सामग्री पर जाएँ

अर्थशास्त्रम् अध्याय 12

विकिपुस्तकानि तः

(दूत.कर्म)

अशा-१२.१.०१
"बलीयसा_अभियुक्तो दुर्बलः सर्वत्र_अनुप्रणतो वेतस.धर्मा तिष्ठेत् ॥

अशा-१२.१.०२
इन्द्रस्य हि स प्रणमति यो बलीयसो नमति" इति भारद्वाजः ॥

अशा-१२.१.०३
"सर्व.संदोहेन बलानां युध्येत ॥

अशा-१२.१.०४
पराक्रमो हि व्यसनम् अपहन्ति ॥

अशा-१२.१.०५
स्व.धर्मश् च_एष क्षत्रियस्य, युद्धे जयः पराजयो वा" इति विशाल.अक्षः ॥

अशा-१२.१.०६
न_इति कौटिल्यः ॥

अशा-१२.१.०७
सर्वत्र_अनुप्रणतः कुलैडक इव निराशो जीविते वसति ॥

अशा-१२.१.०८
युध्यमानश् च_अल्प.सैन्यः समुद्रम् इव_अप्लवो_अवगाहमानः सीदति ॥

अशा-१२.१.०९
तद्.विशिष्टं तु राजानम् आश्रितो दुर्गम् अविषह्यं वा चेष्टेत ॥

अशा-१२.१.१०
त्रयो_अभियोक्तारो धर्म.लोभ.असुर.विजयिन इति ॥

अशा-१२.१.११
तेषाम् अभ्यवपत्त्या धर्म.विजयी तुष्यति ॥

अशा-१२.१.१२
तम् अभ्यवपद्येत, परेषाम् अपि भयात् ॥

अशा-१२.१.१३
भूमि.द्रव्य.हरणेन लोभ.विजयी तुष्यति ॥

अशा-१२.१.१४
तम् अर्थेन_अभ्यवपद्येत ॥

अशा-१२.१.१५
भूमि.द्रव्य.पुत्र.दार.प्राण.हरणेन_असुर.विजयी ॥

अशा-१२.१.१६
तं भूमि.द्रव्याभ्याम् उपगृह्य_अग्राह्यः प्रतिकुर्वीत ॥

अशा-१२.१.१७
तेषाम् अन्यतमम् उत्तिष्ठमानं संधिना मन्त्र.युद्धेन कूट.युद्धेन वा प्रतिव्यूहेत ॥

अशा-१२.१.१८
शत्रु.पक्षम् अस्य साम.दानाभ्याम्, स्व.पक्षं भेद.दण्डाभ्याम् ॥

अशा-१२.१.१९
दुर्गं राष्ट्रं स्कन्ध.आवारं वा_अस्य गूढाः शस्त्र.रस.अग्निभिः साधयेयुः ॥

अशा-१२.१.२०
सर्वतः पार्ष्णिम् अस्य ग्राहयेत् ॥

अशा-१२.१.२१
अटवीभिर् वा राज्यं घातयेत्, तत्.कुलीन.अपरुद्धाभ्यां वा हारयेत् ॥

अशा-१२.१.२२
अपकार.अन्तेषु च_अस्य दूटं प्रेषयेत् ॥

अशा-१२.१.२३
अनपकृत्य वा संधानम् ॥

अशा-१२.१.२४
तथा_अप्य् अभिप्रयान्तं कोश.दण्डयोः पाद.उत्तरम् अहो.रात्र.उत्तरं वा संधिं याचेत ॥

अशा-१२.१.२५
स चेद् दण्ड.संधिं याचेत, कुण्ठम् अस्मै हस्त्य्.अश्वं दद्याद्, उत्साहितं वा गर.युक्तम् ॥

अशा-१२.१.२६
पुरुष.संधिं याचेत, दूष्य.अमित्र.अटवी.बलम् अस्मै दद्याद् योग.पुरुष.अधिष्ठितम् ॥

अशा-१२.१.२७
तथा कुर्याद् यथा_उभय.विनाशः स्यात् ॥

अशा-१२.१.२८
तीक्ष्ण.बलं वा_अस्मै दद्याद् यद् अवमानितं विकुर्वीत, मौलम् अनुरक्तं वा यद् अस्य व्यसने_अपकुर्यात् ॥

