सामग्री पर जाएँ

अर्थशास्त्रम् अध्याय 10

विकिपुस्तकानि तः

(स्कन्ध.आवार.निवेशह्)

अशा-१०.१.०१
वास्तुक.प्रशस्ते वास्तुनि नायक.वर्धकि मौहूर्तिकाः स्कन्ध.आवारम्, वृत्तं दीर्घं चतुर्.अश्रं वा भूमि.वशेन वा, चतुर्.द्वारं षट्.पथं नव.संस्थानं मापयेयुः खात.वप्र.साल.द्वार.अट्टालक.सम्पन्नं भये स्थाने च ॥

अशा-१०.१.०२
मध्यमस्य_उत्तरे नव.भागे राज.वास्तुकं धनुः.शत.आयामम् अर्ध.विस्तारम्, पश्चिम.अर्धे तस्य_अन्तः.पुरम् ॥

अशा-१०.१.०३
अन्तर्.वंशिक.सैन्यं च_अन्ते निविशेत ॥

अशा-१०.१.०४
पुरस्ताद् उपस्थानम्, दक्षिणतः कोश.शासन.कार्य.करणानि, वामतो राज.औपवाह्यानां हस्त्य्.अश्व.रथानां स्थानम् ॥

अशा-१०.१.०५
अतो धनुः.शत.अन्तराश् चत्वारः शकट.मेथी.प्रतति.स्तम्भ.साल.परिक्षेपाः ॥

अशा-१०.१.०६
प्रथमे पुरस्तान् मन्त्रि.पुरोहितौ, दण्षिणतः कोष्ठ.अगारं महानसं च, वामतः कुप्य.आयुध.अगारम् ॥

अशा-१०.१.०७
द्वितीये मौल.भृतानां स्थानम् अश्व.रथानां सेना.पतेश् च ॥

अशा-१०.१.०८
तृतीये हस्तिनः श्रेण्यः प्रशास्ता च ॥

अशा-१०.१.०९
चतुर्थे विष्टिर् नायको मित्र.अमित्र.अटवी.बलं स्व.पुरुष.अधिष्ठितम् ॥

अशा-१०.१.१०
वणिजो रूप.आजीवाश् च_अनु.महा.पथम् ॥

अशा-१०.१.११
बाह्यतो लुब्धक.श्व.गणिनः सतूर्य.अग्नयः, गूढाश् च_आरक्षाः ॥

अशा-१०.१.१२
शत्रूणाम् आपाते कूप.कूट.अवपात.कण्टकिनीश् च स्थापयेत् ॥

अशा-१०.१.१३
अष्टादश.वर्गाणाम् आरक्ष.विपर्यासं कारयेत् ॥

अशा-१०.१.१४
दिव.आयामं च कारयेद् अपसर्प.ज्ञान.अर्थम् ॥

अशा-१०.१.१५
विवाद.सौरिक.समाज.द्यूत.वारणं च कारयेत्, मुद्रा.रक्षणं च ॥

अशा-१०.१.१६
सेना.निवृत्तम् आयुधीयम् अशासनं शून्य.पालो बध्नीयात् ॥

अशा-१०.१.१७कख’’’
पुरस्ताद् अध्वनः सम्यक्.प्रशास्ता रक्षणानि च ।


अशा-१०.१.१७गघ’’’
यायाद् वर्धकि.विष्टिभ्याम् उदकानि च कारयेत् ॥

(स्कन्ध.आवार.प्रयाणम् - बल.व्यसन.अवस्कन्द.काल.रक्षणम्)

अशा-१०.२.०१
ग्राम.अरण्यानाम् अध्वनि निवेशान् यवस.इन्धन.उदक.वशेन परिसंख्याय स्थान.आसन.गमन.कालं च यात्रां यायात् ॥

अशा-१०.२.०२
तत्.प्रतीकार.द्वि.गुणं भक्त.उपकरणं वाहयेत् ॥

अशा-१०.२.०३
अशक्तो वा सैन्येष्व् आयोजयेत्, अन्तरेषु वा निचिनुयात् ॥

अशा-१०.२.०४
पुरस्तान् नायकः, मध्ये कलत्रं स्वामी च, पार्श्वयोर् अश्वा बाहु.उत्सारः, चक्र.अन्तेषु हस्तिनः प्रसार.वृद्धिर् वा, पश्चात् सेना.पतिर् यायात् निविशेत ॥

अशा-१०.२.०५
सर्वतो वन.आजीवः प्रसारः ॥

अशा-१०.२.०६
स्व.देशाद् अन्वायतिर् वीवधः ॥

अशा-१०.२.०७
मित्र.बलम् आसारः ॥

अशा-१०.२.०८
कलत्र.स्थानम् अपसारः ॥

अशा-१०.२.०९
पुरस्ताद् अध्याघाते मकरेण यायात्, पश्चात्_शकटेन, पार्श्वयोर् वज्रेण, समन्ततः सर्वतो.भद्रेण, एक.अयने सूच्या ॥

अशा-१०.२.१०
पथि.द्वैधी.भावे स्वभूमितो यायात् ॥

अशा-१०.२.११
अभूमिष्ठानां हि स्व.भूमिष्ठा युद्धे प्रतिलोमा भवन्ति ॥

अशा-१०.२.१२
योजनम् अधमा, अध्यर्धं मध्यमा, द्वि.योजनम् उत्तमा, सम्भाव्या वा गतिः ॥

