अर्थशास्त्रम् अध्याय 09

विकिपुस्तकानि तः
Jump to navigation Jump to search

(शक्ति.देश.काल.बल.अबल.ज्नानम् - यात्रा.कालाह्)

अशा-०९.१.०१
विजिगीषुर् आत्मनः परस्य च बल.अबलं शक्ति.देश.काल.यात्रा.काल.बल.समुद्दान.काल.पश्चात्.कोप.क्षय.व्यय.लाभ.आपदां ज्ञात्वा विशिष्ट.बलो यायात्, अन्यथा_आसीत ॥

अशा-०९.१.०२
"उत्साह.प्रभावयोर् उत्साहः श्रेयान् ॥

अशा-०९.१.०३
स्वयं हि राजा शूरो बलवान् अरोगः कृत.अस्त्रो दण्ड.द्वितीयो_अपि शक्तः प्रभाववन्तं राजानं जेतुम् ॥

अशा-०९.१.०४
अल्पो_अपि च_अस्य दण्डस् तेजसा कृत्य.करो भवति ॥

अशा-०९.१.०५
निरुत्साहस् तु प्रभाववान् राजा विक्रम.अभिपन्नो नश्यति" इत्य् आचार्याः ॥

अशा-०९.१.०६
न_इति कौटिल्यः ॥

अशा-०९.१.०७
प्रभाववान् उत्साहवन्तं राजानं प्रभावेन_अतिसंधत्ते तद्.विशिष्टम् अन्यं राजानम् आवाह्य भृत्वा क्रीत्वा प्रवीर.पुरुषान् ॥

अशा-०९.१.०८
प्रभूत.प्रभाव.हय.हस्ति.रथ.उपकरण.सम्पन्नश् च_अस्य दण्डः सर्वत्र_अप्रतिहतश् चरति ॥

अशा-०९.१.०९
उत्साहवतश् च प्रभाववन्तो जित्वा क्रीत्वा च स्त्रियो बालाः पङ्गवो_अन्धाश् च पृथिवीं जिग्युर् इति ॥

अशा-०९.१.१०
"प्रभाव.मन्त्रयोः प्रभावः श्रेयान् ॥

अशा-०९.१.११
मन्त्र.शक्ति.सम्पन्नो हि वन्ध्य.बुद्धिर् अप्रभावो भवति ॥

अशा-०९.१.१२
मन्त्र.कर्म च_अस्य निश्चितम् अप्रभावो गर्भ.धान्यम् अवृष्टिर् इव_उपहन्ति" इत्य् आचार्याः ॥

अशा-०९.१.१३
न_इति कौटिल्यः ॥

अशा-०९.१.१४
मन्त्र.शक्तिः श्रेयसी ॥

अशा-०९.१.१५
प्रज्ञा.शास्त्र.चक्षुर् हि राजा_अल्पेन_अपि प्रयत्नेन मन्त्रम् आधातुं शक्तः परान् उत्साह.प्रभाववतश् च साम.आदिभिर् योग.उपनिषद्भ्यां च_अतिसंधातुम् ॥

अशा-०९.१.१६
एवम् उत्साह.प्रभाव.मन्त्र.शक्तीनाम् उत्तर.उत्तर.अधिको_अतिसंधत्ते ॥

अशा-०९.१.१७
देशः पृथिवी ॥

अशा-०९.१.१८
तस्यां हिमवत्.समुद्र.अन्तरम् उदीचीनं योजन.सहस्र.परिमाणं तिर्यक् चक्र.वर्ति.क्षेत्रम् ॥

अशा-०९.१.१९
तत्र_अरण्यो ग्राम्यः पर्वत औदको भौमः समो विषम इति विशेषाः ॥

अशा-०९.१.२०
तेषु यथा.स्व.बल.वृद्धि.करं कर्म प्रयुञ्जीत ॥

अशा-०९.१.२१
यत्र.आत्मनः सैन्य.व्यायामानां भूमिः, अभूमिः परस्य, स उत्तमो देशः, विपरीतो_अधमः, साधारणो मध्यमः ॥

अशा-०९.१.२२
कालः शीत.उष्ण.वर्ष.आत्मा ॥

अशा-०९.१.२३
तस्य रात्रिर् अहः पक्षो मास ऋतुर् अयनं संवत्सरो युगम् इति विशेषाः ॥

अशा-०९.१.२४
तेषु यथा.स्व.बल.वृद्धि.करं कर्म.प्रयुञ्जीत ॥

अशा-०९.१.२५
यत्र.आत्मनः सैन्य.व्यायामानाम् ऋतुः अनृतुः परस्य, स उत्तमः कालः, विपरीतो_अधमः, साधारणो मध्यमः ॥

अशा-०९.१.२६
"शक्ति.देश.कालानां तु शक्तिः श्रेयसी" इत्य् आचार्याः ॥

अशा-०९.१.२७
शक्तिमान् हि निम्न.स्थलवतो देशस्य शीत.उष्ण.वर्षवतश् च कालस्य शक्तः प्रतीकारे भवति ॥

अशा-०९.१.२८
"देशः श्रेयान्" इत्य् एके ॥

अशा-०९.१.२९
"स्थल.गतो हि श्वा नक्रं विकर्षति, निम्न.गतो नक्रः श्वानम्" इति ॥

अशा-०९.१.३०
"कालः श्रेयान्" इत्य् एके ॥

अशा-०९.१.३१
"दिवा काकः कौशिकं हन्ति, रात्रौ कौशिकः काकम्" इति ॥

अशा-०९.१.३२
न_इति कौटिल्यः ॥

अशा-०९.१.३३
परस्पर.साधका हि शक्ति.देश.कालाः ॥

अशा-०९.१.३४
तैर् अभ्युच्चितस् तृतीयं चतुर्थं वा दण्डस्य_अंशं मूले पार्ष्ण्यां प्रत्यन्त.अटवीषु च रक्षा विधाय कार्य.साधन.सहं कोश.दण्डं च_आदाय क्षीण.पुराण.भक्तम् अगृहीत.नव.भक्तम् असंस्कृत.दुर्गम.मित्रं वार्षिकं च_अस्य सस्यं हैमनं च मुष्टिम् उपहन्तुं मार्गशीर्षीं यात्रां यायात् ॥

अशा-०९.१.३५
हैमानं च_अस्य सस्यं वासन्तिकं च मुष्टिम् उपहन्तुं चैत्रीं यात्रां यायात् ॥

अशा-०९.१.३६
क्षीण.कृण.काष्ठ.उदकम् असंस्कृत.दुर्गम.मित्रं वासन्तिकं च_अस्य सस्यं वार्षिकीं च मुष्टिम् उपहन्तुं ज्येष्ठामूलीयां यात्रां यायात् ॥

अशा-०९.१.३७
अत्युष्णम् अल्प.यवस.इन्धन.उदकं वा देशं हेमन्ते यायात् ॥

अशा-०९.१.३८
तुषार.दुर्दिनम् अगाध.निम्न.प्रायं गहन.तृण.वृक्षं वा देशं ग्रीष्मे यायात् ॥

अशा-०९.१.३९
स्व.सैन्य.व्यायाम.योग्यं परस्य_अयोग्यं वर्षति यायात् ॥

अशा-०९.१.४०
मार्गशीर्षीं तैषीं च_अन्तरेण दीर्घ.कालां यात्रां यायात्, चैत्रीं वैशाखीं च_अन्तरेण मध्यम.कालाम्, ज्येष्ठामूलीयाम् आषाढीं च_अन्तरेण ह्रस्व.कालाम्, उपोषिष्यन् व्यसने चतुर्थीम् ॥

