अर्थशास्त्रम् अध्याय 06

विकिपुस्तकानि तः
Jump to navigation Jump to search

((मण्डल.योनिः षष्ठम् अधिकरणम्)) (षण्.णवतितमं प्रकरणं - प्रकृति.सम्पदह्)

अशा-०६.१.०१
स्वाम्य्.अमात्य.जन.पद.दुर्ग.कोश.दण्ड.मित्राणि प्रकृतयः ॥

अशा-०६.१.०२
तत्र स्वामि.सम्पत् ॥

अशा-०६.१.०३
महा.कुलीनो दैव.बुद्धि.सत्त्व.सम्पन्नो वृद्ध.दर्शी धार्मिकः सत्य.वाग् अविसंवादकः कृतज्ञः स्थूल.लक्षो महा.उत्साहो_अदीर्घ.सूत्रः शक्य.सामन्तो दृढ.बुद्धिर् अक्षुद्र.परिषत्को विनय.काम इत्य् आभिगामिका गुणाः ॥

अशा-०६.१.०४
शुश्रूषा.श्रवण.ग्रहण.धारण.विज्ञान.ऊह.अपोह.तत्त्व.अभिनिवेशाः प्रज्ञा.गुणाः ॥

अशा-०६.१.०५
शौर्यम् अमर्षः शीघ्रता दाक्ष्यं च_उत्साह.गुणाः ॥

अशा-०६.१.०६
वाग्मी प्रगल्भः स्मृति.मति.बलवान् उदग्रः स्व्.अवग्रहः कृत.शिल्पो_अव्यसनो दण्ड.नाय्य् उपकार.अपकारयोर् दृष्ट.प्रतीकारी ह्रीमान् आपत्.प्रकृत्योर् विनियोक्ता दीर्घ.दूर.दर्शी देश.काल.पुरुष.कार.कार्य.प्रधानः संधि.विक्रम.त्याग.सम्यम.पण.परच्.छिद्र.विभागी संवृतो_अदीन.अभिहास्य.जिह्म.भ्रुकुटी.क्षणः काम.क्रोध.लोभ.स्तम्भ.चापल.उपताप.पैशुन्य.हीनः शक्लः स्मित.उदग्र.अभिभाषी वृद्ध.उपदेश.आचार इत्य् आत्म.सम्पत् ॥

अशा-०६.१.०७
अमात्य.सम्पद् उक्ता पुरस्तात् ॥

अशा-०६.१.०८
मध्ये च_अन्ते च स्थानवान् आत्म.धारणः पर.धारणश् च_आपदि स्व.आरक्षः स्व.आजीवः शत्रु.द्वेषी शक्य.सामन्तः पङ्क.पाषाण.उषर.विषम.कण्टक.श्रेणी.व्याल.मृग.अटवी.हीनः कान्तः सीता.खनि.द्रव्य.हस्ति.वनवान् गव्यः पौरुषेयो गुप्त.गोचरः पशुमान् अदेव.मातृको वारि.स्थल.पथाभ्याम् उपेतः सार.चित्र.बहु.पण्यो दण्ड.कर.सहः कर्म.शील.कर्षको_अबालिश.स्वाम्य्.अवर.वर्ण.प्रायो भक्त.शुचि.मनुष्य इति जन.पद.सम्पत् ॥

अशा-०६.१.०९
दुर्ग.सम्पद् उक्ता पुरस्तात् ॥

अशा-०६.१.१०
धर्म.अधिगतः पूर्वैः स्वयं वा हेम.रूप्य.प्रायश् चित्र.स्थूल.रत्न.हिरण्यो दीर्घाम् अप्य् आपदम् अनायतिं सहेत_इति कोश.सम्पत् ॥

अशा-०६.१.११
पितृ.पैतामहो नित्यो वश्यस् तुष्ट.भृत.पुत्र.दारः प्रवासेष्व् अविसंवादितः सर्वत्र_अप्रतिहतो दुःख.सहो बहु.युद्धः सर्व.युद्ध.प्रहरण.विद्या.विशारदः सह.वृद्धि.क्षयिकत्वाद् अद्वैध्यः क्षत्र.प्राय इति दण्ड.सम्पत् ॥

अशा-०६.१.१२
पितृ.पैतामहं नित्यं वश्यम् अद्वैध्यं महल्.लघु.समुत्थम् इति मित्र.सम्पत् ॥

अशा-०६.१.१३
अराज.बीजी लुब्धः क्षुद्र.परिषत्को विरक्त.प्रकृतिर् अन्याय.वृत्तिर् अयुक्तो व्यसनी निरुत्साहो दैव.प्रमाणो यत्.किंचन.कार्य.गतिर् अननुबन्धः क्लीबो नित्य.अपकारी च_इत्य् अमित्र.सम्पत् ॥