अशा-१२.१.२९
कोश.संधिं याचेत, सारम् अस्मै दद्याद् यस्य क्रेतारं न_अधिगच्छेत्, कुप्यम् अयुद्ध.योग्यं वा ॥

अशा-१२.१.३०
भूमि.संधिं याचेत, प्रत्यादेयां नित्य.अमित्राम् अनपाश्रयां महा.क्षय.व्यय.निवेशां वा_अस्मै भूमिं दद्यात् ॥

अशा-१२.१.३१
सर्व.स्वेन वा राज.धानी.वर्जेन संधिं याचेत बलीयसः ॥

अशा-१२.१.३२कख’’’
यत् प्रसह्य हरेद् अन्यस् तत् प्रयच्चेद् उपायतः ।


अशा-१२.१.३२गघ’’’
रक्षेत् स्व.देहं न धनं का ह्य् अनित्ये धने दया ॥

(मन्त्र.युद्ध)

अशा-१२.२.०१
स चेत् संधौ न_अवतिष्ठेत, ब्रूयाद् एनं - "इमे शत्रु.षड्.वर्ग.वशगा राजानो विनष्टाः, तेषाम् अनात्मवतां न_अर्हसि मार्गम् अनुगन्तुम् ॥

अशा-१२.२.०२
धर्मम् अर्थं च_अवेक्षस्व ॥

अशा-१२.२.०३
मित्र.मुखा ह्य् अमित्रास् ते ये त्वा साहसम् अधर्मम् अर्थ.अतिक्रमं च ग्राहयन्ति ॥

अशा-१२.२.०४
शूरैस् त्यक्त.आत्मभिः सह योद्धुं साहसम्, जन.क्षयम् उभयतः कर्तुम् अधर्मः, दृष्टम् अर्थं मित्रम् अदुष्टं च त्यक्तुम् अर्थ.अतिक्रमः ॥

अशा-१२.२.०५
मित्रवांश् च स राजा, भूयश् च_एतेन_अर्थेन मित्राण्य् उद्योजयिष्यति यानि त्वा सर्वतो_अभियास्यन्ति ॥

अशा-१२.२.०६
न च मध्यम.उदासीनयोर् मण्डलस्य वा परित्यक्तः, भवांस् तु परित्यक्तः यत्त्वा समुद्युक्तम् उपप्रेक्षन्ते "भूयः क्षय.व्ययाभ्यां युज्यताम्, मित्राच् च भिद्यताम्, अथ_एनं परित्यक्त.मूलं सुखेन_उच्छेत्स्यामः" इति ॥

अशा-१२.२.०७
स भवान् न_अर्हति मित्र.मुखानाम् अमित्राणां श्रोतुम्, मित्राण्य् उद्वेजयितुम् अमित्रांश् च श्रेयसा योक्तुम्, प्राण.संशयम् अनर्थं च_उपगन्तुम्" इति यच्छेत् ॥

अशा-१२.२.०८
तथा_अपि प्रतिष्ठमानस्य प्रकृति.कोपम् अस्य कारयेद् यथा संघ.वृत्ते व्याख्यातं योग.वामने च ॥

अशा-१२.२.०९
तीक्ष्ण.रसद.प्रयोगं च ॥

अशा-१२.२.१०
यद् उक्तम् आत्म.रक्षितके रक्ष्यं तत्र तीक्ष्णान् रसदांश् च प्रयुञ्जीत ॥

अशा-१२.२.११
बन्धकी.पोषकाः परम.रूप.यौवनाभिः स्त्रीभिः सेना.मुख्यान् उन्मादयेयुः ॥

अशा-१२.२.१२
बहूनाम् एकस्यां द्वयोर् वा मुख्ययोः कामे जाते तीक्ष्णाः कलहान् उत्पादयेयुः ॥

अशा-१२.२.१३
कलहे पराजित.पक्षं परत्र.अपगमने यात्रा.साहाय्य.दाने वा भर्तुर् योजयेयुः ॥

अशा-१२.२.१४
काम.वशान् वा सिद्ध.व्यञ्जनाः सांवदनिकीभिर् ओषधीभिर् अतिसंधानाय मुख्येषु रसं दापयेयुः ॥

अशा-१२.२.१५
वैदेहक.व्यञ्जने वा राज.महिष्याः सुभगायाः प्रेष्याम् आसन्नां काम.निमित्तम् अर्थेन_अभिवृष्य परित्यजेत् ॥