अशा-०९.१.४१
व्यसन.अभियानं विगृह्य.याने व्याख्यातम् ॥

अशा-०९.१.४२
प्रायशश् च_आचार्याः "पर.व्यसने यातव्यम्" इत्य् उपदिशन्ति ॥

अशा-०९.१.४३
शक्त्य्.उदये यातव्यम् अनैकान्न्तिकत्वाद् व्यसनानाम् इति कौटिल्यः ॥

अशा-०९.१.४४
यदा वा प्रयातः कर्शयितुम् उच्छेतुं वा शक्नुयाद् अमित्रं तदा यायात् ॥

अशा-०९.१.४५
अत्युष्ण.उपक्षीणे काले हस्ति.बल.प्रायो यायात् ॥

अशा-०९.१.४६
हस्तिनो ह्य् अन्तः.स्वेदाः कुष्ठिनो भवन्ति ॥

अशा-०९.१.४७
अनवगाहमानास् तोयम् अपिबन्तश् च_अन्तर्.अवक्षाराच् च_अन्धी.भवन्ति ॥

अशा-०९.१.४८
तस्मात् प्रभूत.उदके देशे वर्षति च हस्ति.बल.प्रायो यायात् ॥

अशा-०९.१.४९
विपर्यये खर.उष्ट्र.अश्व.बल.प्रायो देशम् अल्प.वर्ष.पङ्कम् ॥

अशा-०९.१.५०
वर्षति मरु.प्रायं चतुर्.अङ्ग.बलो यायात् ॥

अशा-०९.१.५१
सम.विषम.निम्न.स्थल.ह्रस्व.दीर्घ.वशेन वा_अध्वनो यात्रां विभजेत् ॥

अशा-०९.१.५२कख’’’
सर्वा वा ह्रस्व.कालाः स्युर् यातव्याः कार्य.लाघवात् ।


अशा-०९.१.५२गघ’’’
दीर्घाः कार्य.गुरुत्वाद् वा वर्षा.वासः परत्र च ॥

(बल.उपादान.कालाह् -सम्नाह.गुणाह् -प्रतिबल.कर्म)

अशा-०९.२.०१
मौल.भृतक.श्रेणी.मित्र.अमित्र.अटवी.बलानां समुद्दान.कालाः ॥

अशा-०९.२.०२
मूल.रक्षणाद् अतिरिक्तं मौल.बलम्, अत्यावाप.युक्ता वा मौला मूले विकुर्वीरन्, बहुल.अनुरक्त.मौल.बलः सार.बलो वा प्रतियोद्धा, व्यायामेन योद्धव्यम्, प्रकृष्टे_अध्वनि काले वा क्षय.व्यय.सहत्वान् मौलानाम्, बहुल.अनुरक्त.सम्पाते च यातव्यस्य_उपजाप.भयाद् अन्य.सैन्यानां भृत.आदीनाम् अविश्वासे, बल.क्षये वा सर्व.सैन्यानां - इति मौल.बल.कालः //

अशा-०९.२.०३
"प्रभूतं मे भृत.बलम् अल्पं च मौल.बलम्ण्" "परस्य_अल्पं विरक्तं वा मौल.बलम्, फल्गु.प्रायम् असारं वा भृत.सैन्यम्ण्" "मन्त्रेण योद्धव्यम् अल्प.व्यायामेनण्" "ह्रस्वो देशः कालो वा तनु.क्षय.व्ययह्ण्" "अल्प.आवापं शान्त.उपजापं विश्वस्तं वा मे सैन्यम्ण्" "परस्य_अल्पः प्रसारो हन्तव्यह्ण्" - इति भृत.बल.कालः ॥

अशा-०९.२.०४
"प्रभूतं मे श्रेणी.बलम्, शक्यं मूले यात्रायां च_आधातुम्ण्" ह्रस्वः प्रवासः, श्रेणी.बल.प्रायः प्रतियोद्धा मन्त्र.व्यायामाभ्यां प्रतियोद्धु.कामः, दण्ड.बल.व्यवहारः - इति श्रेणी.बल.कालः ॥

अशा-०९.२.०५
"प्रभूतं मे मित्र.बलं शक्यं मूले यात्रायां च_आधातुम्ण्" "अल्पः प्रवासो मन्त्र.युद्धाच् च भूयो व्यायाम.युद्धम्ण्" "मित्र.बलेन वा पूर्वम् अटवीं नगर.स्थानम् आसारं वा योधयित्वा पश्चात् स्व.बलेन योद्धयिष्यामिण्" "मित्र.साधारणं वा मे कार्यम्ण्" "मित्र.आयत्ता वा मे कार्य.सिद्धिह्ण्" "आसन्नम् अनुग्राह्यं वा मे मित्रम्ण्" "अत्यावापं वा_अस्य सादयिष्यामि" - इति मित्र.बल.कालः ॥

अशा-०९.२.०६
"प्रभूतं मे शत्रु.बलम्, शत्रु.बलेन योधयिष्यामि नगर.स्थानम् अटवीं वा, तत्र मे श्व.वराहयोः कलहे चण्डालस्य_इव_अन्यतर.सिद्धिर् भविष्यतिण्" "आसाराणाम् अटवीनां वा कण्टक.मर्दनम् एतत् करिष्यामिण्" - अत्युपचितं वा कोप.भयान् नित्यम् आसन्नम् अरि.बलं वासयेद्, अन्यत्र.अभ्यन्तर.कोप.शङ्कायाः - शत्रु.युद्ध.अवर.युद्ध.कालश् च - इत्य् अमित्र.बल.कालः ॥

अशा-०९.२.०७
तेन_अटवी.बल.कालो व्याख्यातः ॥

अशा-०९.२.०८
मार्ग.आदेशिकम्, पर.भूमि.योग्यम्, अरि.युद्ध.प्रतिलोमम्, अटवी.बल.प्रायः शत्रुर् वा, "बिल्वं बिल्वेन हन्यताम्ण्" अल्पः प्रसारो हन्तव्यः - इत्य् अटवी.बल.कालः ॥

अशा-०९.२.०९
सैन्यम् अनेकम् अनेकस्थम् उक्तम् अनुक्तं वा विलोप.अर्थं यद् उत्तिष्ठति तद् औत्साहिकं - अभक्त.वेतनं विलोप.विष्टि.प्रताप.करं भेद्यं परेषाम्, अभेद्यं तुल्य.देश.जाति.शिल्प.प्रायं संहतं महत् ॥ [इति बल.उपादान.कालाह्]

अशा-०९.२.१०
तेषां कुप्य.भृतम् अमित्र.अटवी.बलं विलोप.भृतं वा कुर्यात् ॥

अशा-०९.२.११
अमित्रस्य वा बल.काले प्रत्युत्पन्ने शत्रु.बलम् अवगृह्णीयात्, अन्यत्र वा प्रेषयेत्, अफलं वा कुर्यात्, विक्षिप्तं वा वासयेत्, काले वा_अतिक्रान्ते विसृजेत् ॥

अशा-०९.२.१२
परस्य च_एतद् बल.समुद्दानं विघातयेत्, आत्मनः सम्पादयेत् ॥

अशा-०९.२.१३
पूर्वं पूर्वं च_एषां श्रेयः सम्नाहयितुम् ॥

अशा-०९.२.१४
तद्.भाव.भावित्वान् नित्य.सत्कार.अनुगमाच् च मौल.बलं भृत.बलात्_श्रेयः ॥

अशा-०९.२.१५
नित्य.अनन्तरं क्षिप्र.उत्थायि वश्यं व भृत.बलं श्रेणी.बलात्_श्रेयः ॥

अशा-०९.२.१६
जानपदम् एक.अर्थ.उपगतं तुल्य.संघर्ष.अमर्ष.सिद्धि.लाभं च श्रेणी.बलं मित्र.बलात्_श्रेयः ॥

अशा-०९.२.१७
अपरिमित.देश.कालम् एक.अर्थ.उपगमाच् च मित्र.बलम् अमित्र.बलात्_श्रेयः ॥

अशा-०९.२.१८
आर्य.अधिष्ठितम् अमित्र.बलम् अटवी.बलात्_श्रेयः ॥

अशा-०९.२.१९
तद् उभयं विलोप.अर्थम् ॥

अशा-०९.२.२०
अविलोपे व्यसने च ताभ्याम् अहि.भयं स्यात् ॥

अशा-०९.२.२१
"ब्राह्मण.क्षत्रिय.वैश्य.शूद्र.सैन्यानां तेजः.प्राधान्यात् पूर्वं पूर्वं श्रेयः सम्नाहयितुम्" इत्य् आचार्याः ॥

