अर्थशास्त्रम् अध्याय 07
(षाड्गुण्य.समुद्देशः - क्षय.स्थान.वृद्धि.निश्चयह्)
अशा-०७.१.०१
षाड्गुण्यस्य प्रकृति.मण्डलं योनिः ॥
अशा-०७.१.०२
"संधि.विग्रह.आसन.यान.संश्रय.द्वैधी.भावाः षाड्गुण्यम्" इत्य् आचार्याः ॥
अशा-०७.१.०३
"द्वैगुण्यम्" इति वात.व्याधिः ॥
अशा-०७.१.०४
"संधि.विग्रहाभ्यां हि षाड्गुण्यं सम्पद्यते" इति ॥
अशा-०७.१.०५
षाड्गुण्यम् एव_एतद् अवस्था.भेदाद् इति कौटिल्यः ॥
अशा-०७.१.०६
तत्र पण.बन्धः संधिः ॥
अशा-०७.१.०७
अपकारो विग्रहः ॥
अशा-०७.१.०८
उपेक्षणम् आसनम् ॥
अशा-०७.१.०९
अभ्युच्चयो यानम् ॥
अशा-०७.१.१०
पर.अर्पणं संश्रयः ॥
अशा-०७.१.११
संधि.विग्रह.उपादानं द्वैधी.भावः ॥
अशा-०७.१.१२
इति षड्.गुणाः ॥
अशा-०७.१.१३
परस्माद्द् हीयमानः संदधीत ॥
अशा-०७.१.१४
अभ्युच्चीयमानो विगृह्णीयात् ॥
अशा-०७.१.१५
"न मां परो न_अहं परम् उपहन्तुं शक्तः" इत्य् आसीत ॥
अशा-०७.१.१६
गुण.अतिशय.युक्तो यायात् ॥
अशा-०७.१.१७
शक्ति.हीनः संश्रयेत ॥
अशा-०७.१.१८
सहाय.साध्ये कार्ये द्वैधीभावं गच्छेत् ॥
अशा-०७.१.१९
इति गुण.अवस्थापनम् ॥
अशा-०७.१.२०
तेषां यस्मिन् वा गुणे स्थितः पश्येत् "इह.स्थः शक्ष्यामि दुर्ग.सेतु.कर्म.वणिक्.पथ.शून्य.निवेश.खनि.द्रव्य.हस्ति.वन.कर्माण्य् आत्मनः प्रवर्तयितुम्, परस्य च_एतानि कर्माण्य् उपहन्तुम्" इति तम् आतिष्ठेत् ॥
अशा-०७.१.२१
सा वृद्धिः ॥
अशा-०७.१.२२
"आशुतरा मे वृद्धिर् भूयस्तरा वृद्ध्य्.उदयतरा वा भविष्यति, विपरीता परस्य" इति ज्ञात्वा पर.वृद्धिम् उपेक्षेत ॥
अशा-०७.१.२३
तुल्य.काल.फल.उदयायां वा वृद्धौ संधिम् उपेयात् ॥
अशा-०७.१.२४
यस्मिन् वा गुणे स्थितः स्व.कर्मणाम् उपघातं पश्येन् न_इतरस्य तस्मिन् न तिष्ठेत् ॥
अशा-०७.१.२५
एष क्षयः ॥
अशा-०७.१.२६
"चिरतरेण_अल्पतरं वृद्ध्य्.उदयतरं वा क्षेष्ये, विपरीतं परः" इति ज्ञात्वा क्षयम् उपेक्षेत ॥
अशा-०७.१.२७
तुल्य.काल.फल.उदये वा क्षये संधिम् उपेयात् ॥
अशा-०७.१.२८
यस्मिन् वा गुणे स्थितः स्व.कर्म.वृद्धिं क्षयं वा न_अभिपश्येद् एतत्.स्थानम् ॥
अशा-०७.१.२९
"ह्रस्वतरं वृद्ध्य्.उदयतरं वा स्थास्यामि, विपरीतं परः" इति ज्ञात्वा स्थानम् उपेक्षेत ॥
अशा-०७.१.३०
"तुल्य.काल.फल.उदये वा स्थाने संधिम् उपेयाद्" इत्य् आचार्याः ॥
अशा-०७.१.३१
न_एतद् विभाषितम् इति कौटिल्यः ॥
अशा-०७.१.३२क
यदि वा पश्येत् "सन्धौ स्थितो महा.फलैः स्व.कर्मभिः पर.कर्माण्य् उपहनिष्यामि, महा.फलानि वा स्व.कर्माण्य् उपभोक्ष्ये, पर.कर्माणि वा, संधि.विश्वासेन वा योग.उपनिषत्.प्रणिधिभिः पर.कर्माण्य् उपहनिष्यामि, सुखं वा स.अनुग्रह.परिहार.सौकर्यं फल.लाभ.भूयस्त्वेन स्व.कर्मणां पर.कर्म.योग.आवहं जनम् आस्रावयिष्यामि - ॥
अशा-०७.१.३२ख
बलिना_अतिमात्रेण वा संहितः परः स्व.कर्म.उपघातं प्राप्स्यति, येन वा विगृहीतो मया.संधत्ते तेन_अस्य विग्रहं दीर्घं करिष्यामि, मया वा संहितस्य मद्.द्वेषिणो जन.पदं पीडयिष्यति - ॥
अशा-०७.१.३२ग
पर.उपहतो वा_अस्य जन.पदो माम् आगमिष्यति, ततः कर्मसु वृद्धिं प्राप्स्यामि, विपन्न.कर्म.आरम्भो वा विषमस्थः परः कर्मसु न मे विक्रमेत - ॥
अशा-०७.१.३२घ
परतः प्रवृत्त.कर्म.आरम्भो वा ताभ्यां संहितः कर्मसु वृद्धिं प्राप्स्यामि, शत्रु.प्रतिबद्धं वा शत्रुणा संधिं कृत्वा मण्डलं भेत्स्यामि - ॥
अशा-०७.१.३२च
भिन्नम् अवाप्स्यामि, दण्ड.अनुग्रहेण वा शत्रुम् उपगृह्य मण्डल.लिप्सायां विद्वेषं ग्राहयिष्यामि, विद्विष्टं तेन_एव घातयिष्यामि" इति संधिना वृद्धिम् आतिष्ठेत् ॥
अशा-०७.१.३३क
यदि वा पश्येत् "आयुधीय.प्रायः श्रेणी.प्रायो वा मे जन.पदः शैल.वन.नदी.दुर्ग.एक.द्वार.आरक्षो वा शक्ष्यति पर.अभियोगं प्रतिहन्तुम्, विषय.अन्ते दुर्गम् अविषह्यम् अपाश्रितो वा शक्ष्यामि पर.कर्माण्य् उपहन्तुं - ॥
अशा-०७.१.३३ख
व्यसन.पीड.उपहत.उत्साहो वा परः सम्प्राप्त.कर्म.उपघात.कालः, विगृहीतस्य_अन्यतो वा शक्ष्यामि जन.पदम् अपवाहयितुम्" इति विग्रहे स्थितो वृद्धिम् आतिष्ठेत् ॥
अशा-०७.१.३४
यदि वा मन्येत "न मे शक्तः परः कर्माण्य् उपहन्तुं न_अहं तस्य कर्म.उपघाती वा, व्यसनम् अस्य, श्व.वराहयोर् इव कलहे वा, स्व.कर्म.अनुष्ठान.परो वा वर्धिष्ये" इत्य् आसनेन वृद्धिम् आतिष्ठेत् ॥
अशा-०७.१.३५
यदि वा मन्येत "यान.साध्यः कर्म.उपघातः शत्रोः, प्रतिविहित.स्व.कर्म.आरक्षश् च_अस्मि" इति यानेन वृद्धिम् आतिष्ठेत् ॥
अशा-०७.१.३६
यदि वा मन्येत "न_अस्मि शक्तः पर.कर्माण्य् उपहन्तुम्, स्व.कर्म.उपघातं वा त्रातुम्" इति, बलवन्तम् आश्रितः स्व.कर्म.अनुष्ठानेन क्षयात् स्थानं स्थानाद् वृद्धिं च_आकाङ्क्षेत ॥
अशा-०७.१.३७
यदि वा मन्येत "संधिना_एकतः स्व.कर्माणि प्रवर्तयिष्यामि, विग्रहेण_एकतः पर.कर्माण्य् उपहनिष्यामि" इति द्वैधी.भावेन वृद्धिम् आतिष्ठेत् ॥
अशा-०७.१.३८कख’’’
एवं षड्भिर् गुणैर् एतैः स्थितः प्रकृति.मण्डले ।
अशा-०७.१.३८गघ’’’
पर्येषेत क्षयात् स्थानं स्थानाद् वृद्धिं च कर्मसु ॥
(संश्रय.वृत्ति)
अशा-०७.२.०१
संधि.विग्रहयोस् तुल्यायां वृद्धौ संधिम् उपेयात् ॥
अशा-०७.२.०२
विग्रहे हि क्षय.व्यय.प्रवास.प्रत्यवाया भवन्ति ॥
अशा-०७.२.०३
तेन_आसन.यानयोर् आसनं व्याख्यातम् ॥
अशा-०७.२.०४
द्वैधी.भाव.संश्रययोर् द्वैधी.भावं गच्छेत् ॥
अशा-०७.२.०५
द्वैधी.भूतो हि स्व.कर्म.प्रधान आत्मन एव_उपकरोति, संश्रितस् तु परस्य_उपकरोति, न_आत्मनः ॥
अशा-०७.२.०६
यद्.बलः सामन्तस् तद्.विशिष्ट.बलम् आश्रयेत् ॥
अशा-०७.२.०७
तद्.विशिष्ट.बल.अभावे तम् एव_आश्रितः कोश.दण्ड.भूमीनाम् अन्यतमेन_अस्य_उपकर्तुम् अदृष्टः प्रयतेत ॥
अशा-०७.२.०८
महा.दोषो हि विशिष्ट.बल.समागमो राज्ञाम्, अन्यत्र_अरि.विगृहीतात् ॥
अशा-०७.२.०९
अशक्ये दण्ड.उपनतवद् वर्तेत ॥
अशा-०७.२.१०
यदा च_अस्य प्राण.हरं व्याधिम् अन्तः.कोपं शत्रु.वृद्धिं मित्र.व्यसनम् उपस्थितं वा तन्.निमित्ताम् आत्मनश् च वृद्धिं पश्येत् तदा सम्भाव्य.व्याधि.धर्म.कार्य.अपदेशेन_अपयायात् ॥
अशा-०७.२.११
स्व.विषयस्थो वा न_उपगच्छेत् ॥
अशा-०७.२.१२
आसन्नो वा_अस्य च्छिद्रेषु प्रहरेत् ॥
अशा-०७.२.१३
बलीयसोर् वा मध्य.गतस् त्राण.समर्थम् आश्रयेत, यस्य वा_अन्तर्धिः स्यात्, उभौ वा ॥
अशा-०७.२.१४
कपाल.संश्रयस् तिष्ठेत्, मूल.हरम् इतरस्य_इतरम् अपदिशन् ॥
अशा-०७.२.१५
भेदम् उभयोर् वा परस्पर.अपदेशं प्रयुञ्जीत, भिन्नयोर् उपांशु.दण्डम् ॥
अशा-०७.२.१६
पार्श्वस्थो वा बलस्थयोर् आसन्न.भयात् प्रतिकुर्वीत ॥
अशा-०७.२.१७
दुर्ग.अपाश्रयो वा द्वैधी.भूतस् तिष्ठेत् ॥
अशा-०७.२.१८
संधि.विग्रह.क्रम.हेतुभिर् वा चेष्टेत ॥
अशा-०७.२.१९
दूष्य.अमित्र.आटविकान् उभयोर् उपगृह्णीयात् ॥
अशा-०७.२.२०
एतयोर् अन्यतरं गच्छंस् तैर् एव_अन्यतरस्य व्यसने प्रहरेत् ॥
अशा-०७.२.२१
द्वाभ्याम् उपहतो वा मण्डल.अपाश्रयस् तिष्ठेत्, मध्यमम् उदासीनं वा संश्रयेत ॥
अशा-०७.२.२२
तेन सह_एकम् उपगृह्य_इतरम् उच्छिन्द्याद्, उभौ वा ॥
अशा-०७.२.२३
द्वाभ्याम् उच्छिन्नो वा मध्यम.उदासीनयोस् तत्.पक्षीयाणां वा राज्ञां न्याय.वृत्तिम् आश्रयेत ॥
अशा-०७.२.२४
तुल्यानां वा यस्य प्रकृतयः सुख्येयुर् एनम्, यत्रस्थो वा शक्नुयाद् आत्मानम् उद्धर्तुम्, यत्र वा पूर्व.पुरुष.उचिता गतिर् आसन्नः सम्बन्धो वा, मित्राणि भूयांस्य् अतिशक्तिमन्ति वा भवेयुः ॥
अशा-०७.२.२५कख’’’
प्रियो यस्य भवेद् यो वा प्रियो_अस्य कतरस् तयोः ।
अशा-०७.२.२५गघ’’’
प्रियो यस्य स तं गच्छेद् इत्य् आश्रय.गतिः परा ॥
(सम.हीन.ज्यायसां गुण.अभिनिवेशः - हीन.संधयह्)
अशा-०७.३.०१
विजिगीषुः शक्त्य्.अपेक्षः षाड्गुण्यम् उपयुञ्जीत ॥
अशा-०७.३.०२
सम.ज्यायोभ्यां संधीयेत, हीनेन विगृह्णीयात् ॥
अशा-०७.३.०३
विगृहीतो हि ज्यायसा हस्तिना पाद.युद्धम् इव_अभ्युपैति ॥
अशा-०७.३.०४
समेन च_आमं पात्रम् आमेन_अहतम् इव_उभयतः क्षयं करोति ॥
अशा-०७.३.०५
कुम्भेन_इव_अश्मा हीनेन_एक.अन्त.सिद्धिम् अवाप्नोति ॥
अशा-०७.३.०६
ज्यायांश् चेन् न संधिम् इच्छेद् दण्ड.उपनत.वृत्तम् आबलीयसं वा योगम् आतिष्ठेत् ॥
अशा-०७.३.०७
समश् चेन् न संधिम् इच्छेद् यावन्.मात्रम् अपकुर्यात् तावन्.मात्रम् अस्य प्रत्यपकुर्यात् ॥
अशा-०७.३.०८
तेजो हि संधान.कारणम् ॥
अशा-०७.३.०९
न_अतप्तं लोहं लोहेन संधत्त इति ॥
अशा-०७.३.१०
हीनश् चेत् सर्वत्र_अनुप्रणतस् तिष्ठेत् संधिम् उपेयात् ॥
अशा-०७.३.११
आरण्यो_अग्निर् इव हि दुःख.अमर्षजं तेजो विक्रमयति ॥
अशा-०७.३.१२
मण्डलस्य च_अनुग्राह्यो भवति ॥
अशा-०७.३.१३
संहितश् चेत् "पर.प्रकृतयो लुब्ध.क्षीण.अपचरिताः प्रत्यादान.भयाद् वा न_उपगच्छन्ति" इति पश्येद्द् हीनो_अपि विगृह्णीयात् ॥
अशा-०७.३.१४
विगृहीतश् चेत् "पर.प्रकृतयो लुब्ध.क्षीण.अपचरिता विग्रह.उद्विग्ना वा मां न_उपगच्छन्ति" इति पश्येज् ज्यायान् अपि संधीयेत, विग्रह.उद्वेगं वा शमयेत् ॥
अशा-०७.३.१५
व्यसन.यौगपद्ये_अपि "गुरु.व्यसनो_अस्मि, लघु.व्यसनः परः सुखेन प्रतिकृत्य व्यसनम् आत्मनो_अभियुञ्ज्याद्" इति पश्येज् ज्यायान् अपि संधीयेत ॥
अशा-०७.३.१६
संधि.विग्रहयोश् चेत् पर.कर्शनम् आत्म.उपचयं वा न_अभिपश्येज् ज्यायान् अप्य् आसीत ॥
अशा-०७.३.१७
पर.व्यसनम् अप्रतिकार्यं चेत् पश्येद्द् हीनो_अप्य् अभियायात् ॥
अशा-०७.३.१८
अप्रतिकार्य.आसन्न.व्यसनो वा ज्यायान् अपि संश्रयेत ॥
अशा-०७.३.१९
संधिना_एकतो विग्रहेण_एकतश् चेत् कार्य.सिद्धिं पश्येज् ज्यायान् अपि द्वैधी.भूतस् तिष्ठेत् ॥
अशा-०७.३.२०
एवं समस्य षाड्गुण्य.उपयोगः ॥
अशा-०७.३.२१
तत्र तु प्रतिविशेषः ॥
अशा-०७.३.२२कख’’’
प्रवृत्त.चक्रेण_आक्रान्तो राज्ञा बलवता_अबलः ।
अशा-०७.३.२२गघ’’’
संधिना_उपनमेत् तूर्णं कोश.दण्ड.आत्म.भूमिभिः ॥
अशा-०७.३.२३कख’’’
स्वयं संख्यात.दण्डेन दण्डस्य विभवेन वा ।
अशा-०७.३.२३गघ’’’
उपस्थातव्यम् इत्य् एष संधिर् आत्म.आमिषो मतः ॥
अशा-०७.३.२४कख’’’
सेना.पति.कुमाराभ्याम् उपस्थातव्यम् इत्य् अयम् ।
अशा-०७.३.२४गघ’’’
पुरुष.अन्तर.संधिः स्यान् न_आत्मना_इत्य् आत्म.रक्षणः ॥
अशा-०७.३.२५कख’’’
एकेन_अन्यत्र यातव्यं स्वयं दण्डेन वा_इत्य् अयम् ।
अशा-०७.३.२५गघ’’’
अदृष्ट.पुरुषः संधिर् दण्ड.मुख्य.आत्म.रक्षणः ॥
अशा-०७.३.२६कख’’’
मुख्य.स्त्री.बन्धनं कुर्यात् पूर्वयोः पश्चिमे त्व् अरिम् ।
अशा-०७.३.२६गघ’’’
साधयेद् गूढम् इत्य् एते दण्ड.उपनत.संधयः ॥
अशा-०७.३.२७कख’’’