अशा-१२.२.१६
तस्य_एव परिचारक.व्यञ्जन.उपदिष्टः सिद्ध.व्यञ्जनः सांवदनिकीम् ओषधीं दद्यात् "वैदेहक.शरीरे_अवघातव्या" इति ॥

अशा-१२.२.१७
सिद्धे सुभगाया अप्य् एनं योगम् उपदिशेत् "राज.शरीरे_अवधातव्या" इति ॥

अशा-१२.२.१८
ततो रसेन_अतिसंदध्यात् ॥

अशा-१२.२.१९
कार्तान्तिक.व्यञ्जनो वा महा.मात्रं "राज.लक्षण.सम्पन्नम्" क्रम.अभिनीतं ब्रूयात् ॥

अशा-१२.२.२०
भार्याम् अस्य भिक्षुकी "राज.पत्नी राज.प्रसविनी वा भविष्यसि" इति ॥

अशा-१२.२.२१
भार्या.व्यञ्जना वा महा.मात्रं ब्रूयात् "राजा किल माम् अवरोधयिष्यति, तव_अन्तिकाय पत्त्र.लेख्यम् आभरणं च_इदं परिव्राजिकया_आहृतम्" इति ॥

अशा-१२.२.२२
सूद.आरालिक.व्यञ्जनो वा रस.प्रयोग.अर्थं राज.वचनम् अर्थं च_अस्य लोभनीयम् अभिनयेत् ॥

अशा-१२.२.२३
तद् अस्य वैदेहक.व्यञ्जनः प्रतिसंदध्यात्, कार्य.सिद्धिं च ब्रूयात् ॥

अशा-१२.२.२४
एवम् एकेन द्वाभ्यां त्रिभिर् इत्य् उपायैर् एक.एकम् अस्य महा.मात्रं विक्रमाय_अपगमनाय वा योजयेत् - इति ॥

अशा-१२.२.२५
दुर्गेषु च_अस्य शून्य.पाल.आसन्नाः सत्त्रिणः पौर.जानपदेषु मैत्री.निमित्तम् आवेदयेयुः - "शून्य.पालेन_उक्ता योधाश् च_अधिकरणस्थाश् च "कृच्छ्र.गतो राजा जीवन्न् आगमिष्यति, न वा, प्रसह्य वित्तम् आर्जयध्वम्, अमित्रांश् च हत" इति ॥

अशा-१२.२.२६
बहुली.भूते तीक्ष्णाः पौरान् निशास्व् आहारयेयुः, मुख्यांश् च_अभिहन्युः "एवं क्रियन्ते ये शून्य.पालस्य न शुश्रूषन्ते" इति ॥

अशा-१२.२.२७
शून्य.पाल.स्थानेषु च सशोणितानि शस्त्र.वित्त.बन्धनान्य् उत्सृजेयुः ॥

अशा-१२.२.२८
ततः सत्त्रिणः "शून्य.पालो घातयति विलोपयति च" इत्य् आवेदयेयुः ॥

अशा-१२.२.२९
एवं जानपदान् समाहर्तुर् भेदयेयुः ॥

अशा-१२.२.३०
समाहर्तृ.पुरुषांस् तु ग्राम.मध्येषु रात्रौ तीक्ष्णा हत्वा ब्रूयुः "एवं क्रियन्ते ये जन.पदम् अधर्मेण बाधन्ते" इति ॥

अशा-१२.२.३१
समुत्पन्ने दोषे शून्य.पालं समाहर्तारं वा प्रकृति.कोपेन घातयेयुः ॥

अशा-१२.२.३२
तत्.कुलीनम् अपरुद्धं वा प्रतिपादयेयुः ॥

अशा-१२.२.३३कख’’’
अन्तः.पुर.पुर.द्वारं द्रव्य.धान्य.परिग्रहान् ।


अशा-१२.२.३३गघ’’’
दहेयुस् तांश् च हन्युर् वा ब्रूयुर् अस्य_आर्त.वादिनः ॥

(सेना.मुख्य.वधह्<द्वितीयो भागह्> - मण्डल.प्रोत्साहनम्)

अशा-१२.३.०१
राज्ञो राज.वल्लभानां च_आसन्नाः सत्त्रिणः पत्त्य्.अश्व.रथ.द्विप.मुख्यानां "राजा क्रुद्धः" इति सुहृद्.विश्वासेन मित्र.स्थानीयेषु कथयेयुः ॥

