अर्थशास्त्रम् अध्याय 15

विकिपुस्तकानि तः
Jump to navigation Jump to search

(तन्त्र.युक्तयह्)

अशा-१५.१.०१
मनुष्याणां वृत्तिर् अर्थः, मनुष्यवती भूमिर् इत्य् अर्थः ॥

अशा-१५.१.०२
तस्याः पृथिव्या लाभ.पालन.उपायः शास्त्रम् अर्थ.शास्त्रम् इति ॥

अशा-१५.१.०३
तद्.द्वात्रिंशद् युक्ति.युक्तं - अधिकरणम्, विधानम्, योगः, पद.अर्थः, हेत्व्.अर्थः, उद्देशः, निर्देशः, उपदेशः, अपदेशः, अतिदेशः, प्रदेशः, उपमानम्, अर्थ.आपत्तिः, संशयः, प्रसङ्गः, विपर्ययः, वाक्य.शेषः, अनुमतम्, व्याख्यानम्, निर्वचनम्, निदर्शनम्, अपवर्गः, स्व.संज्ञा, पूर्व.पक्षः, उत्तर.पक्षः, एक.अन्तः, अनागत.अवेक्षणम्, अतिक्रान्त.अवेक्षणम्, नियोगः, विकल्पः, समुच्चयः ऊह्यम् इति ॥

अशा-१५.१.०४
यम् अर्थम् अधिकृत्य_उच्यते तद् अधिकरणम् ॥

अशा-१५.१.०५
"पृथिव्या लाभे पालने च यावन्त्य् अर्थ.शास्त्राणि पूर्व.आचार्यैः प्रस्थापितानि प्रायशस् तानि संहृत्य_एकम् इदम् अर्थ.शास्त्रं कृतम्" इति ॥

अशा-१५.१.०६
शास्त्रस्य प्रकरण.अनुपूर्वी विधानम् ॥

अशा-१५.१.०७
"विद्या.समुद्देशः, वृद्ध.सम्योगः, इन्द्रिय.जयः, अमात्य.उत्पत्तिः" इत्य् एवं.आदिकम् इति ॥

अशा-१५.१.०८
वाक्य.योजना योगः ॥

अशा-१५.१.०९
"चतुर्.वर्ण.आश्रमो लोकः" इति ॥

अशा-१५.१.१०
पद.अवधिकः पद.अर्थः ॥

अशा-१५.१.११
मूल.हर इति पदम् ॥

अशा-१५.१.१२
"यः पितृ.पैतामहम् अर्थम् अन्यायेन भक्षयति स मूल.हरः" इत्य् अर्थः ॥

अशा-१५.१.१३
हेतुर् अर्थ.साधको हेत्व्.अर्थः ॥

अशा-१५.१.१४
"अर्थ.मूलौ हि धर्म.कामौ" इति ॥

अशा-१५.१.१५
समास.वाक्यम् उद्देशः ॥

अशा-१५.१.१६
"विद्या.विनय.हेतुर् इन्द्रिय.जयः" इति ॥

अशा-१५.१.१७
व्यास.वाक्यं निर्देशः ॥

अशा-१५.१.१८
"कर्ण.त्वग्.अक्षि.जिह्वा.घ्राण.इन्द्रियाणां शब्द.स्पर्श.रूप.रस.गन्धेष्व् अविप्रतिपत्तिर् इन्द्रिय.जयः"इति ॥

अशा-१५.१.१९
एवं वर्तितव्यम् इत्य् उपदेशः ॥

अशा-१५.१.२०
"धर्म.अर्थ.विरोधेन कामं सेवेत, न निह्सुखः स्यात्" इति ॥

अशा-१५.१.२१
एवम् असाव् आह_इत्य् अपदेशः ॥

अशा-१५.१.२२
"मन्त्रि.परिषदं द्वादश.अमात्यान् कुर्वीत_इति मानवाः - षोडश_इति बार्हस्पत्याः - विंशतिम् इत्य् औशनसाः - यथा.सामर्थ्यम् इति कौटिल्यः" इति ॥

अशा-१५.१.२३
उक्तेन साधनम् अतिदेशः ॥

अशा-१५.१.२४
"दत्तस्य_अप्रदानम् ऋण.आदानेन व्याख्यातम्" इति ॥

अशा-१५.१.२५
वक्तव्येन साधनं प्रदेशः ॥

अशा-१५.१.२६
"साम.दान.भेद.दण्डैर् वा, यथा_आपत्सु व्याख्यास्यामः" इति ॥

अशा-१५.१.२७
दृष्टेन_अदृष्टस्य साधनम् उपमानम् ॥

अशा-१५.१.२८
"निवृत्त.परिहारान् पिता_इव_अनुगृह्णीयात्" इति ॥

अशा-१५.१.२९
यद् अनुक्तम् अर्थाद् आपद्यते सा_अर्थ.आपत्तिः ॥

अशा-१५.१.३०
"लोक.यात्राविद् राजानम् आत्म.द्रव्य.प्रकृति.सम्पन्नं प्रिय.हित.द्वारेण_आश्रयेत"