कोश.दानेन शेषाणां प्रकृतीनां विमोक्षणम् ।
अशा-०७.३.२७गघ’’’
परिक्रयो भवेत् संधिः स एव च यथा.सुखम् ॥
अशा-०७.३.२८कख’’’
स्कन्ध.उपनेयो बहुधा ज्ञेयः संधिर् उपग्रहः ।
अशा-०७.३.२८गघ’’’
निरुद्धो देश.कालाभ्याम् अत्ययः स्याद् उपग्रहः ॥
अशा-०७.३.२९कख’’’
विषह्य.दानाद् आयत्यां क्षमः स्त्री.बन्धनाद् अपि ।
अशा-०७.३.२९गघ’’’
सुवर्ण.संधिर् विश्वासाद् एकी.भाव.गतो भवेत् ॥
अशा-०७.३.३०कख’’’
विपरीतः कपालः स्याद् अत्यादान.अभिभाषितः ।
अशा-०७.३.३०गघ’’’
पूर्वयोः प्रणयेत् कुप्यं हस्त्य्.अश्वं वा गर.अन्वितम् ॥
अशा-०७.३.३१कख’’’
तृतीये प्रणयेद् अर्थं कथयन् कर्मणां क्षयम् ।
अशा-०७.३.३१गघ’’’
तिष्ठेच् चतुर्थ इत्य् एते कोश.उपनत.संधयः ॥
अशा-०७.३.३२कख’’’
भूम्य्.एक.देश.त्यागेन शेष.प्रकृति.रक्षणम् ।
अशा-०७.३.३२गघ’’’
आदिष्ट.संधिस् तत्र_इष्टो गूढ.स्तेन.उपघातिनः ॥
अशा-०७.३.३३कख’’’
भूमीनाम् आत्त.साराणां मूल.वर्जं प्रणामनम् ।
अशा-०७.३.३३गघ’’’
उच्छिन्न.संधिस् तत्र_इष्टः पर.व्यसन.काङ्क्षिणः ॥
अशा-०७.३.३४कख’’’
फल.दानेन भूमीनां मोक्षणं स्याद् अवक्रयः ।
अशा-०७.३.३४गघ’’’
फल.अतिमुक्तो भूमिभ्यः संधिः स परिदूषणः ॥
अशा-०७.३.३५कख’’’
कुर्याद् अवेक्षणं पूर्वौ पश्चिमौ त्व् आबलीयसम् ।
अशा-०७.३.३५गघ’’’
आदाय फलम् इत्य् एते देश.उपनत.संधयः ॥
अशा-०७.३.३६कख’’’
स्व.कार्याणां वशेन_एते देशे काले च भाषिताः ।
अशा-०७.३.३६गघ’’’
आबलीयसिकाः कार्यास् त्रिविधा हीन.संधयः ॥
(विगृह्य.आसनं - संधाय.आसनं - विगृह्य.यानं - संधाय.यानं - सम्भूय.प्रयाणम्)
अशा-०७.४.०१
संधि.विग्रहयोर् आसनं यानं च व्याख्यातम् ॥
अशा-०७.४.०२
स्थानम् आसनम् उपेक्षणं च_इत्य् आसन.पर्यायाः ॥
अशा-०७.४.०३
विशेषस् तु - गुण.एकदेशे स्थानम्, स्व.वृद्धि.प्राप्त्य्.अर्थम् आसनम्, उपायानाम् अप्रयोग उपेक्षणम् ॥
अशा-०७.४.०४
अतिसंधान.कामयोर् अरि.विजिगीष्वोर् उपहन्तुम् अशक्तयोर् विगृह्य_आसनं संधाय वा ॥
अशा-०७.४.०५
यदा वा पश्येत् "स्व.दण्डैर् मित्र.अटवी.दण्डैर् वा समं ज्यायांसं वा कर्शयितुम् उत्सहे" इति तदा कृत.बाह्य.अभ्यन्तर.कृत्यो विगृह्य_आसीत ॥
अशा-०७.४.०६
यदा वा पश्येत् "उत्साह.युक्ता मे प्रकृतयः संहता विवृद्धाः स्व.कर्माण्य् अव्याहताश् चरिष्यन्ति परस्य वा कर्माण्य् उपहनिष्यन्ति" इति तदा विगृह्य_आसीत ॥
अशा-०७.४.०७क
यदा वा पश्येत् "परस्य_अपचरिताः क्षीणा लुब्धाः स्व.चक्र.स्तेन.अटवी.व्यथिता वा प्रकृतयः स्वयम् उपजापेन वा माम् एष्यन्ति, सम्पन्ना मे वार्त्ता, विपन्ना परस्य, तस्य प्रकृतयो दुर्भिक्ष.उपहता माम् एष्यन्ति॑ विपन्ना मे वार्त्ता, सम्पन्ना परस्य, - ॥
अशा-०७.४.०७ख
तं मे प्रकृतयो न गमिष्यन्ति, विगृह्य च_अस्य धान्य.पशु.हिरण्यान्य् आहरिष्यामि, स्व.पण्य.उपघातीनि वा पर.पण्यानि निवर्तयिष्यामि, - ॥
अशा-०७.४.०७ग
पर.वणिक्.पथाद् वा सरवन्ति माम् एष्यन्ति विगृहीते, न_इतरम्, दूष्य.अमित्र.अटवी.निग्रहं वा विगृहीतो न करिष्यति, तैर् एव वा विग्रहं प्राप्स्यति, - ॥
अशा-०७.४.०७घ
मित्रं मे मित्र.भाव्य् अभिप्रयातो बह्व्.अल्प.कालं तनु.क्षय.व्ययम् अर्थं प्राप्स्यति, गुणवतीम् आदेयां वा भूमिम्, - ॥
अशा-०७.४.०७च
सर्व.संदोहेन वा माम् अनादृत्य प्रयातु.कामः कथं न यायाद्" इति पर.वृद्धि.प्रतिघात.अर्थं प्रताप.अर्थं च विगृह्य_आसीत ॥
अशा-०७.४.०८
"तम् एव हि प्रत्यावृत्तो ग्रसते" इत्य् आचार्याः ॥
अशा-०७.४.०९
न_इति कौटिल्यः ॥
अशा-०७.४.१०
कर्शन.मात्रम् अस्य कुर्याद् अव्यसनिनः, पर.वृद्ध्या तु वृद्धः समुच्छेदनम् ॥
अशा-०७.४.११
एवं परस्य यातव्यो_अस्मै साहाय्यम् अविनष्टः प्रयच्छेत् ॥
अशा-०७.४.१२
तस्मात् सर्व.संदोह.प्रकृतं विगृह्य_आसीत ॥
अशा-०७.४.१३
विगृह्य.आसन.हेतु.प्रातिलोम्ये संधाय_आसीत ॥
अशा-०७.४.१४
विगृह्य.आसन.हेतुभिर् अभ्युच्चितः सर्व.संदोह.वर्जं विगृह्य यायात् ॥
अशा-०७.४.१५
यदा वा पश्येत् "व्यसनी परः, प्रकृति.व्यसनं वा_अस्य शेएष.प्रकृतिभिर् अप्रतिकार्यम्, स्व.चक्र.पीडिता विरक्ता वा_अस्य प्रकृतयः कर्शिता निरुत्साहाः परस्पराद् वा भिन्नाः शक्या लोभयितुम्, अग्न्य्.उदक.व्याधि.मरक.दुर्भिक्ष.निमित्तं क्षीण.युग्य.पुरुष.निचय.रक्षा.विधानः परः" इति तदा विगृह्य यायात् ॥
अशा-०७.४.१६
यदा वा पश्येत् "मित्रम् आक्रन्दश् च मे शूर.वृद्ध.अनुरक्त.प्रकृतिः, विपरीत.प्रकृतिः परः पार्ष्णि.ग्राहश् च_आसारश् च, शक्ष्यामि मित्रेण_आसारम् आक्रन्देन पार्ष्णि.ग्राहं वा विगृह्य यातुम्" इति तदा विगृह्य यायात् ॥
अशा-०७.४.१७
यदा वा फलम् एक.हार्यम् अल्प.कालं पश्येत् तदा पार्ष्णि.ग्राह.आसाराभ्यां विगृह्य यायात् ॥
अशा-०७.४.१८
विपर्यये संधाय यायात् ॥
अशा-०७.४.१९
यदा वा पश्येत् "न शक्यम् एकेन यातुम् अवश्यं च यातव्यम्" इति तदा सम.हीन.ज्यायोभिः सामवायिकैः सम्भूय यायाद्, एकत्र निर्दिष्टेन_अंशेन, अनेकत्र_अनिर्दिष्टेन_अंशेन ॥
अशा-०७.४.२०
तेषाम् असमवाये दण्डम् अन्यतमस्मान् निविष्ट.अंशेन याचेत ॥
अशा-०७.४.२१
सम्भूय.अभिगमनेन वा निर्विश्येत, ध्रुवे लाभे निर्दिष्टेन_अंशेन, अध्रुवे लाभ.अंशेन ॥
अशा-०७.४.२२कख’’’
अंशो दण्ड.समः पूर्वः प्रयास.सम उत्तमः ।
अशा-०७.४.२२गघ’’’
विलोपो वा यथा.लाभं प्रक्षेप.सम एव वा ॥
(यातव्य.अमित्रयोर् अभिग्रह.चिन्ताः - क्षय.लोभ.विराग.हेतवः प्रकृतीनां - सामवायिक.विपरिमर्शह्)
अशा-०७.५.०१
तुल्य.सामन्त.व्यसने यातव्यम् अमित्रं वा_इत्य् अमित्रम् अभियायात्, तत्.सिद्धौ यातव्यम् ॥
अशा-०७.५.०२
अमित्र.सिद्धौ हि यातव्यः साहाय्यं दद्यान् न_अमित्रो यातव्य.सिद्धौ ॥
अशा-०७.५.०३
गुरु.व्यसनं यातव्यं लघु.व्यसनम् अमित्रं वा_इति "गुरु.व्यसनं सौकर्यतो यायाद्" इत्य् आचार्याः ॥
अशा-०७.५.०४
न_इति कौटिल्यः ॥
अशा-०७.५.०५
लघु.व्यसनम् अमित्रं यायात् ॥
अशा-०७.५.०६
लघ्व् अपि हि व्यसनम् अभियुक्तस्य कृच्छ्रं भवति ॥
अशा-०७.५.०७
सत्यं गुर्व् अपि गुरुतरं भवति ॥
अशा-०७.५.०८
अनभियुक्तस् तु लघु.व्यसनः सुखेन व्यसनं प्रतिकृत्य_अमित्रो यातव्यम् अभिसरेत्, पार्ष्णिं वा गृह्णीयात् ॥
अशा-०७.५.०९
यातव्य.यौगपद्ये गुरु.व्यसनं न्याय.वृत्तिं लघु.व्यसनम् अन्याय.वृत्तिं विरक्त.प्रकृतिं वा_इति विरक्त.प्रकृतिं यायात् ॥
अशा-०७.५.१०
गुरु.व्यसनं न्याय.वृत्तिम् अभियुक्तं प्रकृतयो_अनुगृह्णन्ति, लघु.व्यसनम् अन्याय.वृत्तिम् उपेक्षन्ते, विरक्ता बलवन्तम् अप्य् उच्छिन्दन्ति ॥
अशा-०७.५.११
तस्माद् विरक्त.प्रकृतिम् एव यायात् ॥
अशा-०७.५.१२
क्षीण.लुब्ध.प्रकृतिम् अपचरित.प्रकृतिं वा_इति क्षीण.लुब्ध.प्रकृतिं यायात्, क्षीण.लुब्धा हि प्रकृतयः सुखेन_उपजापं पीडां वा_उपगच्छन्ति, न_अपचरिताः प्रधान.अवग्रह.साध्याः" इत्य् आचार्याः ॥
अशा-०७.५.१३
न_इति कौटिल्यः ॥
अशा-०७.५.१४
क्षीण.लुब्धा हि प्रकृतयो भर्तरि स्निग्धा भर्तृ.हिते तिष्ठन्ति, उपजापं वा विसंवादयन्ति, अनुरागे सार्वगुण्यम् इति ॥
अशा-०७.५.१५
तस्माद् अपचरित.प्रकृतिम् एव यायात् ॥
अशा-०७.५.१६
बलवन्तम् अन्याय.वृत्तिं दुर्बलं वा न्याय.वृत्तिम् इति बलवन्तम् अन्याय.वृत्तिं यायात् ॥
अशा-०७.५.१७
बलवन्तम् अन्याय.वृत्तिम् अभियुक्तं प्रकृतयो न_अनुगृह्णन्ति, निष्पातयन्ति, अमित्रं वा_अस्य भजन्ते ॥
अशा-०७.५.१८
दुर्बलं तु न्याय.वृत्तिम् अभियुक्तं प्रकृतयः परिगृह्णन्ति, अनुनिष्पतन्ति वा ॥
अशा-०७.५.१९कख’’’
अवक्षेपेण हि सताम् असतां प्रग्रहेण च ।
अशा-०७.५.१९गघ’’’
अभूतानां च हिंसानाम् अधर्म्याणां प्रवर्तनैः ॥
अशा-०७.५.२०कख’’’
उचितानां चरित्राणां धर्मिष्ठानां निवर्तनैः ।
अशा-०७.५.२०गघ’’’
अधर्मस्य प्रसङ्गेन धर्मस्य_अवग्रहेण च ॥
अशा-०७.५.२१कख’’’
अकार्याणां च करणैः कार्याणां च प्रणाशनैः ।
अशा-०७.५.२१गघ’’’
अप्रदानैश् च देयानाम् अदेयानां च साधनैः ॥
अशा-०७.५.२२कख’’’
अदण्डनैश् च दण्ड्यानाम् अदण्ड्यानां च दण्डनैः ।
अशा-०७.५.२२गघ’’’
अग्राह्याणाम् उपग्राहैर् ग्राह्याणां च_अनभिग्रहैः ॥
अशा-०७.५.२३कख’’’
अनर्थ्यानां च करणैर् अर्थ्यानां च विघातनैः ।
अशा-०७.५.२३गघ’’’
अरक्षणैश् च चोरेभ्यः स्वयं च परिमोषणैः ॥
अशा-०७.५.२४कख’’’
पातैः पुरुष.काराणां कर्मणां गुण.दूषणैः ।
अशा-०७.५.२४गघ’’’
उपघातैः प्रधानानां मान्यानां च_अवमाननैः ॥
अशा-०७.५.२५कख’’’
विरोधनैश् च वृद्धानां वैषम्येण_अनृतेन च ।
अशा-०७.५.२५गघ’’’
कृतस्य_अप्रतिकारेण स्थितस्य_अकरणेन च ॥
अशा-०७.५.२६कख’’’
राज्ञः प्रमाद.आलस्याभ्यां योग.क्षेम.वधेन वा ।
अशा-०७.५.२६गघ’’’
प्रकृतीनां क्षयो लोभो वैराग्यं च_उपजायते ॥
अशा-०७.५.२७कख’’’
क्षीणाः प्रकृतयो लोभं लुब्धा यान्ति विरागताम् ।
अशा-०७.५.२७गघ’’’
विरक्ता यान्त्य् अमित्रं वा भर्तारं घ्नन्ति वा स्वयम् ॥
अशा-०७.५.२८
तस्मात् प्रकृतीनां क्षय.लोभ.विराग.कारणानि न_उत्पादयेत्, उत्पन्नानि वा सद्यः प्रतिकुर्वीत ॥
अशा-०७.५.२९
क्षीणा लुब्धा विरक्ता वा प्रकृतय इति ॥
अशा-०७.५.३०
क्षीणाः पीडन.उच्छेदन.भयात् सद्यः संधिं युद्धं निष्पतनं वा रोचयन्ते ॥
अशा-०७.५.३१
लुब्धा लोभेन_असंतुष्टाः पर.उपजापं लिप्सन्ते ॥
अशा-०७.५.३२
विरक्ताः पर.अभियोगम् अभ्युत्तिष्ठन्ते ॥
अशा-०७.५.३३
तासां हिरण्य.धान्य.क्षयः सर्व.उपघाती कृच्छ्र.प्रतीकारश् च, युग्य.पुरुष.क्षयो हिरण्य.धान्य.साध्यः ॥
अशा-०७.५.३४
लोभ ऐकदेशिको मुख्य.आयत्तः पर.अर्थेषु शक्यः प्रतिहन्तुम् आदातुं वा ॥
अशा-०७.५.३५
विरागः प्रधान.अवग्रह.साध्यः ॥
अशा-०७.५.३६
निष्प्रधाना हि प्रकृतयो भोग्या भवन्त्य् अनुपजाप्याश् च_अन्येषाम्, अनापत्.सहास् तु ॥
अशा-०७.५.३७
प्रकृति.मुख्य.प्रग्रहैस् तु बहुधा भिन्ना गुप्ता भवन्त्य् आपत्.सहाश् च ॥
अशा-०७.५.३८
सामवायिकानाम् अपि संधि.विग्रह.कारणान्य् अवेक्ष्य शक्ति.शौच.युक्तैः सम्भूय यायात् ॥
अशा-०७.५.३९
शक्तिमान् हि पार्ष्णि.ग्रहणे यात्रा.साहाय्य.दाने वा शक्तः, शुचिः सिद्धौ च_असिद्धौ च यथा.स्थित.कारी_इति ॥
अशा-०७.५.४०
तेषां ज्यायसा_एकेन द्वाभ्यां समाभ्यां वा सम्भूय यातव्यम् इति द्वाभ्यां समाभ्यां श्रेयः ॥
अशा-०७.५.४१
ज्यायसा ह्य् अवगृहीतश् चरति, समाभ्याम् अतिसंधान.आधिक्ये वा ॥
अशा-०७.५.४२
तौ हि सुखौ भेदयितुम्, दुष्टश् च_एको द्वाभ्यां नियन्तुं भेद.उपग्रहं च_उपगन्तुम् इति ॥
अशा-०७.५.४३
समेन_एकेन द्वाभ्यां हीनाभ्यां वा_इति द्वाभ्यां हीनाभ्यां श्रेयः ॥
अशा-०७.५.४४