अशा-१२.३.०२
बहुली.भूते तीक्ष्णाः कृत.रात्रि.चार.प्रतीकारा गृहेषु "स्वामि.वचनेन_आगम्यताम्" इति ब्रूयुः ॥

अशा-१२.३.०३
तान्निर्गच्छत एव_अभिहन्युः, "स्वामि.संदेशः" इति च_आसन्नान् ब्रूयुः ॥

अशा-१२.३.०४
ये च_अप्रवासितास् तान् सत्त्रिणो ब्रूयुः "एतत् तद् यद् अस्माभिः कथितम्, जीवितु.कामेन_अपक्रान्तव्यम्" इति ॥

अशा-१२.३.०५
येभ्यश् च राजा याचितो न ददाति तान् सत्त्रिणो ब्रूयुः - "उक्तः शून्य.पालो राज्ञा "अयाच्यम् अर्थम् असौ च_असौ च मा याचते, मया प्रत्याख्याताः शत्रु.संहिताः, तेषाम् उद्धरणे प्रयतस्व" इति ॥

अशा-१२.३.०६
ततः पूर्ववद् आचरेत् ॥

अशा-१२.३.०७
येभ्यश् च राजा याचितो ददाति तान् सत्त्रिणो ब्रूयुः - "उक्तः शून्य.पालो राज्ञा "अयाच्यम् अर्थम् असौ च_असौ च मा याचते, तेभ्यो मया सो_अर्थो विश्वास.अर्थं दत्तः, शत्रु.संहिताः, तेषाम् उद्धरणे प्रयतस्व" इति ॥

अशा-१२.३.०८
ततः पूर्ववद् आचरेत् ॥

अशा-१२.३.०९
ये च_एनं याच्यम् अर्थं न याचन्ते तान् सत्त्रिणो ब्रूयुः - "उक्तः शून्य.पालो राज्ञा "याच्यम् अर्थम् असौ च_असौ च मा न याचते, किम् अन्यत् स्व.दोष.शङ्कितत्वात्, तेषाम् उद्धरणे प्रयतस्व" इति ॥

अशा-१२.३.१०
ततः पूर्ववद् आचरेत् ॥

अशा-१२.३.११
एतेन सर्वः कृत्य.पक्षो व्याख्यातः ॥

अशा-१२.३.१२
प्रत्यासन्नो वा राजानं सत्त्री ग्राहयेत् "असौ च_असौ च ते महा.मात्रः शत्रु.पुरुषैः सम्भाषते" इति ॥

अशा-१२.३.१३
प्रतिपन्ने दूष्यान् अस्य शासन.हरान् दर्शयेत् "एतत् तत्" इति ॥

अशा-१२.३.१४
सेना.मुख्य.प्रकृति.पुरुषान् वा भूम्या हिरण्येन वा लोभयित्वा स्वेषु विक्रमयेद् अपवाहयेद् वा ॥

अशा-१२.३.१५
यो_अस्य पुत्रः समीपे दुर्गे वा प्रतिवसति तं सत्त्रिणा_उपजापयेत् "आत्म.सम्पन्नतरस् त्वं पुत्रः, तथा_अप्य् अन्तर्.हितः, तत्.किम् उपेक्षसे विक्रम्य गृहाण, पुरा त्वा युव.राजो विनाशयति" इति ॥

अशा-१२.३.१६
तत्.कुलीनम् अपरुद्धं वा हिरण्येन प्रतिलोभ्य ब्रूयात् "अन्तर्.बलं प्रत्यन्त.स्कन्धम् अन्तं वा_अस्य प्रमृद्नीहि" इति ॥

अशा-१२.३.१७
आटविकान् अर्थ.मानाभ्याम् उपगृह्य राज्यम् अस्य घातयेत् ॥

अशा-१२.३.१८
पार्ष्णि.ग्राहं वा_अस्य ब्रूयात् "एष खलु राजा माम् उच्छिद्य त्वाम् उच्छेत्स्यति, पार्ष्णिम् अस्य गृहाण, त्वयि निवृत्तस्य_अहं पार्ष्णिं ग्रहीष्यामि" इति ॥

अशा-१२.३.१९
मित्राणि वा_अस्य ब्रूयात् "अहं वः सेतुः, मयि विभिन्ने सर्वान् एष वो राजा प्लावयिष्यति, सम्भूय वा_अस्य यात्रां विहनाम" इति ॥