अशा-०९.२.२२
न_इति कौटिल्यः ॥

अशा-०९.२.२३
प्रणिपातेन ब्राह्मण.बलं परो_अभिहारयेत् ॥

अशा-०९.२.२४
प्रहरण.विद्या.विनीतं तु क्षत्रिय.बलं श्रेयः, बहुल.सारं वा वैश्य.शूद्र.बलम् इति ॥

अशा-०९.२.२५
तस्माद् एवं.बलः परः, तस्य_एतत् प्रतिबलम् इति बल.समुद्दानं कुर्यात् ॥

अशा-०९.२.२६
हस्ति.यन्त्र.शकट.गर्भ.कुन्त.प्रास.हाटक.वेणु.शल्यवद् हस्ति.बलस्य प्रतिबलम् ॥

अशा-०९.२.२७
तद् एव पाषाण.लगुड.आवरण.अङ्कुश.कच.ग्रहणी.प्रायं रथ.बलस्य प्रतिबलम् ॥

अशा-०९.२.२८
तद् एव_अश्वानां प्रतिबलम्, वर्मिणो वा हस्तिनो_अश्वा वा वर्मिणः ॥

अशा-०९.२.२९
कवचिनो रथा आवरणिनः पत्तयश् च चतुर्.अङ्ग.बलस्य प्रतिबलम् ॥

अशा-०९.२.३०कख’’’
एवं बल.समुद्दानं पर.सैन्य.निवारणम् ।


अशा-०९.२.३०गघ’’’
विभवेन स्व.सैन्यानां कुर्याद् अङ्ग.विकल्पशः ॥

(पश्चात्.कोप.चिन्ता - बाह्य.अभ्यन्तर.प्रकृति.कोप.प्रतीकारह्)

अशा-०९.३.०१
अल्पः पश्चात्.कोपो महान् पुरस्ताल्.लाभ इति अल्पः पश्चात्.कोपो गरीयान् ॥

अशा-०९.३.०२
अल्पं पश्चात्.कोपं प्रयातस्स्य दूष्य.अमित्र.आटविका हि सर्वतः समेधयन्ति, प्रकृति.कोपो वा ॥

अशा-०९.३.०३
लब्धम् अपि च महान्तं पुरस्ताल्.लाहम् एवं.भूते भृत्य.मित्र.क्षय.व्यया ग्रसन्ते ॥

अशा-०९.३.०४
तस्मात् सहस्र.एकीयः पुरस्ताल्.लाभस्य_अयोगः शत.एकीयो वा पश्चात्.कोप इति न यायात् ॥

अशा-०९.३.०५
सूची.मुखा ह्य् अनर्था इति लोक.प्रवादः ॥

अशा-०९.३.०६
पश्चात्.कोपे साम.दान.भेद.दण्डान् प्रयुञ्जीत ॥

अशा-०९.३.०७
पुरस्ताल्.लाभे सेना.पतिं कुमारं वा दण्ड.चारिणं कुर्वीत ॥

अशा-०९.३.०८
बलवान् वा राजा पश्चात्.कोप.अवग्रह.समर्थः पुरस्ताल्.लाभम् आदातुं यायात् ॥

अशा-०९.३.०९
अभ्यन्तर.कोप.शङ्कायां शङ्कितान् आदाय यायात्, बाह्य.कोप.शङ्कायां वा पुत्र.दारम् एषाम् ॥

अशा-०९.३.१०
अभ्यन्तर.अवग्रहं कृत्वा शून्य.पालम् अनेक.बल.वर्गम् अनेक.मुख्यं च स्थापयित्वा यायात्, न वा यायात् ॥

अशा-०९.३.११
अभ्यन्तर.कोपो बाह्य.कोपात् पापीयान् इत्य् उक्तं पुरस्तात् ॥

अशा-०९.३.१२
मन्त्र.पुरोहित.सेना.पति.युव.राजानाम् अन्यतम.कोपो_अभ्यन्तर.कोपः ॥

अशा-०९.३.१३
तम् आत्म.दोष.त्यागेन पर.शक्त्य्.अपराध.वशेन वा साधयेत् ॥

अशा-०९.३.१४
महा.अपराधे_अपि पुरोहिते सम्रोधनम् अवस्रावणं वा सिद्धिः, युव.राजे सम्रोधनं निग्रहो वा गुणवत्य् अन्यस्मिन् सति पुत्रे ॥

अशा-०९.३.१५
पुत्रं भ्रातरम् अन्यं वा कुल्यं राज.ग्राहिणम् उत्साहेन साधयेत्, उत्साह.अब्भावे गृहीत.अनुवर्तन.संधि.कर्मभ्याम् अरि.संधान.भयात् ॥

अशा-०९.३.१६
अन्येभ्यस् तद्.विधेभ्यो वा भूमि.दानैर् विश्वासयेद् एनम् ॥

अशा-०९.३.१७
तद्.विशिष्टं स्वयं.ग्राहं दण्डं वा प्रेषयेत्, सामन्त.आटविकान् वा, तैर् विगृहीतम् अतिसंदध्यात् ॥

अशा-०९.३.१८
अपरुद्ध.आदानं पारग्रामिकं वा योगम् आतिष्ठेत् ॥

अशा-०९.३.१९
एतेन मन्त्र.सेना.पती व्याख्यातौ ॥

अशा-०९.३.२०
मन्त्र्य्.आदि.वर्जानाम् अन्तर्.अमात्यानाम् अन्यतम.कोपो_अन्तर्.अमात्य.कोपः ॥

अशा-०९.३.२१
तत्र_अपि यथा.अर्हम् उपायान् प्रयुञ्जीत ॥

अशा-०९.३.२२
राष्ट्र.मुख्य.अन्त.पाल.आटविक.दण्ड.उपनतानाम् अन्यतम.कोपो बाह्य.कोपः ॥

अशा-०९.३.२३
तम् अन्योन्येन_अवग्राहयेत् ॥

अशा-०९.३.२४
अतिदुर्ग.प्रतिष्टब्धं वा सामन्त.आटविक.तत्.कुलीन.अपरुद्धानाम् अन्यतमेन_अवग्राहयेत् ॥

अशा-०९.३.२५
मित्रेण_उपग्राहयेद् वा यथा न_अमित्रं गच्छेत् ॥

अशा-०९.३.२६
अमित्राद् वा सत्त्री भेदयेद् एनं - "अयं त्वा योग.पुरुषं मन्यमानो भर्तर्य् एव विक्रमयिष्यति, अवाप्त.अर्थो दण्ड.चारिणम् अमित्र.आटविकेषु कृच्छ्रे वा प्रयासे योक्ष्यति, विपुत्र.दारम् अन्ते वा वासयिष्यति ॥

अशा-०९.३.२७
प्रतिहत.विक्रमं त्वां भर्तर्य् पण्यं करिष्यति, त्वया वा संधिं कृत्वा भर्तारम् एव प्रसादयिष्यति ॥

अशा-०९.३.२८
मित्रम् उपकृष्टं वा_अस्य गच्छ" इति ॥

अशा-०९.३.२९
प्रतिपन्नम् इष्ट.अभिप्रायैः पूजयेत् ॥

अशा-०९.३.३०
अप्रतिपन्नस्य संश्रयं भेदयेद् "असौ ते योग.पुरुषः प्रणिहितः" इति ॥

अशा-०९.३.३१
सत्त्री च_एनम् अभित्यक्त.शासनैर् घातयेत्, गूढ.पुरुषैर् वा ॥

अशा-०९.३.३२
सह.प्रस्थायिनो वा_अस्य प्रवीर.पुरुषान् यथा.अभिप्राय.करणेन_आवाहयेत् ॥

अशा-०९.३.३३
तेन प्रणिहितान् सत्त्री ब्रूयात् ॥

अशा-०९.३.३४
इति सिद्धिः ॥

अशा-०९.३.३५
परस्य च_एनान् कोपान् उत्थापयेत्, आत्मनश् च शमयेत् ॥

अशा-०९.३.३६
यः कोपं कर्तुं शमयितुं वा शक्तस् तत्र_उपजापः कार्यः ॥

अशा-०९.३.३७
यः सत्य.संधः शक्तः कर्मणि फल.अवाप्तौ च_अनुग्रहीतुं विनिपाते च त्रातुं तत्र प्रतिजापः कार्यः, तर्कयितव्यश् च कल्याण.बुद्धिर् उत_अहो शठ इति ॥