तौ हि द्वि.कार्य.साधकौ वश्यौ च भवतः ॥
अशा-०७.५.४५कख’’’
कार्य.सिद्धौ तु - कृत.अर्थाज् ज्यायसो गूढः स.अपदेशम् अपस्रवेत् ।
अशा-०७.५.४५गघ’’’
अशुचेः शुचि.वृत्तात् तु प्रतीक्षेत_आ विसर्जनात् ॥
अशा-०७.५.४६कख’’’
सत्त्राद् अपसरेद् यत्तः कलत्रम् अपनीय वा ।
अशा-०७.५.४६गघ’’’
समाद् अपि हि लब्ध.अर्थाद् विश्वस् तस्य भयं भवेत् ॥
अशा-०७.५.४७कख’’’
ज्यायस्त्वे च_अपि लब्ध.अर्थः समो_अपि परिकल्पते ।
अशा-०७.५.४७गघ’’’
अभ्युच्चितश् च_अविश्वास्यो वृद्धिश् चित्त.विकारिणी ॥
अशा-०७.५.४८कख’’’
विशिष्टाद् अल्पम् अप्य् अंशं लब्ध्वा तुष्ट.मुखो व्रजेत् ।
अशा-०७.५.४८गघ’’’
अनंशो वा ततो_अस्य_अङ्के प्रहृत्य द्वि.गुणं हरेत् ॥
अशा-०७.५.४९कख’’’
कृत.अर्थस् तु स्वयं नेता विसृजेत् सामवायिकान् ।
अशा-०७.५.४९गघ’’’
अपि जीयेत न जयेन् मण्डल.इष्टस् तथा भवेत् ॥
(संहित.प्रयाणिकं - परिपणित.अपरिपणित.अपसृताः संधयह्)
अशा-०७.६.०१
विजिगीषुर् द्वितीयां प्रकृतिम् एवम् अतिसंदध्यात् ॥
अशा-०७.६.०२
सामन्तं संहित.प्रयाणे योजयेत् "त्वम् इतो याहि, अहम् इतो यास्यामि, समानो लाभः" इति ॥
अशा-०७.६.०३
लाभ.साम्ये संधिः, वैषम्ये विक्रमः ॥
अशा-०७.६.०४
संधिः परिपणितश् च_अपरिपणितश् च ॥
अशा-०७.६.०५
"त्वम् एतं देशं याहि, अहम् इमं देशं यास्यामि" इति परिपणित.देशः ॥
अशा-०७.६.०६
"त्वम् एतावन्तं कालं चेष्टस्व, अहम् एतावन्तं कालं चेष्टिष्ये" इति परिपणित.कालः ॥
अशा-०७.६.०७
"त्वम् एतावत्.कार्यं साधय, अहम् इदं कार्यं साधयिष्यामि" इति परिपणित.अर्थः ॥
अशा-०७.६.०८
यदि वा मन्येत "शैल.वन.नदी.दुर्गम् अटवी.व्यवहितं छिन्न.धान्य.पुरुष.वीवध.आसारम् अयवस.इन्धन.उदकम् अविज्ञातं प्रकृष्टम् अन्य.भाव.देशीयं वा सैन्य.व्यायामानाम् अलब्ध.भौमं वा देशं परो यास्यति, विपरीतम् अहम्" इत्य् एतस्मिन् विशेषे परिपणित.देशं संधिम् उपेयात् ॥
अशा-०७.६.०९
यदि वा मन्येत "प्रवर्ष.उष्ण.शीतम् अतिव्याधि.प्रायम् उपक्षीण.आहार.उपभोगं सैन्य.व्यायामानां च_औपरोधिकं कार्य.साधनानाम् ऊनम् अतिरिक्तं वा कालं परश् चेष्टिष्यते, विपरीतम् अहम्" इत्य् एतस्मिन् विशेषे परिपणित.कालं संधिम् उपेयात् ॥
अशा-०७.६.१०
यदि वा मन्येत "प्रत्यादेयं प्रकृति.कोपकं दीर्घ.कालं महा.क्षय.व्ययम् अल्पम् अनर्थ.अनुबन्धम् अकल्यम् अधर्म्यं मध्यम.उदासीन.विरुद्धं मित्र.उपघातकं वा कार्यं परः साधयिष्यति, विपरीतम् अहम्" इत्य् एतस्मिन् विशेषे परिपणित.अर्थं संधिम् उपेयात् ॥
अशा-०७.६.११
एवं देश.कालयोः काल.कार्ययोर् देश.कार्ययोर् देश.काल.कार्याणां च_अवस्थापनात् सप्त.विधः परिपणितः ॥
अशा-०७.६.१२
तस्मिन् प्राग् एव_आरभ्य प्रतिष्ठाप्य च स्व.कर्माणि पर.कर्मसु विक्रमेत ॥
अशा-०७.६.१३
व्यसन.त्वर.अवमान.आलस्य.युक्तम् अज्ञं वा शत्रुम् अतिसंधातु.कामो देश.काल.कार्याणाम् अनवस्थापनात् "संहितौ स्वः" इति संधि.विश्वासेन परच्.छिद्रम् आसाद्य प्रहरेद् इत्य् अपरिपणितः ॥
अशा-०७.६.१४
तत्र_एतद् भवति ॥
अशा-०७.६.१५कख’’’
सामन्तेन_एव सामन्तं विद्वान् आयोज्य विग्रहे ।
अशा-०७.६.१५गघ’’’
ततो_अन्यस्य हरेद् भूमिं छित्त्वा पक्षं समन्ततः ॥
अशा-०७.६.१६
संधेर् अकृत.चिकीर्षा कृत.श्लेषणं कृत.विदूषणम् अवशीर्ण.क्रिया च ॥
अशा-०७.६.१७
विक्रमस्य प्रकाश.युद्धं कूट.युद्धं तूष्णीं.युद्धम् ॥
अशा-०७.६.१८
इति संधि.विक्रमौ ॥
अशा-०७.६.१९
अपूर्वस्य संधेः स.अनुबन्धैः साम.आदिभिः पर्येषणं सम.हीन.ज्यायसां च यथा.बलम् अवस्थापनम् अकृत.चिकीर्षा ॥
अशा-०७.६.२०
कृतस्य प्रिय.हिताभ्याम् उभयतः परिपालनं यथा.सम्भाषितस्य च निबन्धनस्य_अनुवर्तनं रक्षणं च "कथं परस्मान् न भिद्येत" इति कृत.श्लेषणम् ॥
अशा-०७.६.२१
परस्य_अपसंधेयतां दूष्य.अतिसंधानेन स्थापयित्वा व्यतिक्रमः कृत.विदूषणम् ॥
अशा-०७.६.२२
भृत्येन मित्रेण वा दोष.अपसृतेन प्रतिसंधानम् अवशीर्ण.क्रिया ॥
अशा-०७.६.२३
तस्यां गत.आगतश् चतुर्.विधः - कारणाद् गत.आगतो, विपरीतः, कारणाद् गतो_अकारणाद् आगतो, विपरीतश् च_इति ॥
अशा-०७.६.२४
स्वामिनो दोषेण गतो गुणेन_आगतः परस्य गुणेन गतो दोषेण_आगत इति कारणाद् गत.आगतः संधेयः ॥
अशा-०७.६.२५
स्व.दोषेण गत.आगतो गुणम् उभयोः परित्यज्य अकारणाद् गत.आगतः चल.बुद्धिर् असंधेयः ॥
अशा-०७.६.२६
स्वामिनो दोषेण गतः परस्मात् स्व.दोषेण_आगत इति कारणाद् गतो_अकारणाद् आगतः तर्कयितव्यः "पर.प्रयुक्तः स्वेन वा दोषेण_अपकर्तु.कामः, परस्य_उच्छेत्तारम् अमित्रं मे ज्ञात्वा प्रतिघात.भयाद् आगतः, परं वा माम् उच्छेत्तु.कामं परित्यज्य_आनृशंस्याद् आगतः" इति ॥
अशा-०७.६.२७
ज्ञात्वा कल्याण.बुद्धिं पूजयेद्, अन्यथा.बुद्धिम् अपकृष्टं वासयेत् ॥
अशा-०७.६.२८
स्व.दोषेण गतः पर.दोषेण_आगत इत्य् अकारणाद् गतः कारणाद् आगतः तर्कयितव्यः " छिद्रं मे पूरयिष्यति, उचितो_अयम् अस्य वासः, परत्र_अस्य जनो न रमते, मित्रैर् मे संहितः, शत्रुभिर् विगृहीतः, लुब्ध.क्रूराद् आविग्नः शत्रु.संहिताद् वा परस्मात्" इति ॥
अशा-०७.६.२९
ज्ञात्वा यथा.बुद्ध्य् अवस्थापयितव्यः ॥
अशा-०७.६.३०
"कृत.प्रणाशः शक्ति.हानिर् विद्या.पण्यत्वम् आशा.निर्वेदो देश.लौल्यम् अविश्वासो बलवद्.विग्रहो वा परित्याग.स्थानम्" इत्य् आचार्याः ॥
अशा-०७.६.३१
भयम् अवृत्तिर् अमर्ष इति कौटिल्यः ॥
अशा-०७.६.३२
इह_अपकारी त्याज्यः, पर.अपकारी संधेयः, उभय.अपकारी तर्कयितव्य इति समानम् ॥
अशा-०७.६.३३
असंधेयेन त्व् अवश्यं संधातव्ये यतः प्रभावस् ततः प्रतिविदध्यात् ॥
अशा-०७.६.३४कख’’’
स.उपकारं व्यवहितं गुप्तम् आयुः.क्षयाद् इति ।
अशा-०७.६.३४गघ’’’
वासयेद् अरि.पक्षीयम् अवशीर्ण.क्रिया.विधौ ॥
अशा-०७.६.३५कख’’’
विक्रमयेद् भर्तरि वा सिद्धं वा दण्ड.चारिणम् ॥
अशा-०७.६.३५गघ’’’
कुर्याद् अमित्र.अटवीषु प्रत्यन्ते वा_अन्यतः क्षिपेत् ॥
अशा-०७.६.३६कख’’’
पण्यं कुर्याद् असिद्धं वा सिद्धं वा तेन संवृतम् ॥
अशा-०७.६.३६गघ’’’
तस्य_एव दोषेण.अदूष्य पर.संधेय.कारणात् ॥
अशा-०७.६.३७कख’’’
अथ वा शमयेद् एनम् आयत्य्.अर्थम् उपांशुना ॥
अशा-०७.६.३७गघ’’’
आयत्यां च वध.प्रेप्सुं दृष्ट्वा हन्याद् गत.आगतम् ॥
अशा-०७.६.३८कख’’’
अरितो_अभ्यागतो दोषः शत्रु.संवास.कारितः ॥
अशा-०७.६.३८गघ’’’
सर्प.संवास.धर्मित्वान् नित्य.उद्वेगेन दूषितः ॥
अशा-०७.६.३९कख’’’
जायते प्लक्ष.बीज.आशात् कपोताद् इव शाल्मलेः ॥
अशा-०७.६.३९गघ’’’
उद्वेग.जननो नित्यं पश्चाद् अपि भय.आवहः ॥
अशा-०७.६.४०कख’’’
प्रकाश.युद्धं निर्दिष्टे देशे काले च विक्रमः ॥
अशा-०७.६.४०गघ’’’
विभीषणम् अवस्कन्दः प्रमाद.व्यसन.अर्दनम् ॥
अशा-०७.६.४१कख’’’
एकत्र त्याग.घातौ च कूट.युद्धस्य मातृका ॥
अशा-०७.६.४१गघ’’’
योग.गूढ.उपजाप.अर्थं तूष्णीं.युद्धस्य लक्षणम् ॥
(द्वैधी.भाविकाः संधि.विक्रमाह्)
अशा-०७.७.०१
विजिगीषुर् द्वितीयां प्रकृतिम् एवम् उपगृह्णीयात् ॥
अशा-०७.७.०२
सामन्तं सामन्तेन सम्भूय यायात्, यदि वा मन्येत "पार्ष्णिं मे न ग्रहीष्यति, पार्ष्णि.ग्राहं वारयिष्यति, यातव्यं न_अभिसरिष्यति, बल.द्वैगुण्यं मे भविष्यति, वीवध.आसारौ मे प्रवर्तयिष्यति, परस्य वारयिष्यति, बह्व्.आबाधे मे पथि कण्टकान् मर्दयिष्यति, दुर्ग.अटव्य्.अपसारेषु दण्डेन चरिष्यति, यातव्यम् अविषह्ये दोषे संधौ वा स्थापयिष्यति,
लब्ध.लाभ.अंशो वा शत्रून् अन्यान् मे विश्वासयिष्यति" इति ॥
अशा-०७.७.०३
द्वैधी.भूतो वा कोशेन दण्डं दण्डेन कोशं सामन्तानाम् अन्यतमाल् लिप्सेत ॥
अशा-०७.७.०४
तेषां ज्यायसो_अधिकेन_अंशेन समात् समेन हीनाद्द् हीनेन_इति सम.संधिः ॥
अशा-०७.७.०५
विपर्यये विषम.संधिः ॥
अशा-०७.७.०६
तयोर् विशेष.लाभाद् अतिसंधिः ॥
अशा-०७.७.०७
व्यसनिनम् अपाय.स्थाने सक्तम् अनर्थिनं वा ज्यायांसं हीनो बल.समेन लाभेन पणेत ॥
अशा-०७.७.०८
पणितस् तस्य_अपकार.समर्थो विक्रमेत, अन्यथा संदध्यात् ॥
अशा-०७.७.०९
एवं.भूतो वा हीन.शक्ति.प्रताप.पूरण.अर्थं सम्भाव्य.अर्थ.अभिसारी मूल.पार्ष्णि.त्राण.अर्थं वा ज्यायांसं हीनो बल.समाद् विशिष्टेन लाभेन पणेत ॥
अशा-०७.७.१०
पणितः कल्याण.बुद्धिम् अनुगृह्णीयात्, अन्यथा विक्रमेत ॥
अशा-०७.७.११
जात.व्यसन.प्रकृति.रन्ध्रम् उपस्थित.अनर्थं वा ज्यायांसं हीनो दुर्ग.मित्र.प्रतिष्टब्धो वा ह्रस्वम् अध्वानं यातु.कामः शत्रुम् अयुद्धम् एक.अन्त.सिद्धिं वा लाभम् आदातु.कामो बल.समाद्द् हीनेन लाभेन पणेत ॥
अशा-०७.७.१२
पणितस् तस्य_अपकार.समर्थो विक्रमेत, अन्यथा संदध्यात् ॥
अशा-०७.७.१३
अरन्ध्र.व्यसनो वा ज्यायान् दुर्.आरब्ध.कर्माणं भूयः क्षय.व्ययाभ्यां योक्तु.कामो दूष्य.दण्डं प्रवासयितु.कामो दूष्य.दण्डम् आवाहयितु.कामो वा पीडनीयम् उच्छेदनीयं वा हीनेन व्यथयितु.कामः संधि.प्रधानो वा कल्याण.बुद्धिर् हीनं लाभं प्रतिगृह्णीयात् ॥
अशा-०७.७.१४
कल्याण.बुद्धिना सम्भूय_अर्थं लिप्सेत, अन्यथा विक्रमेत ॥
अशा-०७.७.१५
एवं समः समम् अतिसंदध्याद् अनुगृह्णीयाद् वा ॥
अशा-०७.७.१६
पर.अनीकस्य प्रत्यनीकं मित्र.अटवीनां वा, शत्रोर् विभूमीनां देशिकं मूल.पार्ष्णि.त्राण.अर्थं वा समो बल.समेन लाभेन पणेत ॥
अशा-०७.७.१७
पणितः कल्याण.बुद्धिम् अनुगृह्णीयात्, अन्यथा विक्रमेत ॥
अशा-०७.७.१८
जात.व्यसन.प्रकृति.रन्ध्रम् अनेक.विरुद्धम् अन्यतो लभमानो वा समो बल.समाद्द् हीनेन लाभेन पणेत ॥
अशा-०७.७.१९
पणितस् तस्य_अपकार.समर्थो विक्रमेत, अन्यथा संदध्यात् ॥
अशा-०७.७.२०
एवं.भूतो वा समः सामन्त.आयत्त.कार्यः कर्तव्य.बलो वा बल.समाद् विशिष्टेन लाभेन पणेत ॥
अशा-०७.७.२१
पणितः कल्याण.बुद्धिम् अनुगृह्णीयात् अन्यथा विक्रमेत ॥
अशा-०७.७.२२
जात.व्यसन.प्रकृति.रन्ध्रम् अभिहन्तु.कामः स्व्.आरब्धम् एक.अन्त.सिद्धिं वा_अस्य कर्म.उपहन्तु.कामो मूले यात्रायां वा प्रहर्तु.कामो यातव्याद्.भूयो लभमानो वा ज्यायांसं हीनं समं वा भूयो याचेत ॥
अशा-०७.७.२३
भूयो वा याचितः स्व.बल.रक्षा.अर्थं दुर्धर्षम् अन्य.दुर्गम् आसारम् अटवीं वा पर.दण्डेन मर्दितु.कामः प्रकृष्टे_अध्वनि काले वा पर.दण्डं क्षय.व्ययाभ्यां योक्तु.कामः पर.दण्डेन वा विवृद्धस् तम् एव_उच्छेत्तु.कामः पर.दण्डम् आदातु.कामो वा भूयो दद्यात् ॥
अशा-०७.७.२४
ज्यायान् वा हीनं यातव्य.अपदेशेन हस्ते कर्तु.कामः परम् उच्छिद्य वा तम् एव_उच्छेत्तु.कामः, त्यागं वा कृत्वा प्रत्यादातु.कामो बल.समाद् विशिष्टेन लाभेन पणेत ॥
अशा-०७.७.२५
