अर्थशास्त्रम् अध्याय 13

विकिपुस्तकानि तः
Jump to navigation Jump to search

(उपजापह्)

अशा-१३.१.०१
विजिगीषुः पर.ग्रामम् अवाप्तु.कामः सर्वज्ञ.दैवत.सम्योग.ख्यापनाभ्यां स्व.पक्षम् उद्धर्षयेत्, पर.पक्षं च_उद्वेजयेत् ॥

अशा-१३.१.०२
सर्वज्ञ.ख्यापनं तु - गृह.गुह्य.प्रवृत्ति.ज्ञानेन प्रत्यादेशो मुख्यानाम्, कण्टक.शोधन.अपसर्प.अवगमेन प्रकाशनं राज.द्विष्ट.कारिणाम्, विज्ञाप्य.उपायन.ख्यापनम् अदृष्ट.संसर्ग.विद्या.संज्ञा.आदिभिः, विदेश.प्रवृत्ति.ज्ञानं तद् अहर् एव गृह.कपोतेन मुद्रा.सम्युक्तेन ॥

अशा-१३.१.०३
दैवत.सम्योग.ख्यापनं तु - सुरुङ्गा.मुखेन_अग्नि.चैत्य.दैवत.प्रतिमाच्.छिद्रान् अनुप्रविष्टैर् अग्नि.चैत्य.दैवत.व्यञ्जनैः सम्भाषणं पूजनं च, उदकाद् उत्थितैर् वा नाग.वरुण.व्यञ्जनैः सम्भाषणं पूजनं च, रात्राव् अन्तर्.उदके समुद्र.वालुका.कोशं प्रणिधाय_अग्नि.माला.दर्शनम्, शिला.शिक्य.अवगृहीते प्लवके स्थानम्, उदक.बस्तिना जरायुणा वा शिरो_अवगूढ.नासः पृषत.अन्त्र.कुलीर.नक्र.शिंशुमार.उद्रवसाभिर् वा शत.पाक्यं तैलं नस्तः प्रयोगः ॥

अशा-१३.१.०४
तेन रात्रि.गणश् चरति ॥

अशा-१३.१.०५
इत्य् उदक.चरणानि ॥

अशा-१३.१.०६
तैर् वरुण.नाग.कन्या.वाक्य.क्रिया सम्भाषणं च, कोप.स्थानेषु मुखाद् अग्नि.धूम.उत्सर्गः ॥

अशा-१३.१.०७
तद् अस्य स्व.विषये कार्तान्तिक.नैमित्तिक.मौहूर्तिक.पौराणिक.इक्षणिक.गूढ.पुरुषाः साचिव्य.करास् तद्.दर्शिनश् च प्रकाशयेयुः ॥

अशा-१३.१.०८
परस्य विषये दैवत.दर्शनं दिव्य.कोश.दण्ड.उत्पत्तिं च_अस्य ब्रूयुः ॥

अशा-१३.१.०९
दैवत.प्रश्न.निमित्त.वायस.अङ्ग.विद्या.स्वप्न.मृग.पक्षि.व्याहारेषु च_अस्य विजयं ब्रूयुः, विपरीतम् अमित्रस्य ॥

अशा-१३.१.१०
सदुन्दुभिम् उल्कां च परस्य नक्षत्रे दर्शयेयुः ॥

अशा-१३.१.११
परस्य मुख्यान् मित्रत्वेन_उपदिशन्तो दूत.व्यञ्जनाः स्वामि.सत्कारं ब्रूयुः, स्व.पक्ष.बल.आधानं पर.पक्ष.प्रतिघातं च ॥

अशा-१३.१.१२
तुल्य.योग.क्षेमम् अमात्यानाम् आयुधीयानां च कथयेयुः ॥

अशा-१३.१.१३
तेषु व्यसन.अभ्युदय.अवेक्षणम् अपत्य.पूजनं च प्रयुञ्जीत ॥

अशा-१३.१.१४
तेन पर.पक्षम् उत्साहयेद् यथा.उक्तं पुरस्तात् ॥

अशा-१३.१.१५
भूयश् च वक्ष्यामः ॥

अशा-१३.१.१६
साधारण.गर्दभेन दक्षान्, लकुट.शाखा.हननाभ्यां दण्ड.चारिणः, कुल.एडकेन च_उद्विग्नान्, अशनि.वर्षेण विमानितान्, विदुलेन_अवकेशिना वायस.पिण्डेन कैतवज.मेघेन_इति विहत.आशान् दुर्भग.अलंकारेण द्वेषिणा_इति पूजा.फलान्, व्याघ्र.चर्मणा मृत्यु.कूटेन च_उपहितान्, पीलु.विखादनेन करक.योष्ट्रया गर्दभी.क्षीरा.अभिमन्थनेन_इति ध्रुव.उपकारिण इति ॥

अशा-१३.१.१७
प्रतिपन्नान् अर्थ.मानाभ्यां योजयेत्

अशा-१३.१.१८
द्रव्य.भक्तच्.छिद्रेषु च_एनान् द्रव्य.भक्त.दानैर् अनुगृह्णीयात् ॥

अशा-१३.१.१९
अप्रतिगृह्णतां स्त्री.कुमार.अलंकारान् अभिहरेयुः ॥

अशा-१३.१.२०
दुर्भिक्ष.स्तेन.अटव्य्.उपघातेषु च पौर.जानपदान् उत्साहयन्तः सत्त्रिणो ब्रूयुः "राजानम् अनुग्रहं याचामहे_ निरनुग्रहाः परत्र गच्छामः" इति ॥

अशा-१३.१.२१कख’’’
तथा_इति प्रतिपन्नेषु द्रव्य.धान्यान्य् अपरिग्रहैः ।


अशा-१३.१.२१गघ’’’
साचिव्यं कार्यम् इत्य् एतद् उपजापाद् भूतं महत् ॥

(योग.वामनम्)