अशा-०९.३.३८
शठो हि बाह्यो_अभ्यन्तरम् एवम् उपजपति - "भर्तारं चेद्द् हत्वा मां प्रतिपादयिष्यति शत्रु.वधो भूमि.लाभश् च मे द्विविधो लाभो भविष्यति, अथ वा शत्रुर् एनम् आहनिष्यति_इति हत.बन्धु.पक्षस् तुल्य.दोष.दण्डेन_उद्विग्नश् च मे भूयान् अकृत्य.पक्षो भविष्यति, तद्.विधे वा_अन्यस्मिन्न् अपि शङ्कितो भविष्यति, अन्यम् अन्यं च_अस्य मुख्यम् अभित्यक्त.शासनेन घातयिष्यामि" इति ॥

अशा-०९.३.३९
अभ्यन्तरो वा शठो बाह्यम् एवम् उपजपति - "कोशम् अस्य हरिष्यामि, दण्डं वा_अस्य हनिष्यामि, दुष्टं वा भर्तारम् अनेन घातयिष्यामि, प्रतिपन्नं बाह्यम् अमित्र.आटविकेषु विक्रमयिष्यामि "चक्रम् अस्य सज्यताम्, वैरम् अस्य प्रसज्यताम्, ततः स्व.अधीनो मे भविष्यति, ततो भर्तारम् एव प्रसादयिष्यामि, स्वयं वा राज्यं ग्रहीष्यामिण्" बद्ध्वा वा बाह्य.भूमिं भर्तृ.भूमिं च_उभयम् अवाप्स्यामि, विरुद्धं वा_आवाहयित्वा बाह्यं विश्वस्तं घातयिष्यामि, शून्यं वा_अस्य मूलं हरिष्यामि" इति ॥

अशा-०९.३.४०
कल्याण.बुद्धिस् तु सह.जीव्य् अर्थम् उपजपति ॥

अशा-०९.३.४१
कल्याण.बुद्धिना संदधीत, शठं "तथा" इति प्रतिगृह्य_अतिसंदध्यात् - इति ॥

अशा-०९.३.४२कख’’’
एवम् उपलभ्य - परे परेभ्यः स्वे स्वेभ्यः स्वे परेभ्यः स्वतः परे ।


अशा-०९.३.४२गघ’’’
रक्ष्याः स्वेभ्यः परेभ्यश् च नित्यम् आत्मा विपश्चिता ॥

(क्षय.व्यय.लाभ.विपरिमर्शह्)

अशा-०९.४.०१
युग्य.पुरुष.अपचयः क्षयः ॥

अशा-०९.४.०२
हिरण्य.धान्य.अपचयो व्ययः ॥

अशा-०९.४.०३
ताभ्यां बहु.गुण.विशिष्टे लाभे यायात् ॥

अशा-०९.४.०४
आदेयः प्रत्यादेयः प्रसादकः प्रकोपको ह्रस्व.कालस् तनु.क्षयो_अल्प.व्ययो महान् वृद्ध्य्.उदयः कल्यो धर्म्यः पुरोगश् च_इति लाभ.सम्पत् ॥

अशा-०९.४.०५
सुप्राप्य.अनुपाल्यः परेषाम् अप्रत्यादेय इत्य् आदेयः ॥

अशा-०९.४.०६
विपर्यये प्रत्यादेयः ॥

अशा-०९.४.०७
तम् आददानस् तत्रस्थो वा विनाशं प्राप्नोति ॥

अशा-०९.४.०८
यदि वा पश्येत् "प्रत्यादेयम् आदाय कोश.दण्ड.निचय.रक्षा.विधानान्य् अवस्रावयिष्यामि, खनि.द्रव्य.हस्ति.वन.सेतु.बन्ध.वणिक्.पथान् उद्धृत.सारान् करिष्यामि, प्रकृतीर् अस्य कर्शयिष्यामि, अपवाहयिष्यामि, आयोगेन_आराधयिष्यामि वा, ताः परं प्रतियोगेन कोपयिष्यति, प्रतिपक्षे वा_अस्य पण्यम् एनं करिष्यामि, मित्रम् अपरुद्धं वा_अस्य प्रतिपादयिष्यामि, मित्रस्य स्वस्य वा देशस्य पीडाम् अत्रस्थस् तस्करेभ्यः परेभ्यश् च प्रतिकरिष्यामि, मित्रम् आश्रयं वा_अस्य वैगुण्यं ग्राहयिष्यामि, तद् अमित्र.विरक्तं तत्.कुलीनं प्रतिपत्स्यते, सत्कृत्य वा_अस्मै भूमिं दास्यामि इति संहित.समुत्थितं मित्रं मे चिराय भविष्यति" इति प्रत्यादेयम् अपि लाभम् आददीत ॥

अशा-०९.४.०९
इत्य् आदेय.प्रत्यादेयौ व्याख्यातौ ॥

अशा-०९.४.१०
अधार्मिकाद् धार्मिकस्य लाभो लभ्यमानः स्वेषां परेषां च प्रसादको भवति ॥

अशा-०९.४.११
विपरीतः प्रकोपक इति ॥

अशा-०९.४.१२
मन्त्रिणाम् उपदेशाल् लाभो_अलभ्यमानः कोपको भवति "अयम् अस्माभिः क्षय.व्ययौ ग्राहितः" इति ॥

अशा-०९.४.१३
दूष्य.मन्त्रिणाम् अनादराल् लाभो लभ्यमानः कोपको भवति "सिद्ध.अर्थो_अयम् अस्मान् विनाशयिष्यति" इति ॥

अशा-०९.४.१४
विपरीतः प्रसादकः ॥

अशा-०९.४.१५
इति प्रसादक.कोपकौ व्याख्यातौ

अशा-०९.४.१६
गमन.मात्र.साध्यत्वाद् ह्रस्व.कालह्

अशा-०९.४.१७
मन्त्र.साध्यत्वात् तनु.क्षयः ॥

अशा-०९.४.१८
भक्त.मात्र.व्ययत्वाद् अल्प.व्ययह्

अशा-०९.४.१९
तदात्व.वैपुल्यान् महान् ॥

अशा-०९.४.२०
अर्थ.अनुबन्धकत्वाद् वृद्ध्य्.उदयः ॥

अशा-०९.४.२१
निराबाधकत्वात् कल्यः ॥

अशा-०९.४.२२
प्रशस्त.उपादानाद् धर्म्यः ॥

अशा-०९.४.२३
सामवायिकानाम् अनिर्बन्ध.गामित्वात् पुरोगः - इति ॥

अशा-०९.४.२४
तुल्ये लाभे देश.कालौ शक्त्य्.उपायौ प्रिय.अप्रियौ जव.अजवौ सामीप्य.विप्रकर्षौ तदात्व.अनुबन्धौ सारत्व.सातत्ये बाहुल्य.बाहु.गुण्ये च विमृश्य बहु.गुण.युक्तं लाभम् आददीत ॥

अशा-०९.४.२५
लाभ.विघ्नाः - कामः कोपः साध्वसं कारुण्यं ह्रीर् अनार्य.भावो मानः सानुक्रोशता पर.लोक.अपेक्षा धार्मिकत्वम् अत्यागित्वं दैन्यम् असूया हस्त.गत.अवमानो दौरात्म्यम् अविश्वासो भयम् अप्रतीकारः शीत.उष्ण.वर्षाणाम् आक्षम्यं मङ्गल.तिथि.नक्षत्र.इष्टित्वम् इति ॥