अशा-०६.१.१४
एवं.भूतो हि शत्रुः सुखः समुच्छेत्तुं भवति ॥

अशा-०६.१.१५कख’’’
अरि.वर्जाः प्रकृतयः सप्त_एताः स्व.गुण.उदयाः ।


अशा-०६.१.१५गघ’’’
उक्ताः प्रत्यङ्ग.भूतास् ताः प्रकृता राज.सम्पदः ॥


अशा-०६.१.१६कख’’’
सम्पादयत्य् असम्पन्नाः प्रकृतीर् आत्मवान् नृपः ।


अशा-०६.१.१६गघ’’’
विवृद्धाश् च_अनुरक्ताश् च प्रकृतीर् हन्त्य् अनात्मवान् ॥


अशा-०६.१.१७कख’’’
ततः स दुष्ट.प्रकृतिश् चातुरन्तो_अप्य् अनात्मवान् ।


अशा-०६.१.१७गघ’’’
हन्यते वा प्रकृतिभिर् याति वा द्विषतां वशम् ॥


अशा-०६.१.१८कख’’’
आत्मवांस् त्व् अल्प.देशो_अपि युक्तः प्रकृति.सम्पदा ।


अशा-०६.१.१८च्द्/नयज्ञः पृथिवीं कृत्स्नां जयत्य् एव न हीयते ॥

(शम.व्यायामिकम्)

अशा-०६.२.०१
शम.व्यायामौ योग.क्षेमयोर् योनिः ॥

अशा-०६.२.०२
कर्म.आरम्भाणां योग.आराधनो व्यायामः ॥

अशा-०६.२.०३
कर्म.फल.उपभोगानां क्षेम.आराधनः शमः ॥

अशा-०६.२.०४
शम.व्यायामयोर् योनिः षाड्गुण्यम् ॥

अशा-०६.२.०५
क्षयः स्थानं वृद्धिर् इत्य् उदयास् तस्य ॥

अशा-०६.२.०६
मानुषं नय.अपनयौ, दैवम् अय.अनयौ ॥

अशा-०६.२.०७
दैव.मानुषं हि कर्म लोकं यापयति ॥

अशा-०६.२.०८
अदृष्ट.कारितं दैवम् ॥

अशा-०६.२.०९
तस्मिन्न् इष्टेन फलेन योगो_अयः, अनिष्टेन_अनयः ॥

अशा-०६.२.१०
दृष्ट.कारितं मानुषम् ॥

अशा-०६.२.११
तस्मिन् योग.क्षेम.निष्पत्तिर् नयः, विपत्तिर् अपनयः ॥

अशा-०६.२.१२
तच् चिन्त्यम्, अचिन्त्यं दैवम् ॥

अशा-०६.२.१३
राजा आत्म.द्रव्य.प्रकृति.सम्पन्नो नयस्य_अधिष्ठानं विजिगीषुः ॥

अशा-०६.२.१४
तस्य समन्ततो मण्डली.भूता भूम्य्.अनन्तरा अरि.प्रकृतिः ॥

अशा-०६.२.१५
तथा_एव भूम्य्.एक.अन्तरा मित्र.प्रकृतिः ॥

अशा-०६.२.१६
अरि.सम्पद्.युक्तः सामन्तः शत्रुः, व्यसनी यातव्यः, अनपाश्रयो दुर्बल.आश्रयो वा_उच्छेदनीयः, विपर्यये पीडनीयः कर्शनीयो वा ॥

अशा-०६.२.१७
इत्य् अरि.विशेषाः ॥

अशा-०६.२.१८
तस्मान् मित्रम् अरि.मित्रं मित्र.मित्रम् अरि.मित्र.मित्रं च_आनन्तर्येण भूमीनां प्रसज्यन्ते पुरस्तात्, पश्चात् पार्ष्णि.ग्राह आक्रन्दः पार्ष्णि.ग्राह.आसार आक्रन्द.आसारः ॥

अशा-०६.२.१९
भूम्य्.अनन्तरः प्रकृति.मित्रः, तुल्य.अभिजनः सहजः, विरुद्धो विरोधयिता वा कृत्रिमः ॥

अशा-०६.२.२०
भूम्य्.एक.अन्तरं प्रकृति.मित्रम्, माता.पितृ.सम्बद्धं सहजम्, धन.जीवित.हेतोर् आश्रितं कृत्रिमम् ॥