अशा-१३.२.०१
मुण्डो जटिलो वा पर्वत.गुह.आवासी चतुर्.वर्ष.शत.आयुर् ब्रुवाणः प्रभूत.जटिल.अन्ते.वासी नगर.अभ्याशे तिष्ठेत् ॥

अशा-१३.२.०२
शिष्याश् च_अस्य मूल.फल.उपगमनैर् अमात्यान् राजानं च भगवद्.दर्शनाय योजयेयुः ॥

अशा-१३.२.०३
समागताश् च राज्ञा पूर्व.राज.देश.अभिज्ञानानि कथयेत्, "शते शते च वर्षाणां पूर्णे_अहम् अग्निं प्रविश्य पुनर् बालो भवामि, तद् इह भवत् समीपे चतुर्थम् अग्निं प्रवेक्ष्यामि, अवश्यं मे भवान् मानयितव्यः, त्रीन् वरान् वृणीष्ण(वृषीष्व)" इति ॥

अशा-१३.२.०४
प्रतिपन्नं ब्रूयात् "सप्त.रात्रम् इह सपुत्र.दारेण प्रेक्षा.प्रहवण.पूर्वं वस्तव्यम्" इति ॥

अशा-१३.२.०५
वसन्तम् अवस्कन्देत ॥

अशा-१३.२.०६
मुण्डो वा जटिलो वा स्थानिक.व्यञ्जनः प्रभूत.जटिल.अन्ते.वासी वस्त.शोणित.दिग्धां वेणु.शलाकां सुवर्ण.चूर्णेन_अवलिप्य वल्मीके निदध्याद् उपजिह्विक.अनुसरण.अर्थम्, स्वर्ण.नालिकां वा ॥

अशा-१३.२.०७
ततः सत्त्री राज्ञः कथयेत् "असौ सिद्धः पुष्पितं निधिं जानाति" इति ॥

अशा-१३.२.०८
स राज्ञा पृष्ठः "तथा" इति ब्रूयात्, तच् च_अभिज्ञानं दर्शयेत्, भूयो वा हिरण्यम् अन्तर्.आधाय ॥

अशा-१३.२.०९
ब्रूयाच् च_एनं "नाग.रक्षितो_अयं निधिः प्रणिपात.साध्यः" इति ॥

अशा-१३.२.१०
प्रतिपन्नं ब्रूयात् "सप्त.रात्रम्" इति समानम् ॥

अशा-१३.२.११
स्थानिक.व्यञ्जनं वा रात्रौ तेजन.अग्नि.युक्तम् एकान्ते तिष्ठन्तं सत्त्रिणः क्रम.अभीनीतं राज्ञः कथयेयुः "असौ सिद्धः सामेधिकः" इति ॥

अशा-१३.२.१२
तं राजा यम् अर्थं याचेत तम् अस्य करिष्यमाणः "सप्त.रात्रम्" इति समानम् ॥

अशा-१३.२.१३
सिद्ध.व्यञ्जनो वा राजानं जम्भक.विद्याभिः प्रलोभयेत् ॥

अशा-१३.२.१४
तं राजा_इति समानम् ॥

अशा-१३.२.१५
सिद्ध.व्यञ्जनो वा देश.देवताम् अभ्यर्हिताम् आश्रित्य प्रहवणैर् अभीक्ष्णं प्रकृति.मुख्यान् अभिसंवास्य क्रमेण राजानम् अतिसंदध्यात् ॥

अशा-१३.२.१६
जटिल.व्यञ्जनम् अन्तर्.उदक.वासिनं वा सर्व.श्वेतं तट.सुरुङ्गा.भूमि.गृह.अपसरणं वरुणं नाग.राजं वा सत्त्रिणः क्रम.अभिनीतं राज्ञः कथयेयुः ॥

अशा-१३.२.१७
तं राजा_इति समानम् ॥

अशा-१३.२.१८
जन.पद.अन्ते.वासी सिद्ध.व्यञ्जनो वा राजानं शत्रु.दर्शनाय योजयेत् ॥

अशा-१३.२.१९
प्रतिपन्नं बिम्बं कृत्वा शत्रुम् आवाहयित्वा निरुद्धे देशे घातयेत् ॥

अशा-१३.२.२०
अश्व.पण्य.उपयाता वैदेहक.व्यञ्जनाः पण्य.उपायन.निमित्तम् आहूय राजानं पण्य.परीक्षायाम् आसक्तम् अश्व.व्यतिकीर्णं वा हन्युः, अश्वैश् च प्रहरेयुः ॥

अशा-१३.२.२१
नगर.अभ्याशे वा चैत्यम् आरुह्य रात्रौ तीक्ष्णाः कुम्भेषु नालीन् वा विदुलानि धमन्तः "स्वामिनो मुख्यानां वा मांसानि भक्षयिष्यामः, पूजा नो वर्तताम्" इत्य् अव्यक्तं ब्रूयुः ॥

अशा-१३.२.२२
तद् एषां नैमित्तिक.मौहूर्तिक.व्यञ्जनाः ख्यापयेयुः ॥

अशा-१३.२.२३
मङ्गल्ये वा ह्रदे तटाक.मध्ये वा रात्रौ तेजन.तैल.अभ्यक्ता नाग.रूपिणः शक्ति.मुसलान्य् अयोमयानि निष्पेषयन्तस् तथैव ब्रूयुः ॥

अशा-१३.२.२४
ऋक्ष.चर्म.कञ्चुकिनो वा_अग्नि.धूम.उत्सर्ग.युक्ता रक्षो.रूपं वहन्तस् त्रिर् अपसव्यं नगरं कुर्वाणाः श्व.सृगाल.वाशित.अन्तरेषु तथैव ब्रूयुः ॥

