अलङ्कारसर्वस्वम्

विकिपुस्तकानि तः
Jump to navigation Jump to search

नमस्कृत्य परां वाचं देवीं त्रिविधविग्रहाम्।

निजालंकारसूत्राणां वृत्त्या तात्पर्यमुच्यते॥

इह हि तावद्भामहोद्भटप्रभृतयश्चिरन्तनालंकारकाराः प्रतीयमानमर्थं वाच्योपस्कारकतयालंकारपक्षनिक्षिप्तं मन्यन्ते। तथाहि- पर्यायोक्ताप्रस्तुतप्रशंसा- समासोक्त्याक्षेपव्याजस्तुत्युपमेयोपमानन्वयादौ वस्तुमात्रं गम्यमानं वाच्योपस्कारकत्वेन स्वसिद्धये पराक्षेपः परार्थे स्वसमर्पणम् इति यथायोगं द्विविधयाभङ्ग्या प्रतिपादितं तैः। रुद्रटेन तु भावालंकारो द्विधैवोक्तः। रूपकदीपकापह्नुतितुल्ययोगिता- दावुपमाद्यलंकारो वाच्योपस्कारकत्वेनोक्तः। उत्प्रेक्षा तु स्वयमेव प्रतीयमाना कथिता। रसवत्प्रेयःप्रभृतौ तु रसभावादिर्वाच्यशोभाहेतुत्वेनोक्तः। तदित्थं त्रिविघमपि प्रतीयमानमलंकारतया ख्यापितमेव। वामनेन तु सादृश्यनिबन्धनाया लक्षणाया वक्रोक्त्यलंकारत्वं ब्रुवता कश्चिद्ध्वनिभेदोऽलंकारतयैवोक्तः। केवलंगुणविशिष्टपदरचनात्मिका रीति: काव्यात्मकत्वेनोक्ता। उद्भटादिभिस्तु गुणालंकाराणां प्रायशः साम्यमेव सूचितम्। विषयमात्रेण भेदप्रतिपादनात्। संघटनाधर्मत्वेन चेष्टेः। तदेवमलङ्कारा एव काव्ये प्रधानमिति प्राच्यानां मतम्। वक्रोक्तिजीवितकारः पुनर्वैदग्ध्यभङ्गीभणितिस्वभावां बहुविधां वक्रोक्तिमेव प्राधान्यात्काव्यजीवितमुक्तवान्। व्यापारस्य प्राधान्यं च काव्यस्य प्रतिपेदे। अभिधानप्रकारविशेषा एव चालंकाराः। सत्यपि त्रिभेदे प्रतीयमाने व्यापाररूपा भणितिरेव कविसंरम्भगोचरः। उपचारवक्रतादिभिः समस्तो ध्वनिप्रपञ्चः स्वीकृतः। केवलमुक्तिवैचित्र्यजीवितं काव्यं, न व्यङ्ग्यार्थजीवितमिति तदीयं दर्शनं व्यवस्थितम्। भट्टनायकेन तु व्यङ्गयव्यापारस्य प्रौढोक्त्याभ्युपगतस्य काव्यांशत्वं ब्रुवता न्यग्भावितशब्दार्थस्वरूपस्य व्यापारस्यैव प्राधान्यमुक्तम्। तत्राप्यभिधा- भावकत्वलक्षणव्यापारद्वयोत्तीर्णो रसचर्वणात्मा भोगापरपर्यायो व्यापारः प्राधान्येन विश्रान्तिस्थानतयाङ्गीकृतः। ध्वनिकारः पुनरभिधातात्पर्यलक्षणाख्यव्यापारत्रयोत्तीर्णस्य ध्वनन- द्योतनादिशब्दाभिधेयस्य व्यञ्जनव्यापारस्यावश्याभ्युपगम्यत्वाद्व्यापारस्य च वाक्यार्थत्वाभावाद्वाक्यार्थस्यैव च व्यङ्ग्यरूपस्य गुणालंकारोपस्कर्तव्यत्वेन प्राधान्याद्विश्रान्तिधामत्वादात्मत्वं सिद्घान्तितवान्। व्यापारस्य विषयमुखेन स्वरूपप्रतिलम्भात्तत्प्राधान्येन प्राधान्यात्स्वरूपेण विदितत्वाभावाद्विषयस्यैव समग्रभरसहिष्णुत्वम्। तस्माद्विषय एव व्यङ्ग्यनामा जीवितत्वेन वक्तव्यः। यस्य गुणालंकारकृतचारुत्वपरिग्रहसाम्राज्यम्। रसादयस्तु जीवितभूता नालंकारत्वेन वाच्याः। अलंकाराणामुपस्कारकत्वाद्रसादीनां च प्राधान्येनोपस्कार्यत्वात्। तस्माद्व्यङ्ग्य एव वाक्यार्थीभूतः काव्यजीवितमित्येष एव पक्षो वाक्यार्थविदां सहृदयानामावर्जकः। व्यञ्जनव्यापारस्य सर्वैरनपह्नुतत्वात्त- दाश्रयेण च पक्षान्तरस्याप्रतिष्ठानात्। यत्तु व्यक्तिविवेककारो वाच्यस्य प्रतीयमानं प्रति लिङ्गितया व्यञ्जनस्यानुमानान्तर्भावमाख्यत् तद्वाच्यस्य प्रतीयमानेन सह तादात्म्यतदुत्पत्त्यभावादविचारिताभिधानम्। तदेतत्कुशाग्रधिषणैः क्षोदनीयमति- गहनगहनमिति नेह प्रतन्यते। अस्ति तावद्व्यङ्ग्यनिष्ठो व्यञ्जनव्यापारः। तत्र व्यङ्ग्यस्य प्राधान्याप्राधान्याभ्यां ध्वनिगुणीभूतव्यङ्ग्याख्यौ द्वौ काव्यभेदौ। व्यङ्ग्यस्यास्फुटत्वेऽलंकारवत्त्वेन चित्राख्यः काव्यभेदस्तृतीयः। तत्रोत्तमो ध्वनिः। तस्य लक्षणाभिधामूलत्वेनाविवक्षितवाच्यविवक्षितान्यपरवाच्याख्यौ द्वौ भेदौ। आद्योऽप्यर्थान्तरसंक्रमितवाच्यात्यन्ततिरस्कृतवाच्यत्वेन द्विविधः। द्वितीयोऽप्यसं- लक्ष्यक्रमसंलक्ष्यक्रमव्यङ्ग्यतया द्विविधः। लक्षणमूलशब्दशक्तिमूलो वस्तुध्वनि रसंलक्ष्यक्रमव्यङ्ग्यः।अर्थशक्तिमूलो वस्तु (रसादि) ध्वनिः संलक्ष्यक्रमव्यङ्ग्यः। शब्दार्थोभयशक्तिमूलो वस्तुध्वनिरलंकारध्वनिश्चेति। तत्र रसादिध्वनिरलंकारमञ्जर्यां दर्शितः। काव्यस्य श्रृङ्गारप्रधानत्वात्। शिष्टस्तु यथावसरं तत्रैव विभक्तः। गुणीभूतव्यङ्ग्यो वाच्याङ्गत्वादिभेदैर्यथासंभवं समासोक्त्यादौ दर्शितः। चित्रं तु शब्दार्थालंकारस्वभावतया बहुतरप्रभेदम्। तथा हि-

इहार्थपौनरुक्त्यं शब्दपौनरुक्त्यं शब्दार्थपौनरुक्त्यं चेति त्रयः पौनरुक्त्यप्रकाराः॥

आदौ पौनरुक्त्यप्रकारवचनं वक्ष्यमाणालंकाराणां कक्षाविभागघटनार्थम्। अर्थापेक्षया शब्दस्याप्रतीतावन्तरङ्गत्वेपि प्रथममर्थगतधर्मनिर्देशश्चिरंतनप्रसिद्ध्या पुनरुक्तवदाभासस्य पूर्वं लक्षणार्थः। इहेति शाब्दप्रस्तावे। इतिशब्दः प्रकारे। त्रिशब्दादेव संख्यापरिसमाप्तिसिद्धेः।

तत्रार्थपौनरुक्त्यं प्ररूढं दोषः।

प्ररूढाप्ररूढत्वेन द्वैविध्यम्। प्रथमं हेयवचनमुपादेये विश्रान्त्यर्थम्। तत्रेति त्रयनिर्धारणे। यथावभासनविश्रान्तिः प्ररोहः।

आमुखावभासनं पुनरुक्तवदाभासम् ॥

आमुखग्रहणं पर्यवसानेऽन्यथात्वप्रतिपत्त्यर्थम्।लक्ष्यनिर्देशे नापुंसकः संस्कारो लौकिकालंकारवैधर्म्येण काव्यालंकाराणामलंकार्यपारतन्त्र्यध्वननार्थः। अर्थपौनरुक्त्यादेवार्थाश्रितत्वादर्थालंकारत्वं ज्ञेयम्। प्रभेदास्तु विस्तर- भयान्नोच्यन्ते। उदाहरणं मदीये श्रीकण्ठस्तवे यथा-

अहीनभुजगाधीशवपुर्वलयकङ्कणम्।

शैलादिनन्दिचरितं क्षतकंदर्पदर्पकम् ॥

वृषपुंगवलक्ष्माणं शिखिपावकलोचनम्।

ससर्वमङ्गलं नौमि पार्वतीसखमीश्वरम् ॥

दारुणः काष्ठतो जातो भस्मभूतिकरः परः।

रक्तशोणार्चिरुच्चण्डः पातु वः पावकः शिखी ॥

एतच्च सुबन्तापेक्षया। तिङ्ङन्तापेक्षया च यथा तत्रैव-

भुजंगकुण्डली व्यक्तशशिशुभ्रांशुशीतगुः।

जगन्त्यपि सदापायादव्याच्चेतोहरः शिवः ॥

शब्दपौनरुक्त्यं व्यञ्जनमात्रपौनरुक्त्यं स्वरव्यञ्जनसमुदायपौनरुक्त्यं च। अलंकारप्रस्तावे केवलं स्वरपौनरुक्त्यमचारुत्वान्न गण्यते। इति द्वैविध्यमेव स्वरव्यञ्जनसमुदायपौनरुक्त्यं च।

संख्यानियमे पूर्वं छेकानुप्रासः ।

द्वयोर्व्यञ्जनसमुदाययोः परस्परमनेकधा सादृश्यं संख्यानियमः। पूर्वं व्यञ्जनसमुदायाश्रितं यथा-

किं नाम दर्दुर दुरध्यवसाय सायं कायं निपीड्य निनदं कुरुषे रुषेव।

एतानि केलिरसितानि सितच्छदाना- माकर्ण्य कर्णमधुराणि न लज्जितोऽसि ॥

अत्र सायंशब्देनास्यालंकारस्य यकारमात्रसादृश्यापेक्षया वृत्त्यनुप्रासेन सहैकाभिधानलक्षणः संकरः। छेका विदग्धाः।

अन्यथा तु वृत्त्यनुप्रासः ॥

केवलव्यञ्जनमात्रसादृश्यमेकधा समुदायसादृश्यं त्र्यादीनां च परस्परसादृश्य- मन्यथाभावः।वृत्तिस्तु रसविषयो व्यापारः। तद्वती पुनर्वर्णरचनेह वृत्तिः। सा च परुषकोमलमध्यमवर्णारब्धत्वात्त्रिधा। तदुपलक्षितोऽयमनुप्रासः। यथा-

आटोपेन पटीयसा यदपि सा वाणी कवेरामुखे खेलन्ती प्रथते तथापि कुरुते नो मन्मनोरञ्जनम्।

न स्याद्यावदमन्दसुन्दरगुणालंकारझंकारितः सप्रस्यन्दिलसद्रसायनरसासारानुसारी रसः ॥

यथा वा-

सह्याः पन्नगफूत्कृतानलशिखा नाराचपाल्योऽपि वा राकेन्दोः किरणा विषद्रवमुचो वर्षासु वा वायवः।

न त्वेताः सरलाः सितासितरुचः साचीकृताः सालसाः साकूताः समदाः कुरङ्गकदृशां मानानुविद्घा दृशः ॥

स्वरव्यञ्जनसमुदायपौनरुक्त्यं यमकम् ॥

अत्र क्वचिद्भिन्नार्थत्वं क्वचिदभिन्नार्थत्वं क्वचिदेकस्यानर्थकत्वमपरस्य सार्थकत्वमिति संक्षेपतः प्रकारत्रयम्। यथा-

यो यः पश्यति तन्नेत्रे रुचिरेव न जायते।

तस्य तस्यान्यनेत्रेषु रुचिरेव न जायते ॥

इदं सार्थकत्वे। एवमन्यज्ज्ञेयम्।

शब्दार्थपौनरुक्त्यं प्ररूढं दोषः ॥

‘प्ररूढग्रहणं वक्ष्यमाणप्रभेदवैलक्षण्यार्थम्। यदाहुः शब्दार्थयोः पुनर्वचनं पुनरुक्तमन्यत्रानुवादात्।’ इति।

तात्पर्यभेदवत्तु लाटानुप्रासः ॥

तात्पर्यमन्यपरत्वम्। तदेव भिद्यते,न तु शब्दार्थयोः स्वरूपम्। यथा-

‘ताला जाअन्ति गुणा जाला दे सहिअएहिँ घेप्पन्ति।

न शब्दार्थस्वरूपम् इति टीकासंमत: पाठो भाति ।

रइकिरणाणुगाहिआइँ होन्ति कमलाइँ कमलाइँ ॥’

ब्रूमः कियन्नय कथंचन कालमल्प- मत्राब्जपत्रनयने नयने निमील्य।

हेमाम्बुजं तरुणि तत्तरसापहृत्य देवद्विषोऽयमहमागत इत्यवैहि ॥

अत्राब्जपत्रनयने नयने निमील्येत्यादौ विभक्त्यादेरपौनरुक्त्येऽपि बहुतरशब्दार्थपौनरुक्त्याल्लाटानुप्रासत्वमेव

काशाः काशा इवाभान्ति (न्तः) सरांसीव सरांसि च।

चेतांस्याचिक्षिपुर्यूनां निम्नगा निम्नगा इव ॥’

इत्यादावनन्वयेन सहास्यैकाभिधानलक्षणो न संकरः। अन्योन्यापेक्षया शब्दार्थगतत्वेनार्थमात्रगतत्वेन च व्यवस्थितेर्भिन्नविषयत्वात्।

‘अनन्वये च शब्दैक्यमौचित्यादानुषङ्गिकम्।

अस्मिंस्तु लाटानुप्रासे साक्षादेव प्रयोजकम् ॥’

तदेवं पौनरुक्त्ये पञ्चालंकारः ॥

निगदव्याख्यातमेतत्।

वर्णानां खड्गाद्याकृतिहेतुत्वे चित्रम्।

पौनरुक्त्यप्रस्तावे स्थानविशेषश्लिष्टवर्णपौनरुक्त्यात्मकं चित्रवचनम्। यद्यपि लिप्यक्षराणां खड्गादिसंनिवेशविशिष्टत्वं तथापि श्रोत्राकाशसमवेत- वर्णात्मकशब्दाभेदेन तेषां लोके प्रतीतेर्वाचकशब्दालंकारोयम्।आदिग्रहणाद्य- थाव्युत्पत्तिसंभवं पद्मबन्धादिपरिग्रहः। यथा