पणितस् तस्य_अपकार.समर्थो विक्रमेत, अन्यथा संदध्यात् ॥
अशा-०७.७.२६
यातव्य.संहितो वा तिष्ठेत्, दूष्य.अमित्र.अटवी.दण्डं वा_अस्मै दद्यात् ॥
अशा-०७.७.२७
जात.व्यसन.प्रकृति.रन्ध्रो वा ज्यायान् हीनं बल.समेन लाभेन पणेत ॥
अशा-०७.७.२८
पणितस् तस्य_अपकार.समर्थो विक्रमेत, अन्यथा संदध्यात् ॥
अशा-०७.७.२९
एवं.भूतं हीनं ज्यायान् बल.समाद्द् हीनेन लाभेन पणेत ॥
अशा-०७.७.३०
पणितस् तस्य_अपकार.समर्थो विक्रमेत, अन्यथा संदध्यात् ॥
अशा-०७.७.३१कख’’’
आदौ बुध्येत पणितः पणमानश् च कारणम् ॥
अशा-०७.७.३१गघ’’’
ततो वितर्क्य.उभयतो यतः श्रेयश् ततो व्रजेत् ॥
(यातव्य.वृत्तिः - अनुग्राह्य.मित्र.विशेषाह्)
अशा-०७.८.०१
यातव्यो_अभियास्यमानः संधि.कारणम् आदातु.कामो विहन्तु.कामो वा सामवायिकानाम् अन्यतमं लाभ.द्वैगुण्येन पणेत ॥
अशा-०७.८.०२
पणमानः क्षय.व्यय.प्रवास.प्रत्यवाय.पर.उपकार.शरीर.आबाधांश् च_अस्य वर्णयेत् ॥
अशा-०७.८.०३
प्रतिपन्नम् अर्थेन योजयेत् ॥
अशा-०७.८.०४
वैरं वा परैर् ग्राहयित्वा विसंवादयेत् ॥
अशा-०७.८.०५
दुरारब्ध.कर्माणं भूयः क्षय.व्ययाभ्यां योक्तु.कामः स्व्.आरब्धां वा यात्रा.सिद्धिं विघातयितु.कामो मूले यात्रायां वा प्रहर्तु.कामो यातव्य.संहितः पुनर् याचितु.कामः प्रत्युत्पन्न.अर्थ.कृच्छ्रस् तस्मिन्न् अविश्वस्तो वा तदात्वे लाभम् अल्पम् इच्छेत्, आयत्यां प्रभूतम् ॥
अशा-०७.८.०६
मित्र.उपकारम् अमित्र.उपघातम् अर्थ.अनुबन्धम् अवेक्षमाणः पूर्व.उपकारकं कारयितु.कामो भूयस् तदात्वे महान्तं लाभम् उत्सृज्य_आयत्याम् अल्पम् इच्छेत् ॥
अशा-०७.८.०७
दूष्य.अमित्राभ्यां मूल.हरेण वा ज्यायसा विगृहीतं त्रातु.कामस् तथा.विधम् उपकारं कारयितु.कामः सम्बन्ध.अवेक्षी वा तदात्वे च_आयत्यां च लाभं न प्रतिगृह्णीयात् ॥
अशा-०७.८.०८
कृत.संधिर् अतिक्रमितु.कामः परस्य प्रकृति.कर्शनं मित्र.अमित्र.संधि.विश्लेषणं वा कर्तु.कामः पर.अभियोगात्_शङ्कमानो लाभम् अप्राप्तम् अधिकं वा याचेत ॥
अशा-०७.८.०९
तम् इतरस् तदात्वे च_आयत्यां च क्रमम् अवेक्षेत ॥
अशा-०७.८.१०
तेन पूर्वे व्याख्याताः ॥
अशा-०७.८.११
अरि.विजिगीष्वोस् तु स्वं स्वं मित्रम् अनुगृह्णतोः शक्य.कल्य.भव्य.आरम्भि.स्थिर.कर्म.अनुरक्त.प्रकृतिभ्यो विशेषः ॥
अशा-०७.८.१२
शक्य.आरम्भी विषह्यं कर्म_आरभते, कल्य.आरम्भी निर्दोषम्, भव्य.आरम्भी कल्याण.उदयम् ॥
अशा-०७.८.१३
स्थिर.कर्मा न_असमाप्य कर्म_उपरमते ॥
अशा-०७.८.१४
अनुरक्त.प्रकृतिः सुसहायत्वाद् अल्पेन_अप्य् अनुग्रहेण कार्यं साधयति ॥
अशा-०७.८.१५
त एते कृत.अर्थाः सुखेन प्रभूतं च_उपकुर्वन्ति ॥
अशा-०७.८.१६
अतः प्रतिलोमा न_अनुग्राह्याः ॥
अशा-०७.८.१७
तयोर् एक.पुरुष.अनुग्रहे यो मित्रं मित्र.तरं वा_अनुगृह्णाति सो_अतिसंधत्ते ॥
अशा-०७.८.१८
मित्राद् आत्म.वृद्धिं हि प्राप्नोति, क्षय.व्यय.प्रवास.पर.उपकारान् इतरः ॥
अशा-०७.८.१९
कृत.अर्थश् च शत्रुर् वैगुण्यम् एति ॥
अशा-०७.८.२०
मध्यमं त्व् अनुगृह्णतोर् यो मध्यमं मित्रं मित्रतरं वा_अनुगृह्णाति सो_अतिसंधत्ते ॥
अशा-०७.८.२१
मित्राद् आत्म.वृद्धिं हि प्राप्नोति, क्षय.व्यय.प्रवास.पर.उपकारान् इतरः ॥
अशा-०७.८.२२
मध्यमश् चेद् अनुगृहीतो विगुणः स्याद् अमित्रो_अतिसंधत्ते ॥
अशा-०७.८.२३
कृत.प्रयासं हि मध्यम.अमित्रम् अपसृतम् एक.अर्थ.उपगतं प्राप्नोति ॥
अशा-०७.८.२४
तेन_उदासीन.अनुग्रहो व्याख्यातः ॥
अशा-०७.८.२५
मध्यम.उदासीनयोर् बल.अंश.दाने यः शूरं कृत.अस्त्रं दुःख.सहम् अनुरक्तं वा दण्डं ददाति सो_अतिसंधीयते ॥
अशा-०७.८.२६
विपरीतो_अतिसंधत्ते ॥
अशा-०७.८.२७
यत्र तु दण्डः प्रहितस् तं वा च_अर्थम् अन्यांश् च साधयति तत्र मौल.भृत.श्रेणी.मित्र.अटवी.बलानाम् अन्यतमम् उपलब्ध.देश.कालं दण्डं दद्यात्, अमित्र.अटवी.बलं वा व्यवहित.देश.कालम् ॥
अशा-०७.८.२८
यं तु मन्येत "कृत.अर्थो मे दण्डं गृह्णीयाद्, अमित्र.अटव्य्.अभूम्य्.अनृतुषु वा वासयेद्, अफलं वा कुर्याद्" इति, दण्ड.व्यासङ्ग.अपदेशेन न_एनम् अनुगृह्णीयात् ॥
अशा-०७.८.२९
एवम् अवश्यं त्व् अनुग्रहीतव्ये तत्.काल.सहम् अस्मै दण्डं दद्यात् ॥
अशा-०७.८.३०
आ.समाप्तेश् च_एनं वासयेद् योधयेच् च बल.व्यसनेभ्यश् च रक्षेत् ॥
अशा-०७.८.३१
कृत.अर्थाच् च स.अपदेशम् अपस्रावयेत् ॥
अशा-०७.८.३२
दूष्य.अमित्र.अटवी.दण्डं वा_अस्मै दद्यात् ॥
अशा-०७.८.३३
यातव्येन वा संधाय_एनम् अतिसंदध्यात् ॥
अशा-०७.८.३४कख’’’
समे हि लाभे संधिः स्याद् विषमे विक्रमो मतः ॥
अशा-०७.८.३४गघ’’’
सम.हीन.विशिष्टानाम् इत्य् उक्ताः संधि.विक्रमाः ॥
(मित्र.हिरण्य.भूमि.कर्म.संधयः, तत्र मित्र.संधिः हिरण्य.संधिश् च)
अशा-०७.९.०१
संहित.प्रयाणे मित्र.हिरण्य.भूमि.लाभानाम् उत्तर.उत्तरो लाभः श्रेयान् ॥
अशा-०७.९.०२
मित्र.हिरण्ये हि भूमि.लाभाद् भवतः, मित्रं हिरण्य.लाभात् ॥
अशा-०७.९.०३
यो वा लाभः सिद्धः शेषयोर् अन्यतरं साधयति ॥
अशा-०७.९.०४
"त्वं च_अहं च मित्रं लभावहे" इत्य् एवं.आदिध् सम.संधिः ॥
अशा-०७.९.०५
"त्वं मित्रम्" इत्य् एवं.आदिर् विषम.संधिः ॥
अशा-०७.९.०६
तयोर् विशेष.लाभाद् अतिसंधिः ॥
अशा-०७.९.०७
सम.संधौ तु यः सम्पन्नं मित्रं मित्र.कृच्छ्रे वा मित्रम् अवाप्नोति सो_अतिसंधत्ते ॥
अशा-०७.९.०८
आपद्द् हि सौहृद.स्थैर्यम् उत्पादयति ॥
अशा-०७.९.०९
मित्र.कृच्छ्रे_अपि नित्यम् अवश्यम् अनित्यं वश्यं वा_इति "नित्यम् अवश्यं श्रेयः, तद्द् हि अनुपकुर्वद् अपि न_अपकरोति" इत्य् आचार्याः ॥
अशा-०७.९.१०
न_इति कौटिल्यः ॥
अशा-०७.९.११
वश्यम् अनित्यं श्रेयः ॥
अशा-०७.९.१२
यावद् उपकरोति तावन् मित्रं भवति, उपकार.लक्षणं मित्रम् इति ॥
अशा-०७.९.१३
वश्ययोर् अपि महा.भोगम् अनित्यम् अल्प.भोगं वा नित्यम् इति ॥ महा.भोगम् अनित्यं श्रेयः, महा.भोगम् अनित्यम् अल्प.कालेन महद्.उपकुर्वन् महान्ति व्यय.स्थानानि प्रतिकरोति" इत्य् आचार्याः ॥
अशा-०७.९.१४
न_इति कौटिल्यः ॥
अशा-०७.९.१५
नित्यम् अल्प.भोगं श्रेयः ॥
अशा-०७.९.१६
महा.भोगम् अनित्यम् उपकार.भयाद् अपक्रामति, उपकृत्य वा प्रत्यादातुम् ईहते ॥
अशा-०७.९.१७
नित्यम् अल्प.भोगं सातत्याद् अल्पम् उपकुर्वन् महता कालेन महद् उपकरोति ॥
अशा-०७.९.१८
गुरु.समुत्थं महन् मित्रं लघु.समुत्थम् अल्पं वा_इति "गुरु.समुत्थं महन् मित्रं प्रताप.करं भवति, यदा च_उत्तिष्ठते तदा कार्यं साधयति" इत्य् आचार्याः ॥
अशा-०७.९.१९
न_इति कौटिल्यः ॥
अशा-०७.९.२०
लघु.समुत्थम् अल्पं श्रेयः ॥
अशा-०७.९.२१
लगु.समुत्थम् अल्पं मित्रं कार्य.कालं न_अतिपातयति दौर्बल्याच् च यथा.इष्ट.भोग्यं भवति, न_इतरत् प्रकृष्ट.भौमम् ॥
अशा-०७.९.२२
विक्षिप्त.सैन्यम् अवश्य.सैन्यं वा_इति "विक्षिप्तं सैन्यं शक्यं प्रतिसंहर्तुं वश्यत्वाद्" इत्य् आचार्याः ॥
अशा-०७.९.२३
न_इति कौटिल्यः ॥
अशा-०७.९.२४
अवश्य.सैन्यं श्रेयः ॥
अशा-०७.९.२५
अवश्यं हि शक्यं साम.आदिभिर् वश्यं कर्तुम्, न_इतरत् कार्य.व्यासक्तं प्रतिसंहर्तुम् ॥
अशा-०७.९.२६
पुरुष.भोगं हिरण्य.भोगं वा मित्रम् इति "पुरुष.भोगं मित्रं श्रेयः, प्रुष.भोगं मित्रं प्रताप.करं भवति, यदा च_उत्तिष्ठते तदा कार्यं साधयति" इत्य् आचार्याः ॥
अशा-०७.९.२७
न_इति कौटिल्यः ॥
अशा-०७.९.२८
हिरण्य.भोगं मित्रं श्रेयः ॥
अशा-०७.९.२९
नित्यो हि हिरण्येन योगः कदाचिद् दण्डेन ॥
अशा-०७.९.३०
दण्डश् च हिरण्येन_अन्ये च कामाः प्राप्यन्त इति ॥
अशा-०७.९.३१
हिरण्य.भोगं भूमि.भोगं वा मित्रम् इति "हिरण्य.भोगं गतिमत्त्वात् सर्व.व्यय.प्रतीकार.करम्" इत्य् आचार्याः ॥
अशा-०७.९.३२
न_इति कौटिल्यः ॥
अशा-०७.९.३३
मित्र.हिरण्ये हि भूमि.लाभाद् भवत इत्य् उक्तं पुरस्ताद् ॥
अशा-०७.९.३४
तस्माद् भूमि.भोगं मित्रं श्रेय इति ॥
अशा-०७.९.३५
तुल्ये पुरुष.भोगे विक्रमः क्लेश.सहत्वम् अनुरागः सर्व.बल.लाभो वा मित्र.कुलाद् विशेषः ॥
अशा-०७.९.३६
तुल्ये हिरण्य.भोगे प्रार्थित.अर्थता प्राभूत्यम् अल्प.प्रयसता सातत्यं च विशेषः ॥
अशा-०७.९.३७
तत्र_एतद् भवति ॥
अशा-०७.९.३८कख’’’
नित्यं वश्यं लघु.उत्थानं पितृ.पैतामहं महत् ।
अशा-०७.९.३८गघ’’’
अद्वैध्यं च_इति सम्पन्नं मित्रं षड्.गुणम् उच्यते ॥
अशा-०७.९.३९कख’’’
ऋते यद् अर्थं प्रणयाद् रक्ष्यते यच् च रक्षति ।
अशा-०७.९.३९गघ’’’
पूर्व.उपचित.सम्बन्धं तन् मित्रं नित्यम् उच्यते ॥
अशा-०७.९.४०कख’’’
सर्व.चित्र.महा.भोगं त्रिविधं वश्यम् उच्यते ।
अशा-०७.९.४०गघ’’’
एकतो.भोग्य् उभयतः सर्वतो.भोगि च_अपरम् ॥
अशा-०७.९.४१कख’’’
आदातृ वा दात्र्.अपि वा जीवत्य् अरिषु हिंसया ।
अशा-०७.९.४१गघ’’’
मित्रं नित्यम् अवश्यं तद्.दुर्ग.अटव्य्.अपसारि च ॥
अशा-०७.९.४२कख’’’
अन्यतो विगृहीतं यल् लघु.व्यसनम् एव वा ।
अशा-०७.९.४२गघ’’’
संधत्ते च_उपकाराय तन् मित्रं वश्यम् अध्रुवम् ॥
अशा-०७.९.४३कख’’’
एक.अर्थेन_अथ सम्बद्धम् उपकार्य.विकारि च ।
अशा-०७.९.४३गघ’’’
मित्र.भावि भवत्य् एतन् मित्रम् अद्वैध्यम् आपदि ॥
अशा-०७.९.४४कख’’’
मित्र.भावाद् ध्रुवं मित्रं शत्रु.साधारणाच् चलम् ।
अशा-०७.९.४४गघ’’’
न कस्यचिद् उदासीनं द्वयोर् उभय.भावि तत् ॥
अशा-०७.९.४५कख’’’
विजिगीषोर् अमित्रं यन् मित्रम् अन्तर्धितां गतम् ।
अशा-०७.९.४५गघ’’’
उपकारे_अनिविष्टं वा_अशक्तं वा_अनुपकारि तत् ॥
अशा-०७.९.४६कख’’’
प्रियं परस्य वा रक्ष्यं पूज्यं सम्बद्धम् एव वा ।
अशा-०७.९.४६गघ’’’
अनुगृह्णाति यन् मित्रं शत्रु.साधारणं हि तत् ॥
अशा-०७.९.४७कख’’’
प्रकृष्ट.भौमं संतुष्टं बलवच् च_आलसं च यत् ।
अशा-०७.९.४७गघ’’’
उदासीनं भवत्य् एतद् व्यसनाद् अवमानितम् ॥
अशा-०७.९.४८कख’’’
अरेर् नेतुश् च यद् वृद्धिं दौर्बल्याद् अनुवर्तते ।
अशा-०७.९.४८गघ’’’
उभयस्य_अप्य् अविद्विष्टं विद्याद् उभय.भावि तत् ॥
अशा-०७.९.४९कख’’’
कारण.अकारण.ध्वस्तं कारण.अकारण.आगतम् ।
अशा-०७.९.४९गघ’’’
यो मित्रं समुपेक्षेत स मृत्युम् उपगूहति ॥
अशा-०७.९.५०
क्षिप्रम् अल्पो लाभश् चिरान् महान् इति वा "क्षिप्रम् अल्पो लाभः कार्य.देश.काल.संवादकः श्रेयान्" इत्य् आचार्याः ॥
अशा-०७.९.५१
न_इति कौटिल्यः ॥
अशा-०७.९.५२
चिराद् अविनिपाती बीज.सधर्मा महाम्ल् लाभः श्रेयान्, विपर्यये पूर्वः ॥
अशा-०७.९.५३कख’’’
एवं दृष्ट्वा ध्रुवे लाभे लाभ.अंशे च गुण.उदयम् ।
अशा-०७.९.५३गघ’’’
स्व.अर्थ.सिद्धि.परो यायात् संहितः सामवायिकैः ॥
(मित्र.हिरण्य.भूमि.कर्म.संधयः, तत्र भूमि.संधिह्)
अशा-०७.१०.०१
"त्वं च_अहं च भूमिं लभावहे" इति भूमि.संधिः ॥