अशा-१३.२.२५
चैत्य.दैवत.प्रतिमां वा तेजन.तैलेन_अभ्र.पटलच्.छन्नेन_अग्निना वा रात्रौ प्रज्वाल्य तथैव ब्रूयुः ॥

अशा-१३.२.२६
तद् अन्ये ख्यापयेयुः ॥

अशा-१३.२.२७
दैवत.प्रतिमानाम् अभ्यर्हितानां वा शोणितेन प्रस्रावम् अतिमात्रं कुर्युः ॥

अशा-१३.२.२८
तद् अन्ये देव.रुधिर.संस्रावे संग्रामे पराजयं ब्रूयुः ॥

अशा-१३.२.२९
संधि.रात्रिषु श्मशान.प्रमुखे वा चैत्यम् ऊर्ध्व.भक्षितैर् मनुष्यैः प्ररूपयेयुः ॥

अशा-१३.२.३०
ततो रक्षो.रूपी मनुष्यकं याचेत ॥

अशा-१३.२.३१
यश् च_अत्र शूर.वादिको_अन्यतमो वा द्रष्टुम् आगच्छेत् तम् अन्ये लोह.मुसलैर् हन्युः, यथा रक्षोभिर् हत इति ज्ञायेत ॥

अशा-१३.२.३२
तद् अद्भुतं राज्ञस् तद्.दर्शिनः सत्त्रिणश् च कथयेयुः ॥

अशा-१३.२.३३
ततो नैमितित्क.मौहूर्तिक.व्यञ्जनाः शान्तिं प्रायश्.चित्तं ब्रूयुः "अन्यथा महद् अकुशलं राज्ञो देशस्य च" इति ॥

अशा-१३.२.३४
प्रतिपन्नं "एतेषु सप्त.रात्रम् एक.एक.मन्त्र.बलि.होमं स्वयं राज्ञा कर्तव्यम्" इति ब्रूयुः ॥

अशा-१३.२.३५
ततः समानम् ॥

अशा-१३.२.३६
एतान् वा योगान् आत्मनि दर्शयित्वा प्रतिकुर्वीत परेषाम् उपदेश.अर्थम् ॥

अशा-१३.२.३७
ततः प्रयोजयेद् योगान् ॥

अशा-१३.२.३८
योग.दर्शन.प्रतीकारेण वा कोश.अभिसंहरणं कुर्यात् ॥

अशा-१३.२.३९
हस्ति.कामं वा नाग.वन.पाला हस्तिना लक्षण्येन प्रलोभयेयुः ॥

अशा-१३.२.४०
प्रतिपन्नं गहनम् एक.अयनं वा_अतिनीय घातयेयुः, बद्ध्वा वा_अपहरेयुः ॥

अशा-१३.२.४१
तेन मृगया.कामो व्याख्यातः ॥

अशा-१३.२.४२
द्रव्य.स्त्री.लोलुपम् आढ्य.विधवाभिर् वा परम.रूप.यौवनाभिः स्त्रीभिर् दाय.निक्षेप.अर्थम् उपनीताभिः सत्त्रिणः प्रलोभयेयुः ॥

अशा-१३.२.४३
प्रतिपन्नं रात्रौ सत्त्रच्.छन्नाः समागमे शस्त्र.रसाभ्यां घातयेयुः ॥

अशा-१३.२.४४
सिद्ध.प्रव्रजित.चैत्य.स्तूप.दैवत.प्रतिमानाम् अभीक्ष्ण.अभिगमनेषु वा भूमि.गृह.सुरुङ्ग.आरूढ.भित्ति.प्रविष्टास् तीक्ष्णाः परम् अभिहन्युः ॥

अशा-१३.२.४५कख’’’
येषु देशेषु याः प्रेक्षाः प्रेक्षते पार्थिवः स्वयम् ।
KआK१३.२.४५गघ’’’
यात्रा.विहारे रमते यत्र क्रीडति वा_अम्भसि ॥

अशा-१३.२.४६कख’’’
धिग्.उक्त्य्.आदिषु सर्वेषु यज्ञ.प्रहवणेषु वा ।


अशा-१३.२.४६गघ’’’
सूतिका.प्रेत.रोगेषु प्रीति.शोक.भयेषु वा ।


अशा-१३.२.४७कख’’’
प्रमादं याति यस्मिन् वा विश्वासात् स्व.जन.उत्सवे ॥


अशा-१३.२.४७गघ’’’
यत्र_अस्य_आरक्षि.संचारो दुर्दिने संकुलेषु वा ।


अशा-१३.२.४८कख’’’
विप्र.स्थाने प्रदीप्ते वा प्रविष्टे निर्जने_अपि वा ।


अशा-१३.२.४८गघ’’’
वस्त्र.आभरण.माल्यानां फेलाभिः शयन.आसनैः ॥


अशा-१३.२.४९कख’’’
मद्य.भोजन.फेलाभिस् तूर्यैर् वा_अभिगताः सह ।


अशा-१३.२.४९गघ’’’
प्रहरेयुर् अरिं तीक्ष्णाः पूर्व.प्रणिहितैः सह ॥



अशा-१३.२.५०कख’’’
यथैव प्रविशेयुश् च द्विषतः सत्त्र.हेतुभिः ।


अशा-१३.२.५०गघ’’’
तथैव च_अपगच्छेयुर् इत्य् उक्तं योग.वामनम् ॥

(अपसर्प.प्रणिधिह्)

अशा-१३.३.०१
श्रेणी.मुख्यम् आप्तं निष्पातयेत् ॥

अशा-१३.३.०२
स परम् आश्र्त्य पक्ष.अपदेशेन स्व.विषयात् साचिव्य.कर.सहाय.उपादानं कुर्वीत ॥