‘‘भासते प्रतिभासार रसाभासाहताविभा।

भावितात्माशुभावादे देवाभा बत ते सभा ॥’’

एषोष्टदलपद्मबन्धः। अत्र दिग्दलेषु निर्गमप्रवेशाभ्यां श्लिष्टाक्षरत्वम्।

विदिग्दलेषु त्वन्यथा। कर्णिकाक्षरं तु श्लिष्टमेव।

उपमानोपमेययोः साधर्म्ये भेदाभेदतुल्यत्वे उपमा ॥

अर्थालंकारप्रकरणमिदम्। उपमानोपमेययोरित्यप्रतीतोपमानोपमेयनिषेधार्थम्। साधर्म्ये त्रयः प्रकाराः।भेदप्राधान्यं व्यतिरेकादिवत्। अभेदप्राधान्यं रूपकादिवत्। द्वयोस्तुल्यत्वं यथास्याम्। यदाहुःयत्र किंचित्सामान्यं कश्चिच्च विशेषः स विषयः सदृशतायाः इति। उपमैवानेकप्रकारवैचित्र्येणानेकालंकारबीजभूतेति प्रथमं निर्दिष्टा। अस्याश्च पूर्णालुप्तात्वभेदाच्चिरंतनैर्बहुविधत्वमुक्तम्।तत्रापि साधारणधर्मस्य क्वचिदनुगामितयैकरूप्येण निर्देशः। क्कचिद्वस्तुप्रतिवस्तुभावेन पृथङ्निर्देशः। पृथङ्निर्देशे व संबन्धिभेदमात्रं प्रतिवस्तूपमावत्। बिम्बप्रतिबिम्ब भावो वा दृष्टान्तवत्। क्रमेणोदाहरणम्

‘‘प्रभामहत्या शिखयेव दीपस्त्रिमार्गयेव त्रिदिवस्य मार्गः।

संस्कारवत्येव गिरा मनीषी तया स पूतश्च विभूषितश्च ॥’’

‘‘यान्त्या मुहुर्वलितकंधरमाननं त- दावृत्तवृन्तशतपत्रनिभं वहन्त्या।

दिग्धोमृतेन च विषेण च पक्ष्मलाक्ष्या गाढं निखात इव मे हृदये कटाक्षः ॥’’

अत्र वलितत्वावृत्तत्वे संबन्धिभेदाद्भिन्ने।धर्म्यभिप्रायेण तु बिम्बप्रतिबिम्ब- त्वमेव।

‘पाण्ड्योयऽमंसार्पितलम्बहारः क्लृप्ताङ्गरागो नवचन्दनेन।

आभाति बालातपरक्तसानुः सनिर्झरोद्गार इवाद्रिराजः ॥’

अत्र हाराङ्गरागयोर्निर्झरबालातपौ प्रतिबिम्बत्वेन निर्दिष्टौ।

एकस्यैवोपमानोपमेयत्वेऽनन्वयः।

वाच्याभिप्रायेण पूर्वरूपावगमः। एकस्य तु विरुद्घधर्मसंसर्गो द्वितीयसब्रह्म- चारिनिवृत्त्यर्थः। अत एवानन्वय इति योगोऽप्यत्र संभवति। यथा-

युद्धेऽर्जुनोऽर्जुन इव प्रथितप्रतापो भीमोऽपि भीम इव वैरिषु भीमकर्मा।

न्यग्रोधवर्तिनमथाधिपतिं कुरूणा- मुत्प्रासनार्थमिव जग्मतुरादरेण॥

द्वयोः पर्यायेण तस्मिन्नुपमेयोपमा॥

तच्छब्देनोपमानोपमेयत्वप्रत्यवमर्षः।पर्यायो यौगपद्याभावः। अत एवात्र वाक्यभेदः। इयं च धर्मस्य साधारण्ये वस्तुप्रतिवस्तुनिर्देशे च द्विधा। आद्ये यथा-

खमिव जलं जलमिव खं हंसश्चन्द्र इव हंस इव चन्द्रः। कुमुदाकारास्तारास्ताराकाराणि कुमुदानि॥

द्वितीये यथा-

     सच्छायाम्भोजवदना: सच्छायवदनाम्बुजा:।
     वाप्योऽङ्गना इवाभान्ति यत्र वाप्य इवाङ्गनाः॥

सदृशानुभवाद्वस्त्वन्तरस्मृतिः स्मरणम् ॥ वस्त्वन्तरं सदृशमेव। अविनाभावाभावान्नानुमानम्। यथा-

     अतिशयितसुरासुरप्रभावं शिशुमवलोक्य तवैव तुल्यरूपम्।
     कुशिकसुतमखद्विषां प्रमाथे धृतधनुषं रघुनन्दनं स्मरामि ॥

सादृश्यं विना तु स्मृतिर्नायमलंकारः। यथा-

     ‘अत्रानुगोदं मृगयानिवृत्तस्तरङ्गवातेन विनीतखेदः।
     रहस्त्वदुत्सङ्गनिषण्णमूर्धा स्मरामि वानीरगृहेषु सुप्तम् (सुप्तः) ॥’

अत्र च कर्तृविशेषणानां स्मर्तव्यदशाभावित्वे स्मर्तृदशाभावित्वमसमीचीनम्। प्रेयोलंकारस्य तु सादृश्यव्यतिरिक्तनिमित्तोत्थापिता स्मृतिर्विषयः। यथा- ‘अहो कोपेऽपि कान्तं मुखम्’ इति। तत्रापि विभावाद्यागूरितत्वेन स्वशब्दमात्रप्रतिपाद्यत्वे यथा- ‘अत्रानुगोदं’ इत्यादि।

     ‘यैर्दृष्टोऽसि तदा ललाटपतितप्रासप्रहारो युधि।
     स्फीतासृक्स्रुतिपाटलीकृतपुरोभागः परान्पातयन्।
     तेषां दुःसहकालदेहदहनप्रोद्भूतनेत्रानल-
     ज्वालालीभरभास्वरे स्मररिपावस्तं गतं कौतुकम्॥’

इत्यादौ सदृशवस्त्वन्तरानुभावे शक्यवस्त्वन्तरकरणात्मा विशेषालंकारः। करणस्य क्रियासामान्यात्मनो दर्शनेऽपि संभवात्। मतान्तरे काव्यलिङ्गमेतत्। तदेते सादृश्याश्रयेण भेदाभेदतुल्यत्वेनालंकारा निर्णीताः संप्रत्यभेदप्राधान्येन कथ्यन्ते- अभेदप्राधान्ये आरोपे आरोपविषयानपह्नवे रूपकम्। अभेदस्य प्राधान्याद्भेदस्य वस्तुतः सद्भावः। अन्यत्रान्यावाप आरोपः। तस्य विषयविषय्यवष्टब्धत्वाद्विषयस्यापह्नवेऽपह्नुतिः। अन्यथा तु विषयिणा विषयस्य रूपवतः करणाद्रूपकम्। साधर्म्यं त्वनुगतमेव। यदाहुः – ‘उपमैव तिरोभूतभेदा रूपकमिष्यते’ इति। आरोपादभेदेऽध्यवसायः प्रकृष्यते इति पश्चात्तन्मूला- लंकारविभागः। इदं तु निरवयवं सावयवं परम्परितमिति त्रिविधम्। आद्यं केवलं मालारूपकं चेति द्विधा। द्वितीयं समस्तवस्तुविषयमेकदेशविवर्ति चेति द्विधैव। तृतीयं श्लिष्टाश्लिष्टशब्दनिबन्धनत्वेन द्विविधं सत्प्रत्येवकं केवलमाला- रूपकत्वाच्चतुर्विधम्। तदेवमष्टौ रूपकभेदाः। अन्ये तु प्रत्येकं वाक्योक्त- समासोक्तादिभेदाः संभवन्ति तेऽन्यतो द्रष्टव्याः। क्रमेण यथा-

     ‘दासे कृतागसि भवत्युचितः प्रभूणां
     पादप्रहार इति सुन्दरि नास्मि दूये।
     उद्यत्कठोरपुलकाङ्कुरकण्टकाग्रै-
     र्यत्खिद्यते तव पदं ननु सा व्यथा मे ॥’
     ‘पीयूषप्रसृतिर्नवा मखभुजां दात्रं तमोलूनये
     स्वर्गङ्गाविमनस्ककोकवदनस्रस्ता मृणालीलता।
     द्विर्भावः स्मरकार्मुकस्य किमपि प्राणेश्वरीसागसा
     माशातन्तुरुदञ्चति प्रतिपदि प्रालेयभानोस्तनुः॥’
     ‘विस्तारशालिनि नभस्तलपत्र्त्रपात्रे
     कुन्दोज्ज्वल प्रभमसंचयभूरिभक्तम् (?)
     गङ्गातरङ्गघनमाहिषदुग्धदिग्धं

जग्धं मया नरपते कलिकालकर्ण ॥’

     ‘आभाति ते क्षितिभृतः क्षणदाप्रभेयं
     निस्त्रिंशमांसलतमालवनान्तलेखा।
     इन्दुद्विषो युधि हठेन तवारिकीर्ती-
     रानीय यत्र रमते तरुणः प्रतापः ॥’

क्षितिभृत इत्यत्र श्लिष्टपदं परम्परितम्।

     ‘किं पद्मस्य रुचिं न हन्ति नयनानन्दं विधत्ते न वा
     वृद्धिं वा झषकेतनस्य कुरुते नालोकमात्रेण किम्।
     वक्त्रेन्दौ तव सत्ययं यदपरः शीतांशुरभ्युद्गतो
     दर्पः स्यादमृतेन चेदिह तदप्यस्त्येव बिम्बाधरे ॥’

अत्र वक्त्रेण रूपणमहेतुकम् पीयूषेणाधरामृतस्य श्लिष्टशब्दं रूपणम्।

     ‘विद्वन्मानसहंस वैरिकमलासंकोचदीप्तद्युते
     दुर्गामार्गणनीललोहित समित्स्वीकारवैश्वानर।
     सत्यप्रीतिविधानदक्ष विजयप्राग्भावभीम प्रभो
     साम्राज्यं वरवीर वत्सरशतं वैरिञ्चमुच्चैः क्रियाः॥’

अत्र त्वमेव हंस इत्यारोपणपूर्वको मानसमेव मानसमित्याद्यारोप इति श्लिष्टशब्दं मालापरम्परितम्।

     ‘यामि मनोवाक्कायैः शरणं करुणात्मकं जगन्नाथम्।
     जन्मजरामरणार्णवतरणतरण्डं हराङ्घ्रियुगम्
     ‘पर्यङ्को राजलक्ष्म्या हरितमणिमयः पौरुषाब्धेस्तरङ्गो
     भग्नप्रत्यर्थिवंशोल्वणविजयकरिस्त्यानदानाम्बुपट्टः।
     सङ्ग्रामत्रासताम्यन्मुरलपतियशोहंसनीलाम्बुवाहः
     खड्ग:क्ष्मासौविदल्लः समिति विजयते मालवाखण्डलस्य ॥’

अत्र क्ष्मासौविदल्ल इति परम्परितमप्येकदेशविवर्ति। एवमादयोऽन्येऽपि भेदा लेशतः सूचिता एव। इदं वैधर्म्येणापि दृश्यते। यथा-

     ‘सौजन्याम्बुमरुस्थली सुचरितालेख्यद्युभित्तिर्गुण-
     ज्योत्स्नाकृष्णचतुर्दशी सरलतायोगश्वपुच्छच्छटा।
     यैरेषा हि दुराशया कलियुगे राजावलिः सेव्यते
     तेषां शूलिनि भक्तिमात्रसुलभे सेवा कियत्कौशलम् ॥’

अत्र चारोप्यमाणस्य धर्मित्वादाविष्टलिङ्गत्वेऽपि क्वचित्स्वतोऽसंभवत्संाख्या योगस्यापि विषयसंख्यात्वं प्रत्येकमारोपात्। यथा- ‘क्वचिज्जटावल्कलावलम्बिनः कपिलादावाग्नयः’ इत्यादौ। न हि कपिलमुनेर्बहुत्वम्।

     ‘भ्रमिमरतिमलसहृदयतां प्रलयं मूर्छां तमः शरीरसादम्।
     मरणं च जलदभुजगजं प्रसह्य कुरुते विषं वियोगिनीनाम् ॥’

इत्यत्र नियतसंख्याककार्यविशेषोत्थापितो गरलार्थप्रभावितो विषशब्दे श्लेष एव। जलदभुजगजमिति रूपकसाधकमिति। पूर्वं सिद्धत्वाभावान्न तन्निबन्धनम्। विषशब्दे श्लिष्टशब्दं परम्परितमिति श्लेष एवात्रेत्याहुः। आरोप्यमाणस्य प्रकृतोपयोगित्वे परिणामः। आरोप्यमाणं रूपके प्रकृतोपयोगित्वाभावात्प्रकृतोपरञ्जकत्वेनैव केवलेनान्वयं भजते परिणामे तु प्रकृतात्मतया आरोप्यमाणस्योपयोग इति प्रकृतमारोप्यमाणरूपत्वेन परिणमति। आगमानुगमविगमख्यात्यभावात्सांख्यीयपरिणामवैलक्षण्यम्। तस्य सामानाधिकरण्यवैयधिकरण्यप्रयोगाद्द्वैविध्यम्। आद्यो यथा-

     तीर्त्वा भूतेशमौलिस्रजममरधुनीमात्मनासौ तृतीय-
     स्त्स्मै सौमित्रिमैत्रीमयमुपहृतवानातरं नाविकाय।
     व्यामग्राह्यस्तनीभिः शबरयुवतिभिः कौतुकोदञ्चदक्षं
     कृच्छ्रादन्वीयमानस्त्वरितमथ गिरिं चित्रकूटं प्रतस्थे ॥’

अत्र सौमित्रिमैत्री प्रकृता रोप्यमाणसमानाधिकरणान्तररूपत्वेन परिणता। आतरस्य मैत्रीरूपतया प्रकृते उपयोगात्। तदत्र यथा समासोक्तावारोप्यमाणं प्रकृतोपयोगि तच्चारोपविषयात्मतया तत्र स्थितम् ,अत एव तत्र तद्व्यवहारसमारोपः। एवमिहापि ज्ञेयम्। केवलं तत्र विषयस्यैव प्रयोगः।विषयिणो गम्यमानत्वात्। इह तु द्वयोरप्यभिधानं तादात्म्यात्तयोः परिणामित्वम्।द्वितीयो यथा-

     ‘अथ पक्त्रिमतामुपेयिवद्भिः सरसैर्वक्रपथाश्रितैर्वचोभिः।
     क्षितिभर्तुरुपायनं चकार प्रथमं तत्परतस्तुरंगमाद्यैः॥’