अशा-१०.२.१३
आश्रय.कारी सम्पन्न.घाती पार्ष्णिर् आसारो मध्यम उदासीनो वा प्रतिकर्तव्यः, संकटो मार्गः शोधयितव्यः, कोशो दण्डो मित्र.अमित्र.अटवी.बलं विष्टि.ऋतुर् वा प्रतीक्ष्याः, कृत.दुर्ग.कर्म.निचय.रक्षा.क्षयः क्रीत.बल.निर्वेदो मित्र.बल.निर्वेदश् च_आगमिष्यति, उपजपितारो वा न_अतित्वरयन्ति, शत्रुर् अभिप्रायं वा पूरयिष्यति, इति शनैर् यायात्, विपर्यये शीघ्रम् ॥

अशा-१०.२.१४
हस्ति.स्तम्भ.संक्रम.सेतु.बन्ध.नौ.काष्ठ.वेणु.संघातैर् अलाबु.चर्म.करण्ड.दृति.प्लव.गण्डिका.वेणिकाभिश् च_उदकानि तारयेत् ॥

अशा-१०.२.१५
तीर्थ.अभिग्रहे हस्त्य्.अश्वैर् अन्यतो रात्राव् उत्तार्य सत्त्रं गृह्णीयात् ॥

अशा-१०.२.१६
अनुदके चक्रि.चतुष्पदं च_अध्व.प्रमाणेन शक्त्या_उदकं वाहयेत् ॥

अशा-१०.२.१७
दीर्घ.कान्तारम् अनुदकं यवस.इन्धन.उदक.हीनं वा कृच्छ्र.अध्वानम् अभियोग.प्रस्कन्नं क्षुत्.पिपासा.अध्व.क्लान्तं पङ्क.तोय.गम्भीराणां वा नदी.दरी.शैलानाम् उद्यान.अपयाने व्यासक्तम् एक.अयन.मार्गे शैल.विषमे संकटे वा बहुली.भूतं निवेशे प्रस्थिते विसम्नाहं भोजन.व्यासक्तम् आयत.गत.परिश्रान्तम् अवसुप्तं व्याधि.मरक.दुर्भिक्ष.पीडितं व्याधित.पत्त्य्.अश्व.द्विपम् अभूमिष्ठं वा बल.व्यसनेषु वा स्व.सैन्यं रक्षेत्, पर.सैन्यं च_अभिहन्यात् ॥

अशा-१०.२.१८
एक.अयन.मार्ग.प्रयातस्य सेना.निश्चार.ग्रास.आहार.शय्या.प्रस्तार.अग्नि.निधान.ध्वज.आयुध.संख्यानेन पर.बल.ज्ञानम् ॥

अशा-१०.२.१९
तदा_आत्मानो गूहयेत् ॥

अशा-१०.२.२०कख’’’
पार्वतं वन.दुर्गं वा सापसार.प्रतिग्रहम् ।


अशा-१०.२.२०गघ’’’
स्व.भुमौ पृष्ठतः कृत्वा युध्येत निविशेत च ॥

(कूट.युद्ध.विकल्पाह् - स्व.सैन्य.उत्साहनम् - स्व.बलान्य् अबल.व्यायोगह्)

अशा-१०.३.०१
बल.विशिष्टः कृत.उपजापः प्रतिविहित.ऋतुः स्व.भूम्यां प्रकाश.युद्धम् उपेयात् ॥

अशा-१०.३.०२
विपर्यये कूट.युद्धम् ॥

अशा-१०.३.०३
बल.व्यसन.अवस्कन्द.कालेषु परम् अभिहन्यात्, अभूमिष्ठं वा स्व.भूमिष्ठः, प्रकृति.प्रग्रहो वा स्व.भूमिष्ठम् ॥

अशा-१०.३.०४
दूष्य.अमित्र.अटवी.बलैर् वा भङ्गं दत्त्वा विभूमि.प्राप्तं हन्यात् ॥

अशा-१०.३.०५
संहत.अनीकं हस्तिभिर् भेदयेत् ॥

अशा-१०.३.०६
पूर्वं भङ्ग.प्रदानेन_अनुप्रलीनं भिन्नम् अभिन्नः प्रतिनिवृत्य हन्यात् ॥

अशा-१०.३.०७
पुरस्ताद् अभिहत्य प्रचलं विमुखं वा पृष्ठतो हस्त्य्.अश्वेन_अभिहन्यात् ॥

अशा-१०.३.०८
पृष्ठतो_अभिहत्या प्रचलं विमुखं वा पुरस्तात् सार.बलेन_अभिहन्यात् ॥

अशा-१०.३.०९
ताभ्यां पार्श्व.अभिगातौ व्याख्यातौ ॥

अशा-१०.३.१०
यतो वा दूष्य.फल्गु.बलं ततो_अभिहन्यात् ॥

अशा-१०.३.११
पुरस्ताद् विषमायां पृष्ठतो_अभिहन्यात् ॥

अशा-१०.३.१२
पृष्ठतो विषमायां पुरस्ताद् अभिहन्यात् ॥

अशा-१०.३.१३
पार्श्वतो विषमायाम् इतरतो_अभिहन्यात् ॥

अशा-१०.३.१४
दूष्य.अमित्र.अटवी.बलैर् वा पूर्वं योधयित्वा श्रान्तम् अश्रान्तः परम् अभिहन्यात् ॥