अशा-१३.३.०३
कृत.अपसर्प.उपचयो वा परम् अनुमान्य स्वामिनो दूष्य.ग्रामं वीत.हस्त्य्.अश्वं दूष्य.अमात्यं दण्डम् आक्रन्दं वा हत्वा परस्य प्रेषयेत् ॥

अशा-१३.३.०४
जन.पद.एक.देशं श्रेणीम् अटवीं वा सहाय.उपादान.अर्थं संश्रयेत ॥

अशा-१३.३.०५
विश्वासम् उपगतः स्वामिनः प्रेषयेत् ॥

अशा-१३.३.०६
ततः स्वामी हस्ति.बन्धनम् अटवी.घातं वा_अपदिश्य गूढम् एव प्रहरेत् ॥

अशा-१३.३.०७
एतेन_अमात्य.अटविका व्याख्याताः ॥

अशा-१३.३.०८
शत्रुणा मैत्रीं कृत्वा_अमात्यान् अवक्षिपेत् ॥

अशा-१३.३.०९
ते तत्.शत्रोः प्रेषयेयुः "भर्तारं नः प्रसादय" इति ॥

अशा-१३.३.१०
स यं दूतं प्रेषयेत्, तम् उपालभेत "भर्ता ते माम् अमात्यैर् भेदयति, न च पुनर् इह_आगन्तव्यम्" इति ॥

अशा-१३.३.११
अथ_एकम् अमात्यं निष्पातयेत् ॥

अशा-१३.३.१२
स परम् आश्रित्य योग.अपसर्प.अपरक्त.दूष्यान् अशक्तिमतः स्तेन_आटविकान् उभय.उपघातकान् वा परस्य_उपहरेत् ॥

अशा-१३.३.१३
आप्त.भाव.उपगतः प्रवीर.पुरुष.उपघातम् अस्य_उपहरेद् अन्त.पालम् आटविकं दण्ड.चारिणं वा "दृढम् असौ च_असौ च ते शत्रुणा संधत्ते" इति ॥

अशा-१३.३.१४
अथ पश्चाद् अभित्यक्त.शासनैर् एनान् घातयेत् ॥

अशा-१३.३.१५
दण्ड.बल.व्यवहारेण वा शत्रुम् उद्योज्य घातयेत् ॥

अशा-१३.३.१६
कृत्य.पक्ष.उपग्रहेण वा परस्य.अमित्रं राजानम् आत्मन्य् अपकारयित्वा_अभियुञ्जीत ॥

अशा-१३.३.१७
ततः परस्य प्रेषयेत् "असौ ते वैरी मम_अपकरोति, तम् एहि सम्भूय हनिष्यावः, भूमौ हिरण्ये वा ते परिग्रहः" इति ॥

अशा-१३.३.१८
प्रतिपन्नम् अभिसत्कृत्य_आगतम् अवस्कन्देन प्रकाशयुद्धेन वा शत्रुणा घातयेत् ॥

अशा-१३.३.१९
अभिविश्वासन.अर्थं भूमि.दान.पुत्र.अभिषेक.रक्षा.अपदेशेन वा ग्राहयेत् ॥

अशा-१३.३.२०
अविषह्यम् उपांशु.दण्डेन वा घातयेत् ॥

अशा-१३.३.२१
स चेद् दण्डं दद्यान् न स्वयम् आगच्छेत् तम् अस्य वैरिणा घातयेत् ॥

अशा-१३.३.२२
दण्डेन वा प्रयातुम् इच्छेन् न विजिगीषुणा तथा_अप्य् एनम् उभयतः.सम्पीडनेन घातयेत् ॥

अशा-१३.३.२३
अविश्वस्तो वा प्रत्येकशो यातुम् इच्छेद् राज्य.एक.देशं वा यातव्यस्य_आदातु.कामः, तथा_अप्य् एनं वैरिणा सर्व.संदोहेन वा घातयेत् ॥

अशा-१३.३.२४
वैरिणा वा सक्तस्य दण्ड.उपनयेन मूलम् अन्यतो हारयेत् ॥

अशा-१३.३.२५
शत्रु.भूम्या वा मित्रं पणेत, मित्र.भूम्या वा शत्रुम् ॥

अशा-१३.३.२६
ततः शत्रु.भूमि.लिप्सायां मित्रेण_आत्मन्य् अपकारयित्वा_अभियुञ्जीत - इति समानाः पूर्वेण सर्व एव योगाः ॥

अशा-१३.३.२७
शत्रुं वा मित्र.भूमि.लिप्सायां प्रतिपन्नं दण्डेन_अनुगृह्णीयात् ॥

अशा-१३.३.२८
ततो मित्र.गतम् अतिसंदध्यात् ॥

अशा-१३.३.२९
कृत.प्रतिविधानो वा व्यसनम् आत्मनो दर्शयित्वा मित्रेण_अमित्रम् उत्साहयित्वा_आत्मानम् अभियोजयेत् ॥

अशा-१३.३.३०
ततः सम्पीडनेन घातयेत्, जीव.ग्राहेण वा राज्य.विनिमयं कारयेत् ॥

अशा-१३.३.३१
मित्रेण_आश्रितश् चेत्_शत्रुर् अग्राह्ये स्थातुम् इच्छेत् सामन्त.आदिभिर् मूलम् अस्य हारयेत् ॥

अशा-१३.३.३२
दण्डेन वा त्रातुम् इछेत् तम् अस्य घातयेत् ॥

अशा-१३.३.३३
तौ चेन् न भिद्येयातां प्रकाशम् एव_अन्योन्य.भूम्या पणेत ॥

अशा-१३.३.३४
ततः परस्परं मित्र.व्यञ्जना वा उभय.वेतना वा दूतान् प्रेषयेयुः "अयं ते राजा भूमिं लिप्सते शत्रु.संहितः" इति ॥