राजसंघटने तूपायनमुचितम्। तच्चात्र वचोरूपमिति वचसां व्यधिकरणोपायनरूपत्वेन परिणामः। विषयस्य संदिह्यमानत्वे संदेहः। अभेदप्राधान्ये आरोप इत्येव। विषयः प्रकृतोऽर्थः। यद्भित्तित्वेनाप्रकृतः संदिह्यते। अप्रकृते संदेहे विषयोऽपि संदिह्यत एव। तेन प्रकृताप्रकृतगतत्वेन कविप्रतिभोत्थापिते संदेहे संदेहालंकारः। स च त्रिविधः। शुद्धो निश्चयगर्भो निश्चयान्तश्च। शुद्धो यस्य संशय एव पर्यवसानम्। यथा-

     ‘किं तारुण्यतरोरियं रसभरोद्भिन्ना नवा वल्लरी
     लीलाप्रोच्छलितस्य किं लहरिका लावण्यवारांनिधे:।
     उद्गाढोत्कलिकावतां स्वसमयोपन्यासविस्रम्भिणः
     किं साक्षादुपदेशयष्टिरथवा देवस्य शृङ्गारिणः

निश्चयगर्भो यः संशयोपक्रमो निश्चयमध्यः संशयान्तश्च। स यथा-

     ‘अयं मार्तण्डः किं स खलु तुरगैः सप्तभिरितः
     कृशानुः किं साक्षात्प्रसरति दिशो नैष नियतम्।
     कृतान्तः किं साक्षान्महिषवहनोऽसाविति चिरा
     त्समालोक्याजौ त्वां विदधतिविकल्पान्प्रतिभटाः ॥’

निश्चयान्तो यत्र संशय उपक्रमो निश्चये पर्यवसानम्। यथा-

     ‘इन्दुः किं क्व कलङ्कः सरसिजमेतत्किमम्बु कुत्र गतम्।
     ललितसविलासवचनैर्मुखमिति हरिणाक्षि निश्चितं परतः ॥’

क्वचिदारोप्यमाणानां भिन्नाश्रयत्वेन दृश्यते। यथा-

     ‘रञ्जिता नु विविधास्तरुशैला नामितं नु गगनं स्थगितं नु।
     पूरिता नु विषमेषु धरित्री संहृता नु ककुभस्तिमिरेण ॥’

अत्रारोपविषयतिमिरे रागादि तर्वादिभिन्नाश्रयत्वेनारोपितम्। केचित्त्वध्यवसा- याश्रयत्वेन संदेहप्रकारमाहुः। अन्ये तु नुशब्दस्य संभावनाद्योतकसत्वादुत्प्रेक्षा- प्रकारमिममाचक्षते- सादृश्याद्वस्त्वन्तरप्रतीतिर्भ्रान्तिमान्। असम्यग्ज्ञानत्वसाधर्म्यात्संदेहानन्तरमस्य लक्षणम्। भ्रान्तिश्चित्तधर्मः। स विद्यते यस्मिन्भणितिप्रकारे स भ्रान्तिमान्। सादृश्यप्रयुक्ता च भ्रान्तिरस्य विषयः। यथा-

     ‘ओष्ठे बिम्बफलाशयालमलकेषूत्पाकजम्बूधिया
     कर्णालंकृतिभाजि दाडिमफलभ्रान्त्या च शोणे मणौ।
     निष्पत्त्या सकृदुत्पलच्छददृशामात्तक्लमानां मरौ
     राजन्गूर्जरराजपञ्जरशुकैः सद्यस्तृषा मूर्छितम् ॥’

गाढमर्मप्रहारादिना तु भ्रान्तिर्नास्यालंकारस्य विषयः। यथा-

     दामोदरकराघातचूर्णिताशेषवक्षसा।
     दृष्टं चाणूरमल्लेन शतचन्द्र नभस्तलम्॥’

सादृश्यहेतुकापि भ्रान्तिर्विच्छित्त्यर्थं कविप्रतिभोत्थापितैव गृह्यते। यथोदाहृतं न स्वरसोत्थापिता शुक्तिकारजतवत्। एवं स्थाणुर्वा स्यात्पुरुषो वा स्यादिति संशयेऽपि बोद्धव्यम्। एकस्यापि निमित्तवशादनेकधा ग्रहणमुल्लेखः। यत्रैकं वस्त्वनेकधा गृह्यते स रूपबाहुल्योल्लेखनादुल्लेखः। न चेदं निर्निमित्तमुल्लेखमात्रमपि तु नानाविधधर्मयोगित्वाख्यनिमित्तवशादेतत्क्रियते। तत्र रुच्यर्थित्वव्युत्पत्तयो यथायोगं प्रयोजिकाः।तदुक्तम्

     ‘यथारुचि यथार्थित्वं यथाव्युत्पत्ति भिद्यते।
     आभासोऽप्यर्थ एकस्मिन्ननुसंधानसाधिते॥’इति।

यथा- ‘यस्तपोवनमिति मुनिभिः कामायतनमिति वेश्याभिः संगीतशालेति लासकैः’ इत्यादि हर्षचरिते श्रीकण्ठाख्यजनपदवर्णने। अत्र ह्येक एव श्रीकण्ठाख्यो जनपदस्तद्गुणयोगात्तपोवनाद्यनेकरूपतया निरूपितः। रुच्यर्थित्वव्युत्पत्तयश्च प्रायशः समस्तव्यस्ता योजयितुं शक्यन्ते। नन्वेतन्मध्ये ‘वज्रपञ्जरमिति शरणागतैरसुरविवरमिति वातिकैः’ इत्यादौ रूपकालंकारयोग इति कथमयमुल्लेखा- लंकारविषयः। सत्यम्। अस्ति तावत् ‘तपोवनं’ इत्यादौ रूपकविविक्तोऽस्य विषयः। यदत्र वस्तुतस्तद्रूपतायाः संभवः। यत्र तु रूपकं व्यवस्थितं तत्र चेदियमपि भङ्गिः संभाविनी तत्संकरोऽस्तु। न त्वेतावतास्याभावः शक्यते वक्तुम्। ततश्च न दोषः कश्चित्। एवं हि तत्र विषये भ्रान्तिमदलंकारोऽस्तु। अतद्रूपस्य तद्रूपताप्रतीतिनिबन्धनत्वात्। नैतत्। अनेकधाग्रहणाख्यस्यापूर्वस्यातिशयस्याभावात्। तद्धेतुकत्वाच्चास्यालंकारस्य संकरप्रतीतिस्त्वङ्गीकृतैव। यद्येवम्, अभेदे भेद इत्येवंरूपातिशयोक्तिरत्रास्तु। नैष दोषः। ग्रहीतृभेदाख्येन विषयविभागेनानेक- धात्वोट्टङ्कनात्तस्य च विच्छित्त्यन्तररूपत्वात्सर्वथा तस्यान्तर्भावः शक्यक्रिय इति निश्चयः। यथा वा-

     णाराअणो त्ति परिणअवआहिँ सिरिवल्लहो त्ति तरुणीहिं।
     बालाहिं उण कोदूहलेण एमे अ सच्चविओ ॥

एवम् ‘पृथुरुरसि अर्जुनो यशसि’ इत्यादाववसेयम्। इयांस्तु विशेषः – पूर्वत्र ग्रहीतृभेदेनानेकधात्वोल्लेखः, इह तु विषयभेदेन। नन्वनेकधात्वोल्लेखने गुर्वादिरूपतया श्लेष इति कथमलंकारान्तरमत्र स्थाप्यते। सत्यम्। अनेकधात्वनिमित्तं तु विच्छित्त्यन्तरमत्र दृश्यते इति तत्प्रतिभोत्पत्तिहेतुः श्लेषोऽत्र स्यात्। न तु सर्वथा तदभावः। अतश्चालंकारान्तरम्। यदेवं विधे विषये श्लेषाभावेऽपि विच्छित्तिसद्भावः। तस्मादेवमादावुल्लेख एव श्रेयान्। एवमलंकारान्तरविच्छित्त्याश्रयेणाप्यमयलंकारो निदर्शनीयः। विषयस्यापह्नवेऽपह्नुतिः। वस्त्वन्तरप्रतीतिरित्येव। प्रक्रान्तापह्नववैधर्म्येणेदमुच्यते। आरोपप्रस्तावादा रोपविषयापह्नुतावारोप्यमाणप्रतीतावपह्नुत्याख्योऽलंकारः। तस्य च त्रयी बन्धच्छाया अवह्नवपूर्वक आरोपः। आरोपपूर्वकोऽपह्नवः। छलादिशब्दैरसत्यत्वप्रतिपादकै- र्वापह्नवनिर्देशः। पूर्वोक्तभेदद्वये वाक्यभेदः। तृतीयभेदे त्वेकवाक्यम्। आद्यो यथा-

     ‘यदेतच्चन्द्रान्तर्जलदलवलीलां प्रकुरुते
     तदाचष्टे लोकः शशक इति नो मां प्रति तथा।
     अहं त्विन्दुं मन्ये त्वदरिविरहाक्रान्ततरुणी-
     कटाक्षोल्कापातव्रणकिणकलङ्काङ्किततनुम्॥’

अत्रैन्दवस्य शशस्यापह्नवे उपक्षिप्ते शशकप्रतिवस्तुकिणवत इन्दोरारोपो नान्वयघटनां पुष्यतीति न निरवद्यम्। तत्तु यथा-

     ‘पूर्णेन्दोः परिपोषकान्तवपुषः स्फारप्रभाभास्वरं
     नेदं मण्डलमभ्युदेति गगनाभोगे जिगीषोर्जगत्।
     भारस्योच्छ्रितमातपत्रमधुना पाण्डु प्रदोषश्रिया
     मानोन्नद्धजनाभिमानदलनोद्योगैकहेवाकिनः॥’

द्वितीयो यथा-

     ‘विलसदमरनारीनेत्रनीलाब्जखण्डा-
     न्यधिवसति सदा यः संयमाधःकृतानि।
     न तु रुचिरकलापे वर्तते यो मयूरे
     वितरतु स कुमारो ब्रह्मचर्यश्रियं वः॥’

तृतीयो यथा-

     ‘उद्भ्रान्तोज्झितगेहगूर्जरवधूकम्पाकुलोच्चैःकुच-
     प्रेङ्खोलामलहारवल्लिविगलन्मुक्ताफलच्छद्मना।
     सार्धं त्वद्रिपुभिस्त्वदीययशसां शून्ये मरौ धावतां
     भ्रष्टं राजमृगाङ्क कुन्दमुकुलस्थूलैः श्रमाम्भःकणैः ॥’

अत्र शून्य इत्यस्य स्थाने मन्येशब्दप्रयोगे सापह्नवोत्प्रेक्षा इत्यपि स्थापयिष्यते ‘अहं त्विन्दुं मन्ये’ इति तु वाक्यभेदे मन्येशब्दप्रयोगे नोत्प्रेक्षेति च वक्ष्यते। एतस्मिन्नपि भेदेऽपह्नवारोपयोः पौर्वापर्यप्रयोगविपर्यये भेदद्वयं सदपि न पूर्ववच्चित्रतावहमिति न भेदत्वेन गणितम्। तत्रापह्नवपूर्वके आरोपे निरन्तरमुदाहृतम्। आरोपपूर्वके त्वपह्नवे यथा-

     ‘ज्योत्स्नाभस्मच्छुरणधवला बिभ्रती तारकास्थी-
     न्यन्तर्धानव्यसनरसिका रात्रिकापालिकीयम्।
     द्वीपाद्द्वीपं भ्रमति दधती चन्द्रमुद्राकपाले
     न्यस्तं सिद्धाञ्जनपरिमलं लाञ्छनस्यच्छलेन ॥’

क्वचित्पुनरसत्यत्वं वस्त्वन्तररूपताभिधायि वपुःशब्दादिनिबन्धनं यथा-

     ‘अमुष्मिंल्लावण्यामृतसरसि नूनं मृगदृशः
     स्मरः शर्वप्लुष्टः पृथुजघनभागे निपतितः।
     यदाङ्गाङ्गाराणां प्रशमपिशुना नाभिकुहरे
     शिखा घूमस्येयं परिणमति रोमावलिवपुः॥’इति।

एवमभेदप्राधान्ये आरोपगर्भानलंकारांल्लक्षयित्वा अध्यवसायगर्भांल्लक्षयति- अध्यवसाये व्यापारप्राधान्ये उत्प्रेक्षा। विषयनिगरणेनाभेदप्रतिपत्तिर्विषयिणोऽध्यवसायः। स च द्विविधः साध्यः सिद्धश्च। साध्यो यत्र विषयिणोऽसत्यतया प्रतीतिः। असत्यत्वं चविषयिगतस्य धर्मस्य विषय उपनिबन्धे विषयिसंभवित्वेन विषयासंभवित्वेन च प्रतीतेः।धर्मो गुणक्रियारूपः तस्य संभवासंभवप्रतीतौ संभवाश्रयस्य तत्रापरमार्थतया असत्यत्वं प्रतीयते इतरस्य तु परमार्थतया सत्यत्वम्। यस्यासत्यत्वं तस्य सत्यत्वप्रतीतावध्यवसायः साध्यः। अतश्च व्यापारप्राधान्यम्। सिद्धो यत्र विषयिणो वस्तुतोऽसत्यस्यापि सत्यताप्रतीतिः। सत्यत्वं च (........) पूर्वकस्यासत्यत्वनिमित्तस्याभावात्। अतश्चाध्यवसितप्राधान्यम्। तत्र साध्यत्वप्रतीतौ व्यापारप्राधान्येऽध्यवसायः संभावनमभिमानस्तर्क ऊह उत्प्रेक्षेत्यादिशब्दैरुच्यते। तदेवमप्रकृतगुणक्रियाभिसंबन्धादप्रकृतेन प्रकृतस्य संभावनमुत्प्रेक्षा। सा च वाच्या इवादिशब्दैरुच्यते। प्रतीयमानायां पुनरिवाद्यप्रयोगः। सा च जातिगुणक्रियाद्रव्याणाम- प्रकृतानामध्यवसेयत्वेन चतुर्धा। प्रकृतस्यैतद्भेदयोगेऽपि न वैचित्र्यमिति ते न गणिताः।प्रत्येकं च भावाभावाभिमानरूपतया द्वैविध्येऽष्टविधत्वम्। भेदाष्टकस्य च प्रत्येकं निमित्तस्य गुणक्रियारूपत्वेन षोडश भेदाः। तेषां च प्रत्येकं निमित्तस्योपादानानुपादानाभ्यां द्वात्रिंशत्प्रकाराः। तेषु च हेतुस्वरूपफलोत्प्रेक्षणरूपत्वेन षण्णवतिर्भेदाः। एषा गतिर्वाच्योत्प्रेक्षायाः। तत्रापि द्रव्यस्य प्रायः स्परूपोत्प्रेक्षणमेवेति हेतुफलोत्प्रेक्षाभेदास्ततः पातनीयाः। प्रतीयमानायास्तु यद्यप्युद्देशत एतावन्तो भेदास्तथापि निमित्तस्यानुपादानं तस्यां न संभवतीति तैर्भेदैर्न्यूनोऽयं प्रकारः। इवाद्यनुपादाने निमित्तस्य चाकीर्तने उत्प्रेक्षणस्य निष्प्रमाणकत्वात्। प्रायश्च स्वरूपोत्प्रेक्षात्र न संभवति। तदेवं प्रतीयमानोत्प्रेक्षाया यथासंभवं भेदनिर्देशः। एषा चार्थाश्रयापि धर्मविषये श्लिष्टशब्दहेतुका क्वचिद्दृश्यते। क्वचित्पदार्थान्वयभेदाद्वा सादृश्याभिधानादुपक्रान्ताप्युपमावाक्यार्थतात्पर्यसामर्थ्यादभिमन्तृव्यापारोपारोहक्रमेणो- त्प्रेक्षायां पर्यवस्यति। क्वचिच्च च्छलादिशब्दप्रयोगे सापह्नवोत्प्रेक्षा भवति। अतश्चोक्तवक्ष्यमाणप्रकारवैचित्र्येणानन्त्यमस्याः।सांप्रतं त्वियं दिङ्मात्रेणोदाह्रियते। तत्र जात्युत्प्रेक्षा यथा-