अशा-१०.३.१५
दूष्य.बलेन वा स्वयं भङ्गं दत्त्वा "जितम्" इति विश्वस्तम् अविश्वस्तः सत्त्र.अपाश्रयो_अभिहन्यात् ॥

अशा-१०.३.१६
सार्थ.व्रज.स्कन्ध.आवार.संवाह.विलोप.प्रमत्तम् अप्रमत्तो_अभिहन्यात् ॥

अशा-१०.३.१७
फल्गु.बल.अवच्छन्न.सार.बलो वा पर.वीरान् अनुप्रविश्य हन्यात् ॥

अशा-१०.३.१८
गो.ग्रहणेन श्वा.पद.वधेन वा पर.वीरान् आकृष्य सत्त्रच्.छन्नो_अभिहन्यात् ॥

अशा-१०.३.१९
रात्राव् अवस्कन्देन जागरयित्वा निद्रा.क्लान्तान् अवसुप्तान् वा दिवा हन्यात् ॥

अशा-१०.३.२०
सपाद.चर्म.कोशैर् वा हस्तिभिः सौप्तिकं दद्यात् ॥

अशा-१०.३.२१
अहः.सम्नाह.परिश्रान्तान् अपर.अह्ने_अभिहन्यात् ॥

अशा-१०.३.२२
शुष्क.चर्म.वृत्त.शर्कर.आकोशकैर् गो.महिष.उष्ट्र.यूथैर् वा त्रस्नुभिर् अकृत.हस्त्य्.अश्वं भिन्नम् अभिन्नः प्रतिनिवृत्तं हन्यात् ॥

अशा-१०.३.२३
प्रतिसूर्य.वातं वा सर्वम् अभिहन्यात् ॥

अशा-१०.३.२४
धान्वन.वन.संकट.पङ्क.शैल.निम्न.विषम.नावो गावः शकटव्यूहो नीहारो रात्रिर् इति सत्त्राणि ॥

अशा-१०.३.२५
पूर्वे च प्रहरण.कालाः कूट.युद्ध.हेतवः ॥

अशा-१०.३.२६
संग्रामस् तु निर्दिष्ट.देश.कालो धर्मिष्ठः ॥

अशा-१०.३.२७
संहत्य दण्डं ब्रूयात् "तुल्य.वेतनो_अस्मि, भवद्भिः सह भोग्यम् इदं राज्यम्, मया_अभिहितैः परो_अभिहन्तव्यः" इति ॥

अशा-१०.३.२८
वेदेष्व् अप्य् अनुश्रूयते समाप्त.दक्षिणानां यज्ञानाम् अवभृथेषु "सा ते गतिर् या शूराणाम्" इति ॥

अशा-१०.३.२९
अपि_इह श्लोकौ भवतः ॥

अशा-१०.३.३०कख’’’
"यान् यज्ञ.संघैस् तपसा च विप्राः स्वर्ग.एषिणः पात्र.चयैश् च यान्ति ।


अशा-१०.३.३०गघ’’’
क्षणेन तान् अप्य् अतियान्ति शूराः प्राणान् सुयुद्धेषु परित्यजन्तः ॥


अशा-१०.३.३१कख’’’
"नवं शरावं सलिलस्य पूर्णं सुसंस्कृतं दर्भ.कृत.उत्तरीयम् ।


अशा-१०.३.३१गघ’’’
तत् तस्य मा भून् नरकं च गच्छेद् यो भर्तृ.पिण्डस्य कृते न युध्येत् - इति ॥


अशा-१०.३.३२
मन्त्रि.पुरोहिताभ्याम् उत्साहयेद् योधान् व्यूह.सम्पदा ॥

अशा-१०.३.३३
कार्तान्तिक.आदिश् च_अस्य वर्गः सर्वज्ञ.दैवत.सम्योग.ख्यापनाभ्यां स्व.पक्षम् उद्धर्षयेत्, पर.पक्षं च_उद्वेजयेत् ॥

अशा-१०.३.३४
"श्वो युद्धम्" इति कृत.उपवासः शस्त्र.वाहनं च_अनुशयीत ॥

अशा-१०.३.३५
अथर्वभिश् च जुहुयात् ॥

अशा-१०.३.३६
विजय.युक्ताः स्वर्गीयाश् च_आशिषो वाचयेत् ॥

अशा-१०.३.३७
ब्राह्मणेभ्यश् च_आत्मानम् अतिसृजेत् ॥

अशा-१०.३.३८
शौर्य.शिल्प.अभिजन.अनुराग.युक्तम् अर्थ.मानाभ्याम् अविसंवादितम् अनीक.गर्भं कुर्वीत ॥