अशा-१३.३.३५
तयोर् अन्यतरो जात.आशङ्क.आरोषः, पूर्ववच् चेष्तेत ॥

अशा-१३.३.३६
दुर्ग.राष्ट्र.दण्ड.मुख्यान् वा कृत्य.पक्ष.हेतुभिर् अभिविख्याप्य प्रव्राजयेत् ॥

अशा-१३.३.३७
ते युद्ध.अवस्कन्द.अवरोध.व्यसनेषु शत्रुम् अतिसंदध्युः ॥

अशा-१३.३.३८
भेदं वा_अस्य स्व.वर्गेभ्यः कुर्युः ॥

अशा-१३.३.३९
अभित्यक्त.शासनैः प्रतिसमानयेयुः ॥

अशा-१३.३.४०
लुब्धक.व्यञ्जना वा मांस.विक्रयेण द्वाह्स्था दौवारिक.अपाश्रयाश् चोर.अभ्यागमं परस्य द्विस् त्रिर् इति निवेद्य लब्ध.प्रत्यया भर्तुर् अनीकं द्विधा निवेश्य ग्राम.वधे_अवस्कन्दे च द्विषतो ब्रूयुः "आसन्नश् चोर.गणः, महांश् च_आक्रन्दः, प्रभूतं सैन्यम् आगच्छतु" इति ॥

अशा-१३.३.४१
तद् अर्पयित्वा ग्राम.घात.दण्डस्य सैन्यम् इतरद् आदाय रात्रौ दुर्ग.द्वारेषु ब्रूयुः "हतश् चोर.गणः, सिद्ध.यात्रम् इदं सैन्यम् आगतम्, द्वारम् अपाव्रियताम्" इति ॥

अशा-१३.३.४२
पूर्व.प्रणिहिता वा द्वाराणि दद्युः ॥

अशा-१३.३.४३
तैः सह प्रहरेयुः ॥

अशा-१३.३.४४
कारु.शिल्पि.पाषण्ड.कुशीलव.वैदेहक.व्यञ्जनान् आयुधीयान् व्वा पर.दुर्गे प्रणिदध्यात् ॥

अशा-१३.३.४५
तेषां गृह.पतिक.व्यञ्जनाः काष्ठ.तृण.धान्य.पण्य.शकटैः प्रहरण.आवरणान्य् अभिहरेयुः, देव.ध्वज.प्रतिमाभिर् वा ॥

अशा-१३.३.४६
ततस् तद्.व्यञ्जनाः प्रमत्त.वधम् अवस्कन्द.प्रतिग्रहम् अभिप्रहरणं पृष्ठतः शङ्ख.दुन्दुभि.शब्देन वा "प्रविष्टम्" इत्य् आवेदयेयुः ॥

अशा-१३.३.४७
प्राकार.द्वार.अट्टालक.दानम् अनीक.भेदं घातं वा कुर्युः ॥

अशा-१३.३.४८
सार्थ.गण.वासिभिर् आतिवाहिकैः कन्या.वाहिकैर् अश्व.पण्य.व्यवहारिभिर् उपकरण.हारकैर् धान्य.क्रेतृ.विक्रेतृभिर् वा प्रव्रजित.लिङ्गिभिर् दूतैश् च दणड्.अतिनयनम्, संधि.कर्म.विश्वासन.अर्थम् ॥

अशा-१३.३.४९
इति राज.अपसर्पाः ॥

अशा-१३.३.५०
एत एव_अटवीनाम् अपसर्पाः कण्टक.शोधन.उक्ताश् च ॥

अशा-१३.३.५१
व्रजम् अटव्य्.आसन्नम् अपसर्पाः सार्थं वा चोरैर् घातयेयुः ॥

अशा-१३.३.५२
कृत.संकेतम् अन्न.पानं च_अत्र मदन.रस.विद्धं वा कृत्वा_अपगच्छेयुः ॥

अशा-१३.३.५३
गो.पालक.वैदेहकाश् च ततश् चोरान् गृहीत.लोप्त्र.भारान् मदन.रस.विकार.काले_अवस्कन्दयेयुः ॥

अशा-१३.३.५४
संकर्षण.दैवतीयो वा मुण्ड.जटिल.व्यञ्जनः प्रहवण.कर्मणा मदन.रस.योगेन_अतिसंदध्यात् ॥

अशा-१३.३.५५
अथ_अवस्कन्दं दद्यात् ॥

अशा-१३.३.५६
शौण्डिक.व्यञ्जनो वा दैवत.प्रेत.कार्य.उत्सव.समाजेष्व् आटविकान् सुरा.विक्रय.उपायन.निमित्तं मदन.रस.योगेन_अतिसंदध्यात् ॥

अशा-१३.३.५७
अथ_अवस्कन्दं दद्यात् ॥

अशा-१३.३.५८कख’’’
ग्राम.घात.प्रविष्टां वा विक्षिप्य बहुधा_अटवीम् ।


अशा-१३.३.५८गघ’’’
घातयेद् इति चोराणाम् अपसर्पाः प्रकीर्तिताः ॥

(पर्युपासन.कर्म - अवमर्दह्)

अशा-१३.४.०१
कर्शन.पूर्वं पर्युपासन.कर्म ॥

अशा-१३.४.०२
जन.पदं यथा.निविष्टम् अभये स्थापयेत् ॥

अशा-१३.४.०३
उत्थितम् अनुग्रह.परिहाराभ्यां निवेषयेत्, अन्यत्र_अपसरतः ॥

अशा-१३.४.०४
संग्रामाद् अन्यस्यां भूमौ निवेशयेत्, एकस्यां वा वासयेत् ॥

अशा-१३.४.०५
न ह्य् अजनो जन.पदो राज्यम् अजन.पदं वा भवति_इति कौटिल्यः ॥

अशा-१३.४.०६
विषमस्थस्य मुष्टिं सस्यं वा हन्याद्, वीवध.प्रसारौ च ॥

अशा-१३.४.०७कख’’’
प्रसार.वीवधच्.छेदान् मुष्टि.सस्य.वधाद् अपि ।


अशा-१३.४.०७गघ’’’
वमनाद् गूढ.घाताच् च जायते प्रकृति.क्षयः ॥


अशा-१३.४.०८
"प्रभूत.गुण.बद्ध(वद्ध).अन्य.कुप्य.यन्त्र.शस्त्र.आवरण.विष्टिर् अश्मि.समग्रं मे सैन्यम्, ऋतुश् च पुरस्तात्, अपर्तुः परस्य, व्याधि.दुर्भिक्ष.निचय.रक्षा.क्षयः क्रीत.बल.निर्वेदो मित्र.बल.निर्वेदश् च" इति पर्युपासीत ॥