अशा-०७.१०.०२
तयोर् यः प्रत्युपस्थित.अर्थः सम्पन्नां भूमिम् अवाप्नोति सो_अतिसंधत्ते ॥
अशा-०७.१०.०३
तुल्ये सम्पन्न.अलाभे यो बलवन्तम् आक्रम्य भूमिम् अवाप्नोति सो_अतिसंधत्ते ॥
अशा-०७.१०.०४
भूमि.लाभं शत्रु.कर्शनं प्रतापं च हि प्राप्नोति ॥
अशा-०७.१०.०५
दुर्बलाद्.भूमि.लाभे सत्यं सौकर्यं भवति ॥
अशा-०७.१०.०६
दुर्बल एव च भूमि.लाभः, तत्.सामन्तश् च मित्रम् अमित्र.भावं गच्छति ॥
अशा-०७.१०.०७
तुल्ये बलीयस्त्वे यः स्थित.शत्रुम् उत्पाट्य भूमिम् अवाप्नोति सो_अतिसंधत्ते ॥
अशा-०७.१०.०८
दुर्ग.अवाप्तिर् हि स्व.भूमि.रक्षणम् अमित्र.अटवी.प्रतिषेधं च करोति ॥
अशा-०७.१०.०९
चल.अमित्राद्.भूमि.लाभे शक्य.सामन्ततो विशेषः ॥
अशा-०७.१०.१०
दुर्बल.सामन्ता हि क्षिप्र.आप्यायन.योग.क्षेमा भवति ॥
अशा-०७.१०.११
विपरीता बलवत् सामन्ता कोश.दण्ड.अवच्छेदनी च भूमिर् भवति ॥
अशा-०७.१०.१२
सम्पन्ना नित्य.अमित्रा मन्द.गुणा वा भूमिर् अनित्य.अमित्रा_इति "सम्पन्ना नित्य.अमित्रा श्रेयसी भूमिः सम्पन्ना हि कोश.दण्डौ सम्पादयति, तौ च_अमित्र.प्रतिघातकौ इत्य् आचार्याः ॥
अशा-०७.१०.१३
न_इति कौटिल्यः ॥
अशा-०७.१०.१४
नित्य.अमित्र.अलाभे भूयान् शत्रु.लाभो भवति ॥
अशा-०७.१०.१५
नित्यश् च शत्रुर् उपकृते च_अपकृते च शत्रुर् एव भवति, अनित्यस् तु शत्रुर् उपकाराद् अनपकाराद् वा शाम्यति ॥
अशा-०७.१०.१६
यस्या हि भूमेर् बहु.दुर्गाश् चोर.गणैर् म्लेच्छ.अटवीभिर् वा नित्य.अविरहिताः प्रत्यन्ताः सा नित्य.अमित्रा, विपर्यये त्व् अनित्य.अमित्रा ॥
अशा-०७.१०.१७
अल्पा प्रत्यासन्ना महती व्यवहिता वा भूमिर् इति अल्पा प्रत्यासन्ना श्रेयसी ॥
अशा-०७.१०.१८
सुखा हि प्राप्तुं पालयितुम् अभिसारयितुं च भवति ॥
अशा-०७.१०.१९
विपरीता व्यवहिता ॥
अशा-०७.१०.२०
व्यवहितयोर् अपि दण्ड.धारणा_आत्म.धारणा वा भूमिर् इति आत्म.धारणा श्रेयसी ॥
अशा-०७.१०.२१
सा हि स्व.समुत्थाभ्यां कोश.दण्डाभ्यां धार्यते ॥
अशा-०७.१०.२२
विपरीता दण्ड.धारणा दण्ड.स्थानम् ॥
अशा-०७.१०.२३
बालिशात् प्राज्ञाद् वा भूमि.लाभ इति बालिशाद्.भूमि.लाभः श्रेयान् ॥
अशा-०७.१०.२४
सुप्राप्या_अनुपाल्या हि भवति, अप्रत्यादेया च ॥
अशा-०७.१०.२५
विपरीता प्राज्ञाद् अनुरक्ता ॥
अशा-०७.१०.२६
पीडनीय.उच्छेदनीययोर् उच्छेदनीयाद् भूमि.लाभः श्रेयान् ॥
अशा-०७.१०.२७
उच्छेदनीयो ह्य् अनपाश्रयो दुर्बल.अपाश्रयो वा_अभियुक्तः कोश.दण्डाव् आदाय_अपसर्तु.कामः प्रकृतिभिस् त्यज्यते, न पीडनीयो दुर्ग.मित्र.प्रतिष्टब्धः ॥
अशा-०७.१०.२८
दुर्ग.प्रतिष्टब्धयोर् अपि स्थल.नदी.दुर्गीयाभ्यां स्थल.दुर्गीयाद् भूमि.लाभः श्रेयान् ॥
अशा-०७.१०.२९
स्थालेयं हि सुरोध.अवमर्द.अवस्कन्दम् अनिह्श्रावि.शत्रु च ॥
अशा-०७.१०.३०
नदी.दुर्गं तु द्वि.गुण.क्लेश.करम्, उदकं च पातव्यं वृत्ति.करं च_अमित्रस्य ॥
अशा-०७.१०.३१
नदी.पर्वत.दुर्गीयाभ्यां नदी.दुर्गीयाद् ब्भूमि.लाभः श्रेयान् ॥
अशा-०७.१०.३२
नदी.दुर्गं हि हस्ति.स्तम्भ.संक्रम.सेतु.बन्ध.नौभिः साध्यम् अनित्य.गाम्भीर्यम् अवस्राव्य् उदकं च ॥
अशा-०७.१०.३३
पार्वतं तु स्व्.आरक्षं दुरुपरोधि कृच्छ्र.आरोहणम्, भग्ने च_एकस्मिन् न सर्व.वधः, शिला.वृक्ष.प्रमोक्षश् च महा.अपकारिणाम् ॥
अशा-०७.१०.३४
निम्न.स्थल.योधिभ्यो निम्न.योधिभ्यो भूमि.लाभः श्रेयान् ॥
अशा-०७.१०.३५
निम्न.योधिनो ह्य् उपरुद्ध.देश.कालाः, स्थल.योधिनस् तु सर्व.देश.काल.योधिनः ॥
अशा-०७.१०.३६
खनक.आकाश.योधिभ्यः खनकेभ्यो भूमि.लाभः श्रेयान् ॥
अशा-०७.१०.३७
खनका हि खातेन शस्त्रेण च_उभयथा युध्यन्ते, शस्त्रेण_एव_आकाश.योधिनः ॥
अशा-०७.१०.३८कख’’’
एवं.विध्येभ्यः पृथिवीं लभमानो_अर्थ.शास्त्रवित् ।
अशा-०७.१०.३८गघ’’’
संहितेभ्यः परेभ्यश् च विशेषम् अधिगच्छति ॥
(मित्र.हिरण्य.भूमि.कर्म.सम्धयह् - तत्र अनवसित.सम्धिह्)
अशा-०७.११.०१
"त्वं च_अहं च शून्यं निवेशयावहे" इत्य् अनवसित.संधिः ॥
अशा-०७.११.०२
तयोर् यः प्रत्युपस्थित.अर्थो यथा.उक्त.गुणां भूमिं निवेशयति सो_अतिसंधत्ते ॥
अशा-०७.११.०३
तत्र_अपि स्थलम् औदकं वा_इति महतः स्थलाद् अल्पम् औदकं श्रेयः, सातत्याद् अवस्थितत्वाच् च फलानाम् ॥
अशा-०७.११.०४
स्थलयोर् अपि प्रभूत.पूर्व.अपर.सस्यम् अल्प.वर्ष.पाकम् असक्त.आरम्भं श्रेयः ॥
अशा-०७.११.०५
औदकयोर् अपि धान्य.वापम् अधान्य.वापात्_श्रेयः ॥
अशा-०७.११.०६
तयोर् अल्प.बहुत्वे धान्य.कान्ताद् अल्पान् महद् अधान्य.कान्तं श्रेयः ॥
अशा-०७.११.०७
महत्य् अवकाशे हि स्थाल्याश् च_अनूप्याश् च_ओषधयो भवन्ति ॥
अशा-०७.११.०८
दुर्ग.आदीनि च कर्माणि प्रभूत्येन क्रियन्ते ॥
अशा-०७.११.०९
कृत्रिमा हि भूमि.गुणाः ॥
अशा-०७.११.१०
खनि.धान्य.भोगयोः खनि.भोगः कोश.करः, धान्य.भोगः कोश.कोष्ठ.अगार.करः ॥
अशा-०७.११.११
धान्य.मूला हि दुर्ग.आदीनां कर्मणाम् आरम्भाः ॥
अशा-०७.११.१२
महा.विषय.विक्रयो वा खनि.भोगः श्रेयान् ॥
अशा-०७.११.१३
"द्रव्य.हस्ति.वन.भोगयोर् द्रव्य.वन.भोगः सर्व.कर्मणां योनिः प्रभूत.निधान.क्षमश् च, विपरीतो हस्ति.वन.भोगः" इत्य् आचार्याः ॥
अशा-०७.११.१४
न_इति कौटिल्यः ॥
अशा-०७.११.१५
शक्यं द्रव्य.वनम् अनेकम् अनेकस्यां भूमौ वापयितुम्, न हस्ति.वनम् ॥
अशा-०७.११.१६
हस्ति.प्रधानो हि पर.अनीक.वध इति ॥
अशा-०७.११.१७
वारि.स्थल.पथ.भोगयोर् अनित्यो वारि.पथ.भोगः, नित्यः स्थल.पथ.भोगः ॥
अशा-०७.११.१८
भिन्न.मनुष्या श्रेणी.मनुष्या वा भूमिर् इति भिन्न.मनुष्या श्रेयसी ॥
अशा-०७.११.१९
भिन्न.मनुष्या भोग्या भवति, अनुपजाप्या च_अन्येषाम्, अनापत्.सहा तु ॥
अशा-०७.११.२०
विपरीता श्रेणी.मनुष्या, कोपे महा.दोषा ॥
अशा-०७.११.२१
तस्यां चातुर्वर्ण्य.निवेशे सर्व.भोग.सहत्वाद् अवर.वर्ण.प्राया श्रेयसी, बाहुल्याद् ध्रुवत्वाच् च कृष्याः कर्षकवती, कृष्याश् च_अन्येषां च_आरम्भाणां प्रयोजकत्वात् गो.रक्षकवती, पण्य.निचय.ऋण.अनुग्रहाद् आढ्य.वणिग्वती ॥
अशा-०७.११.२२
भूमि.गुणानाम् अपाश्रयः श्रेयान् ॥
अशा-०७.११.२३
दुर्ग.अपाश्रया पुरुष.अपाश्रया वा भूमिर् इति पुरुष.अपाश्रया श्रेयसी ॥
अशा-०७.११.२४
पुरुषवद् धि राज्यम् ॥
अशा-०७.११.२५
अपुरुषा गौर् वन्ध्य् एव किं दुहीत ॥
अशा-०७.११.२६
महा.क्षय.व्यय.निवेशां तु भूमिम् अवाप्तु.कामः पूर्वम् एव क्रेतारं पणेत दुर्बलम् अराज.बीजिनं निरुत्साहम् अपक्षम् अन्याय.वृत्तिं व्यसनिनं दैव.प्रमाणं यत्.किंचन.कारिणं वा ॥
अशा-०७.११.२७
महा.क्षय.व्यय.निवेशायां हि भूमौ दुर्बलो राज.बीजी निविष्टः सगन्धाभिः प्रकृतिभिः सह क्षय.व्ययेन_अवसीदति ॥
अशा-०७.११.२८
बलवान् अराज.बीजी क्षय.व्यय.भयाद् असगन्धाभिः प्रकृतिभिस् त्यज्यते ॥
अशा-०७.११.२९
निरुत्साहस् तु दण्डवान् अपि दण्डस्य_अप्रणेता सदण्डः क्षय.व्ययेन_अवभज्यते ॥
अशा-०७.११.३०
कोशवान् अप्य् अपक्षः क्षय.व्यय.अनुग्रह.हीनत्वान् न कुतश्चित् प्राप्नोति ॥
अशा-०७.११.३१
अन्याय.वृत्तिर् निविष्टम् अप्य् उत्थापयेत् ॥
अशा-०७.११.३२
स कथम् अनिविष्टं निवेशयेत् ॥
अशा-०७.११.३३
तेन व्यसनी व्याख्यातः ॥
अशा-०७.११.३४
दैव.प्रमाणो मानुष.हीनो निरारम्भो विपन्न.कर्म.आरम्भो वा_अवसीदति ॥
अशा-०७.११.३५
यत्.किंचन.कारी न किंचिद् आसादयति ॥
अशा-०७.११.३६
स च_एषां पापिष्ठतमो भवति ॥
अशा-०७.११.३७
"यत्.किंचिद्.आरभमाणो हि विजिगीषोः कदाचिच् छिद्रम् आसादयेद्" इत्य् आचार्याः ॥
अशा-०७.११.३८
यथा छिद्रं तथा विनाशम् अप्य् आसादयेद् इति कौटिल्यः ॥
अशा-०७.११.३९
तेषाम् अलाभे यथा पार्ष्णि.ग्राह.उपग्रहे वक्ष्यामस् तथा भूमिम् अवस्थापयेत् ॥
अशा-०७.११.४०
इत्य् अभिहित.संधिः ॥
अशा-०७.११.४१
गुणवतीम् आदेयां वा भूमिं बलवता क्रयेण याचितः संधिम् अवस्थाप्य दद्यात् ॥
अशा-०७.११.४२
इत्य् अनिभृत.संधिः ॥
अशा-०७.११.४३
समेन वा याचितः कारणम् अवेक्ष्य दद्यात् "प्रत्यादेया मे भूमिर् वश्या वा, अनया प्रतिबद्धः परो मे वश्यो भविष्यति_ भूमि.विक्रयाद् वा मित्र.हिरण्य.लाभः कार्य.सामर्थ्य.करो मे भविष्यति" इति ॥
अशा-०७.११.४४
तेन हीनः क्रेता व्याख्यातः ॥
अशा-०७.११.४५कख’’’
एवं मित्रं हिरण्यं च सजनाम् अजनां च गाम् ।
अशा-०७.११.४५गघ’’’
लभमानो_अतिसंधत्ते शास्त्रवित् सामवायिकान् ॥
(मित्र.हिरण्य.भूमि.कर्म.सम्धयह्, तत्र कर्म.सम्धिह्)
अशा-०७.१२.०१
"त्वं च_अहं च दुर्गं कारयावहे" इति कर्म.संधिः ॥
अशा-०७.१२.०२
तयोर् यो दैव.कृतम् अविषह्यम् अल्प.व्यय.आरम्भं दुर्गं कारयति सो_अतिसंधत्ते ॥
अशा-०७.१२.०३
तत्र_अपि स्थल.नदी.पर्वत.दुर्गाणाम् उत्तर.उत्तरं श्रेयः ॥
अशा-०७.१२.०४
सेतु.बन्धयोर् अप्य् आहार्य.उदकात् सह.उदकः श्रेयान् ॥
अशा-०७.१२.०५
सह.उदकयोर् अपि प्रभूत.वाप.स्थानः श्रेयान् ॥
अशा-०७.१२.०६
द्रव्य.वनयोर् अपि यो महत्.सारवद्.द्रव्य.अटवीकं विषय.अन्ते नदी.मातृकं द्रव्य.वनं छेदयति सो_अतिसंधत्ते ॥
अशा-०७.१२.०७
नदी.मातृकं हि स्व्.आजीवम् अपाश्रयश् च_आपदि भवति ॥
अशा-०७.१२.०८
हस्ति.वनयोर् अपि यो बहु.शूर.मृगं दुर्बल.प्रतिवेशं.अनन्त.अवक्लेशि विषय.अन्ते हस्ति.वनं बध्नाति सो_अतिसंधत्ते ॥
अशा-०७.१२.०९
तत्र_अपि "बहु.कुण्ठ.अल्प.शूरयोः अल्प.शूरं श्रेयः, शूरेषु हि युद्धम्, अल्पाः शूरा बहून् अशूरान् भञ्जन्ति, ते भग्नाः स्व.सैन्य.अवघातिनो भवन्ति" इत्य् आचार्याः ॥
अशा-०७.१२.१०
न_इति कौटिल्यः ॥
अशा-०७.१२.११
कुण्ठा बहवः श्रेयांसः, स्कन्ध.विनियोगाद् अनेकं कर्म कुर्वाणाः स्वेषाम् अपाश्रयो युद्धे, परेषां दुर्धर्षा विभीषणाश् च ॥
अशा-०७.१२.१२
बहुषु हि कुण्ठेषु विनय.कर्मणा शक्यं शौर्यम् आधातुम्, न त्व् एव_अल्पेषु शूरेषु बहुत्वम् इति ॥
अशा-०७.१२.१३
खन्योर् अपि यः प्रभूत.साराम् अदुर्ग.मार्गाम् अल्प.व्यय.आरम्भां खनिं खानयति, सो_अतिसंधत्ते ॥
अशा-०७.१२.१४
तत्र_अपि महा.सारम् अल्पम् अल्प.सारं वा प्रभूतम् इति "महा.सारम् अल्पं श्रेयः, वज्र.मणि.मुक्ता.प्रवाल.हेम.रूप्य.धातुर् हि प्रभूतम् अल्प.सारम् अत्यर्घेण ग्रसते" इत्य् आचार्याः ॥
अशा-०७.१२.१५
न_इति कौटिल्यः ॥
अशा-०७.१२.१६
चिराद् अल्पो महा.सारस्य क्रेता विद्यते, प्रभूतः सातत्याद् अल्प.सारस्य ॥
अशा-०७.१२.१७
एतेन वणिक्.पथो व्याख्यातः ॥
अशा-०७.१२.१८
तत्र_अपि "वारि.स्थल.पथयोर् वारि.पथः श्रेयान्, अल्प.व्यय.व्यायामः प्रभूत.पण्य.उदयश् च" इत्य् आचार्याः ॥
अशा-०७.१२.१९
न_इति कौटिल्यः ॥
अशा-०७.१२.२०