अशा-१५.१.३१
"न_अप्रिय.हित.द्वारेण_आश्रयेत" इत्य् अर्थाद् आपन्नं भवति_इति ॥

अशा-१५.१.३२
उभयतो.हेतुमान् अर्थः संशयः ॥

अशा-१५.१.३३
"क्षीण.लुब्ध.प्रकृतिम् अपचरित.प्रकृतिं वा" इति ॥

अशा-१५.१.३४
प्रकरण.अन्तरेण समानो_अर्थः प्रसङ्गः ॥

अशा-१५.१.३५
"कृषि.कर्म.प्रदिष्टायां भूमौ - इति समानं पूर्वेण" इति ॥

अशा-१५.१.३६
प्रतिलोमेन साधनं विपर्ययः ॥

अशा-१५.१.३७
"विपरीतम् अतुष्टस्य" इति ॥

अशा-१५.१.३८
येन वाक्यं समाप्यते स वाक्य.शेषः ॥

अशा-१५.१.३९
"छिन्न.पक्षस्य_इव राज्ञश् चेष्टा.नाशश् च" इति ॥

अशा-१५.१.४०
तत्र "शकुनेः" इति वाक्य.शेषः ॥

अशा-१५.१.४१
पर.वाक्यम् अप्रतिषिद्धम् अनुमतम् ॥

अशा-१५.१.४२
"पक्षाव् उरस्यं प्रतिग्रह इत्य् औशनसो व्यूह.विभागः" इति ॥

अशा-१५.१.४३
अतिशय.वर्णना व्याख्यानम् ॥

अशा-१५.१.४४
"विशेषतश् च संघानां संघ.धर्मिणां च राज.कुलानां द्यूत.निमित्तो भेदस् तन्.निमित्तो विनाश इत्य् असत्.प्रग्रहः पापिष्ठतमो व्यसनानां तन्त्र.दौर्बल्यात्" इति ॥

अशा-१५.१.४५
गुणतः शब्द.निष्पत्तिर् निर्वचनम् ॥

अशा-१५.१.४६
"व्यस्यत्य् एनं श्रेयस इति व्यसनम्" इति ॥

अशा-१५.१.४७
दृष्ट.अन्तो दृष्ट.अन्त.युक्तो निदर्शनम् ॥

अशा-१५.१.४८
"विगृहीतो हि ज्यायसा हस्तिना पाद.युद्धम् इव.अभ्युपैति" इति ॥

अशा-१५.१.४९
अभिप्लुत.व्यपकर्षणम् अपवर्गः ॥

अशा-१५.१.५०
"नित्यम् आसन्नम् अरि.बलं वासयेद् अन्यत्र_अभ्यन्तर.कोप.शङ्कायाः" इति ॥

अशा-१५.१.५१
परैर् असमितः शब्दः स्व.संज्ञा ॥

अशा-१५.१.५२
"प्रथमा प्रकृतिः, तस्य भूम्य्.अनन्तरा द्वितीया, भूम्य्.एक.अन्तरा तृतीया" इति ॥

अशा-१५.१.५३
प्रतिषेद्धव्यं वाक्यं पूर्व.पक्षः ॥

अशा-१५.१.५४
"स्वाम्य्.अमात्य.व्यसनयोर् अमात्य.व्यसनं गरीयः" इति ॥

अशा-१५.१.५५
तस्य निर्णयन.वाक्यम् उत्तर.पक्षः ॥

अशा-१५.१.५६
"तद्.आयत्तत्वात्, तत्.कूट.स्थानीयो हि स्वामी" इति ॥

अशा-१५.१.५७
सर्वत्र.आयत्तम् एक.अन्तः ॥

अशा-१५.१.५८
"तस्माद् उत्थानम् आत्मनः कुर्वीत" इति ॥

अशा-१५.१.५९
पश्चाद् एवं विहितम् इत्य् अनागत.अवेक्षणम् ॥

अशा-१५.१.६०
"तुला.प्रतिमानं पौतव.अध्यक्षे वक्ष्यामः" इति ॥

अशा-१५.१.६१
पुरस्ताद् एवं विहितम् इत्य् अतिक्रान्त.अवेष्कणम् ॥

अशा-१५.१.६२
"अमात्य.सम्पद् उक्ता पुरस्तात्" इति ॥

अशा-१५.१.६३
एवं न_अन्यथा_इति नियोगः ॥

अशा-१५.१.६४
"तस्माद् धर्म्यम् अर्थ्यं च_अस्य_उपदिशेत्, न_अधर्म्यम् अनर्थय्म् च" इति ॥

अशा-१५.१.६५
अनेन वा_अनेन वा_इति विकल्पः ॥

अशा-१५.१.६६
"दुहितरो वा धर्मिष्ठेषु विवाहेषु जाताः" इति ॥

अशा-१५.१.६७
अनेन च_अनेन च_इति समुच्चयः ॥

अशा-१५.१.६८
"स्वयंजातः पितुर् बन्धूनां च दायादः" इति ॥

अशा-१५.१.६९
अनुक्त.करणम् ऊह्यम् ॥

अशा-१५.१.७०
"यथा च दाता प्रतिग्रहीता च न_उपहतौ स्यातां तथा_अनुशयं कुशलाः कल्पयेयुः" इति

अशा-१५.१.७१कख
एवं शास्त्रम् इदं युक्तम् एताभिस् तन्त्र.युक्तिभिः ।

अशा-१५.१.७१गघ
अवाप्तौ पालने च_उक्तं लोकस्य_अस्य परस्य च ॥

अशा-१५.१.७२कख
धर्मम् अर्थं च कामं च प्रवर्तयति पाति च ।

अशा-१५.१.७२गघ
अधर्म.अनर्थ.विद्वेषान् इदं शास्त्रं निहन्ति च ॥

अशा-१५.१.७३कख
येन शास्त्रं च शस्त्रं च नन्द.राज.गता च भूः ।

अशा-१५.१.७३गघ
अमर्षेण_उद्धृतान्य् आशु तेन शास्त्रम् इदं कृतम् ॥