     ‘स वः पायादिन्दुर्नवबिसलताकोटिकुटिलः
     स्मरारेर्यो मूर्ध्नि ज्वलनकपिशे भाति निहितः।
     स्रवन्मन्दाकिन्याः प्रतिदिवससिक्तेन पयसा
     कपालेनोन्मुक्तः स्फटिकधवलेनाङ्कुर इव।।’

अत्राङ्कुरशब्दस्य जातिशब्दत्वाज्जातिरुत्प्रेक्ष्यते। क्रियोत्प्रेक्षा यथा-

     ‘लिम्पतीव तमोऽङ्गानि वर्षतीवाञ्जनं नभः।
     अत्र लेपनवर्षणक्रिये तमोनभोगतत्वेनोत्प्रेक्ष्येतेउत्तरार्धे तु
     असत्पुरुषसेवेव दृष्टिर्निष्फलतां गता ॥’

इत्यत्रोपमैव नोत्प्रेक्षा। गुणोत्प्रेक्षा यथा-

     ‘एषा स्थली यत्र वि‍चिन्वता त्वां भ्रष्टं मया नूपुरमेकमुर्व्याम्।
     अदृश्यत त्वच्चरणारविन्दविश्लेषदुःखादिव बद्धमौनम्।।’

अत्र दुःखं गुणः। द्रव्योत्प्रेक्षा यथा-

     पातालमेतन्नयनोत्सवेन विलोक्य शून्यं शशलाञ्छनेन।
     इहाङ्गनाभिः स्वमुखच्छलेन कृताम्बरे चन्द्रमयीव सृष्टिः ॥’

अत्र चन्द्रस्यैकत्वाद्द्रव्यत्वम्। एतानि भावाभिमानेनोदाहरणानि। अभावाभिमानेन यथा-

     ‘कपोलफलकावस्याः कष्टं भूत्वा तथाविधौ।
     अपश्यन्ताविवान्योन्यमीदृक्षां क्षामतां गतौ ॥’

अत्रापश्यन्ताविति क्रियाया अभावाभिमानः। एवं जात्यादावप्यूह्यम्। गुणस्य निमित्तत्वं यथा- ‘नवबिसलताकोटिकुटिलः’ इत्यादावुदाहृतस्य कुटिलत्वस्य।क्रियाया यथा-‘ईदृक्षां क्षामतां गतौ’ इत्यत्र क्षामतागमनस्य।निमित्तोपादानस्यैते उदाहरणे। अनुपादाने ‘लिम्पतीव तमोऽङ्गानि’ इत्याद्युदाहरणम्। हेतूत्प्रेक्षा यथा- ‘विश्लेषदुःखादिव बद्धमौनम्’ इत्यादौ। स्वरूपोत्प्रेक्षा यथा-

     ‘कुबेरजुष्टां दिशमुष्णरश्मौ गन्तुं प्रवृत्ते समयं विलङ्घ्य।
     दिग्दक्षिणा गन्धवहं मुखेन व्यलीकनिःश्वासमिवोसत्सर्ज॥’

फलोत्प्रेक्षा यथा-

     ‘चोलस्य यद्भीतिपलायितस्य भालत्वचंकण्टकिनो वनान्ताः।
     अद्यापि किं वानुभविष्यतीति व्यपाटयन्द्रष्टुमिवाक्षराणि ॥’
     एवं वाच्योत्प्रेक्षाया उदाहरणदिग्दत्ता। प्रतीयमानोत्प्रेक्षा यथा-
     ‘महिलासहस्सभरिए तुह हिअए सुहअ सा अमाअन्ती।

अणुदिणमणण्णअम्मा अङ्गं तणुअम्पि तणुएइ॥’ इति। अमाअन्ती इत्यत्रावर्तमानेवेति तनूकरणहेतुत्वेनोत्प्रेक्षितम्। एवं भेदान्तरेष्वपि ज्ञेयम्। श्लिष्टशब्दहेतुर्यथा-

     ‘अनन्यसामान्यतया प्रसिद्धस्त्यागीति गीतो जगतीतले यः।
     अभूदहंपूर्विकया गतानामतीव भूमिः स्मरमार्गणानाम् ॥’
     अत्र धर्मविषये मार्गणशब्दः श्लिष्टः। उपमोपक्रमोत्प्रेक्षा यथा-
     ‘कस्तूरीतिलकन्ति भालफलके देव्या मुखाम्भोरुहे
     रोलम्बन्ति तमालबालमुकुलोत्तंसन्ति मौलावपि।
     याःकर्णे विकचोत्पलन्ति कुचयोरङ्के च कालागुरु-
     स्थासन्ति प्रथयन्तु तास्तव शिवं श्रीकण्ठकण्ठत्विषः॥’

अत्र यद्यपि ‘सर्वप्रातिपदिकेभ्यः क्विप्’ इत्युपमानात्क्विब्विधावामुखे उपमाप्रतीतिस्तथाप्युपमानस्य प्रकृते संभवौचित्यात्संभवोत्थाने उत्प्रेक्षायां पर्यवसानम्। यथा वा विरहवर्णने ‘केयूरायितमङ्गदैः इत्यादौ। एषा च समस्तोपमा- प्रतिपादकविषयेऽपि हर्षचरितवार्तिके साहित्यमीमांसायां च तेषु तेषु प्रदेशेषूदाहृता (दृश्यते।) इह तु ग्रन्थविस्तरभयान्न प्रपञ्चिता। सापह्नवोत्प्रेक्षा यथा-

     ‘गतासु तीरं तिमिघट्टनेन ससंभ्रमं पौरविलासिनीषु।
     यत्रोल्लसत्फेनततिच्छलेन मुक्ताट्टहासेव विभाति सिप्रा ॥’

अत्रेवशब्दमाहात्म्यात्संभावनं छलशब्दप्रयोगादपह्नवो गम्यते। एवं छद्मादि- शब्दप्रयोगेऽपि ज्ञेयम्। ‘अपर इव पाकशासनः’ इत्यादावपरशब्दाप्रयोगे उपमैवेयम्। तत्प्रयोगे तु प्रकृतस्य राज्ञः पाकशासनत्वप्रतीतावुत्प्रेक्षैवेयम्। इवशब्दाप्रयोगे तु सिद्धत्वादध्यवसायस्यातिशयोक्तिः। अपरशब्दस्याप्रयोगे तु रूपकम्। तदेवं प्रकारवैचित्र्येणावस्थिताया उत्प्रेक्षाया हेतूत्प्रेक्षायां यस्य प्रकृतसंबन्धिनो धर्मस्य हेतुरुत्प्रेक्ष्यते स धर्मोऽध्यवसायवशादभिन्न उत्प्रेक्षानिमित्तत्वेरनाश्रीयते। स च वाच्य एव नियमेन भवति। अन्यथा कं प्रति स हेतुः स्यात्। यथा-‘अपश्यन्ताविवान्योन्यं’ इत्यादौ। अत्र कपोलयोः प्रकृतयोः संबन्धित्वेनोपात्तस्य क्षामतागमनस्य हेतुरदर्शनमुत्प्रेक्षितम्। हेतुफलं च तत्र क्षामतागमनं निमित्तम्। एवं ‘अदृश्यत त्वच्चरणारविन्दविश्लेषदुःखादिव बद्धमौनम्’इत्यत्र नूपुरगतस्य मौनित्वस्य हेतुर्दुःखित्वम्। तदुत्प्रेक्षणे मौनित्वमेव निमित्तं ज्ञेयम्। एवं सर्वत्र। स्वरूपोत्प्रेक्षायां यत्र धर्मी धर्म्यन्तरगतत्वेनोत्प्रेक्ष्यते तत्र धर्मो निमित्तभूतः क्वचिन्निर्दिश्यते। यथा- ‘स वः पायादिन्दुः’ इत्यादौ। अत्र कुटिलत्वादि निर्दिष्टमेव। ‘वेलेव रागसागरस्य’ इत्यादौ संक्षोभकारित्वादिगम्यमानम्। यत्र धर्म एव धर्मिगतत्वेनोत्प्रेक्ष्यते तत्रापि निमित्तस्योपादानानुपादानाभ्यां द्वैविध्यम्। उपादाने यथा-

     ‘प्राप्याभिषेकमेतस्मिन्प्रतितिष्ठासति द्विषाम्।
     चकम्पे वेपमानान्ता भयविह्ललितेव भूः ॥’

अत्र भूगतत्वेन भयविह्ललितत्वाख्यधर्मोत्प्रेक्षायां कम्पादिनिमित्तमुपात्तम्। अनुपादाने यथा- ‘लिम्पतीव तमोऽङ्गानि’ इत्यादौ। अत्र तमोगतत्वेन लेपनक्रियाकर्तृत्वोत्प्रेक्षायां व्यापनादिनिमित्तं गम्यमानम्। व्यापनादौ तूत्प्रेक्षाविषये निमित्तमन्वेष्यं स्यात्। न च विषयस्य गम्यमानत्वं युक्तम्। तस्योत्प्रेक्षिताधारत्वेन प्रस्तुतस्याभिधातुमुचितत्वात्। तस्माद्यथोक्तमेव साधु। फलोत्प्रेक्षायां यदेव तस्य कारणं तदेव निमित्तम्। तस्यानुपादाने कस्य तत्फलत्वेनोक्तत्वं स्यात्। तस्मात्तत्र तस्य निमित्तस्योपादानमेव न प्रकारान्तरम्। यथा-

     ‘रथस्थितानां परिवर्तनाय पुरातनानामिव वाहनानाम्।
     उत्पत्तिभूमौ तुरगोत्तमानां दिशि प्रतस्थे रविरुत्तरस्याम् ॥’

अत्र परिवर्तनस्य फलस्योत्तरदिग्गमनं कारणमेव निमित्तमुपात्तम्। तदसावुत्प्रेक्षायाः कक्ष्याविभागः प्रचुरतया स्थितोऽपि लक्ष्ये दुरवधारत्वादिह न प्रपञ्चितः। तस्याश्वेवादिशब्दवन्मन्येशब्दोऽपि प्रतिपादकः। किं तूत्प्रेक्षासामग्र्यभावे मन्येशब्दप्रयोगो वितर्कमेव प्रतिपादयति। यथोदाहृतं प्राक्। ‘अहं त्विन्दुं मन्ये त्वदरिविरह’ इत्यादि। एवमध्यवसायस्य साध्यतायामुत्प्रेक्षां निर्णीय सिद्धत्वेऽतिशयोक्तिं लक्षयति- अध्यवसितप्राधान्ये त्वतिशयोक्तिः। अध्यवसाने त्रयं संभवति- स्वरूपं विषयो विषयी च। विषयस्य हि विषयिणान्तर्निगीर्णत्वेऽध्यवसायस्य स्वरूपोत्थानम्। तत्र साध्यते स्परूपप्राधान्यम्। सिद्धत्वे त्वध्यवसितत्वप्राधान्यम्। विषयप्राधान्यमध्यवसाये नैव संभवति। अध्यवसितप्राधान्यैवातिशयोक्तिः। अस्याश्च पञ्चप्रकाराः। भेदेऽभेदः। अभेदे भेदः। संबन्धेऽसंबन्धः। असंबन्धे संबन्धः। कार्यकारणपौर्वापर्यविध्वंसश्च। तत्र भेदेऽभेदो यथा-

     ‘कमलमनम्भसि कमले च कुवलये तानि कनकलतिकायाम्।
     सा च सुकुमारसुभगेत्युत्पातपरम्परा केयम् ॥’

अत्र मुखादीनां कमलाद्यैर्भेदेऽप्यभेदः। अभेदे भेदो यथा-

     ‘अण्णं लडहत्तणअं अण्णा विहि कावि वत्तणच्छाआ।
     सामा सामण्णपआवइणो रेह च्चि अ ण होइ ॥’

अत्र लटभात्वादीनामभेदेऽप्यन्यत्वेन भेदः। यथा वा-

     ‘णाराअणोत्तिपरिणअवयाहिँ सिरिवल्लहोत्ति तरुणीहिं।
     बालाहिं उण कोदूहलेण एमेअ सच्चविओ ॥’

अत्राभिन्नस्यापि विषयविभागेन भेदेनोपनिबन्धः। संबन्धेऽसंबन्धो यथा-

     ‘लावण्यद्रविणव्ययो न गणितः क्लेशो महान्स्वीकृतः
     स्वच्छन्दयस्य सुखं जनस्य वसतश्चिन्तानलो दीपितः।
     एषापि स्वयमेव तुल्यरमणाभावाद्वराकी हता
     कोऽर्थश्चेतसि वेधसा विनिहितस्तन्व्यास्तनुं तन्वता ॥’

अत्र लावण्यद्रविणस्य व्ययसंबन्धेऽप्यसंबन्धस्तन्वीलावण्यप्रकर्षप्रतिपादनार्थं निबद्धः। यथा वा-

     ‘अस्याःसर्गविधौ प्रजापतिरभूच्चन्द्रो नु कान्तिप्रदः
     श्रृङ्गारैकरसः स्वयं नु मदनो मासो नु पुष्पाकरः।
     वेदाभ्यासजडः कथं नु विषयव्यावृत्तकौतुहलो
     निर्मातुं प्रभवेन्मनोहरमिदं रूपं पुराणो विधिः॥’

अत्र पुराणप्रजापतिनिर्माणसंबन्धेऽप्यसंबन्ध उक्तः। असंबन्धे संबन्धो यथा-

     ‘पुष्पप्रवालोपहितं यदि स्यान्मुक्ताफलं वा स्फुटविद्रुमस्थम्।
     ततोऽनुकुर्याद्विशदस्य तस्यास्ताम्रौष्ठपर्यस्तरुचः स्मितस्य ॥’