अशा-०९.४.२६कख’’’
नक्षत्रम् अति पृच्छन्तं बालम् अर्थो_अतिवर्तते ।


अशा-०९.४.२६गघ’’’
अर्थो ह्य् अर्थस्य नक्षत्रं किं करिष्यन्ति तारकाः ॥


अशा-०९.४.२७कख’’’
न_अधनाः प्राप्नुवन्त्य् अर्थान् नरा यत्न.शतैर् अपि ।


अशा-०९.४.२७गघ’’’
अर्थैर् अर्था प्रबध्यन्ते गजाः प्रजिगजैर् इव ॥

(बाह्य.अभ्यन्तराश् च_आपदह्)

अशा-०९.५.०१
संध्य्.आदीनाम् अयथा.उद्देश.अवस्थापनम् अपनयः ॥

अशा-०९.५.०२
तस्माद् आपदः सम्भवन्ति ॥

अशा-०९.५.०३
बाह्य.उत्पत्तिर् अभ्यन्तर.प्रतिजापा, अभ्यन्तर.उत्पत्तिर् बाह्य.प्रतिजापा, बाह्य.उत्पत्तिर् बाह्य.प्रतिजापा, अभ्यन्तर.उत्पत्तिर् अभ्यन्तर.प्रतिजापा - इत्य् आपदः ॥

अशा-०९.५.०४
यत्र बाह्या अभ्यन्तर.अनुपजपन्ति, अभ्यन्तरा वा बाह्यान्, तत्र.उभय.योगे प्रतिजपतः सिद्धिर् विशेषवती ॥

अशा-०९.५.०५
सुव्याजा हि प्रतिजपितारो भवन्ति, न_उपजपितारः ॥

अशा-०९.५.०६
तेषु प्रशान्तेषु न_अन्यान्_शक्नुयुर् उपजपितुम् उपजपितारः ॥

अशा-०९.५.०७
कृच्छ्र.उपजापा हि बाह्यानाम् अभ्यन्तरास् तेषाम् इतरे वा ॥

अशा-०९.५.०८
महतश् च प्रयत्नस्य वधः परेषाम्, अर्थ.अनुबन्धश् च_आत्मन इति ॥

अशा-०९.५.०९
अभ्यन्तरेषु प्रतिजपत्सु साम.दाने प्रयुञ्जीत ॥

अशा-०९.५.१०
स्थान.मान.कर्म सान्त्वम् ॥

अशा-०९.५.११
अनुग्रह.परिहारौ कर्मस्व् आयोगो वा दानम् ॥

अशा-०९.५.१२
बाह्येषु प्रतिजपत्सु भेद.दण्डौ प्रयुञ्जीत ॥

अशा-०९.५.१३
सत्त्रिणो मित्र.व्यञ्जना वा बाह्यानां चारम् एषां ब्रूयुः "अयं वो राजा दूष्य.व्यञ्जनैर् अतिसंधातु.कामः, बुध्यध्वम्" इति ॥

अशा-०९.५.१४
दूष्येषु वा दूष्य.व्यञ्जनाः प्रणिहिता दूष्यान् बाह्यैर् भेदयेयुः, बाह्यान् वा दूष्यैः ॥

अशा-०९.५.१५
दूष्यान् अनुप्रविष्टा वा तीक्ष्णाः शस्त्र.रसाभ्यां हन्युः ॥

अशा-०९.५.१६
आहूय वा बाह्यान् घातयेयुः ॥

अशा-०९.५.१७
यत्र बाह्या बाह्यान् उपजपन्ति, अभ्यन्तरान् अभ्यन्तरा वा, तत्र_एकान्त.योग उपजपितुः सिद्धिर् विशेषवती ॥

अशा-०९.५.१८
दोष.शुद्धौ हि दूष्या न विद्यन्ते ॥

अशा-०९.५.१९
दूष्य.शुद्धौ हि दोषः पुनर् अन्यान् दूषयति ॥

अशा-०९.५.२०
तस्माद् बाह्येषु_उपजपत्सु भेद.दण्डौ प्रयुञ्जीत ॥

अशा-०९.५.२१
सत्त्रिणो मित्र.व्यञ्जना वा ब्रूयुः "अयं वो राजा स्वयम् आदातु.कामः, विगृहीताः स्थानेन राज्ञा, बुध्यध्वम्" इति ॥

अशा-०९.५.२२
प्रतिजपितुर् वा दूत.दण्डान् अनुप्रविष्टास् तीक्ष्णाः शस्त्र.रस.आदिभिर् एषां छिद्रेषु प्रहरेयुः ॥

अशा-०९.५.२३
ततः सत्त्रिणः प्रतिजपितारम् अभिशंसेयुः ॥

अशा-०९.५.२४
अभ्यन्तरान् अभ्यन्तरेषु_उपजपत्सु यथा.अर्हम् उपायं प्रयुञ्जीत ॥

अशा-०९.५.२५
तुष्ट.लिङ्गम् अतुष्टं विपरीतं वा साम प्रयुञ्जीत ॥

अशा-०९.५.२६
शौच.सामर्थ्य.अपदेशेन व्यसन.अभ्युदय.अवेक्षणेन वा प्रतिपूजनम् इति दानम् ॥

अशा-०९.५.२७
मित्र.व्यञ्जनो वा ब्रूयाद् एतान् "चित्त.ज्ञान.अर्थम् उपधास्यति वो राजा, तद् अस्य_आख्यातव्यम् इति ॥

अशा-०९.५.२८
परस्पराद् वा भेदयेद् एनान् "असौ च_असौ च वो राजन्य् एवम् उपजपति" - इति भेदः ॥

अशा-०९.५.२९
दाण्डकर्मिकवच् च दण्डः ॥

अशा-०९.५.३०
एतासां चतसृणाम् आपदाम् अभ्यन्तराम् एव पूर्वं साधयेत् ॥

अशा-०९.५.३१
अहि.भयाद् अभ्यन्तर.कोपो बाह्य.कोपात् पापीयान् इत्य् उक्तं पुरस्ताद् ॥

अशा-०९.५.३२कख’’’
पूर्वां पूर्वां विजानीयाल् लघ्वीम् आपदम् आपदाम् ।


अशा-०९.५.३२गघ’’’
उत्थितां बलवद्भ्यो वा गुर्वीं लघ्वीं विपर्यये ॥

(दूष्य.शत्रु.सम्युक्ताह् <आपदह्>)

अशा-०९.६.०१
दूष्येभ्यः शत्रुभ्यश् च द्विविधा शुद्धा ॥

अशा-०९.६.०२
दूष्य.शुद्धायां पौरेषु जानपदेषु वा दण्ड.वर्जान् उपायान् प्रयुञ्जीत ॥

अशा-०९.६.०३
दण्डो हि महा.जने क्षेप्तुम् अशक्यः ॥

अशा-०९.६.०४
क्षिप्तो वा तं च_अर्थं न कुर्यात्, अन्यं च_अनर्थम् उत्पादयेत् ॥

अशा-०९.६.०५
मुख्येषु त्व् एषां दाण्ड.कर्मिकवच् चेष्टेत ॥

अशा-०९.६.०६
शत्रु.शुद्धायां यतः शत्रुः प्रधानः कार्यो वा ततः साम.आदिभिः सिद्धिं लिप्सेत ॥

अशा-०९.६.०७
स्वामिन्य् आयत्ता प्रधान.सिद्धिः, मन्त्रिष्व् आयत्ता_आयत्त.सिद्धिः, उभय.आयत्ता प्रधान.आयत्त.सिद्धिः ॥