अशा-१०.३.३९
पितृ.पुत्र.भ्रातृकाणाम् आयुधीयानाम् अध्वजं मुण्ड.अनीकं राज.स्थानम् ॥

अशा-१०.३.४०
हस्ती रथो वा राज.वाहनम् अश्व.अनुबन्धः ॥

अशा-१०.३.४१
यत् प्राय.सैन्यो यत्र वा विनीतः स्यात् त्(अद्) अधिरोहयेत् ॥

अशा-१०.३.४२
राज.व्यञ्जनो व्यूह.अधिष्ठानम् आयोज्यः ॥

अशा-१०.३.४३
सूत.मागधाः शूराणां स्वर्गम् अस्वर्गं भीरूणां जाति.संघ.कुल.कर्म.वृत्त.स्तवं च योधानां वर्णयेयुः ॥

अशा-१०.३.४४
पुरोहित.पुरुषाः कृत्य.अभिचारं ब्रूयुः, यन्त्रिक.वर्धकि.मौहूर्तिकाः स्व.कर्म.सिद्धिम् असिद्धिं परेषाम् ॥

अशा-१०.३.४५
सेना.पतिर् अर्थ.मानाभ्याम् अभिसंस्कृतम् अनीकम् आभाषेत - "शत.साहस्रो राज.वधः, पञ्चाशत्.साहस्रः सेना.पति.कुमार.वधः, दश.साहस्रः प्रवीर.मुख्य.वधः, पञ्च.साहस्रो हस्ति.रथ.वधः, साहस्रो_अश्व.वधः, शत्यः पत्ति.मुख्य.वधः, शिरो विंशतिकं भोग.द्वैगुण्यं स्वयं.ग्राहश् च" इति ॥

अशा-१०.३.४६
तद् एषां दश.वर्ग.अधिपतयो विद्युः ॥

अशा-१०.३.४७
चिकित्सकाः शस्त्र.यन्त्र.अगद.स्नेह.वस्त्र.हस्ताः स्त्रियश् च_अन्न.पान.रक्षिण्यः पुरुषाणाम् उद्धर्षणीयाः पृष्ठतस् तिष्ठेयुः ॥

अशा-१०.३.४८
अदक्षिणा.मुखं पृष्ठतः.सूर्यम् अनुलोम.वातम् अनीकं स्व.भूमौ व्यूहेत ॥

अशा-१०.३.४९
पर.भूमि.व्यूहे च_अश्वांश् चारयेयुः ॥

अशा-१०.३.५०
यत्र स्थानं प्रजवश् च_अभूमिर् व्यूहस्य तत्र स्थितः प्रजवितश् च_उभयथा जीयेत ॥ विपर्यये जयति, उभयथा स्थाने प्रजवे च ॥

अशा-१०.३.५२
समा विषमा व्यामिश्रा वा भूमिर् इति पुरस्तात् पार्श्वाभ्यां पश्चाच् च ज्ञेया ॥

अशा-१०.३.५३
समायां दण्ड.मण्डल.व्यूहाः, विषमायां भोग.असंहत.व्यूहाः, व्यामिश्रायां विषम.व्यूहाः ॥

अशा-१०.३.५४
विशिष्ट.बलं भङ्क्त्वा संधिं याचेत ॥

अशा-१०.३.५५
सम.बलेन याचितः संदधीत ॥

अशा-१०.३.५६
हीनम् अनुहन्यात्, न त्व् एव स्व.भूमि.प्राप्तं त्यक्त.आत्मानं वा ॥

अशा-१०.३.५७कख’’’
पुनर्.आवर्तमानस्य निराशस्य च जीविते ।


अशा-१०.३.५७गघ’’’
अधार्यो जायते वेगस् तस्माद् भग्नं न पीडयेत् ॥

(युद्ध.भूमयह् - पत्त्य्.अश्व.रथ.हस्ति.कर्माणि)

अशा-१०.४.०१
स्व.भूमिः पत्त्य्.अश्व.रथ.द्विपानाम् इष्टा युद्धे निवेशे च ॥

अशा-१०.४.०२
धान्वन.वन.निम्न.स्थल.योधिनां खनक.आकाश.दिवा.रात्रि.योधिनां च पुरुषाणां नादेय.पार्वत.आनूप.सारसानां च हस्तिनाम् अश्वानां च यथा.स्वम् इष्टा युद्ध.भूमयः कालाश् च ॥

अशा-१०.४.०३
समा स्थिरा_अभिकाशा निरुत्खातिन्य.चक्र.खुरा_अनक्ष.ग्राहिण्य.वृक्ष.गुल्म.व्रतती.स्तम्भ.केदार.श्वभ्र.वल्मीक.सिकता.पङ्क.भङ्गुरा दरण.हीना च रथ.भूमिः, हस्त्य्.अश्वयोर् मनुष्याणां च समे विषमे हिता युद्धे निवेशे च ॥

अशा-१०.४.०४
अण्व्.अश्म.वृक्षा ह्रस्व.लङ्घनीय.श्वभ्रा मन्द.दरण.दोषा च_अश्व.भूमिः ॥

अशा-१०.४.०५
स्थूल.स्थाण्व् अश्म.वृक्ष.व्रतती.वल्मीक.गुल्मा पदाति.भूमिः ॥

अशा-१०.४.०६
गम्य.शैल.निम्न.विषमा मर्दनीय.वृक्षा छेदनीय.व्रतती पङ्क.भङ्गुरा दरण.हीना च हस्ति.भूमिः ॥