अत्र संभावनया संबन्धः। यथा वा-

     दाहोऽम्भः प्रसृतिंपचः प्रचयवान्वाप्पः प्रणालोचितः
     श्वासाः प्रेङ्खितदीप्रदीपकलिकाः पाण्डिम्नि मग्नं वपुः।
     किं चान्यत्कथयामि रात्रिमखिला त्वन्मार्गवातायने
     हस्तच्छत्रनिरुद्धचन्द्रमहसस्तस्याः स्थितिर्वर्तते ॥’

अत्र दाहादीनामम्भः प्रसृत्याद्यैरसंबन्धेऽपि संबन्धः सिद्धत्वेनोक्तः। कार्यकारणपौर्पापर्यविध्वंसः पौर्वापर्यविपर्ययात्तुल्यकालत्वाद्वा विपर्ययो यथा-

     ‘हृदयमधिष्ठितमादौ मालत्याः कुसुमचापबाणेन।
     चरमं रमणीवल्लभ लोचनविषयं त्वया भजता ॥’

तुल्यकालत्वं यथा-

     ‘अविरलविलोलजलदः कुटजार्जुननीपसुरभिवनवातः।
     अयमायातः कालो हन्त मृताः पथिकगेहिन्यः॥’

ऐषु पञ्चसु भेदेषु भेदेऽभेदादिवचनं लोकातिक्रान्तगोचरम्। अत्र चातिशयाख्यं यत्फलं प्रयोजकत्वान्निमित्तं तत्राभेदाध्यवसायः। तथा हि ‘कमलमनम्भसि’ इत्यादौ वदनादीनां कमलाद्यैर्भेदेऽपि वास्तवं सौन्दर्यं कविसमर्पितेन सौन्दर्येणाभेदेनाध्यवसितं भेदेऽभेदवचनस्य निमित्तम्। तत्र च सिद्धोऽध्यवसाय इत्यध्यवसितप्राधान्यम्। न तु वदनादीनां कमलादिभिरभेदाध्यवसायो योजनीयः। अभेदे भेद इत्यादिषु प्रकारेष्वव्याप्तेः।, तत्र हि ‘अण्णं लडहत्तणअं’ इत्यादौ सातिशयं लटभात्वं निमित्तभूतमभेदेनाध्यवसितम्। एवमन्यत्रापि ज्ञेयम्। तदभिप्रायेणैवाध्यवसितप्राधान्यम्। प्रकारपञ्चकमध्यात्कार्य- कारणभावेन यः प्रकार: स कार्यकारणताश्रयालंकारप्रस्तावे प्रपञ्चार्थं लक्षयिष्यते। एवमध्यवसायाश्रयमलंकारद्वयमुक्त्वा गम्यमानौपम्याश्रया अलंकारा इदानीमुच्यन्ते। तत्रापि पदार्थवाक्यार्थगतत्वेन तेषां द्वैविध्ये पदार्थगतमलंकारद्वयमुच्यते- औपम्यस्य गम्यत्वे पदार्थगतत्वेन प्रस्तुतानामप्रस्तुतानां वा समानधर्माभिसंबन्धे तुल्ययोगिता। इवाद्यप्रयोगे ह्यौपम्यस्य गम्यत्वम्। तत्र प्रकारणिकानामप्राकरणिकानां वा समानगुणक्रियासंबन्धे अन्वितार्था तुल्ययोगिता। यथा-

     सज्जातपत्रप्रकराञ्चितानिसमुद्वहन्ति स्फुटपाटलत्वम्।
     विकस्वराण्यर्ककरप्रभावाद्दिनानि पद्मानि च वृद्धिमीयुः ॥’

अत्र ऋतुवर्णनस्य प्रक्रान्तत्वाद्दिनानां पद्मानां च प्रकृतत्वाद्वृद्धिगमनं क्रिया। एवं गुणेऽपि। यथा-

     ‘योगपट्टो जटाजालं तारवीत्वङ्मृगाजिनम्।
     उचितानि तवाङ्गेषु यद्यमूनि तदुच्यताम्॥’

उचितत्वं गुण:।अप्राकरणिकानां यथा-

     ‘धावत्त्वदश्वपृतनापतितं मुखेऽस्य
     निर्निद्रनीलनलिनच्छदकोमलाङ्ग्या।
     भग्नस्य गूर्जरनृपस्य रजः कयापि
     तन्व्या तवासिलतया च यशः प्रमृष्टम् ॥’

अत्र गूर्जरं प्रति नायिकासिलतयोरप्राकरणिकत्वे मार्जनं क्रिया। गुणो यथा-

     त्वदङ्गमार्दवद्रष्टुः कस्य चित्ते न भासते।
     मालतीशशभृल्लेखाकदलीनां कठोरता ॥’

कठोरत्वं गुणः। एवमेषा चतुर्विधा व्याख्याता। प्रस्तुताप्रस्तुतयोर्व्यस्तत्वे तुल्ययोगितां प्रतिपाद्य समस्तत्वे दीपकमुच्यते - प्रस्तुताप्रस्तुतानां तु दीपकम्। औपम्यस्य गम्यत्व इत्याद्यनुवर्तते। प्राकरणिकाप्राकरणिकयोर्मध्यादेकत्र निर्दिष्टः समानो धर्मः प्रसङ्गेनान्यत्रोपकाराद्दीपनाद्दीपसादृश्येन दीपकाख्यालंकारोत्थापकः। तत्रेवाद्यप्रयोगादुपमानोपमेयभावो गम्यमानः। स च वास्तव एव। पूर्वत्र शुद्धप्राकरणिकत्वे शुद्धाप्राकरणिकत्वे वा वैवक्षिकः। अत्र प्राकरणिकत्वाप्राकरणिकत्व- विवर्तित्वादुपमानोपमेयभावस्या नेकस्यैकक्रियाभिसंबन्धादौचित्यात्पदार्थत्वोक्तिः। वस्तुतस्तु वाक्यार्थत्वे आदिमध्यान्तवाक्यगतत्वेनधर्मस्य वृत्तावादिमध्यान्तदीप काख्यास्त्रयोऽस्य भेदाः। क्रमेणोदाहरणम्-

     रेहइ मिहिरेण णहं रसेण कव्वं सरेण जोव्वणअम्।
     अमएण धुणीधवलो तुमएण (अ) णाह भुवणमिणम् ॥’
     ‘संचारपूतानि दिगन्तराणि कृत्वा दिनान्ते निलयाय गन्तुम्।
     प्रचक्रमे पल्लवरागताम्रा प्रभा पतङ्गस्य मुनेश्च धेनुः ॥’
     किवणाणँ धणं णाआणँ फणमणी केसराइँ सीहाणम्।
     कुलवालिआणँ थणआ कुत्तो छेप्पन्ति अमुआणम् ॥’

एवमेकक्रियं दीपकत्रयं निर्णीतम्। अत्र च यथानेककारकगतत्वेनैकक्रियादीपकं तथानेकक्रियागतत्वेनैककारकमपि दीपकम्। यथा-

     ‘साधूनामुपकर्तुं लक्ष्मीं धर्तुं विहायसा गन्तुम्।
     न कुतूहलि कस्य मनश्चरितं च महात्मनां श्रोतुम् ॥’

अत्रोपकरणाद्यनेकक्रियाकर्तृत्वेन कुतूहलविशिष्टं मनो निर्दिष्टम्। छायान्तरेण तु मालादीपकं प्रस्तावान्तरे लक्षयिष्यते। वाक्यार्थगतत्वेन सामान्यस्य वाक्यद्वये पृथङ्निर्देशे प्रतिवस्तूपमा। पदार्थारब्धो वाक्यार्थ इति पदार्थगतालंकारानन्तरं वाक्यार्थगतालंकारप्रस्तावः। तत्र सामान्यधर्मस्येवाद्युपादाने सकृन्निर्देशे उपमा। वस्तुप्रतिवस्तुभावेन सकृन्निर्देशेऽपि सैव। इवाद्यनुपादाने सकृन्निर्देशे दीपकतुल्ययोगिते। असकृन्निर्देशे तु शुद्धसामान्यरूपत्वं बिम्बप्रतिम्बभावो वा। आद्यः प्रकारः प्रतिवस्तूपमा। वस्तुतः शब्दस्य वाक्यार्थवाचित्वे प्रतिवाक्यार्थमुपमा। साम्यमित्यन्वर्थाश्रयणात्। केवलं काव्यसमयात्पर्यायान्तरेण पृथङ्निर्देशः। द्वितीयप्रकाराश्रयेण दृष्टान्तो वक्ष्यते। तदेवमौपम्याश्रयेणैव प्रतिवस्तूपमा। यथा-

     चकोर्य एव चतुराश्चन्द्रिकाचामकर्मणि।
     आवन्त्य एव निपुणाः सुदृशो रतनर्मणि ॥’

अत्र चतुरत्वं साधारणो धर्म उपमेयवाक्ये निपुणपदेन निर्दिष्टः। न केवलमियं साधर्म्येण यावद्वैधर्म्येणापि। यथात्रैवोत्तरस्थाने ‘विनावन्तीर्न निपुणाः सुदृशो रतनर्मणि’इति पाठे। तस्यापि बिम्बप्रतिबिम्बभावतया निर्देशे दृष्टान्तः। तस्यापीति न केवलमुपमानोपमेययोः। तच्छब्देन सामान्यधर्मः प्रत्यवमृष्टः। अयमपि साधर्म्यवैधर्म्याभ्यां द्विविधः। आद्यो यथा-

     ‘अब्धिर्लङ्घित एव वानरभटैः किं त्वस्य गम्भीरता-
     मापातालनिमग्नपीवरतनुर्जानाति मन्थाचलः।
     दैवीं वाचमुपासते हि बहवः सारं तु सारस्वतं
     जानीते नितरामसौ गुरुकुलक्लिष्टो मुरारिः कविः ॥

’अत्र यद्यपि ज्ञानाख्य एको धर्मो निर्दिष्टस्तथापि न तन्निबन्धनमौपम्यं विवक्षितम्। यन्निबन्धनं च विवक्षितं तत्राब्धिलङ्घनादावस्त्येव दिव्यवागुपासनादिना प्रतिबिम्बनम्। द्वितीयो यथा-

     ‘कृतं च गर्वाभिमुखं मनस्त्वया किमन्यदेवं निहताश्च नोऽरयः।
     तमांसि तिष्ठन्ति हि तावदंशुमान्न यावदायात्युदयाद्रिमौलिताम् ॥

’अत्र निहतत्वादेः स्थानादिना वैधर्म्येण प्रतिबिम्बनम्। संभवतासंभवता वा वस्तुसंबन्धेन गम्यमानं प्रतिबिम्बकरणं निदर्शना। प्रतिबिम्बकरणप्रस्तावेनास्या लक्षणम्। तत्र क्वचित्संभवन्नेव वस्तुसंबन्धः स्वसामर्थ्याद्विम्बप्रतिबिम्बभावं कल्पयति। क्वचित्पुनरन्वयबाधादसंभवता वस्तुसंबन्धेन प्रतिबिम्बनमाक्षिप्यते। तत्र संभवद्वस्तुसंबन्धा यथा-

     ‘चूडामणिपदे धत्ते यो देवं रविमागतम्।
     सतां कार्यातिथेयीति बोधयन्गृहमेधिनः ॥’

अत्र बोधयन्निति णिचस्तत्समर्थाचरणे प्रयोगात्संभवति वस्तुसंबन्धः। असंभवद्वस्तुसंबन्धा यथा-

     ‘अव्यात्स वो यस्य निसर्गवक्रः स्पृशत्यधिज्यस्मरचापलीलाम्।
     जटापिनद्धोरगराजरत्नमरीचिलीढोभयकोटिरिन्दुः॥’

अत्र स्मरचापसंबन्धिन्या लीलाया वस्त्वन्तरभूतेनेन्दुना स्पर्शनमसंभव- ल्लीलासदृशीं लीलामवगमयतीत्यदूरविप्रकर्षात्प्रतिबिम्बकल्पनमुक्तम्। एषापि पदार्थवाक्यार्थवृत्तिभेदाद्द्विविधा। पदार्थवृत्तिः समनन्तरमुदाहृता। वाक्यार्थवृत्तिर्यथा-

     ‘त्वत्पादनखरत्नानां यदलक्तकमार्जनम्।
     इदं श्रीखण्डलेपेन पाण्डुरीकरणं विधोः ॥’

केचित्तु दृष्टान्तालंकारोऽयमित्याहुस्तदसत्। निरपेक्षयोर्वाक्यार्थयोर्हि बिम्बप्रति- बिम्बभावो दृष्टान्तः। यत्र च प्रकृते वाक्यार्थे वाक्यार्थान्तरमारोप्यते सामानाधिकरण्येन तत्र संबन्धानुपपत्तिमूला निदर्शनैव युक्ता, न दृष्टान्तः। एवं च-

     ‘शुद्धान्तदुर्लभमिदं वपुराश्रमवासिनो यदि जनस्य।
     दूरीकृताः खलु गुणैरुद्यानलता वनलताभिः ॥’

इत्यत्र दृष्टान्तबुद्धिर्न कार्या। उक्तन्यायेन निदर्शनाप्राप्तेः। इयं सामान्ये- नैवासंभवात्प्रतिपादिता उपमेयवृत्तस्योपमाने संभवादपि भवति। उभयत्रापि संबन्धविघटनस्य विद्यमानत्वात्। तद्यथा-

     ‘वियोगे गौडनारीणां यो गण्डतलपाण्डिमा।
     अलक्ष्यत स खर्जूरीमञ्जरीगर्भरेणुषु ॥’

अत्र गण्डतलं प्रकृतम्। तद्धर्मस्य पाण्डिम्नः खर्जूरीरेणुषु संभवादौपम्यप्रतीतिः। एष च प्रकारः श्रृङ्खलान्यायेनापि भवति। यथा-

     आ मुण्डशिरसि बदरफलं बदरोपरि बदरं स्थिरं धारयसि।
     जुगुप्सस्यात्मानं नागरिक विदग्धाश्छल्यन्ते ॥’

क्वचित्पुनर्निषेधसामर्थ्यादाक्षिप्तायाः प्राप्तेः संबन्धानुपपत्त्यापि भवति। यथा-

     उत्कोपेत्वयि किंचिदेव चलति द्राग्गूर्जरक्ष्माभृता
     मुक्ता भूर्न परं भयान्मरुजुषां यावत्तदेणीदृशाम्।
     पद्भ्यां  हंसगतिर्मुखेन शशिनः कान्तिः कुचाभ्यामपि
     क्षामाभ्यां सहसैव वन्यकरिणां गण्डस्थलीविभ्रमः ॥’

अत्र मुक्तेति निषेधपदं तदन्यथानुपपत्त्या पादयोर्हंसगतिप्राप्तिराक्षिप्यते। सा च तयोरनुपपन्ना सादृश्यं गमयतीति असंभवद्वस्तुसंबन्धनिबन्धना निदर्शना। भेदप्राधान्ये उपमानादुपमेयस्याधिक्ये विपर्यये वा व्यतिरेकः। अधुना भेदप्रधान्येनालंकारकथनम्। भेदो वैलक्षण्यम्। स च द्विधाभवति। उपमानादुपमेयस्याधिकगुणत्वे विपर्यये वा भावात्। विपर्ययो न्यूनगुणत्वम्। क्रमेणोदाहरणम्-