अशा-१२.३.२०
तत्.संहतानाम् असंहतानां च प्रेषयेत् "एष खलु राजा माम् उत्पाट्य भवत्सु कर्म करिष्यति, बुध्यध्वम्, अहं वः श्रेयान् अभ्युपपत्तुम्" इति ॥

अशा-१२.३.२१कख’’’
मध्यमस्य प्रहिणुयाद् उदासीनस्य वा पुनः ।


अशा-१२.३.२१गघ’’’
यथा_आसन्नस्य मोक्ष.अर्थं सर्व.स्वेन तद्.अर्पणम् ॥

(शस्त्र.अग्नि.रस.प्रणिधयह् - वीवधा.सार.प्र्रसार.वधह्)

अशा-१२.४.०१
ये च_अस्य दुर्गेषु वैदेहकव्यञ्जनाः, ग्रामेसु गृहपतिक.व्यञ्जनाः, जन.पद.संधिषु गो.रक्षक.तापस.व्यञ्जनाः, ते सामन्त.आटविक.तत्.कुलीन.अपरुद्धानां पण्य.आगार.पूर्वं प्रेषयेयुः "अयं देशो हार्यः" इति ॥

अशा-१२.४.०२
आगतांश् च_एषां दुर्गे गूढ.पुरुषान् अर्थ.मानाभ्याम् अभिसत्कृत्य प्रकृतिच्.छिद्राणि प्रदर्शयेयुः ॥

अशा-१२.४.०३
तेषु तैः सह प्रहरेयुः ॥

अशा-१२.४.०४
स्कन्ध.आवारे वा_अस्य शौण्डिक.व्यञ्जनः पुत्रम् अभित्यक्तं स्थापयित्वा_अवस्कन्द.काले रसेन प्रवासयित्वा "नैषेचनिकम्" इति मदन.रस.युक्तान् मद्यकुम्भान्_शतशः प्रयच्छेत् ॥

अशा-१२.४.०५
शुद्धं वा मद्यं पाद्यं वा मद्यं दद्याद् एकम् अहः, उत्तरं रस्.सिद्धं प्रयच्छेत् ॥

अशा-१२.४.०६
शुद्धं वा मद्यं दण्ड.मुख्येभ्यः प्रदाय मद.काले रस.सिद्धं प्रयच्छेत् ॥

अशा-१२.४.०७
दण्ड.मुख्य.व्यञ्जनो वा पुत्रम् अभित्यक्तम् इति समानम् ॥

अशा-१२.४.०८
पाक्व.मांसिक.औदनिक.औण्डिक.आपूपिक.व्यञ्जना वा पण्य.विशेषम् अवघोषयित्वा परस्पर.संघर्षेण कालिकं समर्घतरम् इति वा परान् आहूय रसेन स्व.पण्यान्य् अपचारयेयुः ॥

अशा-१२.४.०९
सुरा.क्षीर.दधि.सर्पिस्.तैलानि वा तद्.व्यवहर्तृ.हस्तेषु गृहीता स्त्रियो बालाश् च रस.युक्तेषु स्व.भाजनेषु परिकिरेयुः ॥

अशा-१२.४.१०
"अनेन_अर्घेण, विशिष्टं वा भूयो दीयताम्" इति तत्र_एव_अवाकिरेयुः ॥

अशा-१२.४.११
एतान्य् एव वैदेहक.व्यञ्जनाः, पण्य.विरेयेण_आहर्तारो वा ॥

अशा-१२.४.१२
हस्त्य्.अश्वानां विधा.यवसेषु रसम् आसन्ना दद्युः ॥

अशा-१२.४.१३
कर्म.कर.व्यञ्जना वा रस.अक्तं यवसम् उदकं वा विक्रीणीरन् ॥

अशा-१२.४.१४
चिर.संसृष्टा वा गो.वाणिजका गवाम् अज.अवीनां वा यूथान्य् अवस्कन्द.कालेषु परेषां मोह.स्थानेषु प्रमुञ्चेयुः, अश्व.खर.उष्ट्रमहिष.आदीनां दुष्टांश् च ॥

अशा-१२.४.१५
तद्.व्यञ्जना वा चुच्छुन्दरी.शोणित.अक्त.अक्षान् ॥

अशा-१२.४.१६
लुब्धक.व्यञ्जना वा व्याल.मृगान् पञ्जरेभ्यः प्रमुञ्चेयुः, सर्प.ग्राहा वा सर्पान् उग्र.विषान्, हस्ति.जीविनो वा हस्तिनः ॥