अशा-०९.६.०८
दूष्य.अदूष्याणाम् आमिश्रितत्वाद् आमिश्रा ॥

अशा-०९.६.०९
आमिश्रायाम् अदूष्यतः सिद्धिः ॥

अशा-०९.६.१०
आलम्बन.अभावे ह्य् आलम्बिता न विद्यन्ते ॥

अशा-०९.६.११
मित्र.अमित्राणाम् एकी.भावात् पर.मिश्रा ॥

अशा-०९.६.१२
पर.मिश्रायां मित्रतः सिद्धिः ॥

अशा-०९.६.१३
सुकरो हि मित्रेण संधिः, न_अमित्रेण_इति ॥

अशा-०९.६.१४
मित्रं चेन् न संधिम् इच्छेद् अभीक्ष्णम् उपजपेत् ॥

अशा-०९.६.१५
ततः सत्त्रिभिर् अमित्राद् भेदयित्वा मित्रं लभेत ॥

अशा-०९.६.१६
मित्र.संघस्य वा यो_अन्त.स्थायी तं लभेत ॥

अशा-०९.६.१७
अन्त.स्थायिनि लब्धे मध्य.स्थायिनो भिद्यन्ते ॥

अशा-०९.६.१८
मध्य.स्थायिनं वा लभेत ॥

अशा-०९.६.१९
मध्य.स्थायिनि लब्धे न_अन्त.स्थायिनः संहन्यन्ते ॥

अशा-०९.६.२०
यथा च_एषाम् आश्रय.भेदस् तान् उपायान् प्रयुञ्जीत ॥

अशा-०९.६.२१
धार्मिकं जाति.कुल.श्रुत.वृत्त.स्तवेन सम्बन्धेन पूर्वेषां त्रैकाल्य.उपकारान् अपकाराभ्यां वा सान्त्वयेत् ॥

अशा-०९.६.२२
निवृत्त.उत्साहं विग्रह.श्रान्तं प्रतिहत.उपायं क्षय.व्ययाभ्यां प्रवासेन च_उपतप्तं शौचेन_अन्यं लिप्समानम् अन्यस्माद् वा शङ्कमानं मैत्री.प्रधानं वा कल्याण.बुद्धिं साम्ना साधयेत् ॥

अशा-०९.६.२३
लुब्धं क्षीणं वा तपस्वि.मुख्य.अवस्थापना.पूर्वं दानेन साधयेत् ॥

अशा-०९.६.२४
तत् पञ्च.विधं - देय.विसर्गो गृहीत.अनुवर्तनम् आत्त.प्रतिदानं स्व.द्रव्य.दानम् अपूर्वं पर.स्वेषु स्वयं.ग्राह.दानं च ॥

अशा-०९.६.२५
इति दान.कर्म ॥

अशा-०९.६.२६
परस्पर.द्वेष.वैर.भूमि.हरण.शङ्कितम् अतो_अन्यतमेन भेदयेत् ॥

अशा-०९.६.२७
भीरुं वा प्रतिघातेन "कृत.संधिर् एष त्वयि कर्म.करिष्यति, मित्रम् अस्य निसृष्टम्, संधौ वा न_अभ्यन्तरः" इति ॥

अशा-०९.६.२८
यस्य वा स्व.देशाद् अन्य.देशाद् वा पण्यानि पण्य.अगारतया_आगच्छेयुः तानि अस्य "यातव्याल् लब्धानि" इति सत्त्रिणश् चारयेयुः ॥

अशा-०९.६.२९
बहुली.भूते शासनम् अभित्यक्तेन प्रेषयेत् "एतत् ते पण्यं पण्य.अगारं वा मया ते प्रेषितम्, सामवायिकेषु विक्रमस्व, अपगच्छ वा, ततः पण.शेषम् अवाप्स्यसि" इति ॥

अशा-०९.६.३०
ततः सत्त्रिणः परेषु ग्राहयेयुः "एतद् अरि.प्रदत्तम्" इति ॥

अशा-०९.६.३१
शत्रु.प्रख्यातं वा पण्यम् अविज्ञातं विजिगीषुं गच्छेत् ॥

अशा-०९.६.३२
तद् अस्य वैदेहक.व्यञ्जनाः शत्रु.मुख्येषु विक्रीणीरन् ॥

अशा-०९.६.३३
ततः सत्त्रिणः परेषु ग्राहयेयुः "एतत् पण्यम् अरि.प्रदत्तम्" इति ॥

अशा-०९.६.३४
महा.अपराधान् अर्थ.मानाभ्याम् उपगृह्य वा शस्त्र.रस.अग्निभिर् अमित्रे प्रणिदध्यात् ॥

अशा-०९.६.३५
अथ_एकम् अमात्यं निष्पातयेत् ॥

अशा-०९.६.३६
तस्य पुत्र.दारम् उपगृह्य रात्रौ हतम् इति ख्यापयेत् ॥

अशा-०९.६.३७
अथ_अमात्यः शत्रोस् तान् एक.एकशः प्ररूपयेत् ॥

अशा-०९.६.३८
ते चेद् यथा.उक्तं कुर्युर् न च_एनान् ग्राहयेत् ॥

अशा-०९.६.३९
अशक्तिमतो वा ग्राहयेत् ॥

अशा-०९.६.४०
आप्त.भाव.उपगतो मुख्याद् अस्य_आत्मानं रक्षणीयं कथयेत् ॥

अशा-०९.६.४१
अथ_अमित्र.शासनं मुख्य.उपघाताय प्रेषितम् उभय.वेतनो ग्राहयेत् ॥

अशा-०९.६.४२
उत्साह.शक्तिमतो वा प्रेषयेत् "अमुष्य राज्यं गृहाण, यथा.अस्थितो नः संधिः" इति ॥

अशा-०९.६.४३
ततः सत्त्रिणः परेषु ग्राहयेयुः ॥

अशा-०९.६.४४
एकस्य स्कन्ध.आवारं वीवधम् आसारं वा घातयेयुः ॥

अशा-०९.६.४५
इतरेषु मैत्रीं ब्रुवाणाः "त्वम् एतेषां घातयितव्यः" इत्य् उपजपेयुः ॥

अशा-०९.६.४६
यस्य वा प्रवीर.पुरुषो हस्ती हयो वा म्रियेत गूढ.पुरुषैर् हन्येत ह्रियेत वा सत्त्रिणः परस्पर.उपहतं ब्रूयुः ॥

अशा-०९.६.४७
ततः शासनम् अभिशस्तस्य प्रेषयेत् "भूयः कुरु ततः पण.शेएषम् अवाप्स्यसि" इति ॥

अशा-०९.६.४८
तद् उभय.वेतना ग्राहयेयुः ॥

अशा-०९.६.४९
भिन्नेष्व् अन्यतमं लभेत ॥

अशा-०९.६.५०
तेन सेना.पति.कुमार.दण्ड.चारिणो व्याख्याताः ॥

अशा-०९.६.५१
सांधिकं च भेदं प्रयुञ्जीत ॥

अशा-०९.६.५२
इति भेद.कर्म ॥

अशा-०९.६.५३
तीक्ष्णम् उत्साहिनं व्यसनिनं स्थित.शत्रुं वा गूढ.पुरुषाः शस्त्र.अग्नि.रस.आदिभिः साधयेयुः, सौकर्यतो वा तेषाम् अन्यतमः ॥

अशा-०९.६.५४
तीक्ष्णो ह्य् एकः शस्त्र.रस.अग्निभिः साधयेत् ॥

अशा-०९.६.५५
अयं सर्व.संदोह.कर्म विशिष्टं वा करोति ॥

अशा-०९.६.५६
इत्य् उपाय.चतुर्.वर्गः ॥

अशा-०९.६.५७
पूर्वः पूर्वश् च_अस्य लघिष्ठः ॥

अशा-०९.६.५८
सान्त्वम् एक.गुणम् ॥

अशा-०९.६.५९
दानं द्वि.गुणं सान्त्व.पूर्वम् ॥

अशा-०९.६.६०
भेदस् त्रि.गुणः सान्त्व.दान.पूर्वः ॥

अशा-०९.६.६१
दण्डश् चतुर्.गुणः सान्त्व.दान.भेद.पूर्वः ॥

अशा-०९.६.६२
इत्य् अभियुञ्जानेषु_उक्तम् ॥

अशा-०९.६.६३
स्व.भूमिष्ठेषु तु त एव_उपायाः ॥

अशा-०९.६.६४
विशेषस् तु ॥

अशा-०९.६.६५
स्व.भूमिष्ठानाम् अन्यतमस्य पण्य.अगारैर् अभिज्ञातान् दूत.मुख्यान् अभीक्ष्णं प्रेषयेत् ॥