     ‘दिदृक्षवःपक्ष्मलताविलासमक्ष्णां सहस्रस्य मनोहरं ते।
     वापीषुनीलोत्पलिनीविकासरम्यासु नन्दन्ति न षट्पदौघाः ॥’
     ‘क्षीणः क्षीणोऽपि शशी भूयो भूयो विवर्धते सत्यम्।
     विरम प्रसीद सुन्दरि यौवनमनिवर्ति यातं तु ॥’

अत्रविकस्वरनीलोत्पलिन्यपेक्षया अक्षिसहस्रस्य पक्ष्मलताया अधिक गुणत्वम्। चन्द्रापेक्षया च यौवनस्य न्यूनगुणत्वम्। शशिवैलक्षण्येन तस्यापुनरागमात्। उपमानोपमेययोरेकस्य प्राधान्यनिर्देशेऽपरस्य सहार्थसंबन्धे सहोक्तिः। भेदप्राधान्य इत्येव। गुणप्रधानभावनिमित्तकमत्र भेदप्राधान्यम्। सहार्थप्रयुक्तश्च गुणप्रधानभावः। उपमानोपमेयत्वं चात्र वैवक्षिकम्। द्वयोरपि प्राकरणिकत्वादप्राकरणिकत्वाद्वा सहार्थसामर्थ्याद्धि तयोस्तुल्यकक्षत्वम्। तत्र तृतीयान्तस्य नियमेन गुणत्वादुपमानत्वम्। अर्थाच्च परिशिष्टस्य प्रधानत्वादु- पमेयत्वम्। शाब्दश्चात्र गुणप्रधानभावः। वस्तुतस्तु विपर्ययोऽपि स्यात्। तत्र नियमेनातिशयोक्तिमूलत्वमस्याः। सा च कार्यकारणप्रतिनियमविपर्ययरूपा अभेदाध्यवसायरूपा च। अभेदाध्यवसायश्च श्लेषभित्तिकोऽन्यथा वा। साहित्यं चात्र कर्त्रादिनानाभेदं ज्ञेयम्। तत्र च कार्यकारणप्रतिनियमविपर्ययरूपा यथा- ‘भवदपराधैः सार्धं संतापो वर्धते तरामस्याः।’ अत्रापराधानां संतापं प्रति हेतुत्वेऽपि तुल्यकालत्वेनोपनिबन्धः। श्लेषभित्तिकाध्यवसायरूपा यथा- ‘अस्तं भास्वान्प्रयातः सह रिपुभिरयं संह्रियन्तां बलानि।’अत्रास्तं गमनं श्लिष्टम्। अस्तमित्यस्योभयार्थत्वात्। तदन्यथारूपा यथा- ‘कुमुदवनैः सह संप्रति विधटन्ते चक्रवाकमिथुनानि।’ अत्र विघटनं संबन्धभेदाद्भिन्नं न तु श्लिष्टम्। एतद्विशेषणपरिहारेण सहोक्तिमात्रं नालंकारः। यथा- अनेन सार्धं विहराम्बुराशेस्तीरेषु तालीवनमर्मरेषु’ इत्यादौ। एतान्येव कर्तृसाहित्ये उदाहरणानि। कर्मसाहित्ये यथा-

     ‘द्युजनो मृत्युना सार्धं यस्याजौ तारकामये।
     चक्रे चक्राभिधानेन प्रेष्येणाप्तमनोरथः ॥’

अत्र करोतिक्रियापेक्षया द्युजनस्य मृत्योश्च कर्मत्वम्। एषा च मालयापि भवन्ती दृश्यते। यथा-

     ‘उत्क्षिप्तं सह कौशिकस्य पुलकैः सार्धं मुखैर्नामितं
     भूपानां जनकस्य संशयधिया साकं समास्फालितम्।’
     वैदेह्या मनसा समं च सहसाकृष्टं ततो भार्गव-
     प्रौढाहंकृतिकन्दलेन च समं तद्भग्नमैशं धनुः ॥’

सहोक्तिप्रतिभटभृतां विनोक्तिं लक्षयति- विना कंचिदन्यस्य सदसत्त्वाभावो विनोक्तिः। सत्त्वस्य शोभनत्वस्य भावः शोभनत्वम्। एवमसत्त्वस्याशोभनत्वस्य भावोऽशोभनत्वम्। ते द्वे यत्र कस्यचिदसंनिधानान्निबध्येते सा द्विधा विनोक्तिः। अत्र च शोभनत्वाशोभनत्वसत्तायामेव वक्तव्यायामसत्तामुखेनाभिधानमन्यनिवृत्तिप्रयुक्ता तन्नि- वृत्तिरिति ख्यापनार्थम्। एवं च तदन्यनिवृत्तौ विधिरेव प्रकाशितो भवति। आद्या यथा-

     ‘विनयेन विना का श्रीः का निशा शशिना विना।
     रहिता सत्कवित्वेन कीदृशी वाग्विदग्धता ॥’

अत्र विनयाद्यसंनिधिप्रयुक्तश्रीविरहाद्यभिमानमुखेनाशोभनत्वमुक्तम्। अत्र विनाशब्दमन्तरेणापि विनार्थविवक्षा यथाकथंचिन्निमित्तीभवति। यथा सहोक्तौ सहार्थविवक्षा। एवं च

     ‘निरर्थकं जन्म गतं नलिन्या यया न दृष्टं तुहिनांशुबिम्बम्।
     उत्पत्तिरिन्दोरपि निष्फलैव न येन दृष्टा नलिनी प्रबुद्धा ॥’

इत्यादौ विनोक्तिरेव। तुहिनांशुदर्शनं विना नलिनीजन्मनोऽशोभनत्वप्रतीतेः। इयं च परस्परविनोक्तिभङ्ग्या चमत्कारातिशयकृत्। यथोदाहृते विषये। द्वितीया यथा-

     ‘मृगलोचनया विना विचित्रव्यवहारप्रतिभाप्रभाप्रगल्भः।
     अमृतद्युतिसुन्दराशयोऽयं सुहृदा तेन विना नरेन्द्रसूनुः ॥’
     अत्राशोभनत्वाभावः शोभनपदार्थप्रक्षेपभङ्ग्योक्तः। सैषा द्विधा विनोक्तिः।

अघुना विशेषणविच्छित्त्याश्रयेणालंकारद्वयमुच्यते। तत्रादौ विशेषणसाम्यावष्टम्भेन समासोक्तिमाह- विशेषणानां साम्यादप्रस्तुतस्य गम्यत्वे समासोक्तिः। इह प्रस्तुताप्रस्तुतानां क्वचिद्वाच्यत्वं क्वचिद्गम्यत्वमिति द्वैविध्यम्।वाच्यत्वं च श्लेषनिर्देशभङ्ग्या पृथगुपादानेन वेत्यपि द्वैविध्यम्।एतद्द्विभेदमपि श्लेषालंकारस्य विषयः। गम्यत्वं तु प्रस्तुतनिष्ठमप्रस्तुतप्रशंसाविषयः अप्रस्तुतनिष्ठं तु समासोक्तिविषयः। तत्र च निमित्तं विशेषणसाम्यम्। विशेषस्यापि साम्ये श्लेषप्राप्तेः। विशेषणसाम्याद्धि प्रतीयमानमप्रस्तुतं प्रस्तुतावच्छेदकत्वेन प्रतीयते। अवच्छेकत्वं च व्यवहारसमारोपो न रूपसमारोपः। रूपसमारोपे त्वावच्छादितत्वेन प्रकृतस्य तद्रूपरूपित्वादेव रूपकम्। ततश्च विशेषणसाम्यं श्लिष्टतया साधारण्येनौपम्यगर्भत्वेन च भावात्त्रिधा भवति। तत्र श्लिष्टतया यथा-

     ‘उपोढरागेण विलोलतारकं तथा गृहीतं शशिना निशामुखम्।
     यथा समस्तं तिमिरांशुकं तया पुरोऽपि रागाद्गलितं न लक्षितम् ॥’
     अत्र निशाशशिनोः श्लिष्टविशेषणमहिम्ना नायकव्यवहारप्रतिपत्तिः।

अपरित्यक्तस्वरूपयोर्निशाश शिनोर्नायकनायिकाख्यधर्मविशिष्टयोः प्रतीतेः। साधारण्येन यथा-

     ‘तन्वी मनोरमा बाला लोलाक्षी पुष्यहासिनी।
     विकासमेति सुभग भवद्दर्शनमात्रतः ॥’

अत्र तनुत्वादिविशेषणसाम्याल्लोलाक्ष्या लताव्यवहारप्रतीतिः। तत्र च लतैकगामिविकासाख्यधर्मसमारोपः कारणम्। अन्यथा विशेषणसाम्यमात्रेण नियतलता-व्यवहारस्याप्रतीतेः।विकासश्च प्रकृते उपचारतो ज्ञेयः। एवं च कार्यसमारोपेऽपि ज्ञेया। इयं च समासोक्तिः पूर्वापेक्षया अस्पष्टा। औपम्यगर्भत्वेन यथा-

     ‘दन्तप्रभापुष्पचिता पाणिपल्लवशोभिनी।
     केशपाशालिवृन्देन सुवेषा हरिणेक्षणा ॥'

अत्र दन्तप्रभा पुष्पाणीवे‍ति सुवेषत्ववशादुपमागर्भत्वेन च कृते समासे पश्चाद्दन्तप्रभासदृशैः पुष्पैश्चितेति समासान्तराश्रयणेन समानविशेषणमाहात्म्याल्लता व्यवहारप्रतीतिः। अत्रैव ‘परीता हरिणेक्षणा’ इति पाठे उपमारूपकसाधकबाधकाभावात्संक रसमाश्रयेण कृते योजने पश्चात्पूर्ववत्स- मासान्तरमहिम्ना लताप्रतीतिर्ज्ञेया। रूपकगर्भत्वेन तु समासान्तराश्रयणा- त्समानविशेषणत्वं भवदपि न समासोक्तेः प्रयोजकम्। एकदेशविवर्तिरूपक- मुखेनैवार्थान्तरप्रतीतेस्तस्या वैयर्थ्यात्। न च पूर्वदर्शितोपमासंकरविषये एष न्यायः। उपमाससंकरयोरेकदेशविवर्तिनोरभावात्।तच्चैकदेशविवर्तिरूपकमश्लेषेण श्लेषेण च भवतीति द्विविधम्। अश्लिष्टं यथा-

     ‘निरीक्ष्य विद्युन्नयनैः पयोदो मुखं निशायामभिसारिकायाः।
     धारानिपातैः सह किं नु वान्तश्चन्द्रोऽयमित्यार्ततरं ररास ॥’

अत्र निरीक्षणानुगुण्याद्विद्युन्नयनैरिति रूपके पयोदस्य द्रष्टृपुरुषनिरूपणमार्ततरं ररासेत्यत्र प्रतीयमानोत्प्रेक्षाया निमित्तत्वं भजते। श्लिष्टं यथा-

     ‘मदनगणनास्थाने लेख्यप्रपञ्चमुदञ्चय-
     न्निव किल बृहत्पत्रन्यस्तद्विरेफमषीलवैः।
     कुटिललिपिभिःकं कायस्थं न नाम विसूत्रय-
     न्व्यधित विरहिप्राणेष्वायव्ययावधिकं मधुः ॥’

अत्र हि पत्रलिपिकायस्थशब्देषु श्लेषगर्भं रूपकं द्विरेफमषीलवैरित्येतद्रूपकनिमित्तम्। अस्य च प्रचुरः प्रयोगविषय इति न समासोक्तिबुद्धिः कार्या। तदेवं श्लिष्टविशेषणसमुत्थापितैका। साधारणविशेषणसमुत्थापिता धर्मकार्यसमारोपाभ्यां द्विभेदा। औपम्यगर्भविशेषणसमुत्थापितोपमा संकरसमासाभ्यां द्विभेदा। रूपकसमाश्रयेण तु भेदद्वयमस्या न विषयः। तदेवं पञ्चप्रकारा समासोक्तिः। इयं च शुद्धकार्यसमारोपेण विशेषणसाम्येनो- भयमयत्वेन प्रथमं त्रिधा समासोक्तिः। विशेषणसाम्यं च पञ्चप्रकारं निर्णीतम्। सर्वत्र चात्र व्यवहारसमारोप एव जीवितम्। स च लौकिके वस्तुनि लौकिकवस्तुव्यवहारसमारोपः। शास्त्रीये वस्तुनि शास्त्रीयवस्तुव्यवहारसमारोपः। लौकिके वा शास्त्रीयवस्तुव्यवहारसमारोपः। शास्त्रीये वा लौकिकवस्तुव्यवहारसमारोप इति चतुर्धा भवति। तदेवं बहुप्रकारा समासोक्तिः। तत्र शुद्धकार्यसमारोपेण यथा-

     ‘विलिखति कुचावुच्चैर्गाढं करोति कचग्रहं
     लिखति ललिते वक्त्रे पत्रावलीमसमञ्जसाम्।
     क्षितिप खदिरः श्रोणीबिम्बाद्विकर्षति चांशुकं
     मरुभुवि हठान्नश्यन्तीनां तवारिमृगीदृशाम् ॥’

अत्र पत्रावलीविलेखनादिशुद्धकार्यसमारोपात्खदिरस्य हठकामुकत्वप्रतीतिः। विशेषणसाम्येनोदाहृतम्। उभयमयत्वेन यथा-

     ‘निर्लूनान्यलकानि पाटितमुरः कृत्स्नोऽधरः खण्डितः
     कर्णे रुग्जनिता कृतं च नयने नीलाब्जकान्ते क्षतम्।
     यान्तीनामतिसंभ्रमाकुलपदन्यासं मरौ नीरसैः
     किं किं कण्टकिभिः कृतं न तरुभिस्‍त्वद्वैरिवामभ्रुवाम् ॥’

अत्र नीरसैः कण्टकिभिरिति विशेषणसाम्यम्। निर्लूनान्यलकानीत्यादिश्च कार्यसमारोपः। व्यवहारसमारोपप्रकारचतुष्टये क्रमेणोदाहरणं यथा-

     द्यामालिलिङ्ग मुखमाशु दिशां चुचुम्ब
     रुद्धाम्बरां शशिकलामलिखत्काराग्रैः।
     अन्तर्निमग्नचरपुष्पशरोऽतितापा-
     त्किं किं चकार तरुणो न यदीक्षणाग्निः ॥’
     लौकिकं च वस्तु रसादिभेदान्नानाभेदं स्वयमेवोत्प्रेक्ष्यम्।
     ‘यैरेकरूपमखिलास्वपि वृत्तिषु त्वां
     पश्यद्भिरव्ययमसंख्यतया प्रवृत्तम्।
     लोपः कृतः किल परत्वजुषो विभक्ते-
     स्तैर्लक्षणं तव कृतं ध्रुवमेव मन्ये ॥’
     अत्रागमशास्त्रप्रसिद्धे वस्तुनि व्याकरणप्रसिद्धवस्तुसमारोपः।
     सीमानं न जगाम यन्नयनयोर्नान्येन यत्संगतं
     न स्पृष्टं वचसा कदाचिदपि यद्दृष्टोपमानं न यत्।
     अर्थादापतितं न यन्न च न यत्तत्किंचिदेणीदृशां
     लावण्यं जयति प्रमाणरहितं चेतश्चमत्कारकृत् ॥’