अशा-१०.४.०७
अकण्टकिन्य् अबहु.विषमा प्रत्यासारवती_इति पदातीनाम् अतिशयः ॥

अशा-१०.४.०८
द्वि.गुण.प्रत्यासारा कर्दम.उदक.खञ्जन.हीना निह्शर्करा_इति वाजिनाम् अतिशयः ॥

अशा-१०.४.०९
पांसु.कर्दम.उदक.नल.शर.आधानवती श्व.दण्ष्ट्र.हीना महा.वृक्ष.शाखा.घात.वियुक्ता_इति हस्तिनाम् अतिशयः ॥

अशा-१०.४.१०
तोय.आशय.अपाश्रयवती निरुत्खातिनी केदार.हीना व्यावर्तन.समर्था_इति रथानाम् अतिशयः ॥

अशा-१०.४.११
उक्ता सर्वेषां भूमिः ॥

अशा-१०.४.१२
एतया सर्व.बल.निवेशा युद्धानि च व्याख्यातानि भवन्ति ॥

अशा-१०.४.१३
भूमि.वास.वन.विचयो_अविषम.तोय.तीर्थ.वात.रश्मि.ग्रहणं वीवध.आसारयोर् घातो रक्षा वा विशुद्धिः स्थापना च बलस्य प्रसार.वृद्धिर् बाहु.उत्सारः पूर्व.प्रहारो व्यावेशनं व्यावेधनम् आश्वासो ग्रहणं मोक्षणं मार्ग.अनुसार.विनिमयः कोश.कुमार.अभिहरणं जघन.कोट्य्.अभिघातो हीन.अनुसारणम् अनुयानं समाज.कर्म_इत्य् अश्व.कर्माणि ॥

अशा-१०.४.१४
पुरो.यानम् अकृत.मार्ग.वास.तीर्थ.कर्म बाहु.उत्सारस् तोय.तरण.अवतरणे स्थान.गमन.अवतरणं विषम.सम्बाध.प्रवेशो_अग्नि.दान.शमनम् एक.अङ्ग.विजयो भिन्न.संधानम् अभिन्न.भेदनं व्यसने त्राणम् अभिघातो विभीषिका त्रासनं.औदार्यं ग्रहणं मोक्षणं साल.द्वार.अट्टालक.भञ्जनं कोश.वाहन.अपवाहनम् इति हस्ति.कर्माणि ॥

अशा-१०.४.१५
स्व.बल.रक्षा चतुर्.अङ्ग.बल.प्रतिषेधः संग्रामे ग्रहणं मोक्षणं भिन्न.संधानम् अभिन्न.भेदनं त्रासनम् औदार्यं भीम.घोषश् च_इति रथ.कर्माणि ॥

अशा-१०.४.१६
सर्व.देश.काल.शस्त्र.वहनं व्यायामश् च_इति पदाति.कर्माणि ॥

अशा-१०.४.१७
शिबिर.मार्ग.सेतु.कूप.तीर्थ.शोधन.कर्म यन्त्र.आयुध.आवरण.उपकरण.ग्रास.वहनम् आयोधनाच् च प्रहरण.आवरण.प्रतिविद्ध.अपनयनम् इति विष्टि.कर्माणि ॥

अशा-१०.४.१८कख’’’
कुर्याद् गव.अश्व.व्यायोगं रथेष्व् अल्प.हयो नृपः ।


अशा-१०.४.१८गघ’’’
खर.उष्ट्र.शकटानां वा गर्भम् अल्प.गजस् तथा ॥

(पक्ष.कक्ष.उरस्यानाम् बल.अग्रतो व्यूह.विभागह् - सार.फल्गु.बल.विभागह् - पत्त्य्.अश्व.रथ.हस्ति.युद्धानि)

अशा-१०.५.०१
पञ्च.धनुः.शत.अपकृष्टं दुर्गम् अवस्थाप्य युद्धम् उपेयात्, भूमि.वशेन वा ॥

अशा-१०.५.०२
विभक्त.मुख्याम् अचक्षुर्.विषये मोक्षयित्वा सेनां सेना.पति.नायकौ व्यूहेयाताम् ॥

अशा-१०.५.०३
शम.अन्तरं पत्तिं स्थापयेत्, त्रि.शम.अन्तरम् अश्वम्, पञ्च.शम.अन्तरं रथं हस्तिनं वा ॥

अशा-१०.५.०४
द्वि.गुण.अन्तरं त्रि.गुण.अन्तरं वा व्यूहेत ॥

अशा-१०.५.०५
एवं यथा.सुखम् असम्बाधं युध्येत ॥

अशा-१०.५.०६
पञ्च.अरत्नि धनुः ॥

अशा-१०.५.०७
तस्मिन् धन्विनं स्थापयेत्, त्रि.धनुष्य् अश्वम्, पञ्च.धनुषि रथं हस्तिनं वा ॥