अशा-०९.६.६६
त एनं संधौ पर.हिंसायां वा योजयेयुः ॥

अशा-०९.६.६७
अप्रतिपद्यमानं "कृतो नः संधिः" इत्य् आवेदयेयुः ॥

अशा-०९.६.६८
तम् इतरेषाम् उभय.वेतनाः संक्रामयेयुः "अयं वो राजा दुष्टः" इति ॥

अशा-०९.६.६९
यस्य वा यस्माद् भयं वैरं द्वेषो वा तं तस्माद् भेदयेयुः "अयं ते शत्रुणा संधत्ते, पुरा त्वाम् अतिसंधत्ते, क्षिप्रतरं संधीयस्व, निग्रहे च_अस्य प्रयतस्व" इति ॥

अशा-०९.६.७०
आवाह.विवाहाभ्यां वा कृत्वा सम्योगम् असम्युक्तान् भेदयेत् ॥

अशा-०९.६.७१
सामन्त.आटविक.तत्.कुलीन.अपरुद्धैश् च_एषां राज्यानि घातयेत्, सार्थ.व्रज.अटवीर् वा, दण्डं वा_अभिसृतम् ॥

अशा-०९.६.७२
परस्पर.अपाश्रयाश् च_एषां जाति.संघाश् छिद्रेषु प्रहरेयुः, गूढाश् च_अग्नि.रस.शस्त्रेण ॥

अशा-०९.६.७३कख’’’
वीतंस.गिलवच् च_अरीन् योगैर् आचरितैः शठः ।


अशा-०९.६.७३गघ’’’
घातयेत् पर.मिश्रायां विश्वासेन_आमिषेण च ॥

(अर्थ.अनर्थ.सम्शय.युक्ताह् <आपदह्> - तासाम् उपाय.विकल्पजाह् सिद्धयह्)

अशा-०९.७.०१
काम.आदिर् उत्सेकः स्वाः प्रकृतीः कोपयति, अपनयो बाह्याः ॥

अशा-०९.७.०२
तद् उभयम् आसुरी वृत्तिः ॥

अशा-०९.७.०३
स्व.जन.विकारः कोपः ॥

अशा-०९.७.०४
पर.वृद्धि.हेतुषु आपद्.अर्थो_अनर्थः संशय इति ॥

अशा-०९.७.०५
यो_अर्थः शत्रु.वृद्धिम् अप्राप्तः करोति, प्राप्तः प्रत्यादेयः परेषां भवति, प्राप्यमाणो वा क्षय.व्यय.उदयो भवति, स भवत्य् आपद्.अर्थः ॥

अशा-०९.७.०६
यथा सामन्तानाम् आमिष.भूतः सामन्त.व्यसनजो लाभः, शत्रु.प्रार्थितो वा स्व.भाव.अधिगम्यो लाभः, पश्चात् कोपेन पार्ष्णि.ग्राहेण वा विगृहीतः पुरस्ताल्.लाभः, मित्र.उच्छेदेन संधि.व्यतिक्रमेण वा मण्डल.विरुद्धो लाभः इत्य् आपद्.अर्थः ॥

अशा-०९.७.०७
स्वतः परतो वा भय.उत्पत्तिर् इत्य् अनर्थः ॥

अशा-०९.७.०८
तयोः अर्थो न वा_इति, अनर्थो न वा_इति, अर्थो_अनर्थ इति, अनर्थो_अर्थ इति संशयः ॥

अशा-०९.७.०९
शत्रु.मित्रम् उत्साहयितुम् अर्थो न वा_इति संशयः ॥

अशा-०९.७.१०
शत्रु.बलम् अर्थ.मानाभ्याम् आवाहयितुम् अनर्थो न वा_इति संशयः ॥

अशा-०९.७.११
बलवत्.सामन्तां भूमिम् आदातुम् अर्थो_अनर्थ इति संशयः ॥

अशा-०९.७.१२
जायसा सम्भूययानम् अनर्थो_अर्थ इति संशयः ॥

अशा-०९.७.१३
तेषाम् अर्थ.संशयम् उपगच्छेत् ॥

अशा-०९.७.१४
अर्थो_अर्थ.अनुबन्धः, अर्थो निरनुबन्धः, अर्थो_अनर्थ.अनुबन्धः, अनर्थो_अर्थ.अनुबन्धः, अनर्थो निरनुबन्धः, अनर्थो_अनर्थ.अनुबन्धः इत्य् अनुबन्ध.षड्.वर्गः ॥

अशा-०९.७.१५
शत्रुम् उत्पाट्य पार्ष्णि.ग्राह.आदानम् अर्थो_अनर्थ.अनुबन्धः ॥

अशा-०९.७.१६
उदासीनस्य दण्ड.अनुग्रहः फलेन अर्थो निरनुबन्धः ॥

अशा-०९.७.१७
परस्य_अन्तर्.उच्छेदनम् अर्थो_अनर्थ.अनुबन्धः ॥

अशा-०९.७.१८
शत्रु.प्रतिवेशस्य_अनुग्रहः कोश.दण्डाभ्याम् अनर्थो_अनर्थ.अनुबन्धः ॥

अशा-०९.७.१९
हीन.शक्तिम् उत्साह्य निवृत्तिर् अनर्थो निरनुबन्धः ॥

अशा-०९.७.२०
ज्यायांसम् उत्थाप्य निवृत्तिर् अनर्थो_अनर्थ.अनुबन्धः ॥

अशा-०९.७.२१
तेषां पूर्वः पूर्वः श्रेयान् उपसम्प्राप्तुम् ॥

अशा-०९.७.२२
इति कार्य.अवस्थापनम् ॥

अशा-०९.७.२३
समन्ततो युगपद्.अर्थ.उत्पत्तिः समन्ततो_अर्थ.आपद् भवति ॥

अशा-०९.७.२४
सा_एव पार्ष्णि.ग्राह.विगृहीता समन्ततो_अर्थ.संशय.आपद् भवति ॥

अशा-०९.७.२५
तयोर् मित्र.आक्रन्द.उपग्रहात् सिद्धिः ॥

अशा-०९.७.२६
समन्ततः शत्रुभ्यो भय.उत्पत्तिः समन्त्तो_अनर्थ.आपद् भवति ॥

अशा-०९.७.२७
सा_एव मित्र.विगृहीता समन्ततो_अनर्थ.संशय.आपद् भवति ॥

अशा-०९.७.२८
तयोश् चल.अमित्र.आक्रन्द.उपग्रहात् सिद्धिः, पर.मिश्र.अप्रतीकारो वा ॥

अशा-०९.७.२९
इतो लाभ इतरतो लाभ इत्य् उभयतो_अर्थ.आपद् भवति ॥

अशा-०९.७.३०
तस्यां समन्ततो_अर्थायां च लाभ.गुण.युक्तम् अर्थम् आदातुं यायात् ॥

अशा-०९.७.३१
तुल्ये लाभ.गुणे प्रधानम् आसन्नम् अनतिपातिनम् ऊनो वा येन भवेत् तम् आदातुं यायात् ॥

अशा-०९.७.३२
इतो_अनर्थ इतरतो_अनर्थ इत्य् उभयतो_अनर्थ.आपत् ॥

अशा-०९.७.३३
तस्यां समन्ततो_अनर्थायां च मित्रेभ्यः सिद्धिं लिप्सेत ॥

अशा-०९.७.३४
मित्र.अभावे प्रकृतीनां लघीयस्य_एकतो_अनर्थां साधयेत्, उभयतो_अनर्थां ज्यायस्या, समन्ततो_अनर्थां मूलेन प्रतिकुर्यात् ॥