अत्र लावण्ये लौकिके मीमांसाशास्त्रप्रसिद्धवस्तुसमारोपः। एवं तर्कायुर्वेदज्योतिः- शास्त्रप्रसिद्धवस्तुसमारोपो बोद्धव्यः।

     स्वपक्षलीलाललितैरुपोढहेतौ स्मरे दर्शयतो विशेषम्।
     मानं निराकर्तुमशेषयूनां पिकस्य पाण्डित्यमखण्डमासीत् ॥’
     अत्र तर्कशास्त्रप्रसिद्धवस्तुसमारोपः। पाण्डित्यशब्दः प्रकृते लक्षणया व्याख्येयः।
     ‘मन्दमग्निमधुरर्यमोपला दर्शितश्वयथु चाभवत्तमः।
     दृष्टयस्तिमिरजं सिषेविरे दोषमोषधिपतेरसंनिधौ ॥’

अत्रायुर्वेदप्रसिद्धवस्तुसमारोपः।

     ‘गण्डान्ते मददन्तिनां प्रहरतः क्ष्मामण्डले वैधृते
     रक्षामाचरतः सदा विदधतो लाटेषु यात्रोत्सवम्।
     पूर्वामत्यजतः स्थितिं शुभकरीमासेव्यमानस्य ते
     वर्धन्ते विजयश्रियः किमिव न श्रेयस्विनां मङ्गलम् ॥’
     अत्र ज्योतिःशास्त्रप्रसिद्धवस्तुसमारोपः।
      ‘प्रसर्पत्तात्पर्यैरपि सदनुमानैकरसिकै-
     रपि ज्ञेयो यो नो परिमितगतित्वं परिजहत्।
     अपूर्वव्यापारो गुरुवरबुधैरित्यवसितो
     न वाच्यो नो लक्ष्यस्तव सहृदयस्थो गुणगणः ॥’

अत्र भरतादिशास्त्रप्रसिद्धवस्तुसमारोपः। तथा ह्यत्र गुणगणगतत्वेन श्रृङ्गारादिरसव्यवहारः प्रतीयते। यतो रसो न तात्पर्यशक्तिज्ञेयः।नाप्यनुमानविषयः। न शब्दैरभिधाव्यापारेण वाच्यीकृतः। न लक्षणागोचरः। किं तु विगलितवेद्यान्तरत्वेन परिहृतपारिमित्यो व्यञ्जनलक्षणापूर्व-व्यापारविषयतोऽनुकार्यानुकर्तृगतत्वपरिहारेण सहृदयगत इति प्रसर्पत्तात्पर्यैरित्यादिपदै रस एव प्रतीयते। एवमन्यदपि ज्ञेयम्।

     ‘पश्यन्ती त्रपयेव यत्र तिरयत्यात्मानमभ्यन्तरे
     यत्र त्रुट्यति मध्यमापि मधुरध्वन्युज्जिघासारसात्।
     चाटूच्चारणचापलं विदधतां वाक्तत्र बाह्या कथं
     देव्या ते परया प्रभो सह रहः क्रीडादृढालिङ्गने ॥’

अत्रागमप्रसिद्धे वस्तुनि लौकिकवस्तुव्यवहारसमारोपः। लौकिकवस्तुव्यवहारश्च रसादिभेदाद्बहुभेद इत्युक्तं प्राक्। तत्र शुद्धकार्यसमारोपे कार्यस्य विशेषणत्वमौपचारिक- माश्रित्य विशेषणसाम्यादिति लक्षणं पूर्वशास्त्रानुसारेण विहितं यथाकथंचिद्योज्यम्। इह तु

     ‘ऐन्द्रं धनुः पाण्डुपयोधरेण शरद्दधानार्द्रनखक्षताभम्।
     प्रसादयन्ती सकलङ्कमिन्दुं तापं रवेरभ्यधिकं चकार ॥’

इत्यत्रास्ति तावद्रविशशिनोर्नायकत्वप्रतीतिः। न चात्र विशेषणसाम्यमिति सा कुतस्त्या। प्रसादयन्ती सकलङ्कमिन्दुमिति विशेषणसाम्याच्छरदो नायिकात्वप्रतीतौ तदानुगुण्यात्तयोः समासोक्त्या नायकत्वप्रतीतिरिति चेत् आर्द्रनखक्षताभमैन्द्रं धनुर्दधानेत्येतद्विशेषणं कथं साम्येन निर्दिष्टम्। न चैकदेशविवर्तिन्युपमोक्ता यत्सामर्थ्यान्नायकत्वप्रतीतिः स्यात्। तत्कथमत्र व्यवस्था। उच्यते- एकदेशविवर्तिन्युपमा यदि प्रतिपदं नोक्ता तदा सा केन प्रतिषिद्धा। सामान्यलक्षणद्वारेणायातायास्तस्या अत्रापि संभवात्। अथात्र नोपमानत्वेन नायकः स्परूपेण प्रतीयते तथापि रविशशिनोरेवनायकव्यवहारप्रतीतिः। तयोरत्र नायकत्वात्। तदत्रार्द्रनखक्षताभमित्यत्र स्थितमपि श्रुत्योपमानत्वं वस्तुपर्यालोचनया ऐन्द्रे धनुषि संचारणीयम्। इन्द्रचापाभं नखक्षतं दधानेति प्रतीतेः। यथा ‘दध्ना जुहोति’ इत्यादौ दध्नि संचार्यते विधिः एवमियमुपमानुप्राणिता समासोक्तिरेव। इह तु पुनः

     ‘नेत्रैरिवोत्पलैः पद्मैर्मुखैरिव सरःश्रियः।
     पदे पदे विभान्ति स्म चक्रवाकैः स्तनैरिव॥’

इत्यत्र सरःश्रियां नायिकात्वप्रतीतिर्न समासोक्त्या। विशेषणसाम्याभावात्। तस्मान्नायिकात्रोपमानत्वेन प्रतीयते न तु सरःश्रीधर्मत्वेन नायिकात्वप्रतीति रित्येकदेशविवर्तिन्युपमैवाभ्युपगम्या।गत्यन्तरासंभवात्। यैस्तु नोक्ता तेषामुपमाख्ययैव।यत्र तु ‘केशपाशालिवृन्देन’ इत्यादौ समासोक्तायामुपमायां समासान्तरेण विशेषणसाम्यं योजयितुं शक्यं तत्रौपम्यगर्भविशेषणप्रभाविता समासोक्तिरेवेति न विरोधः कश्चित्। सा च समासोक्तिरर्थान्तरन्यासेन क्वचित्समर्थ्यगतत्वेन क्वचित्समर्थकगतत्वेन भवति। क्रमेण यथा-

     ‘अथोपगूढे शरदा शशाङ्के प्रावृड्ययौ शान्ततडित्कटाक्षा।
     कासां न सौभाग्यगुणोऽङ्गनानां नष्टः परिभ्रष्टपयोधराणाम् ॥’
     ‘असमाप्तजिगीषस्य स्त्रीचिन्ता का मनस्विनः।
     अनाक्रम्य जगत्सर्वं नो संध्यां भजते रविः ॥’

अत्रोपगूढत्वेन शान्ततडित्कटाक्षत्वेन च शशाङ्कशरदोर्नायकव्यवहारप्रतीतौ समासोक्त्यालिङि्गत एवार्थो विशेषरूपः सामान्याश्रयेणार्थान्तरन्यासेन समर्थ्यते। सामान्यस्य चात्र श्लेषवशादुत्थानम्। शान्ततडित्कटाक्षेत्यौपम्यगर्भं विशेषणं समासान्तराश्रयेणात्र समानम्। असमाप्तेत्यादौ तु स्त्रीशब्दस्य सामान्येन स्त्रीत्वमात्राभिधानात्सामान्यरूपोऽर्थो लिङ्गविशेषनिर्देशगर्भेण कार्योपनिबन्ध- नेनोत्थापितया समासोक्त्या समारोपितनायकव्यवहारेण रविसंध्यावृत्तान्तेन विशेषरूपेण समर्थ्यते।

     आकृष्टिवेगविगलद्भुजगेन्द्रभोगनिर्मोकपट्टपरिवेषतयाम्बुराशेः।
     मन्थव्यथाव्युपशमार्थमिवाशु यस्य मन्दाकिनी चिरमवेष्टत पादमूले ॥’

अत्र निर्मोकपट्टापह्नवेन समारोपिताया मन्दाकिन्या यद्वस्तुवृत्तेन पादमूले वेष्टनं तच्चरणमूले वेष्टनत्वेन श्लेषमूलयातिशयोक्त्याध्यवसीयते। तत्तथाध्यवसितं मन्थव्यथाव्युपशमार्थमिवेत्युत्प्रेक्षामुत्थापयति सोत्थाप्यमानैवाम्बुराशिमन्दाकिन्योः पतिपत्नीव्यवहाराश्रयां समासोक्तिं गर्भीकरोति। एवं चोत्प्रेक्षासमासोक्त्योरेकः कालः। एवं ‘नखक्षतानीव वनस्थलीनाम्’ इत्यत्रापि वनस्थलीनां नायिकाव्यवहार उत्प्रेक्षान्तरानुप्रविष्टसमासोक्तिमूल एव। एवमियं समासोक्तिरनन्तप्रपञ्चेत्यनया दिशा स्वयमुत्प्रेक्ष्या। विशेषणसाभिप्रायत्वं परिकरः। विशेषणवैचित्र्यप्रस्तावादस्येह निर्देशः। विशेषणानां साभिप्रायत्वं प्रतीय- मानार्थगर्भीकारः अत एव प्रसन्नगम्भीरपदत्वान्नायं ध्वनेर्विषयः। एवं च प्रतीयमानांशस्य वाच्योन्मुखत्वात्परिकर इति सार्थकं नाम। यथा-

     ‘राज्ञो मानधनस्य कार्मुकभृतो दुर्योधनस्याग्रतः
     प्रत्यक्षं कुरुबान्धवस्य मिषतः कर्णस्य शल्यस्य च।
     पीतं तस्य मयाद्य पाण्डववधूकेशाम्बराकर्षिणः
     कोष्णं जीवत एव तीक्ष्णकरक्षुण्णादसृग्वक्षसः ॥’

अत्र राज्ञ इत्यादौ सोत्प्राशपरत्वं प्रसन्नगम्भीरपदत्वम्। एवम् ‘अङ्गराज सेनापते राजवल्लभ द्रोणोपहासिन्कर्ण, सांप्रतं रक्षैनं भीमाद्दुःशासनम्’ इत्यादौ ज्ञेयम्। विशेष्यस्यापि साम्ये द्वयोर्वोपादाने श्लेषः। केवलविशेषणसाम्यं समासोक्तावुक्तं विशेष्ययुक्तविशेषणसाम्यं त्वधिकृत्येदमुच्यते। तत्र द्वयोः प्राकरणिकयोरप्राकरणिकयोः प्राकरणिकाप्राकरणिकयोर्वा श्लिष्टपदोपनिबन्धे श्लेषः।तत्राद्यं प्रकारद्वयं विशेषणविशेष्यसाम्य एव भवति। तृतीयस्तु प्रकारो विशेषणसाम्य एव भवति। विशेष्यसाम्ये त्वर्थप्रकरणादिना वाच्यार्थनियमेऽर्थान्तरगतध्वनेर्विषयः स्यात्। आद्ये तु प्रकारद्वये द्वयोरप्यर्थयोर्वाच्यत्वम्। अत एवाह- ‘द्वयोर्वोपादाने’ इति तृतीयप्रकारविषयत्वेनोक्तम्। ‘विशेष्यस्यापि साम्ये’ इति तु शिष्टप्रकारद्वयविषयम्। क्रमेण यथा-

     ‘येन ध्वस्तमनोभवेन बलिजित्कायः पुरास्त्रीकृतो
     यश्चोद्वृत्तभुजंगहारवलयो गङ्गां च योऽधारयत्।
     यस्याहुः शशिमच्छिरोहर इति स्तुत्यं च नामामराः
     पायात्स स्वयमन्धकक्षयकरस्त्वां सर्वदोमाधवः ॥’
     ‘नीतानामाकुलीभावं लुब्धैर्भूरिशिलीमुखैः।
     सदृशे वनवृद्धानां कमलानां तदीक्षणे ॥’
     ‘स्वेच्छोपजातविषयोऽपि न याति वक्तुं
     देहीति मार्गणशतैश्च ददाति दुःखम्।
     मोहात्समाक्षिपति जीवनमप्यकाण्डे
     कष्टं मनोभव इवेश्वरदुर्विदग्धः ॥’

अत्र हरिहरयोर्द्वयोरपि प्राकरणिकत्वम्। पद्मानां मृगाणां चोपमानत्वाद- प्राकरणिकत्वम्। ईश्वरमनोभवयोः प्राकरणिकाप्राकरणिकत्वम्। एष च शब्दार्थोभयगतत्वेन वर्तमानत्वात्त्रिविधः। तत्रोदात्तादिस्वरभेदात्प्रयत्नभेदाच्च शब्दान्यत्वे शब्दश्लेषः। यत्र प्रायेण पदभङ्गो भवति। अर्थश्लेषस्तु यत्र स्वरादिभेदो नास्ति। अत एव न तत्र सभङ्गपदत्वम्। संकलनया तूभयश्लेष:। यथा-

     ‘रक्तच्छदत्वं विकचा वहन्तो नालं जलैः संगतमादधानाः।
     निरस्य पुष्पेषु रुचिं समग्रां पद्मा विरेजुः श्रमणा यथैव ॥’
     अत्र रक्तच्छदत्वमित्यादावर्थश्लेषः। नालमित्यादौ शब्दश्लेषः।
     (उभयघटनायामुभयश्लेषः।) ग्रन्थगौरवभयात्तु पृथङ्नोदाहृतम्।