अशा-१०.५.०८
पञ्च.धनुर् अनीक.संधिः पक्ष.कक्ष.उरस्यानाम् ॥

अशा-१०.५.०९
अश्वस्य त्रयः पुरुषाः प्रतियोद्धारः ॥

अशा-१०.५.१०
पञ्च.दश रथस्य हस्तिनो वा, पञ्च च_अश्वाः ॥

अशा-१०.५.११
तावन्तः पाद.गोपा वाजि.रथ.द्विपानां विधेयाः ॥

अशा-१०.५.१२
त्रीणि त्रिकाण्य् अनीकं रथानाम् उरस्यं स्थापयेत्, तावत् कक्षं पक्षं च_उभयतः ॥

अशा-१०.५.१३
पञ्च.चत्वारिंशद् एवं रथा रथ.व्यूहे भवन्ति, द्वे शते पञ्च.विंशतिश् च_अश्वाः, षट्.शतानि पञ्च.सप्ततिश् च पुरुषाः प्रतियोधारः, तावन्तः पाद.गोपाः ॥

अशा-१०.५.१४
एष सम.व्यूहः ॥

अशा-१०.५.१५
तस्य द्वि.रथ.उत्तरा वृद्धिर् आ.एक.विंशति.रथाद् इति ॥

अशा-१०.५.१६
एवम् ओजा दश सम.व्यूह.प्रकृतयो भवन्ति ॥

अशा-१०.५.१७
पक्ष.कक्ष.उरस्यानां मिथो विषम.संख्याने विषम.व्यूहः ॥

अशा-१०.५.१८
तस्य_अपि द्वि.रथ_उत्तरा वृद्धिर् आ.एक.विंशति.रथाद् इति ॥

अशा-१०.५.१९
एवम् ओजा दश विषम.व्यूह.प्रकृतयो भवन्ति ॥

अशा-१०.५.२०
अतः सैन्यानां व्यूह.शेषम् आवापः कार्यः ॥

अशा-१०.५.२१
रथानां द्वौ त्रि.भागाव् अङ्गेष्व् आवापयेत्, शेषम् उरस्यं स्थापयेत् ॥

अशा-१०.५.२२
एवं त्रि.भाग.ऊनो रथानाम् आवापः कार्यः ॥

अशा-१०.५.२३
तेन हस्तिनाम् अश्वानाम् आवापो व्याख्यातः ॥

अशा-१०.५.२४
यावद्.अश्व.रथ.द्विपानां युद्ध.सम्बाधन्म् न कुर्यात् तावद् आवापः कार्यः ॥

अशा-१०.५.२५
दण्ड.बाहुल्यम् आवापः ॥

अशा-१०.५.२६
पत्ति.बाहुल्यं प्रत्यापावः ॥

अशा-१०.५.२७
एक.अङ्ग.बाहुल्यम् अन्वावापः ॥

अशा-१०.५.२८
दूष्य.बाहुल्यम् अत्यावापः ॥

अशा-१०.५.२९
पर.आवापात् प्रत्यावापाच् च चतुर्.गुणाद् आ.अष्ट.गुणाद् इति वा विभवतः सैन्यानाम् आवापः ॥

अशा-१०.५.३०
रथ.व्यूहेन हस्ति.व्यूहो व्याख्यातः ॥

अशा-१०.५.३१
व्यामिश्रो वा हस्ति.रथ.अश्वानां - चक्र.अन्तेषु हस्तिनः पार्श्वयोर् अश्वा रथा उरस्ये ॥

अशा-१०.५.३२
हस्तिनाम् उरस्यं रथानां कक्षाव् अश्वानां पक्षाव् इति मध्य.भेदी ॥

अशा-१०.५.३३
विपरीतो_अन्त.भेदी ॥

अशा-१०.५.३४
हस्तिनाम् एव तु शुद्धः - साम्नाह्यानाम् उरस्यम् औपवाह्यानां जघनं व्यालानां कोट्याव् इति ॥

अशा-१०.५.३५
अश्व.व्यूहो - वर्मिणाम् उरस्यं शुद्धानां कक्ष.पक्षाव् इति ॥

अशा-१०.५.३६
पत्ति.व्यूहः - पुरस्ताद् आवरणिनः पृष्ठतो धन्विनः ॥

अशा-१०.५.३७
इति शुद्धाः ॥

अशा-१०.५.३८
पत्तयः पक्षयोर् अश्वाः पार्श्वयोः हस्तिनः पृष्ठतो रथाः पुरस्तात्, पर.व्यूह.वशेन वा विपर्यासः ॥

अशा-१०.५.३९
इति द्व्य्.अङ्ग.बल.विभागः ॥

अशा-१०.५.४०
तेन त्र्.अङ्ग.बल.विभागो व्याख्यातः ॥

अशा-१०.५.४१
दण्ड.सम्पत् सार.बलं पुंसां

अशा-१०.५.४२
हस्त्य्.अश्वयोर् विशेषः कुलं जातिः सत्त्वं वयः.स्थता प्राणो वर्ष्म जवस् तेजः शिल्पं स्तैर्यम् उदग्रता विधेयत्वं सुव्यञ्जन.आचारता_इति ॥

अशा-१०.५.४३
पत्त्य्.अश्व.रथ.द्विपानां सार.त्रि.भागम् उरस्यं स्थापयेत्, द्वौ त्रि.भागौ कक्षं पक्षं च_उभयतः, अनुलोमम् अनुसारम्, प्रतिलोमं तृतीय.सारम्, फल्गु प्रतिलोमम् ॥