सम्रुद्ध.गतिर् असार्वकालिकः प्रकृष्ट.भय.योनिर् निष्प्रतीकारश् च वारि.पथः, विपरीतः स्थल.पथः ॥
अशा-०७.१२.२१
वारि.पथे तु कूल.सम्यान.पथयोः कूल.पथः पण्य.पत्तन.बाहुल्यात्_श्रेयान्, नदी.पथो वा, सातत्याद् विषह्य.आबाधत्वाच् च ॥
अशा-०७.१२.२२
स्थल.पथे_अपि "हैमवतो दक्षिणा.पथात्_श्रेयान्, हस्त्य्.अश्व.गन्ध.दन्त.अजिन.रूप्य.सुवर्ण.पण्याः सारवत्तराः" इत्य् आचार्याः" ॥
अशा-०७.१२.२३
न_इति कौटिल्यः ॥
अशा-०७.१२.२४
कम्बल.अजिन.अश्व.पण्य.वर्जाः शङ्ख.वज्र.मणि.मुक्ता.सुवर्ण.पण्याश् च प्रभूततरा दक्षिणा.पथे ॥
अशा-०७.१२.२५
दक्षिणा.पथे_अपि बहु.खनिः सार.पण्यः प्रसिद्ध.गतिर् अल्प.व्यय.व्यायामो वा वणिक्.पथः श्रेयान्, प्रभूत.विषयो वा फल्गु.पुण्यः ॥
अशा-०७.१२.२६
तेन पूर्वः पश्चिमश् च वणिक्.पथो व्याख्यातः ॥
अशा-०७.१२.२७
तत्र_अपि चक्र.पाद.पथयोश् चक्र.पथो विपुल.आरम्भत्वात्_श्रेयान्, देश.काल.सम्भावनो वा खर.उष्ट्र.पथः ॥
अशा-०७.१२.२८
आभ्याम् अंस.पथो व्याख्यातः ॥
अशा-०७.१२.२९
पर.कर्म.उदयो नेतुः क्षयो वृद्धिर् विपर्यये ॥
अशा-०७.१२.३०
तुल्ये कर्म.पथे स्थानं ज्ञेयं स्वं विजिगीषुणा ॥
अशा-०७.१२.३१
अल्प.आगम.अतिव्ययता क्षयो वृद्धिर् विपर्यये ॥
अशा-०७.१२.३२
समाय.व्ययता स्थानं कर्मसु ज्ञेयम् आत्मनः ॥
अशा-०७.१२.३३
तस्माद् अल्प.व्यय.आरम्भं दुर्ग.आदिषु महा.उदयम् ॥
अशा-०७.१२.३४
कर्म लब्ध्वा विशिष्टः स्याद् इत्य् उक्ताः कर्म.संधयः ॥
(पार्ष्णि.ग्राह्.चिन्ता)
अशा-०७.१३.०१
संहत्य_अरि.विजिगीष्वोर् अमित्रयोः पर.अभियोगिनोः पार्ष्णिं गृह्णतोर् यः शक्ति.सम्पन्नस्य पार्ष्णिं गृह्णाति सो_अतिसंधत्ते ॥
अशा-०७.१३.०२
शक्ति.सम्पन्नो ह्य् अमित्रम् उच्छिद्य पार्ष्णि.ग्राहम् उच्छिन्द्यात्, न हीन.शक्तिर् अलब्ध.लाभः ॥
अशा-०७.१३.०३
शक्ति.साम्ये यो विपुल.आरम्भस्य पार्ष्णिं गृह्णाति सो_अतिसंधत्ते ॥
अशा-०७.१३.०४
विपुल.आरम्भो ह्य् अमित्रम् उच्छिद्य पार्ष्णि.ग्राहम् उच्छिन्द्यात्, न_अल्प.आरम्भः सक्त.चक्रः ॥
अशा-०७.१३.०५
आरम्भ.साम्ये यः सर्व.संदोहेन प्रयातस्य पार्ष्णिं गृह्णाति सो_अतिसंधत्ते ॥
अशा-०७.१३.०६
शून्य.मूलो ह्य् अस्य सुकरो भवति, नैक.देश.बल.प्रयातः कृत.पार्ष्णि.प्रतिविधानः ॥
अशा-०७.१३.०७
बल.उपादान.साम्ये यश् चल.अमित्रं प्रयातस्य पार्ष्णिं गृह्णाति सो_अतिसंधत्ते ॥
अशा-०७.१३.०८
चल.अमित्रं प्रयातो हि सुखेन_अवाप्त.सिद्धिः पार्ष्णि.ग्राहम् उच्छिन्द्यात्, न स्थित.अमित्रं प्रयातः ॥
अशा-०७.१३.०९
असौ हि दुर्ग.प्रतिहतः पार्ष्णि.ग्राहे च प्रतिनिवृत्तः स्थितेन_अमित्रेण_अवगृह्यते ॥
अशा-०७.१३.१०
तेन पूर्वे व्याख्याताः ॥
अशा-०७.१३.११
शत्रु.साम्ये यो धार्मिक.अभियोगिनः पार्ष्णिं गृह्णाति सो_अतिसंधत्ते ॥
अशा-०७.१३.१२
धार्मिक.अभियोगी हि स्वेषां परेषां च द्वेष्यो भवति, अधार्मिक.अभियोगी सम्प्रियः ॥
अशा-०७.१३.१३
तेन मूल.हर.तादात्विक.कदर्य.अभियोगिनां पार्ष्णि.ग्रहणं व्याख्यातम् ॥
अशा-०७.१३.१४
मित्र.अभियोगिनोः पार्ष्णि.ग्रहणे त एव हेतवः ॥
अशा-०७.१३.१५
मित्रम् अमित्रं च_अभियुञ्जानयोर् यो मित्र.अभियोगिनः पार्ष्णिं गृह्णाति सो_अतिसंधत्ते ॥
अशा-०७.१३.१६
मित्र.अभियोगी हि सुखेन_अवाप्त.सिद्धिः पार्ष्णि.ग्राहम् उच्छिन्द्यात् ॥
अशा-०७.१३.१७
सुकरो हि मित्रेण संधिर् न_अमित्रेण ॥
अशा-०७.१३.१८
मित्रम् अमित्रं च_उद्धरतोर् यो_अमित्र.उद्धारिणः पार्ष्णिं गृह्णाति सो_अतिसंधत्ते ॥
अशा-०७.१३.१९
वृद्ध.मित्रो ह्य् अमित्र.उद्धारी पार्ष्णि.ग्राहम् उच्छिन्द्यात्, न_इतरः स्व.पक्ष.उपघाती ॥
अशा-०७.१३.२०
तयोर् अलब्ध.लाभ.अपगमने यस्य.अमित्रो महतो लाभाद् वियुक्तः क्षय.व्यय.अधिको वा स पार्ष्णि.ग्राहो_अतिसंधत्ते ॥
अशा-०७.१३.२१
लब्ध.लाभ.अपगमने यस्य_अमित्रो लाभेन शक्त्या हीनः स पार्ष्णि.ग्राहो_अतिसंधत्ते, यस्य वा यातव्यः शत्रोर् विग्रह.अपकार.समर्थः स्यात् ॥
अशा-०७.१३.२२
पार्ष्णि.ग्राहयोर् अपि यः शक्य.आरम्भ.बल.उपादान.अधिकः स्थित.शत्रुः पार्श्व.स्थायी वा सो_अतिसंधत्ते ॥
अशा-०७.१३.२३
पार्श्व.स्थायी हि यातव्य.अभिसारो मूल.आबाधकश् च भवति, मूल.आबाधक एव पश्चात्.स्थायी ॥
अशा-०७.१३.२४कख’’’
पार्ष्णि.ग्राहास् त्रयो ज्ञेयाः शत्रोश् चेष्टा.निरोधकाः ।
अशा-०७.१३.२४गघ’’’
सामन्तः पृष्ठतो वर्गः प्रतिवेशौ च पार्श्वयोः ॥
अशा-०७.१३.२५कख’’’
अरेर् नेतुश् च मध्यस्थो दुर्बलो_अन्तर्धिर् उच्यते ।
अशा-०७.१३.२५गघ’’’
प्रतिघातो बलवतो दुर्ग.अटव्य्.अपसारवान् ॥
अशा-०७.१३.२६
मध्यमं त्वरि.विजिगीष्वोर् लिप्समानयोर् मध्यमस्य पार्ष्णिं गृह्णतोर् लब्ध.लाभ.अपगमने यो मध्यमं मित्राद् वियोजयत्य् अमित्रं च मित्रम् आप्नोति सो_अतिसंधत्ते ॥
अशा-०७.१३.२७
संधेयश् च शत्रुर् उपकुर्वाणो, न मित्रं मित्र.भावाद् उत्क्रान्तम् ॥
अशा-०७.१३.२८
तेन_उदासीन.लिप्सा व्याख्याता ॥
अशा-०७.१३.२९
"पार्ष्णि.ग्रहण.अभियानयोस् तु मन्त्र.युद्धाद् अभ्युच्चयः ॥
Kअश्०७.१३.३०
व्यायाम.युद्धे हि क्षय.व्ययाभ्याम् उभयोर् अवृद्धिः ॥
अशा-०७.१३.३१
जित्वा_अपि हि क्षिण.दण्ड.कोशः पराजितो भवति" इत्य् आचार्याः ॥
अशा-०७.१३.३२
न_इति कौटिल्यः ॥
अशा-०७.१३.३३
सुमहता_अपि क्षय.व्ययेन शत्रु.विनाशो_अभ्युपगन्तव्यः ॥
अशा-०७.१३.३४
तुल्ये क्षय.व्यये यः पुरस्ताद् दूष्य.बलं घातयित्वा निह्शल्यः पश्चाद् वश्य.बलो युध्येत सो_अतिसंधत्ते ॥
अशा-०७.१३.३५
द्वयोर् अपि पुरस्ताद् दूष्य.बल.घातिनोर् यो बहुलतरं शक्तिमत्तरम् अत्यन्त.दूष्यं च घातयेत् सो_अतिसंधत्ते ॥
अशा-०७.१३.३६
तेन_अमित्र.अटवी.बल.घातो व्याख्यातः ॥
अशा-०७.१३.३७कख’’’
पार्ष्णि.ग्राहो_अभियोक्ता वा यातव्यो वा यदा भवेत् ।
अशा-०७.१३.३७गघ’’’
विजिगीषुस् तदा तत्र नेत्रम् एतत् समाचरेत् ॥
अशा-०७.१३.३८कख’’’
पार्ष्णि.ग्राहो भवेन् नेता शत्रोर् मित्र.अभियोगिनः ।
अशा-०७.१३.३८गघ’’’
विग्राह्य पूर्वम् आक्रन्दं पार्ष्णि.ग्राह.अभिसारिणा ॥
अशा-०७.१३.३९कख’’’
आक्रन्देन_अभियुञ्जानः पार्ष्णि.ग्राहं निवारयेत् ।
अशा-०७.१३.३९गघ’’’
तथा_आक्रन्द.अभिसारेण पार्ष्णि.ग्राह.अभिसारिणम् ॥
अशा-०७.१३.४०कख’’’
अरि.मित्रेण मित्रं च पुरस्ताद् अवघट्टयेत् ।
अशा-०७.१३.४०गघ’’’
मित्र.मित्रम् अरेश् च_अपि मित्र.मित्रेण वारयेत् ॥
अशा-०७.१३.४१कख’’’
मित्रेण ग्राहयेत् पार्ष्णिम् अभियुक्तो_अभियोगिनः ।
अशा-०७.१३.४१गघ’’’
मित्र.मित्रेण च_आक्रन्दं पार्ष्णि.ग्राहान् निवारयेत् ॥
अशा-०७.१३.४२कख’’’
एवं मण्डलम् आत्म.अर्थं विजिगीषुर् निवेशयेत् ।
अशा-०७.१३.४२गघ’’’
पृष्ठतश् च पुरस्ताच् च मित्र.प्रकृति.सम्पदा ॥
अशा-०७.१३.४३कख’’’
कृत्स्ने च मण्डले नित्यं दूतान् गूढांश् च वासयेत् ।
अशा-०७.१३.४३गघ’’’
मित्र.भूतः सपत्नानां हत्वा हत्वा च संवृतः ॥
अशा-०७.१३.४४कख’’’
असंवृतस्य कार्याणि प्राप्तान्य् अपि विशेषतः ।
अशा-०७.१३.४४गघ’’’
निह्संशयं विपद्यन्ते भिन्न.प्लव इव_उदधौ ॥
(हीन.शक्ति.पूरणम्)
अशा-०७.१४.०१
सामवायिकैर् एवम् अभियुक्तो विजिगीषुर् यस् तेषां प्रधानस् तं ब्रूयात् "त्वया मे संधिः, इदं हिरण्यम्, अहं च मित्रम्, द्वि.गुणा ते वृद्धिः, न_अर्हस्य् आत्म.क्षयेण मित्र.मुखान् अमित्रान् वर्धयितुम्, एते हि वृद्धास् त्वाम् एव परिभविष्यन्ति" इति ॥
अशा-०७.१४.०२
भेदं वा ब्रूयात् "अनपकारो यथा_अहम् एतैः सम्भूय_अभियुक्तस् तथा त्वाम् अप्य् एते संहित.बलाः स्वस्था व्यसने वा_अभियोक्ष्यन्ते, बलं हि चित्तं विकरोति, तद् एषां विघातय" इति ॥
अशा-०७.१४.०३
भिन्नेषु प्रधानम् उपगृह्य हीनेषु विक्रमयेत्, हीनान् अनुग्राह्य वा प्रधाने, यथा वा श्रेयो_अभिमन्येत तथा ॥
अशा-०७.१४.०४
वैरं वा परैर् ग्राहयित्वा विसंवादयेत् ॥
अशा-०७.१४.०५
फल.भूयस्त्वेन वा प्रधानम् उपजाप्य संधिं कारयेत् ॥
अशा-०७.१४.०६
अथ_उभय.वेतनाः फल.भूयस्त्वं दर्शयन्तः सामवायिकान् "अतिसंहिताः स्थ" इत्य् उद्द्दूषयेयुः ॥
अशा-०७.१४.०७
दुष्टेषु संधिं दूषयेत् ॥
अशा-०७.१४.०८
अथ_उभय.वेतना भूयो भेदम् एषां कुर्युः "एवं तद् यद् अस्माभिर् दर्शितम्" इति ॥
अशा-०७.१४.०९
भिन्नेष्व् अन्यतम.उपग्रहेण चेष्टेत ॥
अशा-०७.१४.१०
प्रधान.अभावे सामवायिकानाम् उत्साहयितारं स्थिर.कर्माणम् अनुरक्त.प्रकृक्तिं लोभाद् भयाद् वा संघातम् उपागतं विजिगीषोर् भीतं राज्य.प्रतिसम्बद्धं मित्रं चल.अमित्रं वा पूर्वान् उत्तर.अभावे साधयेत् - उत्साहयितारम् आत्म.निसर्गेण, स्थिर.कर्माणं सान्त्व.प्रणिपातेन, अनुरक्त.प्रकृतिं कन्या.दान.यापनाभ्याम्, लुब्धम् अंश.द्वैगुण्येन,
भीतम् एभ्यः कोश.दण्ड.अनुग्रहेण, स्वतो भीतं विश्वास्य प्रतिभू.प्रदानेन, राज्य.प्रतिसम्बद्धम् एकी.भाव.उपगमनेन, मित्रम् उभयतः प्रिय.हिताभ्याम्, उपकार.त्यागेन वा, चल.अमित्रम् अवधृतम् अनपकार.उपकाराभ्याम्
//
अशा-०७.१४.११
यो वा यथा_अयोगं भजेत तं तथा साधयेत्, साम.दान.भेद.दण्डैर् वा यथा_आपत्सु व्याख्यास्यामः ॥
अशा-०७.१४.१२
व्यसन.उपघात.त्वरितो वा कोश.दण्डाभ्यां देशे काले कार्ये वा_अवधृतं संधिम् उपेयात् ॥
अशा-०७.१४.१३
कृत.संधिर् हीनम् आत्मानं प्रतिकुर्वीत ॥
अशा-०७.१४.१४
पक्षे हीनो बन्धु.मित्र.पक्षं कुर्वीत, दुर्गम् अविषह्यं वा ॥
अशा-०७.१४.१५
दुर्ग.मित्र.प्रतिष्टब्धो हि स्वेषां परेषां च पूज्यो भवति ॥
अशा-०७.१४.१६
मन्त्र.शक्ति.हीनः प्राज्ञ.पुरुष.उपचयं विद्या.वृद्ध.सम्योगं वा कुर्वीत ॥
अशा-०७.१४.१७
तथा हि सद्यः श्रेयः प्राप्नोति ॥
अशा-०७.१४.१८
प्रभाव.हीनः प्रकृति.योग.क्षेम.सिद्धौ यतेत ॥
अशा-०७.१४.१९
जन.पदः सर्व.कर्मणां योनिः, ततः प्रभावः ॥
अशा-०७.१४.२०
तस्य स्थानम् आत्मनश् च_आपदि दुर्गम् ॥
अशा-०७.१४.२१
सेतु.बन्धः सस्यानां योनिः ॥
अशा-०७.१४.२२
नित्य.अनुषक्तो हि वर्ष.गुण.लाभः सेतु.वापेषु ॥
अशा-०७.१४.२३
वणिक्.पथः पर.अतिसंधानस्य योनिः ॥
अशा-०७.१४.२४
वणिक्.पथेन हि दण्ड.गूढ.पुरुष.अतिनयनं शस्त्र.आवरण.यान.वाहन.क्रयश् च क्रियते, प्रवेशो निर्णयनं च ॥
अशा-०७.१४.२५
खनिः संग्राम.उपकरणानां योनिः, द्रव्य.वनं दुर्ग.कर्मणां यान.रथयोश् च, हस्ति.वनं हस्तिनाम्, गव.अश्व.खर.उष्ट्राणां च व्रजः ॥
अशा-०७.१४.२६
तेषाम् अलाभे बन्धु.मित्र.कुलेभ्यः समार्जनम् ॥
अशा-०७.१४.२७
उत्साह.हीनः श्रेणी.प्रवीर.पुरुषाणां चोर.गण.आटविक.म्लेच्छ.जातीनां पर.अपकारिणां गूढ.पुरुषाणां च यथा.लाब्भम् उपचयं कुर्वीत ॥
अशा-०७.१४.२८