अशा-१२.४.१७
अग्नि.जीविनो वा_अग्निम् अवसृजेयुः ॥

अशा-१२.४.१८
गूढ.पुरुषा वा विमुखान् पत्त्य्.अश्व.रथ.द्विप.मुख्यान् अभिहन्युः, आदीपयेयुर् वा मुख्य.आवासान् ॥

अशा-१२.४.१९
दूष्य.अमित्र.आटविक.व्यञ्जनाः प्रणिहिताः पृष्ठ.अभिघातम् अवस्कन्द.प्रतिग्रहं वा कुर्युः ॥

अशा-१२.४.२०
वन.गूढा वा प्रत्यन्त.स्कन्धम् उपनिष्कृष्य_अभिहन्युः, एक.अयने वीवध.आसार.प्रसारान् वा ॥

अशा-१२.४.२१
ससंकेतं वा रात्रि.युद्धे भूरि.तूर्यम् आहत्य ब्रूयुः "अनुप्रविष्टाः स्मो, लब्धं राज्यम्" इति ॥

अशा-१२.४.२२
राज.आवासम् अनुप्रविष्टा वा संकुलेषु राजानं हन्युः ॥

अशा-१२.४.२३
सर्वतो वा प्रयातम् एन(?एव?) म्लेच्छ.आटविक.दण्ट.चारिणः सत्त्र.अपाश्रयाः स्तम्भ.वाट.अपाश्रया वा हन्युः ॥

अशा-१२.४.२४
लुब्धक.व्यञ्जना वा_अवस्कन्द.संकुलेषु गूढ.युद्ध.हेतुभिर् अभिहन्युः ॥

अशा-१२.४.२५
एक.अयने वा शैल.स्तम्भ.वाट.खञ्जन.अन्तर्.उदके वा स्व.भूमि.बलेन_अभिहन्युः ॥

अशा-१२.४.२६
नदी.सरस्.तटाक.सेतु.बन्ध.भेद.वेगेन वा प्लावयेयुः ॥

अशा-१२.४.२७
धान्वन.वन.दुर्ग.निम्न.दुर्गस्थं वा योग.अग्नि.धूमाभ्यां नाशयेयुः ॥

अशा-१२.४.२८
संकट.गतम् अग्निना, धान्वन.गतं धूमेन, निधान.गतं रसेन, तोय.अवगाढं दुष्ट.ग्राहैर् उदक.चरणैर् वा तीक्ष्णाः साधयेयुः, आदीप्त.आवासान् निष्पतन्तं वा ॥

अशा-१२.४.२९कख’’’
योग.वामन.योगाभ्यां योगेन_अन्यतमेन वा ।


अशा-१२.४.२९गघ’’’
अमित्रम् अतिसंदध्यात् सक्तम् उक्तासु भूमिषु ॥

(योग.अतिसम्धानम् - दण्ड.अतिसम्धानम् - एक.विजयह्)

अशा-१२.५.०१
दैव.तेज्यायाम्(देवता.इज्यायाम्?) यात्रायाम् अमित्रस्य बहूनि पूजा.आगम.स्थानानि भक्तितः ॥

अशा-१२.५.०२
तत्र_अस्य योगम् उब्जयेत् ॥

अशा-१२.५.०३
देवता.गृह.प्रविष्टस्य_उपरि यन्त्र.मोक्षणेन गूढ.भित्तिं शिलां वा पातयेत् ॥

अशा-१२.५.०४
शिला.शस्त्र.वर्षम् उत्तम.आगारात्, कपाटम् अवपातितं वा, भित्ति.प्रणिहितम् एक.देश.बद्धं वा परिघं मोक्षयेत् ॥

अशा-१२.५.०५
देवता.देह.ध्वज.प्रहरणानि वा_अस्य_उपरिष्टात् पातयेत् ॥

अशा-१२.५.०६
स्थान.आसन.गमन.भूमिषु वा_अस्य गो.मय.प्रदेहेन गन्ध.उदक.प्रसेकेन वा रसम् अतिचारयेत्, पुष्प.चूर्ण.उपहारेण वा ॥