अशा-०९.७.३५
अशक्ये सर्वम् उत्सृज्य_अपगच्छेत् ॥

अशा-०९.७.३६
दृष्टा हि जीवतः पुनर्.आवृत्तिर् यथा सुयात्रा.उदयनाभ्याम् ॥

अशा-०९.७.३७
इतो लाभ इतरतो राज्य.अभिमर्श इत्य् उभयतो_अर्थ.अनर्थ.आपद् भवति ॥

अशा-०९.७.३८
तस्याम् अनर्थ.साधको यो_अर्थस् तम् आदातुं यायात् ॥

अशा-०९.७.३९
अन्यथा हि राज्य.अभिमर्शं वारयेत् ॥

अशा-०९.७.४०
एतया समन्ततो_अर्थ.अनर्थ.आपद् व्याख्याता ॥

अशा-०९.७.४१
इतो_अनर्थ इतरतो_अर्थ.संशय इत्य् उभयतो_अनर्थ.अर्थ.संशया ॥

अशा-०९.७.४२
तस्यां पूर्वम् अनर्थं साधयेत्, तत्.सिद्धाव् अर्थ.संशयम् ॥

अशा-०९.७.४३
एतया समन्ततो_अनर्थ.अर्थ.संशया व्याख्याता ॥

अशा-०९.७.४४
इतो_अर्थ इतरतो_अनर्थ.संशय इत्य् उभयतो_अर्थ.अनर्थ.संशय.आपद् ॥

अशा-०९.७.४५
एतया समन्ततो_अर्थ.अनर्थ.संशया व्याख्याता ॥

अशा-०९.७.४६
तस्यां पूर्वां पूर्वां प्रकृतीनाम् अनर्थ.संशयान् मोक्षयितुं यतेत ॥

अशा-०९.७.४७
श्रेयो हि मित्रम् अनर्थ.संशये तिष्ठन् न दण्डः, दण्डो वा न कोश इति ॥

अशा-०९.७.४८
समग्र.मोक्षण.अभावे प्रकृतीनाम् अवयवान् मोक्षयितुं यतेत ॥

अशा-०९.७.४९
तत्र पुरुष.प्रकृतीनां बहुलम् अनुरक्तं वा तीक्ष्ण.लुब्ध.वर्जम्, द्रव्य.प्रकृतीनां सारं महा.उपकारं वा ॥

अशा-०९.७.५०
संधिना_आसनेन द्वैधी.भावेन वा लघूनि, विपर्ययैर् गुरूणि ॥

अशा-०९.७.५१
क्षय.स्थान.वृद्धीनां च_उत्तर.उत्तरं लिप्सेत ॥

अशा-०९.७.५२
प्रातिलोम्येन वा क्षय.आदीनाम् आयत्यां विशेषं पश्येत् ॥

अशा-०९.७.५३
इति देश.अवस्थापनम् ॥

अशा-०९.७.५४
एतेन यात्रा.आदि.मध्य.अन्तेष्व् अर्थ.अनर्थ.संशयानाम् उपसम्प्राप्तिर् व्याख्याता ॥

अशा-०९.७.५५
निरन्तर.योगित्वाच् च_अर्थ.अनर्थ.संशयानां यात्रा.आदाव् अर्थः श्रेयान् उपसम्प्राप्तुं पार्ष्णि.ग्राह.आसार.प्रतिघाते क्षय.व्यय.प्रवास.प्रत्यादेये मूल.रक्षणेषु च भवति ॥

अशा-०९.७.५६
तथा_अनर्थः संशयो वा स्व.भूमिष्ठस्य विषह्यो भवति ॥

अशा-०९.७.५७
एतेन यात्रा.मध्ये_अर्थ.अनर्थ.संशयानाम् उपसम्प्राप्तिर् व्याख्याता ॥

अशा-०९.७.५८
यात्रा.अन्ते तु कर्शनीयम् उच्छेदनीयं वा कर्शयित्वा_उच्छिद्य वा_अर्थः श्रेयान् उपसम्प्राप्तुं न_अनर्थः संशयो वा पर.आबाध.भयात् ॥

अशा-०९.७.५९
सामवायिकानाम् अपुरोगस्य तु यात्रा.मध्य.अन्तगो_अनर्थः संशयो वा श्रेयान् उपसम्प्राप्तुम् अनिर्बन्ध.गामित्वात् ॥

अशा-०९.७.६०
अर्थो धर्मः काम इत्य् अर्थ.त्रि.वर्गः ॥

अशा-०९.७.६१
तस्य पूर्वः पूर्वः श्रेयान् उपसम्प्राप्तुम् ॥

अशा-०९.७.६२
अनर्थो_अधर्मः शोक इत्य् अनर्थ.त्रि.वर्गः ॥

अशा-०९.७.६३
तस्य पूर्वः पूर्वः श्रेयान् प्रतिकर्तुम् ॥

अशा-०९.७.६४
अर्थो_अनर्थ इति, धर्मो_अधर्म इति, कामः शोक इति संशय.त्रि.वर्गः ॥

अशा-०९.७.६५
तस्य_उत्तर.पक्ष.सिद्धौ पूर्व.पक्षः श्रेयान् उपसम्प्राप्तुम् ॥

अशा-०९.७.६६
इति काल.अवस्थापनम् ॥

अशा-०९.७.६७
इत्य् आपदः - तासां सिद्धिः ॥

अशा-०९.७.६८
पुत्र.भ्रातृ.बन्धुषु साम.दानाभ्यां सिद्धिर् अनुरूपा, पौर.जानपद.दण्ड.मुख्येषु दान.भेदाभ्याम्, सामन्त.आटविकेषु भेद.दण्डाभ्याम् ॥

अशा-०९.७.६९
एषा_अनुलोमा, विपर्यये प्रतिलोमा ॥

अशा-०९.७.७०
मित्र.अमित्रेषु व्यामिश्रा सिद्धिः ॥

अशा-०९.७.७१
परस्पर.साधका ह्य् उपायाः ॥

अशा-०९.७.७२
शत्रोः शङ्कित.अमात्येषु सान्त्वं प्रयुक्तं शेष.प्रयोगं निवर्तयति, दूष्य.अमात्येषु दानम्, संघातेषु भेदः, शक्तिमत्सु दण्ड इति ॥

अशा-०९.७.७३
गुरु.लाघव.योगाच् च_आपदां नियोग.विकल्प.समुच्चया भवन्ति ॥

अशा-०९.७.७४
"अनेन_एव_उपायेन न_अन्येन" इति नियोगः ॥

अशा-०९.७.७५
"अनेन वा_अन्येन वा" इति विकल्पः ॥

अशा-०९.७.७६
"अनेन_अन्येन च" इति समुच्चयः ॥

अशा-०९.७.७७
तेषाम् एक.योगाश् चत्वारस् त्रि.योगाश् च, द्वि.योगाः षट्, एकश् चतुर्.योगः ॥

अशा-०९.७.७८
इति पञ्च.दश.उपायाः ॥

अशा-०९.७.७९
तावन्तः प्रतिलोमाः ॥

अशा-०९.७.८०
तेषाम् एकेन_उपायेन सिद्धिर् एक.सिद्धिः, द्वाभ्यां द्वि.सिद्धिः, त्रिभिस् त्रि.सिद्धिः, चतुर्भिश् चतुः.सिद्धिर् इति ॥

अशा-०९.७.८१
धर्म.मूलत्वात् काम.फलत्वाच् च_अर्थस्य धर्म.अर्थ.काम.अनुबन्धा या_अर्थस्य सिद्धिः सा सर्व.अर्थ.सिद्धिः ॥ <इति सिद्धयह्>

अशा-०९.७.८२
दैवाद् अग्निर् उदकं व्याधिः प्रमारो विद्रवो दुर्भिक्षम् आसुरी सृष्टिर् इत्य् आपदः ॥

अशा-०९.७.८३
तासां दैवत.ब्राह्मण.र्पणिपाततः सिद्धिः ॥

अशा-०९.७.८४कख’’’
अतिवृष्टिर् अवृष्टिर् वा सृष्टिर् वा या_आसुरी भवेत् ।


अशा-०९.७.८४गघ’’’
तस्याम् आथर्वणं कर्म सिद्ध.आरम्भाश् च सिद्धयः ॥