अशा-१०.५.४४
एवं सर्वम् उपयोगं गमयेत् ॥

अशा-१०.५.४५
फल्गु.बलम् अन्तेष्व् अवधाय वेग.अभिहूलिको भवति ॥

अशा-१०.५.४६
सार.बलम् अग्रतः कृत्वा कोटीष्व् अनुसारं कुर्यात्, जघने तृतियिय.सारम्, मध्ये फल्गु.बलम् ॥

अशा-१०.५.४७
एवम् एतत् सहिष्णु भवति ॥

अशा-१०.५.४८
व्यूहं तु स्थापयित्वा पक्ष.कक्ष.उरस्यानाम् एकेन द्वाभ्यां वा प्रहरेत्, शेषैः प्रतिगृह्णीयात् ॥

अशा-१०.५.४९
यत् परस्य दुर्बलं वीत.हस्त्य्.अश्वं दूष्य.अमात्यं कृत.उपजापं वा तत्.प्रभूत.सारेण_अभिहन्यात् ॥

अशा-१०.५.५०
यद् वा परस्य सारिष्ठं तद्.द्वि.गुण.सारेण_अभिहन्यात् ॥

अशा-१०.५.५१
यद् अङ्गम् अल्प.सारम् आत्मनस् तद् बहुना_उपचिनुयात् ॥

अशा-१०.५.५२
यतः परस्य_अपचयस् ततो_अभ्याशे व्यूहेत, यतोत् वा भयं स्यात् ॥

अशा-१०.५.५३
अभिसृतं परिसृतम् अतिसृतम् अपसृतम् उन्मथ्य.अवधानं वलयो गो.मूत्रिका मण्डलं प्रकीर्णिका व्यावृत्त.पृष्ठम् अनुवंशम् अग्रतः पार्श्वाभ्यां पृष्ठतो भग्न.रक्षा भग्न.अनुपात इत्य् अश्व.युद्धानि ॥

अशा-१०.५.५४
प्रकीर्णिक.आवर्जान्य् एतान्य् एव चतुर्णाम् अङ्गानां व्यस्त.समस्तानां वा घातः, पक्ष.कक्ष.उरस्यानां च प्रभञ्जनम् अवस्कन्दः सौप्तिकं च_इति हसित्.युद्धानि ॥

अशा-१०.५.५५
उन्मथ्य.अवधान.वर्जान्य् एतान्य् एव स्व.भूमाव् अभियान.अपयान.स्थित.युद्धानि_इति रथ.युद्धानि ॥

अशा-१०.५.५६
सर्व.देश.काल.प्रहरणम् उपांशु.दण्डश् च_इति पत्ति.युद्धानि ॥

अशा-१०.५.५७कख’’’
एतेन विधिना व्यूहान् ओजान् युग्मांश् च कारयेत् ।


अशा-१०.५.५७गघ’’’
विभवो यावद् अङ्गानां चतुर्णां सदृशो भवेत् ॥


अशा-१०.५.५८कख’’’
द्वे शते धनुषां गत्वा राजा तिष्ठेत् प्रतिग्रहे ।


अशा-१०.५.५८गघ’’’
भिन्न.संघातनं तस्मान् न युध्येत_अप्रतिग्रहः ॥

(दण्ड.भोग.मण्डल.असम्हत.व्यूह.व्यूहनम् - तस्य प्रतिव्यूह.स्थानम्)