अशा-१२.५.०७
गन्ध.प्रतिच्छन्नं वा_अस्य तीक्ष्णं धूमम् अतिनयेत् ॥

अशा-१२.५.०८
शूलकूपम् अवपातनं वा शयन.आसनस्य_अधस्ताद् यन्त्र.बद्ध.तलम् एनं कील.मोक्षणेन प्रवेशयेत् ॥

अशा-१२.५.०९
प्रत्यासन्ने वा_अमित्रे जन.पदाज् जनम् अवरोध.क्षमम् अतिनयेत् ॥

अशा-१२.५.१०
दुर्गाच् च_अनवरोध.क्षमम् अपनयेत्, प्रत्यादेयम् अरि.विषयं वा प्रेषयेत् ॥

अशा-१२.५.११
जन.पदं च_एकस्थं शैल.वन.नदी.दुर्गेष्व् अटवी.व्यवहितेषु वा पुत्र.भ्रातृ.परिगृहीतं स्थापयेत् ॥

अशा-१२.५.१२
उपरोध.हेतवो दण्ड.उपनत.वृत्ते व्याख्याताः ॥

अशा-१२.५.१३
तृण.काष्ठम् आ.योजनाद् दाहयेत् ॥

अशा-१२.५.१४
उदकानि च दूषयेत्, अवस्रावयेच् च ॥

अशा-१२.५.१५
कूप.कूट.अवपात.कण्टकिनीश् च बहिर् उब्जयेत् ॥

अशा-१२.५.१६
सुरुङ्गाम् अमित्र.स्थाने बहु.मुखीं कृत्वा निचय.मुख्यान् अभिहारयेत्, अमित्रं वा ॥

अशा-१२.५.१७
पर.प्रयुक्तायां वा सुरुङ्गायां परिखाम् उदक.अन्तिकीं खानयेत्, कूप.शालाम् अनुसालं वा ॥

अशा-१२.५.१८
तोय.कुम्भान् कांस्य.भाण्डानि वा शङ्का.स्थानेषु स्थापयेत् खात.अभिज्ञान.अर्थम् ॥

अशा-१२.५.१९
ज्ञाते सुरुङ्गा.पथे प्रतिसुरुङ्गां कारयेत् ॥

अशा-१२.५.२०
मध्ये भित्त्वा धूमम् उदकं वा प्रयच्छेत् ॥

अशा-१२.५.२१
प्रतिविहित.दुर्गो वा मूले दायाद्<अम्> कृत्वा प्रतिलोमाम् अस्य दिशं गच्छेत्, यतो वा मित्रैर् बन्धुभिर् आटविकैर् वा संसृज्येत परस्य_अमित्रैर् दूष्यैर् वा महद्भिः, यतो वा गतो_अस्य मित्रैर् वियोगं कुर्यात् पार्ष्णिं वा गृह्णीयात् राज्यं वा_अस्य हारयेत् वीवध.आसार.प्रसारान् वा वारयेत्, यतो वा शक्नुयाद् आक्षिकवद् अपक्षेपेण_अस्य प्रहर्तुम्, यतो वा स्वं राज्यं त्रायेत मूलस्य_उपचयं वा कुर्यात् ॥

अशा-१२.५.२२
यतः संधिम् अभिप्रेतं लभेत ततो वा गच्छेत् ॥

अशा-१२.५.२३
सह.प्रस्थायिनो वा_अस्य प्रेषयेयुः "अयं ते शत्रुर् अस्माकं हस्त.गतः, पण्यं विप्रकारं वा_अपदिश्य हिरण्यम् अन्तः.सार.बलं च प्रेषय यस्य_एनम् अर्पयेम बद्धं प्रवासितं वा" इति ॥

अशा-१२.५.२४
प्रतिपन्ने हिरण्यं सार.बलं च_आददीत ॥

अशा-१२.५.२५
अन्त.पालो वा दुर्ग.सम्प्रदाने बल.एक.देशम् अतिनीय विश्वस्तं घातयेत् ॥

अशा-१२.५.२६
जन.पदम् एकस्थं वा घातयितुम् अमित्र.अनीकम् आवाहयेत् ॥

अशा-१२.५.२७
तद् अवरुद्ध.देशम् अतिनीय विश्वस्तं घातयेत् ॥

अशा-१२.५.२८
मित्र.व्यञ्जनो वा बाह्यस्य प्रेषयेत् "क्षीणम् अस्मिन् दुर्गे धान्यं स्नेहाः क्षारो लवणं वा, तद् अमुष्मिन् देशे काले च प्रवेक्ष्यति, तद् उपगृहाण" इति ॥