अशा-१३.४.०९
कृत्वा स्कन्ध.आवारस्य रक्षां वीवध.आसारयोः पथश् च, परिक्षिप्य दुर्गं खात.सालाभ्याम्, दूषयित्वा_उदकम्, अवस्राव्य परिखाः सम्पूरयित्वा वा, सुरुङ्गा.बल.कुटिकाभ्यां वप्र.प्राकारौ हारयेत्, दारं च गुडेन ॥

अशा-१३.४.१०
निम्नं वा पांसु.मालया_आच्छादयेत् ॥

अशा-१३.४.११
बहुल.आरक्षं यन्त्रैर् घातयेत् ॥

अशा-१३.४.१२
निष्किराद् उपनिष्कृष्य_अश्वैश् च प्रहरेयुः ॥

अशा-१३.४.१३
विक्रम.अन्तरेषु च नियोग.विकल्प.समुच्चयैश् च_उपायानां सिद्धिं लिप्सेत ॥

अशा-१३.४.१४
दुर्ग.वासिनः श्येन.काक.नप्तृ.भास.शुक.सारिक.उलूक.कपोतान् ग्राहयित्वा पुच्छेष्व् अग्नि.योग.युक्तान् पर.दुर्गे विसृजेत् ॥

अशा-१३.४.१५
अपकृष्ट.स्कन्ध.आवाराद् उच्छ्रित.ध्वज.धन्व.आरक्षो वा मानुषेण_अग्निना पर.दुर्गम् आदीपयेत् ॥

अशा-१३.४.१६
गूढ.पुर्षाश् च_अन्तर्.दुर्ग.पालका नकुल.वानर.बिडाल.शुनां पुच्छेष्व् अग्नि.योगम् आधाय काण्ड.निचय.रक्षा.विधान.वेश्मसु विसृजेयुः ॥

अशा-१३.४.१७
शुष्क.मत्स्यानाम् उदरेष्व् अग्निम् आधाय वल्लूरे वा वायस.उपहारेण वयोभिर् हारयेयुः ॥

अशा-१३.४.१८
सरल.देव.दारु.पूति.तृण.गुग्गुलु.श्री.वेष्टकसर्जरसलाक्षागुलिकाः खर.उष्ट्र.अजावीनां लेण्डं च_अग्नि.धारणम् ॥

अशा-१३.४.१९
प्रियाल.चूर्णम् अवल्गु.जमषी.मधु.उच्छिष्टम् अश्व.खर.उष्ट्र.गो.लेण्डम् इत्य् एष क्षेप्यो_अग्नि.योगः ॥

अशा-१३.४.२०
सर्व.लोह.चूर्णम् अग्नि.वर्णं वा कुम्भी.सीस.त्रपु.चूर्णं वा पारिभद्रक.पलाश.पुष्प.केश.मषी.तैल.मधु.उच्छिष्टक.श्री.वेष्टक.युक्तो_अग्नि.योगो विश्वास.घाती वा ॥

अशा-१३.४.२१
तेन_अवलिप्तः शण.त्रपुस.वल्क.वेष्टितो बाण इत्य् अग्नि.योगः ॥

अशा-१३.४.२२
न त्व् एव विद्यमाने पराक्रमे_अग्निम् अवसृजेत् ॥

अशा-१३.४.२३
अविश्वास्यो ह्य् अग्निर् दैव.पीडनं च, अप्रतिसंख्यात.प्राणि.धान्य.पशु.हिरण्य.कुप्य.द्रव्य.क्षय.करः ॥

अशा-१३.४.२४
क्षीण.निचयं च_अवाप्तम् अपि राज्यं क्षयाय_एव भवति ॥ (इति पर्युपासन.कर्म)

अशा-१३.४.२५
"सर्व.आरम्भ.उपकरण.विष्टि.सम्पन्नो_अस्मि, व्याधितः पर उपधा.विरुद्ध.प्रकृतिर् अकृत.दुर्ग.कर्म.निचयो वा, निरासारः सासारो वा पुरा मित्रैः संधत्ते" इत्य् अवमर्द.कालः ॥

अशा-१३.४.२६
स्वयम् अग्नौ जाते समुत्थापिते वा प्रहवणे प्रेक्षा.अनीक.दर्शन.सङ्ग.सौरिक.कलहेषु नित्य.युद्ध.श्रान्त.बले बहुल.युद्ध.प्रतिविद्ध.प्रेत.पुरुषे जागरण.क्लान्त.सुप्त.जने दुर्दिने नदी.वेगे वा नीहार.सम्प्लवे वा_अवमृद्नीयात् ॥

अशा-१३.४.२७
स्कन्ध.आवारम् उत्सृज्य वा वन.गूढः शत्रुं निष्क्रान्तं घातयेत् ॥

अशा-१३.४.२८
मित्र.आसार.मुख्य.व्यञ्जनो वा सम्रुद्धेन मैत्रीं कृत्वा दूतम् अभित्यक्तं प्रेषयेत् - "इदं ते छिद्रम्, इमे दूष्याः" "सम्रोद्धुर् वा छिद्रम्, अयं ते कृत्य.पक्षः" इति ॥