पर.मिश्र.अप्रतीकारम् आबलीयसं वा परेषु प्रयुञ्जीत ॥
अशा-०७.१४.२९कख’’’
एवं पक्षेण मन्त्रेण द्रव्येण च बलेन च ।
अशा-०७.१४.२९गघ’’’
सम्पन्नः प्रतिनिर्गच्छेत् पर.अवग्रहम् आत्मनः ॥
(विगृह्य.उपरोध.हेतवह् - दण्ड.उपनत.वृत्तम्)
अशा-०७.१५.०१
दुर्बलो राजा बलवता_अभियुक्तस् तद्.विशिष्ट.बलम् आश्रयेत यम् इतरो मन्त्र.शक्त्या न_अतिसंदध्यात् ॥
अशा-०७.१५.०२
तुल्य.मन्त्र.शक्तीनाम् आयत्त.सम्पदो वृद्ध.सम्योगाद् वा विशेषः ॥
अशा-०७.१५.०३
विशिष्ट.बल.अभावे सम.बलैस् तुल्य.बल.संघैर् वा बलवतः सम्भूय तिष्ठेद् यान् न मन्त्र.प्रभाव.शक्तिभ्याम् अतिसंदध्यात् ॥
अशा-०७.१५.०४
तुल्य.मन्त्र.प्रभाव.शक्तीनां विपुल.आरम्भतो विशेषः ॥
अशा-०७.१५.०५
सम.बल.अभावे हीन.बलैः शुचिभिर् उत्साहिभिः प्रत्यनीक.भूतैर् बलवतः सम्भूय तिष्ठेद् यान् न मन्त्र.प्रभाव.उत्साह.शक्तिभिर् अतिसंदध्यात् ॥
अशा-०७.१५.०६
तुल्य.उत्साह.शक्तीनां स्व.युद्ध.भूमि.लाभाद् विशेषः ॥
अशा-०७.१५.०७
तुल्य.भूमीनां स्व.युद्ध.काल.लाभाद् विशेषः ॥
अशा-०७.१५.०८
तुल्य.देश.कालानां युग्य.शस्त्र.आवरणतो विशेषः ॥
अशा-०७.१५.०९
सहाय.अभावे दुर्गम् आश्रयेत यत्र_अमित्रः प्रभूत.सैन्यो_अपि भक्त.यवस.इन्धन.उदक.उपरोधं न कुर्यात् स्वयं च क्षय.व्ययाभ्यां युज्येत ॥
अशा-०७.१५.१०
तुल्य.दुर्गाणां निचय.अपसारतो विशेषः ॥
अशा-०७.१५.११
निचय.अपसार.सम्पन्नं हि मनुष्य.दुर्गम् इच्छेद् इति कौटिल्यः ॥
अशा-०७.१५.१२अ/तद् एभिः कार्णैर् आश्रयेत - "पार्ष्णि.ग्राहम् आसारं मध्यमम् उदासीनं वा प्रतिपादयिष्यामि, सामन्त.आटविक.तत्.कुलीन.अपरुद्धानाम् अन्यतमेन_अस्य राज्यं हारयिष्यामि घातयिष्यामि वा - ॥
अशा-०७.१५.१२ख
कृत्य.पक्ष.उपग्रहेण वा_अस्य दुर्गे राष्ट्रे स्कन्ध.आवारे वा कोपं समुत्थापयिष्यामि, शस्त्र.अग्नि.रस.प्रणिधानैर् औपनिषदिकैर् वा यथा.इष्टम् आसन्नं हनिष्यामि - ॥
अशा-०७.१५.१२ग
स्वयं.अधिष्ठितेन वा योग.प्रणिधानेन क्षय.व्ययम् एनम् उपनेष्यामि, क्षय.व्यय.प्रवास.उपतप्ते वा_अस्य मित्र.वर्गे सैन्ये वा क्रमेण_उपजापं प्राप्स्यामि - ॥
अशा-०७.१५.१२घ
वीवध.आसार.प्रसार.वधेन वा_अस्य स्कन्ध.आवार.अवग्रहं करिष्यामि, दण्ड.उपनयेन वा_अस्य रन्ध्रम् उत्थाप्य सर्व.संदोहेन प्रहरिष्यामि, प्रतिहत.उत्साहेन वा यथा.इष्टं संधिम् अवाप्स्यामि, मयि प्रतिबद्धस्य वा सर्वतः कोपाः समुत्थास्यन्ति - ॥
अशा-०७.१५.१२च
निरासारं वा_अस्य मूलं मित्र.अटवी.दण्डैर् उद्धातयिष्यामि, महतो वा देशस्य योग.क्षेमम् इहस्थः पालयिष्यामि, स्व.विक्षिप्तं मित्र.विक्षिप्तं वा मे सैन्यम् इहस्थस्य_एकस्थम् अविषह्यं भविष्यति, निम्न.खात.रात्रि.युद्ध.विशारदं वा मे सैन्यं पथ्य.आबाध.मुक्तम् आसन्ने कर्म करिष्यति - ॥
अशा-०७.१५.१२छ
विरुद्ध.देश.कालम् इह.आगतो वा स्वयम् एव क्षय.व्ययाभ्यां न भविष्यति, महा.क्षय.व्यय.अभिगम्यो_अयं देशो दुर्ग.अटव्य्.अपसार.बाहुल्यात् - ॥
अशा-०७.१५.१२ग्
परेषां व्याधि.प्रायः सैन्य.व्यायामानाम् अलब्ध.भौमश् च, तम् आपद्.गतः प्रवेक्ष्यति, प्रविष्टो वा न निर्गमिष्यति" इति ॥
अशा-०७.१५.१३
"कारण.अभावे बल.समुच्छ्रये वा परस्य दुर्गम् उन्मुच्य_अपगच्छेत् ॥
अशा-०७.१५.१४
अग्नि.पतङ्गवद् अमित्रे वा प्रविशेत् ॥
अशा-०७.१५.१५
अन्यतर.सिद्धिर् हि त्यक्त.आत्मनो भवति" इत्य् आचार्याः ॥
अशा-०७.१५.१६
न_इति कौटिल्यः ॥
अशा-०७.१५.१७
संधेयताम् आत्मनः परस्य च_उपलभ्य संदधीत ॥
अशा-०७.१५.१८
विपर्यये विक्रमेण संधिम् अपसारं वा लिप्सेत ॥
अशा-०७.१५.१९
संधेयस्य वा दूतं प्रेषयेत् ॥
अशा-०७.१५.२०
तेन वा प्रेषितम् अर्थ.मानाभ्यां सत्कृत्य ब्रूयात् "इदं राज्ञः पण्य.अगारम्, इदं देवी.कुमाराणाम्, देवी.कुमार.वचनात्, इदं राज्यम् अहं च त्वद्.अर्पणः" इति ॥
अशा-०७.१५.२१
लब्ध.संश्रयः समय.आचारिकवद् भर्तरि वर्तेत ॥
अशा-०७.१५.२२
दुर्ग.आदीनि च कर्माणि आवाह.विवाह.पुत्र.अभिषेक.अश्व.पण्य.हस्ति.ग्रहण.सत्त्र.यात्रा.विहार.गमनानि च_अनुज्ञातः कुर्वीत ॥
अशा-०७.१५.२३
स्व.भूम्य्.अवस्थित.प्रकृति.संधिम् उपघातम् अपसृतेषु वा सर्वम् अनुज्ञातः कुर्वीत ॥
अशा-०७.१५.२४
दुष्ट.पौर.जानपदो वा न्याय.वृत्तिर् अन्यां भूमिं याचेत ॥
अशा-०७.१५.२५
दुष्यवद् उपांशु.दण्डेन वा प्रतिकुर्वीत ॥
अशा-०७.१५.२६
उचितां वा मित्राद् भूमिं दीयमानां न प्रतिगृह्णीयात् ॥
अशा-०७.१५.२७
मन्त्रि.पुरोहित.सेना.पति.युव.राजानाम् अन्यतमम् अदृश्यमाने भर्तरि पश्येत्, यथा.शक्ति च_उपकुर्यात् ॥
अशा-०७.१५.२८
दैवत.स्वस्ति.वाचनेषु तत्.परा आशिषो वाचयेत् ॥
अशा-०७.१५.२९
सर्वत्र_आत्म.निसर्गं गुणं ब्रूयात् ॥
अशा-०७.१५.३०कख’’’
सम्युक्त.बलवत्.सेवी विरुद्धः शङ्कित.आदिभिः ।
अशा-०७.१५.३०गघ’’’
वर्तेत दण्ड.उपनतो भर्तर्य् एवम् अवस्थितः ॥
(दण्ड.उपनायि.वृत्तम्)
अशा-०७.१६.०१
अनुज्ञात.संधि.पण.उद्वेग.करं बलवान् विजिगीषमाणो यतः स्व.भूमिः स्व.ऋतु.वृत्तिश् च स्व.सैन्यानाम्, अदुर्ग.अपसारः शत्रुर्.अपार्ष्णिर् अनासारश् च, ततो यायात् ॥
अशा-०७.१६.०२
विपर्यये कृत.प्रतीकारो यायात् ॥
अशा-०७.१६.०३
साम.दानाभ्यां दुर्बलान् उपनमयेत्, भेद.दण्डाभ्यां बलवतः ॥
अशा-०७.१६.०४
नियोग.विकल्प.समुच्चयैश् च_उपायानाम् अनन्तर.एक.अन्तराः प्रकृतीः साधयेत् ॥
अशा-०७.१६.०५
ग्राम.अरण्य.उपजीवि.व्रज.वणिक्.पथ.अनुपालनम् उज्झित.अपसृत.अपकारिणां च_अर्पणम् इति सान्त्वम् आचरेत् ॥
अशा-०७.१६.०६
भूमि.द्रव्य.कन्या.दानम् अभयस्य च_इति दानम् आचरेत् ॥
अशा-०७.१६.०७
सामन्त.आटविक.तत्.कुलीन.अपरुद्धानाम् अन्यतम.उपग्रहेण कोश.दण्ड.भूमि.दाय.याचनम् इति भेदम् आचरेत् ॥
अशा-०७.१६.०८
प्रकाश.कूट.तूष्णीं.युद्ध.दुर्ग.लम्भ.उपायैर् अमित्र.प्रग्रहणम् इति दण्डम् आचरेत् ॥
अशा-०७.१६.०९
एवम् उत्साहवतो दण्ड.उपकारिणः स्थापयेत्, स्व.प्रभाववतः कोश.उपकारिणः, प्रज्ञावतो भूम्य्.उपकारिणः ॥
अशा-०७.१६.१०
तेषां पण्य.पत्तन.ग्राम.खनि.संजातेन रत्न.सार.फल्गु.कुप्येन द्रव्य.हस्ति.वन.व्रज.समुत्थेन यान.वाहनेन वा यद् बहुश उपकरोति तच् चित्र.भोगम् ॥
अशा-०७.१६.११
यद् दण्डेन कोशेन वा महद् उपकरोति तन् महा.भोगम् ॥
अशा-०७.१६.१२
यद् दण्ड.कोश.भूमीभिर् उपकरोति तत् सर्व.भोगम् ॥
अशा-०७.१६.१३
यद् अमित्रम् एकतः प्रतिकरोति तद् एकतो.भोगि ॥
अशा-०७.१६.१४
यद् अमित्रम् आसारं च_उभयतः प्रतिकरोति तद् उभयतो.भोगि ॥
अशा-०७.१६.१५
यद् अमित्र.आसार.प्रतिवेश.आटविकान् सर्वतः प्रतिकरोति तत् सर्वतो.भोगि ॥
अशा-०७.१६.१६क
पार्ष्णि.ग्राहश् च_आटविकः शत्रु.मुख्यः शत्रुर् वा भूमि.दान.साध्यः कश्चिद् आसाद्येत, निर्गुणया भूम्या_एनम् उपग्राहयेत्, अप्रतिसम्बद्धया दुर्गस्थम्, निरुपजीव्यया_आटविकं - ॥
अशा-०७.१६.१६ख
प्रत्यादेयया तत्.कुलीनं शत्रोः, अपच्छिन्नया शत्रोर् अपरुद्धं नित्य.अमित्रया श्रेणी.बलम्, बलवत्.सामन्तया संहत.बलम्, उभाभ्यां युद्धे प्रतिलोमम्, - ॥
अशा-०७.१६.१६ग
अलब्ध.व्यायामया_उत्साहिनम्, शूयया_अरि.पक्षीयम्, कर्शितया_अपवाहितम्, महा.क्षय.व्यय.निवेशया गत.प्रत्यागतम्, अनपाश्रयया प्रत्यपसृतम्, परेण_अनधिवास्यया स्वयम् एव भर्तारम् उपग्राहयेत् ॥
अशा-०७.१६.१७
तेषां महा.उपकारं निर्विकारं च_अनुवर्तयेत् ॥
अशा-०७.१६.१८
प्रतिलोमम् उपांशुना साधयेत् ॥
अशा-०७.१६.१९
उपकारिणम् उपकार.शक्त्या तोषयेत् ॥
अशा-०७.१६.२०
प्रयासतश् च_अर्थ.मानौ कुर्याद्, व्यसनेषु च_अनुग्रहम् ॥
अशा-०७.१६.२१
स्वयं.आगतानां यथा.इष्ट.दर्शनं प्रतिविधानं च कुर्यात् ॥
अशा-०७.१६.२२
परिभव.उपघात.कुत्स.अतिवादांश् च_एषु न प्रयुञ्जीत ॥
अशा-०७.१६.२३
दत्त्वा च_अभयं पिता_इव_अनुगृह्णीयात् ॥
अशा-०७.१६.२४
यश् च_अस्य_अपकुर्यात् तद् दोषम् अभिविख्याप्य प्रकाशम् एनं घातयेत् ॥
अशा-०७.१६.२५
पर.उद्वेग.कारणाद् वा दाण्डकर्मिकवच् चेष्टेत ॥
अशा-०७.१६.२६
न च हतस्य भूमि.द्रव्य.पुत्र.दारान् अभिमन्येत ॥
अशा-०७.१६.२७
कुल्यान् अप्य् अस्य स्वेषु पात्रेषु स्थापयेत् ॥
अशा-०७.१६.२८
कर्मणि मृतस्य पुत्रं राज्ये स्थापयेत् ॥
अशा-०७.१६.२९
एवम् अस्य दण्ड.उपनताः पुत्र.पौत्रान् अनुवर्तन्ते ॥
अशा-०७.१६.३०
यस् तु_उपनतान् हत्वा बद्ध्वा वा भूमि.द्रव्य.पुत्र.दारान् अभिमन्येत तस्य_उद्विग्नं मण्डलम् अभावाय_उत्तिष्ठते ॥
अशा-०७.१६.३१
ये च_अस्य_अमात्याः स्व.भूमिष्व् आयत्तास् ते च_अस्य_उद्विग्ना मण्डलम् आश्रयन्ते ॥
अशा-०७.१६.३२
स्वयं वा राज्यं प्राणान् वा_अस्य_अभिमन्यन्ते ॥
अशा-०७.१६.३३कख’’’
स्व.भूमिषु च राजानस् तस्मात् साम्ना_अनुपालिताः ।
अशा-०७.१६.३३गघ’’’
भवन्त्य् अनुगुणा राज्ञः पुत्र.पौत्र.अनुवर्तिनः ॥
(सम्धि.कर्म -समाधि.मोक्षह्)
अशा-०७.१७.०१
शमः संधिः समाधिर् इत्य् एको_अर्थः ॥
अशा-०७.१७.०२
राज्ञां विश्वास.उपगमः शमः संधिः समाधिर् इति ॥
अशा-०७.१७.०३
"सत्यं शपथो वा चलः संधिः, प्रतिभूः प्रतिग्रहो वा स्थावरः" इत्य् आचार्याः ॥
अशा-०७.१७.०४
न_इति कौटिल्यः ॥
अशा-०७.१७.०५
सत्यं शपथो वा परत्र_इह च स्थावरः संधिः, इह.अर्थ एव प्रतिभूः प्रतिग्रहो वा बल.अपेक्षः ॥
अशा-०७.१७.०६
"संहिताः स्मः" इति सत्य.संधाः पूर्वे राजानः सत्येन संदधिरे ॥
अशा-०७.१७.०७
तस्य_अतिक्रमे शपथेन अग्न्य्.उदक.सीता.प्राकार.लोष्ट.हस्ति.स्कन्ध.अश्व.पृष्ट.रथ.उपस्थ.शस्त्र.रत्न.बीज.गन्ध.रस.सुवर्ण.हिरण्यान्य् आलेभिरे "हन्युर् एतानि त्यजेयुश् च_एनं यः शपथम् अतिक्रामेत्" इति ॥
अशा-०७.१७.०८
शपथ.अतिक्रमे महतां तपस्विनां मुख्यानां वा प्रातिभाव्य.बन्धः प्रतिभूः ॥
अशा-०७.१७.०९
तस्मिन् यः पर.अवग्रह.समर्थान् प्रतिभुवो गृह्णाति, सो_अतिसंधत्ते ॥
अशा-०७.१७.१०
विपरीतो_अतिसंधीयते ॥
अशा-०७.१७.११
बन्धु.मुख्य.प्रग्रहः प्रतिग्रहः ॥
अशा-०७.१७.१२
तस्मिन् यो दूष्य.अमात्यं दूष्य.अपत्यं वा ददाति, सो_अतिसंधत्ते ॥
अशा-०७.१७.१३
विपरीतो_अतिसंधीयते
अशा-०७.१७.१४
प्रतिग्रह.ग्रहण.विश्वस्तस्य हि परश् छिद्रेषु निरपेक्षः प्रहरति ॥
अशा-०७.१७.१५
अपत्य.समाधौ तु कन्या.पुत्र.दाने ददत् तु कन्याम् अतिसंधत्ते ॥
अशा-०७.१७.१६
कन्या ह्य् अदायादा परेषाम् एव_अर्थाय_आक्लेश्या(?) च ॥
अशा-०७.१७.१७
विपरीतः पुत्रः ॥
अशा-०७.१७.१८
पुत्रयोर् अपि यो जात्यं प्राज्ञं शूरं कृत.अस्त्रम् एक.पुत्रं वा ददाति सो_अतिसंधीयते ॥
अशा-०७.१७.१९
विपरीतो_अतिसंधत्ते ॥
अशा-०७.१७.२०