अशा-०६.२.२१
अरि.विजिगीष्वोर् भूम्य्.अनन्तरः संहत.असंहतयोर् अनुग्रह.समर्थो निग्रहे च_असंहतयोर् मध्यमः ॥

अशा-०६.२.२२
अरि.विजिगीषु.मध्यानां बहिः प्रकृतिभ्यो बलवत्तरः संहत.असंहतानाम् अरि.विजिगीषु.मध्यमानाम् अनुग्रह.समर्थो निग्रहे च_असंहतानाम् उदासीनः ॥

अशा-०६.२.२३
इति प्रकृतयः ॥

अशा-०६.२.२४
विजिगीषुर् मित्रं मित्र.मित्रं वा_अस्य प्रकृतयस् तिस्रः ॥

अशा-०६.२.२५
ताः पञ्चभिर् अमात्य.जन.पद.दुर्ग.कोश.दण्ड.प्रकृतिभिर् एक.एकशः सम्युक्ता मण्डलम् अष्टादशकं भवति ॥

अशा-०६.२.२६
अनेन मण्डल.पृथक्त्वं व्याख्यातम् अरि.मध्यम.उदासीनानाम् ॥

अशा-०६.२.२७
एवं चतुर्.मण्डल.संक्षेपः ॥

अशा-०६.२.२८
द्वादश राज.प्रकृतयः षष्टिर् द्रव्य.प्रकृतयः, संक्षेपेण द्वि.सप्ततिः ॥

अशा-०६.२.२९
तासां यथा.स्वं सम्पदः ॥

अशा-०६.२.३०
शक्तिः सिद्धिश् च ॥

अशा-०६.२.३१
बलं शक्तिः ॥

अशा-०६.२.३२
सुखं सिद्धिः ॥

अशा-०६.२.३३
शक्तिस् त्रिविधा - ज्ञान.बलं मन्त्र.शक्तिः, कोश.दण्ड.बलं प्रभु.शक्तिः, विक्रम.बलम् उत्साह.शक्तिः ॥

अशा-०६.२.३४
एवं सिद्धिस् त्रिविधा_एव - मन्त्र.शक्ति.साध्या मन्त्र.सिद्धिः, प्रभु.शक्ति.साध्या प्रभु.सिद्धिः, उत्साह.शक्ति.साध्या उत्साह.सिद्धिः ॥

अशा-०६.२.३५
ताभिर् अभ्युच्चितो ज्यायान् भवति, अपचितो हीनः, तुल्य.शक्तिः समः ॥

अशा-०६.२.३६
तस्मात्_शक्तिं सिद्धिं च घटेत_आत्मन्य् आवेशयितुम्, साधारणो वा द्रव्य.प्रकृतिष्व् आनन्तर्येण शौच.वशेन वा ॥

अशा-०६.२.३७
दूष्य.अमित्राभ्यां वा_अपक्रष्टुं यतेत ॥

अशा-०६.२.३८
यदि वा पश्येत् "अमित्रो मे शक्ति.युक्तो वाग्.दण्ड.पारुष्य.अर्थ.दूषणैः प्रकृतीर् उपहनिष्यति, सिद्धि.युक्तो वा मृगया.द्यूत.मद्य.स्त्रीभिः प्रमादं गमिष्यति, स विरक्त.प्रकृतिर् उपक्षीणः प्रमत्तो वा साध्यो मे भविष्यति, विग्रह.अभियुक्तो वा सर्व.संदोहेन_एकस्थो_अदुर्गस्थो वा स्थास्यति, स संहत.सैन्यो मित्र.दुर्ग.वियुक्तः साध्यो मे भविष्यति, "बलवान् वा राजा परतः शत्रुम् उच्छेत्तु.कामः तम् उच्छिद्य माम् उच्छिन्द्याद्" इति बलवता प्रार्थितस्य मे विपन्न.कर्म.आरम्भस्य वा साहाय्यं दास्यति", मध्यम.लिप्सायां च, इत्य् एवं.आदिषु कारणेष्व् अमित्रस्य_अपि शक्तिं सिद्धिं च_इच्छेत् ॥

अशा-०६.२.३९कख’’’
नेमिम् एक.अन्तरान् राज्ञः कृत्वा च_अनन्तरान् अरान् ।


अशा-०६.२.३९गघ’’’
नाभिम् आत्मानम् आयच्छेन् नेता प्रकृति.मण्डले ॥


अशा-०६.२.४०कख’’’
मध्ये ह्य् उपहितः शत्रुर् नेतुर् मित्रस्य च_उभयोः ।


अशा-०६.२.४०गघ’’’
उच्छेद्यः पीडनीयो वा बलवान् अपि जायते ॥