अशा-१३.४.२९
तं प्रतिदूतम् आदाय निर्गच्छन्तं विजिगीषुर् गृहीत्वा दोषम् अभिविख्याप्य प्रवास्य अपगच्छेत् ॥

अशा-१३.४.३०
ततो मित्र.आसार.व्यञ्जनो वा सम्रुद्धं ब्रूयात् "मां त्रातुम् उपनिर्गच्छ, मया वा सह सम्रोद्धारं जहि" इति ॥

अशा-१३.४.३१
प्रतिपन्नम् उभयतः.सम्पीडनेन घातयेत्, जीव.ग्राहेण वा राज्य.विनिमयं कारयेत् ॥

अशा-१३.४.३२
नगरं वा_अस्य प्रमृद्नीयात् ॥

अशा-१३.४.३३
सार.बलं वा_अस्य वमयित्वा_अभिहन्यात् ॥

अशा-१३.४.३४
तेन दण्ड.उपनत.आटविका व्याख्याताः ॥

अशा-१३.४.३५
दण्ड.उपनत.आटविकयोर् अन्यतरो वा सम्रुद्धस्य प्रेषयेत् - "अयं सम्रोद्धा व्याधितः, पार्ष्णि.ग्राहेण_अभियुक्तः, छिद्रम् अन्यद् उत्थितम्, अन्यस्यां भूमाव् अपयातु.कामः" इति ॥

अशा-१३.४.३६
प्रतिपन्ने सम्रोद्धा स्कन्ध.आवारम् आदीप्य_अपयायात् ॥

अशा-१३.४.३७
ततः पूर्ववद् आचरेत् ॥

अशा-१३.४.३८
पण्य.सम्पातं वा कृत्वा पण्येन_एनं रस.विद्धेन_अतिसंदध्यात् ॥

अशा-१३.४.३९
आसार.व्यञ्जनो वा सम्रुद्धस्य दूतं प्रेषयेत् - "मया बाह्यम् अभिहतम् उपनिर्गच्छ_अभिहन्तुम्" इति ॥

अशा-१३.४.४०
प्रतिपन्नं पूर्ववद् आचरेत् ॥

अशा-१३.४.४१
मित्रं बन्धुं वा_अपदिश्य योग.पुरुषाः शासन.मुद्रा.हस्ताः प्रविश्य दुर्गं ग्राहयेयुः ॥

अशा-१३.४.४२
आसार.व्यञ्ज्ञनो वा सम्रुद्धस्य प्रेषयेत् - "अमुष्मिन् देशे काले च स्कन्ध.आवारम् अभिहनिष्यामि, युष्माभिर् अपि योद्धव्यम्" इति ॥

अशा-१३.४.४३
प्रतिपन्नं यथा.उक्तम् अभ्याघात.संकुलं दर्शयित्वा रात्रौ दुर्गान् निष्क्रान्तं घातयेत् ॥

अशा-१३.४.४४
यद् वा मित्रम् आवाहयेद् आटव्विकं वा, तम् उत्साहयेत् "विक्रम्य सम्रुद्धे भूमिम् अस्य प्रतिपद्यस्व" इति ॥

अशा-१३.४.४५
विक्रान्तं प्रकृतिभिर् दूष्य.मुख्य.उपग्रहेण वा घातयेत्, स्वयं वा रसेन "मित्र.घातको_अयम्" इत्य् अवाप्त.अर्थः ॥

अशा-१३.४.४६
विक्रमितु.कामं वा मित्र.व्यञ्जनः परस्य_अभिशंसेत् ॥

अशा-१३.४.४७
आप्त.भाव.उपगतः प्रवीर.पुरुषानस्य_उपघातयेत् ॥

अशा-१३.४.४८
संधिं वा कृत्वा जन.पदम् एनं निवेशयेत् ॥

अशा-१३.४.४९
निविष्टम् अस्य जन.पदम् अविज्ञातो हन्यात् ॥

अशा-१३.४.५०
अपकारयित्वा दूष्य.आटविकेषु वा बल.एक.देशम् अतिनीय दुर्गम् अवस्कन्देन हारयेत् ॥

अशा-१३.४.५१
दूष्य.अमित्र.आटविक.द्वेष्य.प्रत्यपसृताश् च कृत.अर्थ.मान.संज्ञा.चिह्नाः पर.दुर्गम् अवस्कन्देयुः ॥

अशा-१३.४.५२
पर.दुर्गम् अवस्कन्द्य स्कन्ध.आवारं वा पतित.परान्.मुख.अभिपन्नम् उक्त.केश.शस्त्र.भय.विरूपेभ्यश् च_अभयम् अयुध्यमानेभ्यश् च दद्युः ॥

अशा-१३.४.५३
पर.दुर्गम् अवाप्य विशुद्ध.शत्रु.पक्षं कृत.उपांशु.दण्ड.प्रतीकारम् अन्तर्.बहिश् च प्रविशेत् ॥

अशा-१३.४.५४
एवं विजिगीषुर् अमित्र.भूमिं लब्ध्वा मध्यमं लिप्सेत, तत्.सिद्धाव् उदासीनम् ॥

अशा-१३.४.५५
एष प्रथमो मार्गः पृथिवीं जेतुम् ॥

अशा-१३.४.५६
मध्यम.उदासीनयोर् अभावे गुण.अतिशयेन_अरि.प्रकृतीः साधयेत्, तत उत्तराः प्रकृतीः ॥

अशा-१३.४.५७
एष द्वितीयो मार्गः ॥

अशा-१३.४.५८
मण्डलस्य_अभावे शत्रुणा मित्रं मित्रेण वा शत्रुम् उभयतः.सम्पीडनेन साधयेत् ॥