जात्याद् अजात्यो हि लुप्त.दायाद.संतानत्वाद् आधातुं श्रेयान्, प्राज्ञाद् अप्राज्ञो मन्त्र.शक्ति.लोपात्, शूराद् अशूर उत्साह.शक्ति.लोपात्, कृत.अस्त्राद् अकृत.अस्त्रः प्रहर्तव्य.सम्पल्.लोपात्, एक.पुत्राद् अनेक.पुत्रो निरपेक्षत्वात् ॥
अशा-०७.१७.२१
जात्य.प्राज्ञयोर् जात्यम् अप्राज्ञम् ऐश्वर्य.प्रकृतिर् अनुवर्तते, प्राज्ञम् अजात्यं मन्त्र.अधिकारः ॥
अशा-०७.१७.२२
मन्त्र.अधिकारे_अपि वृद्ध.सम्योगाज् जात्यः प्राज्ञम् अतिसंधत्ते ॥
अशा-०७.१७.२३
प्राज्ञ.शूरयोः प्राज्ञम् अशूरं मति.कर्मणां योगो_अनुवर्तते, शूरम् अप्राज्ञं विक्रम.अधिकारः ॥
अशा-०७.१७.२४
विक्रम.अधिकारे_अपि हस्तिनम् इव लुब्धकः प्राज्ञः शूरम् अतिसंधत्तेश् ॥
अशा-०७.१७.२५
शूर.कृत.अस्त्रयोः शूरम् अकृत.अस्त्रं विक्रम.व्यवसायो_अनुवर्तते, कृत.अस्त्रम् अशूरं लक्ष्य.लम्भ.अधिकारः ॥
अशा-०७.१७.२६
लक्ष्य.लम्भ.अधिकारे_अपि स्थैर्य.प्रतिपत्त्य्.असम्मोषैः शूरः कृत.अस्त्रम् अतिसंधत्ते ॥
अशा-०७.१७.२७
बह्व्.एक.पुत्रयोर् बहु.पुत्र एकं दत्त्वा शेष.प्रतिष्टब्धः संधिम् अतिक्रामति, न_इतरः ॥
अशा-०७.१७.२८
पुत्र.सर्व.स्व.दाने संधिश् चेत् पुत्र.फलतो विशेषः ॥
अशा-०७.१७.२९
सम.फलयोः शक्त.प्रजननतो विशेषः ॥
अशा-०७.१७.३०
शक्त.प्रजननयोर् अप्य् उपस्थित.प्रजननतो विशेषः ॥
अशा-०७.१७.३१
शक्तिमत्य् एक.पुत्रे तु लुप्त.पुत्र.उत्पत्तिर् आत्मानम् आदध्यात्, न च_एक.पुत्रम् इति ॥
अशा-०७.१७.३२
अभ्युच्चीयमानः समाधि.मोक्षं कारयेत् ॥
अशा-०७.१७.३३
कुमार.आसन्नाः सत्त्रिणः कारु.शिल्पि.व्यञ्जनाः कर्माणि कुर्वाणाः सुरुङ्गया रात्राव् उपखानयित्वा कुमारम् अपहरेयुः ॥
अशा-०७.१७.३४
नटनर्तक.गायन.वादक.वाग्.जीवन.कुशीलव.प्लवक.सौभिका वा पूर्व.प्रणिहिताः परम् उपतिष्ठेरन् ॥
अशा-०७.१७.३५
ते कुमारं परं.परया_उपतिष्ठेरन् ॥
अशा-०७.१७.३६
तेषाम् अनियत.काल.प्रवेश.स्थान.निर्गमनानि स्थापयेत् ॥
अशा-०७.१७.३७
ततस् तद्.व्यञ्जनो वा रात्रौ प्रतिष्ठेत ॥
अशा-०७.१७.३८
तेन रूप.आजीवा भार्या.व्यञ्जनाश् च व्याख्याताः ॥
अशा-०७.१७.३९
तेषां वा तूर्य.भाण्ड.फेलां गृहीत्वा निर्गच्छेत् ॥
अशा-०७.१७.४०
सूद.आरालिक.स्नापक.संवाहक.आस्तरक.कल्पक.प्रसाधक.उदक.परिचारकैर् वा द्रव्य.वस्त्र.भाण्ड.फेला.शयन.आसन.सम्भोगैर् निर्ह्रियेत ॥
अशा-०७.१७.४१
परिचारकच्.छद्मना वा किंचिद् अरूप.वेलायाम् आदाय निर्गच्छेत्, सुरुङ्गा.मुखेन वा निशा.उपहारेण ॥
अशा-०७.१७.४२
तोय.आशये वा वारुणं योगम् आतिष्ठेत् ॥
अशा-०७.१७.४३
वैदेहक.व्यञ्जना वा पक्व.अन्न.फल.व्यवहारेण_आरक्षिषु रसम् उपचारयेयुः ॥
अशा-०७.१७.४४
दैवत.उपहार.श्राद्ध.प्रहवण.निमित्तम् आरक्षिषु मदन.योग.युक्तम् अन्न.पानं रसं वा प्रयुज्य_अपगच्छेत्, आरक्षक.प्रोत्साहनेन वा ॥
अशा-०७.१७.४५
नागरक.कुशीलव.चिकित्सक.आपूपिक.व्यञ्जना वा रात्रौ समृद्ध.गृहाण्य् आदीपयेयुः आरक्षिणां वा ॥
अशा-०७.१७.४६
वैदेहक.व्यञ्जना वा पण्य.संस्थाम् आदीपयेयुः ॥
अशा-०७.१७.४७
अन्यद् वा शरीरं निक्षिप्य स्व.गृहम् आदीपयेद् अनुपात.भयात् ॥
अशा-०७.१७.४८
ततः संधिच्.छेद.खात.सुरुङ्गाभिर् अपगच्छेत् ॥
अशा-०७.१७.४९
काच.कुम्भ.भाण्ड.भार.व्यञ्जनो वा रात्रौ प्रतिष्ठेत ॥
अशा-०७.१७.५०
मुण्ड.जटिलानां प्रवासनान्य् अनुप्रविष्टो वा रात्रौ तद्.व्यञ्जनः प्रतिष्ठेत, विरूप.व्याधि.करण.अरण्य.चरच्.छद्मनाम् अन्यतमेन वा ॥
अशा-०७.१७.५१
प्रेत.व्यञ्जनो वा गूढैर् निर्ह्रियेत ॥
अशा-०७.१७.५२
प्रेतं वा स्त्री.वेषेण_अनुगच्छेत् ॥
अशा-०७.१७.५३
वन.चर.व्यञ्जनाश् च_एनम् अन्यतो यान्तम् अन्यतो_अपदिशेयुः ॥
अशा-०७.१७.५४
ततो_अन्यतो गच्छेत् ॥
अशा-०७.१७.५५
चक्र.चराणां वा शकट.वाटैर् अपगच्छेत् ॥
अशा-०७.१७.५६
आसन्ने च_अनुपाते सत्त्रं वा गृह्णीयात् ॥
अशा-०७.१७.५७
सत्त्र.अभावे हिरण्यं रस.विद्धं वा भक्ष्य.जातम् उभयतः.पन्थानम् उत्सृजेत् ॥
अशा-०७.१७.५८
ततो_अन्यतो_अपगच्छेत् ॥
अशा-०७.१७.५९
गृहीतो वा साम.आदिभिर् अनुपातम् अतिसंदध्यात्, रस.विद्धेन वा पथ्य्.अदनेन ॥
अशा-०७.१७.६०
वारुण.योग.अग्नि.दाहेषु वा शरीरम् अन्यद् आधाय शत्रुम् अभियुञ्जीत "पुत्रो मे त्वया हतः" इति ॥
अशा-०७.१७.६१क
उपात्तच्.छन्न.शस्त्रो वा रात्रौ विक्रम्य रक्षिषु ॥
अशा-०७.१७.६१ख
शीघ्र.पातैर् अपसरेद् गूढ.प्रणिहितैः सह ॥
(मध्यम.चरितम् - उदासीन.चरितम् - मण्डल.चरितम्)
अशा-०७.१८.०१
मध्यमस्य_आत्मा तृतीया पञ्चमी च प्रकृती प्रकृतयः ॥
अशा-०७.१८.०२
द्वितीया चतुर्थी षष्ठी च विकृतयः ॥
अशा-०७.१८.०३
तच् चेद् उभयं मध्यमो_अनुगृह्णीयात्, विजिगीषुर् मध्यम.अनुलोमः स्यात् ॥
अशा-०७.१८.०४
न चेद् अनुगृह्णीयात्, प्रकृत्य्.अनुलोमः स्यात् ॥
अशा-०७.१८.०५
मद्यमश् चेद् विजिगीषोर् मित्रं मित्र.भावि लिप्सेत, मित्रस्य_आत्मनश् च मित्राण्य् उत्थाप्य मध्यमाच् च मित्राणि भेदयित्वा मित्रं त्रायेत ॥
अशा-०७.१८.०६
मण्डलं वा प्रोत्साहयेत् "अतिप्रवृद्धो_अयं मध्यमः सर्वेषां नो विनाशाय_अभ्युत्थितः, सम्भूय_अस्य यात्रां विहनाम" इति ॥
अशा-०७.१८.०७
तच् चेन् मण्डलम् अनुगृह्णीयात्, मध्यम.अवग्रहेण_आत्मानम् उपबृंहयेत् ॥
अशा-०७.१८.०८
न चेद् अनुगृह्णीयात्, कोश.दण्डाभ्यां मित्रम् अनुगृह्य ये मध्यम.द्वेषिणो राजानः परस्पर.अनुगृहीता वा बहवस् तिष्ठेयुः, एक.सिद्धौ वा बहवः सिध्येयुः, परस्पराद् वा शङ्किता न_उत्तिष्ठेरन्, तेषां प्रधानम् एकम् आसन्नं वा साम.दानाभ्यां लभेत ॥
अशा-०७.१८.०९
द्वि.गुणो द्वितीयं त्रि.गुनस् तृतीयम् ॥
अशा-०७.१८.१०
एवम् अभ्युच्चितो मध्यमम् अवगृह्णीयात् ॥
अशा-०७.१८.११
देश.काल.अतिपत्तौ वा संधाय मध्यमेन मित्रस्य साचिव्यं कुर्यात्, दूष्येषु वा कर्म.संधिम् ॥
अशा-०७.१८.१२
कर्शनीयं वा_अस्य मित्रं मध्यमो लिप्सेत, प्रतिस्तम्भयेद् एनं "अहं त्वा त्रायेय" इति आ कर्शनात् ॥
अशा-०७.१८.१३
कर्शितम् एनं त्रायेत ॥
अशा-०७.१८.१४
उच्छेदनीयं वा_अस्य मित्रं मध्यमो लिप्सेत, कर्शितम् एनं त्रायेत मध्यम.वृद्धि.भयात् ॥
अशा-०७.१८.१५
उच्छिन्नं वा भूम्य्.अनुग्रहेण हस्ते कुर्याद् अन्यत्र_अपसार.भयात् ॥
अशा-०७.१८.१६
कर्शनीय.उच्छेदनीययोश् चेन् मित्राणि मध्यमस्य साचिव्य.कराणि स्युः, पुरुष.अन्तरेण संधीयेत ॥
अशा-०७.१८.१७
विजिगीषोर् वा तयोर् मित्राण्य् अवग्रह.समर्थानि स्युः, संधिम् उपेयात् ॥
अशा-०७.१८.१८
अमित्रं वा_अस्य मध्यमो लिप्सेत, संधिम् उपेयात् ॥
अशा-०७.१८.१९
एवं स्व.अर्थश् च कृतो भवति मध्यमस्य प्रियं च ॥
अशा-०७.१८.२०
मध्यमश् चेत् स्व.मित्रं मित्र.भावि लिप्सेत, पुरुष.अन्तरेण संदध्यात् ॥
अशा-०७.१८.२१
स.अपेक्षं वा "न_अर्हसि मित्रम् उच्छेत्तुम्" इति वारयेत् ॥
अशा-०७.१८.२२
उपेक्षेत वा "मण्डलम् अस्य कुप्यतु स्व.पक्ष.वधात्" इति ॥
अशा-०७.१८.२३
अमित्रम् आत्मनो वा मध्यमो लिप्सेत, कोश.दण्डाभ्याम् एनम् अदृश्यमानो_अनुगृह्णीयात् ॥
अशा-०७.१८.२४
उदासीनं वा मध्यमो लिप्सेत, अस्मै साहाय्यं दद्याद् "उदासीनाद् भिद्यताम्" इति ॥
अशा-०७.१८.२५
मध्यम.उदासीनयोर् यो मण्डलस्य_अभिप्रेतस् तम् आश्रयेत ॥
अशा-०७.१८.२६
मध्यम.चरितेन_उदासीन.चरितं व्याख्यातम् ॥
अशा-०७.१८.२७
उदासीनश् चेन् मध्यमं लिप्सेत, यतः शत्रुम् अतिसंदध्यान् मित्रस्य_उपकारं कुर्याद् उदासीनं वा दण्ड.उपकारिणं लभेत ततः परिणमेत ॥
अशा-०७.१८.२८
एवम् उपबृह्य_आत्मानम् अरि.प्रकृतिं कर्शयेन् मित्र.प्रकृतिं च_उपगृह्णीयात् ॥
अशा-०७.१८.२९क
सत्य् अप्य् अमित्र.भावे तस्य_अनात्मवान् नित्य.अपकारी शत्रुः शत्रु.संहितः पार्ष्णि.ग्राहो वा व्यसनी यातव्यो व्यसने वा नेतुर् अभियोक्ता इत्य् अरि.भाविनः, एक.अर्थ.अभिप्रयातः पृथग्.अर्थ.अभिप्रयातः सम्भूय.यात्रिकः संहित.प्रयाणिकः स्व.अर्थ.अभिप्रयातः सामुत्थायिकः कोश.दण्डयोर् अन्यतरस्य क्रेता विक्रेता वा द्वैधी.भाविक इति मित्र.भाविनः,
- ॥
अशा-०७.१८.२९ख
सामन्तो बलवतः प्रतिघातो_अन्तर्धिः प्रतिवेशो वा बलवतः पार्ष्णि.ग्राहो वा स्वयम् उपनतः प्रताप.उपनतो वा दण्ड.उपनत इति भृत्य.भाविनः सामन्ताः ॥
अशा-०७.१८.३०
तैर् भूम्य्.एक.अन्तरा व्याख्याताः ॥
अशा-०७.१८.३१कख’’’
तेषां शत्रु.विरोधे यन् मित्रम् एक.अर्थतां व्रजेत् ।
अशा-०७.१८.३१गघ’’’
शक्त्या तद्.अनुगृह्णीयाद् विषहेत यया परम् ॥
अशा-०७.१८.३२कख’’’
प्रसाध्य शत्रुं यन् मित्रं वृद्धं गच्छेद् अवश्यताम् ।
अशा-०७.१८.३२गघ’’’
सामन्त.एक.अन्तराभ्यां तत्.प्रकृतिभ्यां विरोधयेत् ॥
अशा-०७.१८.३३कख’’’
तत्.कुलीन.अपरुद्धाभ्यां भूमिं वा तस्य हारयेत् ।
अशा-०७.१८.३३गघ’’’
यथा वा_अनुग्रह.अपेक्षं वश्यं तिष्ठेत् तथा चरेत् ॥
अशा-०७.१८.३४कख’’’
न_उपकुर्याद् अमित्रं वा गच्छेद् यद् अतिकर्शितम् ।
अशा-०७.१८.३४गघ’’’
तद् अहीनम् अवृद्धं च स्थापयेन् मित्रम् अर्थवित् ॥
अशा-०७.१८.३५कख’’’
अर्थ.युक्त्या चलं मित्रं संधिं यद् उपगच्छति ।
अशा-०७.१८.३५गघ’’’
तस्य_अपगमने हेतुं विहन्यान् न चलेद् यथा ॥
अशा-०७.१८.३६कख’’’
अरि.साधारणं यद् वा तिष्ठेत् तद् अरितः शठम् ।
अशा-०७.१८.३६गघ’’’
भेदयेद् भिन्नम् उच्छिन्द्यात् ततः शत्रुम् अनन्तरम् ॥
अशा-०७.१८.३७कख’’’
उदासीनं च यत् तिष्ठेत् सामन्तैस् तद् विरोधयेत् ।
अशा-०७.१८.३७गघ’’’
ततो विग्रह.संतप्तम् उपकारे निवेशयेत् ॥
अशा-०७.१८.३८कख’’’
अमित्रं विजिगीषुं च यत् संचरति दुर्बलम् ।
अशा-०७.१८.३८गघ’’’
तद् बलेन_अनुगृह्णीयाद् यथा स्यान् न परान्.मुखम् ॥
अशा-०७.१८.३९कख’’’
अपनीय ततो_अन्यस्यां भूमौ वा सम्निवेशयेत् ।
अशा-०७.१८.३९गघ’’’
निवेश्य पूर्वं तत्र_अन्यद् दण्ड.अनुग्रह.हेतुना ॥
अशा-०७.१८.४०कख’’’
अपकुर्यात् समर्थं वा न_उपकुर्याद् यद् आपदि ।
अशा-०७.१८.४०गघ’’’
उच्छिन्द्याद् एव तन्.मित्रं विश्वस्य_अङ्कम् उपस्थितम् ॥
अशा-०७.१८.४१कख’’’
मित्र.व्यसनतो वा_अरिर् उत्तिष्ठेद् यो_अनवग्रहः ।
अशा-०७.१८.४१गघ’’’
मित्रेण_एव भवेत् साध्यश् छादित.व्यसनेन सः ॥
अशा-०७.१८.४१कख’’’
अमित्र.व्यसनान् मित्रम् उत्थितं यद् विरज्यति ।
अशा-०७.१८.४१गघ’’’
अरि.व्यसन.सिद्ध्या तत्.शत्रुणा_एव प्रसिध्यति ॥
अशा-०७.१८.४२कख’’’
वृद्धिं क्षयं च स्थानं च कर्शन.उच्छेदनं तथा ॥
अशा-०७.१८.४२गघ’’’
सर्व.उपायान् समादध्याद् एतान् यश् च_अर्थ.शास्त्रवित् ।
अशा-०७.१८.४३कख’’’
एवम् अन्योन्य.संचारं षाड्गुण्यं यो_अनुपश्यति ॥
अशा-०७.१८.४३गघ’’’
स बुद्धि.निगलैर् बद्धैर् इष्टं क्रीडति पार्थिवैः ॥