अशा-१२.५.२९
ततो रस.विद्धं धान्यं स्नेहं क्षारं लवणं वा दूष्य.अमित्र.आटविकाः प्रवेशयेयुः, अन्ये वा_अभित्यक्ताः ॥

अशा-१२.५.३०
तेन सर्व.भाण्ड.वीवध.ग्रहणं व्याख्यातम् ॥

अशा-१२.५.३१
संधिं वा कृत्वा हिरण्य.एक.देशम् अस्मै दद्यात्, विलम्बमानः शेषम् ॥

अशा-१२.५.३२
ततो रक्षा.विधानान्य् अवस्रावयेत् ॥

अशा-१२.५.३३
अग्नि.रस.शस्त्रैर् वा प्रहरेत् ॥

अशा-१२.५.३४
हिरण्य.प्रतिग्राहिणो वा_अस्य वल्लभान् अनुगृह्णीयात् ॥

अशा-१२.५.३५
परिक्षीणो वा_अस्मै दुर्गं दत्त्वा निर्गच्छेत् ॥

अशा-१२.५.३६
सुरुङ्गया कुक्षि.प्रदरेण वा प्राकार.भेदेन निर्गच्छेत् ॥

अशा-१२.५.३७
रात्राव् अवस्कन्दं दत्त्वा सिद्धस् तिष्ठेत्, असिद्धः पार्श्वेन_अपगच्छेत् ॥

अशा-१२.५.३८
पाषण्डच्.छद्मना मन्द.परिवारो निर्गच्छेत् ॥

अशा-१२.५.३९
प्रेत.व्यञ्जनो वा गूढैर् निह्रियेत ॥

अशा-१२.५.४०
स्त्री.वेष.धारी वा प्रेतम् अनुगच्छेत् ॥

अशा-१२.५.४१
दैवत.उपहार.श्राद्ध.प्रहवणेषु वा रस.विद्धम् अन्न.पानम् अवसृज्य ॥

अशा-१२.५.४२
कृत.उपजापो दूष्य.व्यञ्जनैर् निष्पत्य गूढ.सैन्यो_अभिहन्यात् ॥

अशा-१२.५.४३
एवं गृहीत.दुर्गो वा प्राश्य.प्राशं चैत्यम् उपस्थाप्य दैवत.प्रतिमाच्.छिद्रं प्रविश्य_आसीत, गूढ.भित्तिं वा, दैवत.प्रतिमा.युक्तं वा भूमि.गृहम् ॥

अशा-१२.५.४४
विस्मृते सुरुङ्गया रात्रौ राज.आवासम् अनुप्रविश्य सुप्तम् अमित्रं हन्यात् ॥

अशा-१२.५.४५
यन्त्र.विश्लेषणं वा विश्लेष्य_अधस्ताद् अवपातयेत् ॥

अशा-१२.५.४६
रस.अग्नि.योगेन_अवलिप्तं गृहं जतु.गृहं वा_अधिशयानम् अमित्रम् आदीपयेत् ॥

अशा-१२.५.४७
प्रमद.वन.विहाराणाम् अन्यतमे वा विहार.स्थाने प्रमत्तं भूमि.गृह.सुरुङ्गा.गूढ.भित्ति.प्रविष्टास् तीक्ष्णा हन्युः, गूढ.प्रणिहिता वा रसेन ॥

अशा-१२.५.४८
स्वपतो वा निरुद्धे देशे गूढाः स्त्रियः सर्प.रस.अग्नि.धूमान् उपरि मुञ्चेयुः ॥

अशा-१२.५.४९
प्रत्युत्पन्ने वा कारणे यद् यद् उपपद्येत तत् तद् अमित्रे_अन्तः.पुर.गते गूढ.संचारः प्रयुञ्जीत ॥

अशा-१२.५.५०
ततो गूढम् एव_अपगच्छेत्, स्वजन.संज्ञां च प्ररूपयेत् ॥

अशा-१२.४.५१कख’’’
द्वाह्स्थान् वर्षधरांश् च_अन्यान् निगूढ.उपहितान् परे ।


अशा-१२.४.५१च्द्/तूर्य.संज्ञाभिर् आहूय द्विषत्.शेषाणि घातयेत् ॥