.हस्ति.बन्धन.अश्व.पण्य.भूमि.प्रदान.अपदेशेन_अवग्राहयेत्, स्व.मित्रेण वा ॥

अशा-०५.६.११
ततः संधिम् अदूष्यं कारयेत् ॥

अशा-०५.६.१२
आटविक.अमित्रैर् वा वैरं ग्राहयेत् ॥

अशा-०५.६.१३
तत्.कुलीनम् अपरुद्धं वा भूंय्.एक.देशेन_उपग्राहयेत् ॥

अशा-०५.६.१४
कुल्य.कुमार.मुख्य.उपग्रहं कृत्वा वा कुमारम् अभिषिक्तम् एव दर्शयेत् ॥

अशा-०५.६.१५
दाण्ड.कर्मिकवद् वा राज्य.कण्टकान् उद्धृत्य राज्यं कारयेत् ॥

अशा-०५.६.१६
यदि वा कश्चिन् मुख्यः सामन्त.आदीनाम् अन्यतमः कोपं भजेत तं "एहि, राजानं त्वा करिष्यामि" इत्य् आवाहयित्वा घातयेत् ॥

अशा-०५.६.१७
आपत्.प्रतीकारेण वा साधयेत् ॥

अशा-०५.६.१८
युव.राजे वा क्रमेण राज्य.भारम् आरोप्य राज.व्यसनं ख्यापयेत् ॥

अशा-०५.६.१९
पर.भूमौ राज.व्यसने मित्रेण_अमित्र.व्यञ्जनेन शत्रोः संधिम् अवस्थाप्य_अपगच्छेत् ॥

अशा-०५.६.२०
सामन्त.आदीनाम् अन्यतमं वा_अस्य दुर्गे स्थापयित्वा_अपगच्छेत् ॥

अशा-०५.६.२१
कुमारम् अभिषिच्य वा प्रतिव्यूहेत ॥

अशा-०५.६.२२
परेण_अभियुक्तो वा यथा.उक्तम् आपत्.प्रतीकारं कुर्यात् ॥

अशा-०५.६.२३
एवम् एक.ऐश्वर्यम् अमात्यः कारयेद् इति कौटिल्यः ॥

अशा-०५.६.२४
"न_एवम्" इति भारद्वाजः ॥

अशा-०५.६.२५
"प्रम्रियमाणे वा राजन्य् अमात्यः कुल्य.कुमार.मुख्यान् परस्परं मुख्येषु वा विक्रमयेत् ॥

अशा-०५.६.२६
विक्रान्तं प्रकृति.कोपेन घातयेत् ॥

अशा-०५.६.२७
कुल्य.कुमार.मुख्यान् उपांशु.दण्डेन वा साधयित्वा स्वयं राज्यं गृह्णीयात् ॥

अशा-०५.६.२८
राज्य.कारणाद्द् हि पिता पुत्रान् पुत्राश् च पितरम् अभिद्रुह्यन्ति, किम् अङ्ग पुनर् अमात्य.प्रकृतिर् ह्य् एक.प्रग्रहो राज्यस्य ॥

अशा-०५.६.२९
तत् स्वयम् उपस्थितं न_अवमन्येत ॥

अशा-०५.६.३०
"स्वयम् आरूढा हि स्त्री त्यज्यमाना_अभिशपति" इति लोक.प्रवादः ॥

अशा-०५.६.३१कख’’’
कालश् च सकृद् अभ्येति यं नरं काल.काङ्क्षिणम् ।


अशा-०५.६.३१गघ’’’
दुर्लभः स पुनस् तस्य कालः कर्म चिकीर्षतः ॥


अशा-०५.६.३२
प्रकृति.कोपकम् अधर्मिष्ठम् अनैकान्तिकं च_एतद् इति कौटिल्यः ॥

अशा-०५.६.३३
राज.पुत्रम् आत्म.संपन्नं राज्ये स्थापयेत् ॥

अशा-०५.६.३४
संपन्न.अभावे_अव्यसनिनं कुमारं राज.कन्यां गर्भिणीं देवीं वा पुरस्.कृत्य महा.मात्रान् संनिपात्य ब्रूयात् "अयं वो निक्षेपः, पितरम् अस्य_अवेक्षध्वं सत्त्व.अभिजनम् आत्मनश् च, ध्वज.मात्रो_अयं भवन्त एव स्वामिनः, कथं वा क्रियताम्" इति ॥

अशा-०५.६.३५
तथा ब्रुवाणं योग.पुरुषा ब्रूयुः "को_अन्यो भवत्.पुरोगाद् अस्माद् राज्ञश् चातुर्वर्ण्यम् अर्हति पालयितुम्" इति ॥

अशा-०५.६.३६
"तथा" इत्य् अमात्यः कुमारं राज.कन्यां गर्भिणीं देवीं वा_अधिकुर्वीत, बन्धु.संबन्धिनां मित्र.अमित्र.दूतानां च दर्शयेत् ॥

अशा-०५.६.३७
भक्त.वेतन.विशेषम् अमात्यानाम् आयुधीयानां च कारयेत्, "भूयश् च_अयं वृद्धः करिष्यति" इति ब्रूयात् ॥

अशा-०५.६.३८
एवं दुर्ग.राष्ट्र.मुख्यान् आभाषेत, यथा.अर्हं च मित्र.अमित्र.पक्षम् ॥

अशा-०५.६.३९
विनय.कर्मणि च कुमारस्य प्रयतेत ॥

अशा-०५.६.४०
कन्यायां समान.जातीयाद् अपत्यम् उत्पाद्य वा_अभिषिञ्चेत् ॥

अशा-०५.६.४१
मातुश् चित्त.क्षोभ.भयात् कुल्यम् अल्प.सत्त्वं छात्रं च लक्षण्यम् उपनिदध्यात् ॥

अशा-०५.६.४२
ऋतौ च_एनां रक्षेत् ॥

अशा-०५.६.४३
न च_आत्म.अर्थं कंचिद् उत्कृष्टम् उपभोगं कारयेत् ॥

अशा-०५.६.४४
राज.अर्थं तु यान.वाहन.आभरण.वस्त्र.स्त्री.वेश्म.परिवापान् कारयेत् ॥

अशा-०५.६.४५कख’’’
यौवनस्थं च याचेत विश्रमं चित्त.कारणात् ।


अशा-०५.६.४५गघ’’’
परित्यजेद् अतुष्यन्तं तुष्यन्तं च_अनुपालयेत् ॥


अशा-०५.६.४६कख’’’
निवेद्य पुत्र.रक्षा.अर्थं गूढ.सार.परिग्रहान् ।


अशा-०५.६.४६गघ’’’
अरण्यं दीर्घ.सत्त्रं वा सेवेत_आरुच्यतां गतः ॥


अशा-०५.६.४७कख’’’
मुख्यैर् अवगृहीतं वा राजानं तत्.प्रिय.आश्रितः ।


अशा-०५.६.४७गघ’’’
इतिहास.पुराणाभ्यां बोधयेद् अर्थ.शास्त्रवित् ॥


अशा-०५.६.४८कख’’’
सिद्ध.व्यञ्जन.रूपो वा योगम् आस्थाय पार्थिवम् ।


अशा-०५.६.४८गघ’’’
लभेत लब्ध्वा दूष्येषु दाण्डकर्मिकम् आचरेत् ॥