अशा-१३.४.५९
एष.तृतीयो मार्गः ॥

अशा-१३.४.६०
शक्यम् एकं वा सामन्तं साधयेत्, तेन द्वि.गुणो द्वितीयम्, त्रि.गुणस् तृतीयम् ॥

अशा-१३.४.६१
एष चतुर्थो मार्गः पृथिवीं जेतुम् ॥

अशा-१३.४.६२
जित्वा च पृथिवीं विभक्त.वर्ण.आश्रमां स्व.धर्मेण भुञ्जीत ॥

अशा-१३.४.६३कख’’’
उपजापो_अपसर्पश् च वामनं पर्युपासनम् ।


अशा-१३.४.६३गघ’’’
अवमर्दश् च पञ्च_एते दुर्ग.लम्भस्य हेतवः ॥

(लब्ध.प्रशमनम्)

अशा-१३.५.०१
द्विविधं विजिगीषोः समुत्थानं - अटव्य्.आदिकम् एक.ग्राम.आदिकं च ॥

अशा-१३.५.०२
त्रिविधश् च_अस्य लम्भः - नवो, भूत.पूर्वः, पित्र्य इति ॥

अशा-१३.५.०३
नवम् अवाप्य लाभं पर.दोषान् स्व.गुणैश् छादयेत्, गुणान् गुण.द्वैगुण्येन ॥

अशा-१३.५.०४
स्व.धर्म.कर्म.अनुग्रह.परिहार.दान.मान.कर्मभिश् च प्रकृति.प्रिय.हितान्य् अनुवर्तेत ॥

अशा-१३.५.०५
यथा.सम्भाषितं च कृत्य.पक्षम् उपग्राहयेत्, भूयश् च कृत.प्रयासम् ॥

अशा-१३.५.०६
अविश्वासो हि विसंवादकः स्वेषां परेषां च भवति, प्रकृति.विरुद्ध.आचारश् च ॥

अशा-१३.५.०७
तस्मात् समान.शील.वेष.भाषा.आचारताम् उपगछेत् ॥

अशा-१३.५.०८
देश.दैवत.स्माज.उत्सव.विहारेषु च भक्तिम् अनुवर्तेत ॥

अशा-१३.५.०९
देश.ग्राम.जाति.संघ.मुख्येषु च_अभीक्ष्णं सत्त्रिणः परस्य_अपचारं दर्शयेयुः, माहाभाग्यं भक्तिं च तेषु स्वामिनः, स्वामि.सत्कारं च विद्यमानम् ॥

अशा-१३.५.१०
उचितैश् च_एनान् भोग.परिहार.रक्षा.अवेक्षणैर् भुञ्जीत ॥

अशा-१३.५.११
सर्व.देवता.आश्रम.पूजनं च विद्या.वाक्य.धर्म.शूर.पुरुषाणां च भूमि.द्रव्य.दान.परिहारान् कारयेत्, सर्व.बन्धन.मोक्षणम् अनुग्रहं दीन.अनाथ.व्याधितानां च ॥

अशा-१३.५.१२
चातुर्मास्येष्व् अर्ध.मासिकम् अघातम्, पौर्णमासीषु च चातूरात्रिकं राज.देश.नक्षत्रेष्व् ऐकरात्रिकम् ॥

अशा-१३.५.१३
योनि.बाल.वधं पुंस्त्व.उपघातं च प्रतिषेधयेत् ॥

अशा-१३.५.१४
यच् च कोश.दण्ड.उपघातकम् अधर्मिष्ठं वा चरित्रं मन्येत तद् अपनीय धर्म्य.व्यवहारं स्थापयेत् ॥

अशा-१३.५.१५
चोर.प्रकृतीनां म्लेच्छ.जातीनां च स्थान.विपर्यासम् अनेकस्थं कारयेत्, दुर्ग.राष्ट्र.दण्ड.मुख्यानां च ॥

अशा-१३.५.१६
परा.उपगृहीतानां च मन्त्रि.पुरोहितानां परस्य प्रत्यन्तेष्व् अनेकस्थं वासं कारयेत् ॥

अशा-१३.५.१७
अपकार.समर्थान् अनुक्षियतो वा भर्तृ.विनाशम् उपांशु.दण्डेन प्रशमयेत् ॥

अशा-१३.५.१८
स्व.देशीयान् वा परेण वा_अपरुद्धान् अपवाहित.स्थानेषु स्थापयेत् ॥

अशा-१३.५.१९
यश् च तत्.कुलीनः प्रत्यादेयम् आदातुं शक्तः, प्रत्यन्त.अटवीस्थो वा प्रबाधितुम् अभिजातः, तस्मै विगुणां भूमिं प्रयच्छेत्, गुणवत्याश् चतुर्.भागं वा कोश.दण्ड.दानम् अवस्थाप्य, यद् उपकुर्वाणः पौर.जानपदान् कोपयेत् ॥

अशा-१३.५.२०
कुपितैस् तैर् एनं घातयेत् ॥

अशा-१३.५.२१
प्रकृतिभिर् उपक्रुष्टम् अपनयेत्, औपघातिके वा देशे निवेशयेत् - इति ॥

अशा-१३.५.२२
भूत.पूर्वे येन दोषेण_अपवृत्तस् तं प्रकृति.दोषं छादयेत्, येन च गुणेन_उपावृत्तस् तं तीव्री.कुर्यात् - इति ॥

अशा-१३.५.२३
पित्र्ये पितुर् दोषांश् छादयेत्, गुणांश् च प्रकाशयेत् - इति ॥

अशा-१३.५.२४कख’’’
चरित्रम् अकृतं धर्म्यं कृतं च_अन्यैः प्रवर्तयेत् ।


अशा-१३.५.२४गघ’’’
प्रवर्तयेन् न च_अधर्म्यं कृतं च_अन्यैर् निवर्तयेत् ॥