अशा-१०.६.०१
पक्षाव् उरस्यं प्रतिग्रह इत्य् औशनसो व्यूह.विभागः ॥

अशा-१०.६.०२
पक्षौ कक्षाव् उरस्य्म् प्रतिग्रह इति बार्हस्प्त्यः ॥

अशा-१०.६.०३
प्रपक्ष.कक्ष.उरस्या उभयोः दण्ड.भोग.मण्डल.असंहताः प्रकृति.व्यूहाः ॥

अशा-१०.६.०४
तत्र तिर्यग्.वृत्तिर् दण्डः ॥

अशा-१०.६.०५
समस्तानाम् अन्वावृत्तिर् भोगः ॥

अशा-१०.६.०६
सरतां सर्वतो.वृत्तिर् मण्डलः ॥

अशा-१०.६.०७
स्थितानां पृथग्.अनीक.वृत्तिर् असंहतः ॥

अशा-१०.६.०८
पक्ष.कक्ष.उरस्यैः समं वर्तमानो दण्डः ॥

अशा-१०.६.०९
स कक्ष.अतिक्रान्तः प्रदरः ॥

अशा-१०.६.१०
स एव पक्ष.कक्षाभ्यां प्रतिक्रान्तो दृढकः ॥

अशा-१०.६.११
स एव_अतिक्रान्तः पक्षाभ्याम् असह्यः ॥

अशा-१०.६.१२
पक्षाव् अवस्थाप्य_उरस्य.अतिक्रान्तः श्येनः ॥

अशा-१०.६.१३
विपर्यये चापं चाप.कुकुषिः प्रतिष्ठः सुप्रतिष्ठश् च ॥

अशा-१०.६.१४
चाप.पक्षः संजयः ॥

अशा-१०.६.१५
स एव_उरस्य.अतिक्रान्तो विजयः ॥

अशा-१०.६.१६
स्थूल.कर्ण.पक्षः स्थूण.अकर्णः ॥

अशा-१०.६.१७
द्वि.गुण.पक्ष.स्थूणो विशाल.विजयः ॥

अशा-१०.६.१८
त्र्य्.अभिक्रान्त.पक्षश् चमू.मुखः ॥

अशा-१०.६.१९
विपर्यये झष.आस्यः ॥

अशा-१०.६.२०
ऊर्ध्व.राजिर् दण्डः सूची ॥

अशा-१०.६.२१
द्वौ दण्डौ वलयः ॥

अशा-१०.६.२२
चत्वारो दुर्जयः ॥

अशा-१०.६.२३
इति दण्ड.व्यूहाः ॥

अशा-१०.६.२४
पक्ष.कक्ष.उरस्यैर् विषमं वर्तमानो भोगः ॥

अशा-१०.६.२५
स सर्प.सारी गो.मूत्रिका वा ॥

अशा-१०.६.२६
स युग्म.उरस्यो दण्ड.पक्षः शकटः ॥

अशा-१०.६.२७
विपर्यये मकरः ॥

अशा-१०.६.२८
हस्त्य्.अश्व.रथैर् व्यतिकीर्णः शकटः पारिपतन्तकः ॥

अशा-१०.६.२९
इति भोग.व्यूहाः ॥

अशा-१०.६.३०
पक्ष.कक्ष.उरस्यानाम् एकी.भावे मण्डलः ॥

अशा-१०.६.३१
स सर्वतो.मुखः सर्वतो.भद्रः ॥

अशा-१०.६.३२
अष्ट.अनीको दुर्जयः ॥

अशा-१०.६.३३
इति मण्डल.व्यूहाः ॥

अशा-१०.६.३४
पक्ष.कक्ष.उरस्यानाम् असंहताद् असंहतः ॥

अशा-१०.६.३५
स पञ्च.अनीकानाम् आकृति.स्थापनाद् वज्रो गोधा वा ॥

अशा-१०.६.३६
चतुर्णाम् उद्धानकः काकपदी वा ॥

अशा-१०.६.३७
त्रयाणाम् अर्ध.चन्द्रकः कर्कटक.शृङ्गी वा ॥

अशा-१०.६.३८
इत्य् असंहत.व्यूहाः ॥

अशा-१०.६.३९
रथ.उरस्यो हस्ति.कक्षो_अश्व.पृष्ठो_अरिष्टः ॥

अशा-१०.६.४०
पत्तयो_अश्वा रथा हस्तिनश् च_अनुपृष्ठम् अचलः ॥

अशा-१०.६.४१
हस्तिनो_अश्वा रथाः पत्तयश् च_अनुपृष्ठम् अप्रतिहतः ॥

अशा-१०.६.४२
तेषां प्रदरं दृढकेन घातयेत्, दृढकम् असह्येन, श्येनं चापेन, प्रतिष्ठं सुप्रतिष्ठेन, संजयं विजयेन, स्थूण.आकर्णं विशाल.विजयेन, पारिपतन्तकं सर्वतो.भद्रेण ॥

अशा-१०.६.४३
दुर्जयेन सर्वान् प्रतिव्यूहेत ॥

अशा-१०.६.४४
पत्त्य्.अश्व.रथ.द्विपानां पूर्वं पूर्वम् उत्तरेण घातयेत्, हीन.अङ्गम् अधिक.अङ्गेन च_इति ॥

अशा-१०.६.४५
अङ्ग.दशकस्य_एकः पतिः पतिकः, पतिक.दशकस्य_एकः सेना.पतिः, तद्.दशकस्य_एको नायक इति ॥

अशा-१०.६.४६
स तूर्य.घोष.ध्वज.पताकाभिर् व्यूह.अङ्गानां संज्ञाः स्थापयेद् अङ्ग.विभागे संघाते स्थाने गमने व्यावर्तने प्रहरणे च ॥

अशा-१०.६.४७
समे व्यूहे देश.काल.सार.योगात् सिद्धिः ॥

अशा-१०.६.४८कख’’’
यन्त्रैर् उपनिषद्.योगैस् तीक्ष्णैर् व्यासक्त.घातिभिः ।


अशा-१०.६.४८गघ’’’
मायाभिर् देव.सम्योगैः शकटैर् हस्ति.भीषणैः ॥


अशा-१०.६.४९कख’’’
दूष्य.प्रकोपैर् गो.यूथैः स्कन्ध.आवार.प्रदीपनैः ।


अशा-१०.६.४९गघ’’’
कोटी.जघन.घातैर् वा दूत.व्यञ्जन.भेदनैः ॥


अशा-१०.६.५०कख’’’
"दुर्गं दग्धं हृतं वा ते कोपः कुल्यः समुत्थितः ।


अशा-१०.६.५०गघ’’’
शत्रुर् आटविको वा" इति परस्य_उद्वेगम् आचरेत् ॥


अशा-१०.६.५१कख’’’
एकं हन्यान् न वा हन्याद् इषुः क्षिप्तो धनुष्मता ।


अशा-१०.६.५१गघ’’’
प्रज्ञानेन तु मतिः क्षिप्ता हन्याद् गर्भ.गतान् अपि ॥