एष च नाप्राप्तेष्वलंकारान्तरेष्वारभ्यमाणस्त द्बाधकत्वेन तत्प्रतिभोत्पत्तिहेतुरिति केचित्। ‘येन ध्वस्तमनोभवेन बलिजित्कायः पुरा स्त्रीकृतः’ इत्यादौ विविक्तोऽस्य विषय इति निरवकाशत्वाभावान्नान्यबाधकत्वमित्यन्यैः सह संकरः। दुर्बलत्वाभान्नान्यबाधकत्व (ध्यत्व) मित्यन्ये। तत्र पूर्वेषामयमभिप्रायः। इह प्राकरणिकाप्राकरणिकोभयरूपानेकार्थगोचरत्वेन तावत्प्रतिष्ठितोऽयमलंकारः। तत्राद्यं प्रकारद्वयं तुल्ययोगिताया विषयः।तृतीये तु प्रकारे दीपकं भवतीति तावदलंकारद्वयमिदं श्लेषविषये व्याप्त्या व्यवतिष्ठते। तत्पृष्ठे चालंकारान्तराणामुत्थापनमिति नास्ति विविक्तोऽस्य विषयः। अत एवालंकारान्तराणां बाधितत्वात्प्रतिभानमात्रेणावस्थानम्।‘येन ध्वस्तमनोभवेन’ इत्यादौ च प्राकरणिकत्वादर्थद्वयस्य तुल्ययोगितायाः प्रतिभानम्।अलंकार्यालंकरणभावस्य लोकवदाश्रयाश्रयिभावेनोपपत्तेः। ‘रक्तच्छदत्वं’ इत्यादावर्थद्वयाश्रितत्वादयमर्थालंकारः। ‘नालं’ इत्यादौ तु शब्दद्वयाश्रितत्वाच्छब्दा-लंकारोऽयम्। यद्यप्यर्थभेदाच्छब्दभेद इति दर्शने ‘रक्तच्छदत्वं’ इत्यादावपि शब्दाश्रितोऽयं तथाप्यौपपत्तिकत्वादत्र शब्दभेदस्य प्रतीतेरेकतावसायान्नास्ति शब्दभेदः। ‘नालं’ इत्यादौ तु प्रयत्नादिभेदात्प्रातीतिक एव शब्दभेदः। अतश्च पूर्वत्रैकवृन्तगतफल-द्वयन्यायेनार्थद्वयस्य शब्दश्लिष्टत्वम्।अपरत्र जतुकाष्ठन्यायेन स्वयमेव श्लिष्टत्वम्। पूर्वत्रान्वयव्यतिरेकाभ्यां शब्दहेतुकत्वाच्छब्दा लंकारत्वमिति चेत्, न। आश्रयाश्रयिभावेनालंकारत्वस्य लोकवद्व्यवस्थानात्।एवं च ‘सकलकलं पुरमेतज्जातं संप्रति सुधांशुबिम्बमिव’ इत्यादौ न गुणक्रियासाम्यवच्छब्द- साम्यमुपमाप्रयोजकमपि तूपमाप्रतिभोत्पत्तिहेतुः श्लेष एवावसेयः। श्लेषगर्भे तु रूपके रूपकहेतुकस्य श्लेषस्य तृतीयकक्षायां रूपक एव विश्रान्तिरिति रूपकेण श्लेषो बाध्यते। श्लिष्टविशेषणनिबन्धनायां च समासोक्तौ विशेष्यस्यापि गम्यत्वाच्छ्लेषस्य बाधिका समासोक्तिः। इह तु

     ‘त्रमीमयोऽपि प्रथितो जगत्सु यद्वारुणीं प्रत्यगमद्विवस्वान्।
     मन्येऽस्तशैलात्पतितोऽत एव विवेश शुद्ध्यै वडवाग्निमध्यम्॥’

अत्र श्लोके विवस्वतो वस्तुवृत्तसंभवि अधःप्रदेशसंयोगलक्षणं यत्पतितत्वं यच्च वडवाग्निमध्यप्रवेशस्ते द्वे अपि त्रयीमयत्वसंबन्धिवारुणीगमनरूपविरुद्धाचरणहेतुकाभ्यां पतितत्वाग्निप्रवेशाभ्यामतिशयोक्त्या श्लेषमूलया अभेदेनाध्यवसिते। सोऽयमतत्क्रिया- योगः। तद्धेतुका च मन्ये अत एव विशुद्ध्यै इत्युत्प्रेक्षा(क्षया) अत्रात एवेति परामृष्टो विरोधालंकारालंकृतोऽर्थोहेतुत्वेनोत्प्रेक्ष्यते।विशुद्ध्यै इति च फलत्वेन। ततश्च हेतुफलयोर्द्वयोरप्यत्रोत्प्रे क्षा। विरोधालंकारस्य च विरोधाभासत्वं लक्षणम्। अतो विरोधाभासनसमय एव हेतुफलोत्प्रेक्षयो रुत्थानम्। उत्तरकालं तु विरोधसमाधिः। श्लेषस्य च सर्वालंकारापवादत्वाद्विरोधप्रतिभोत्पत्तिहेतुरयं श्लेषः। यत्र तु प्रस्तुताभिधेयरपत्वेऽपि वाक्यस्य श्लिष्टपदमहिम्ना वक्ष्यमाणार्थनिष्ठमुपक्षेपापराभिधान- सूचकत्वं तत्र किं श्लेष उत शब्दशक्तिमूलध्वनिरिति विचार्यते- तत्र न तावच्छ्लेषः। अर्थद्वयस्यान्वितत्वेनाभिधेयतया वक्तुमनिष्टेः।नापि ध्वनिः। उपक्षेप्यस्यार्थ स्यासंबद्धत्वाभावात्तेन सहोपमानोपमेयत्वस्याविवक्षणात्। न चान्या गतिरस्ति तदत्र किं कर्तव्यम्। उच्यते- श्लेषस्योक्तनयेनाप्रवृत्तेर्ध्वनेरेवायं विषय इति निश्चयः। तथाहि शब्दशक्तिमूले ध्वनावर्थान्तरस्यासंबद्धत्वात्संबन्धार्थमौपम्यं कल्प्यते स च संबन्धः प्रकारान्तरेणौपम्यपरिहारेण यद्यप्युपपादयितुं शक्यः स्यात् तत्कोऽयमभिनिवेशस्तत्र। उपमाध्वनौ वस्तुध्वनिरपि संबन्धान्तरेण तत्र समीचीनः स्यात् । अत एव

     ‘अलंकारोऽथ वस्त्वेव शब्दाद्यत्रावभासते।
     प्रधानत्वेन स ज्ञेयः शब्दशक्त्युद्भवो द्विधा॥

इति न्यायभवनबन्धेन द्विधा शब्दशक्त्युद्भव उक्तः। एवं प्रकृतेऽपि यत्र सूचनाव्यापारोऽस्ति तत्र शब्दशक्तिमूलो वस्तुध्वनिर्बोद्धव्यः। यथा-

     ‘सद्यः कौशिकदिग्विजृम्भणवशादाकाशराष्ट्रं रसा-
     त्त्यक्त्वा धूसरकान्तिवल्कलधरो राजास्तशैलं ययौ।
     तत्कान्ताप्यथ सान्त्वयत्यलिकुलध्वानैः समुल्लासिभिः
     क्रन्दन्तं कुमुदाकरं सुतमिव क्षिप्रं प्रतस्थे निशा॥’ इति।

हरिश्चन्द्रचरितेऽत्र प्रभातवर्णनानुगुण्येन राजशब्दाभिधेयेऽस्तमुपेयुषि चन्द्रे रोहिताश्वाख्यतनयसहितया उशीनर्या वध्वा युक्तस्य हरिश्चन्द्रस्य राज्ञो विश्वामित्रसंपादितोपद्रववशात्प्रातः स्वराष्ट्रं त्यक्त्वा वाराणसीं प्रति गमनं सूचितं स्यात्। तथा च कौशिकशब्दः प्रकृते इन्द्रोलूकयोर्वर्तते। सूचनीयार्थविषयत्वेन तु विश्वामित्रवृत्तिः। वल्कलसुताभ्यां त्वौपम्यं सूचनीयार्थनैरपेक्ष्येण सादृश्यसंभवमात्रेण संभवनीयम्। अतश्च प्रकृतेन सूचनीयस्य संबन्धाच्छब्दशक्तिमूलो वस्तुध्वनिरयम्। इह च

     ‘आकृष्यादावमन्दग्रहमलकचयं वक्त्र्मासज्य वक्त्रे 
     कण्ठे लग्नः सुकण्ठः प्रभवति कुचयोर्दत्तगाढाङ्गसङ्गः।
     बद्धासक्तिर्नितम्बे पतति चरणयोर्यः स तादृक्प्रियो मे
     बाले लज्जा निरस्ता नहि नहि सरले चोलकः किं त्रपाकृत्॥

’इत्यलंकारान्तरविविक्तोऽयं श्लेषस्य विषय इति नाशङ्कनीयम्। अपह्नुतेरत्र विद्यमानत्वात्। वस्तुतोऽपह्नवस्य सादृश्यार्थमत्रप्रवृत्तेर्नायमपह्नुत्यलंकार इति चेत्, न। उभयथाप्यपह्नुतिसंभवात्। सादृश्यपर्यवसायिना वापह्नवेनापह्नवपर्यवसायिना वा सादृश्येन

     भूतार्थापह्नवस्योभयत्र विद्यमानत्वात्।
     ‘सादृश्यव्यक्तये यत्रापह्नवोऽसावपह्नुतिः।
     अपह्नवाय सादृश्यं यत्राप्येषाप्यपह्नुतिः॥’

इति संक्षेपः। आद्या स्वप्रस्ताव एवोदाहृता, द्वितीया तु संप्रति दर्शिता। तेनालंकारान्तरविविक्तो नास्य विषयोऽस्तीति सर्वालंकारापवादोऽयमिति स्थितम्। प्रस्तुतादप्रस्तुतप्रतीतौ समासोक्तिरुक्ता अधुना तद्वैपरीत्येनाप्रस्तुतात्प्रस्तुत- प्रतीतावप्रस्तुतप्रशंसोच्यते- अप्रस्तुतात्सामान्यविशेषभावे कार्यकारणभावे सारूप्ये च प्रस्तुतप्रतीताव-प्रस्तुतप्रशंसा। इह प्रस्तुतस्य वर्णनमेवायुक्तमप्रस्तुतत्वात्। प्रस्तुतपरत्वे तु कदाचित्तद्युक्तं स्यात्। न चाप्रस्तुतादसंबन्धे प्रस्तुतप्रतीतिः अतिप्रसङ्गात्। संबन्धे तु भवन्ती न त्रिविधं संबन्धमतिवर्तते। तस्यैवार्थान्तरप्रतीतिहेतुत्वोपपत्तेः। त्रिविधश्च संबन्धः - सामान्यविशेषभावःकार्यकारणभावः सारूप्यं चेति। सामान्यविशेषभावे सामान्याद्विशेषस्य विशेषाद्वा सामान्यस्य प्रतीतौ द्वैविध्यम्।कार्यकारणभावेऽप्यनयैव भङ्ग्याा द्विधात्वम्। सारूप्ये त्वेको भेद इत्यस्याः पञ्च प्रकाराः तत्रापि सारूप्यहेतुके भेदे साधर्म्यवैधर्म्याभ्यां द्वैविध्यम्। वाच्यस्य संभवासंभवोभयरूपताभिस्त्रयः प्रकाराः। श्लिष्टशब्दप्रयोगे त्वर्थान्तरस्यावाच्यत्वाच्छ्लेषाद्विशेषः। श्लेषे ह्यनेकस्यार्थस्य वाच्यत्वमित्युक्तं तत्र सामान्याद्विशेषस्य प्रतीतौ यथा-

     ता तत्थि किम्पि वइणो कम्पिअजणणित्ति अइगईणीव।
     अणवरदगमणमीलसकालअवरिअस्स पाहिज्जम्॥’

अत्र प्रहस्तवधे विशेषे प्रस्तुते सामान्यमभिहितम्। विशेषात्सामान्यप्रतीतौ यथा-

     ‘एतत्तस्य मुखात्कियत्कमलिनीपत्रे कणं पाथसो
     यन्मुक्तामणिरित्यमंस्त स जडः श्रृण्वन्यदस्मादपि।
     अङ्गुल्यग्रलघुक्रियाप्रविलयिन्यादीयमाने शनै-
     स्तत्रोड्डीय गतो हहेत्यनुदिनं निद्राति नान्तः शुचा॥’

अत्र जडानामस्थान एवोद्यम इति सामान्ये प्रस्तुते विशेषोऽभिहितः। कारणात्कार्यप्रतीतौ यथा-

     ‘पश्यामः किमियं प्रपद्यत इति स्थैर्यं मयालम्बितं
     किं मामालपतीत्ययं खलु शठः कोपस्तयाप्याश्रितः।
     इत्यन्योन्यविलक्षदृष्टिचतुरे तस्मिन्नवस्थान्तरे
     सव्याजं हसितं मया धृतिहरो वाष्पस्तु मुक्तस्तया॥’

अत्र धाराधिरूढो मानः कथं निवृत्त इति कार्ये प्रस्तुते निवृत्तिकारणमभिहितम्। कार्यात्कारणप्रतीतौ यथा-

     ‘इन्दुर्लिप्त इवाञ्जनेन जडिता दृष्टिर्मृगीणामिव
     प्रम्लानारुणिमेव विद्रुमरुचिः श्यामेव हेमप्रभा।
     कार्कश्यं कलयामि कोकिलवधूकण्ठेष्विव प्रस्तुतं
     सीतायाः पुरतश्च हन्त शिखिनां बर्हाः सगर्हा इव॥’

अत्र संभाव्यमानैरिन्द्वादिगतैरञ्जनलिप्तत्वादिभिः कार्यरूपैरप्रस्तुतैर्लोकोत्तरो वदनादिगतः सौन्दर्यातिशयः कारणरूपः प्रस्तुतः प्रतीयते। तेनेयमप्रस्तुतप्रशंसा। ननु कार्यात्कारणे गम्यमानेऽप्रस्तुतप्रशंसायामिष्यमाणायाम्-

     ‘येन लम्बालकः सास्रः कराघातारुणस्तनः।
     अकारि भग्नवलयो गजासुरवधूजनः॥’

इति। तथा-

     ‘चक्राभिघातप्रसभाज्ञयैव चकार यो राहुवधूजनस्य।
     आलिङ्गनोद्दामविलासशून्यं रतोत्सवं चुम्बनमात्रशेषम्॥’

इत्यादौ सुप्रसिद्धे पर्यायोक्तविषयेऽप्रस्तुतप्रशंसाप्रयोगः। अत्र हि गजासुरवधूगतेन लम्बालकत्वादिना कार्येण कारणभूतो गजासुरवधः प्रतीयते। तथा राहुवधूगतेन विशिष्टेन रतोत्सवेन राहुशिरश्छेदः कारणरूपो गम्यते। एवमन्यत्रापि पर्यायोक्तविषये ज्ञेयम्। तस्मादप्रस्तुतप्रशंसाविषयत्वात्पर्यायोक्तस्य निर्विषयत्वप्रसङ्गः। नैष दोषः। इह यत्र कार्यात्कारणं प्रतीयते तत्र कार्यं प्रस्तुतमप्रस्तुतं चेति द्वयी गतिः। यत्र यत्र प्रस्तुतत्वं कार्यस्य कारणवत्तस्यापि वर्णनीयत्वात्तत्र कार्यमुखेन कारणं पर्यायेणोक्तमिति पर्यायोक्तालंकारः। तत्र हि कारणापेक्षया कार्यस्यातिशयेन सौन्दर्यमिति तदेव वर्णितम्। यथोक्तोदाहरणद्वये। अत्र हि गजासुरवधूवृत्तान्तोऽपि भगवत्प्रभावजन्यत्वात्प्रस्तुत एव। एवं राहुवधूवृत्तान्तेऽपि ज्ञेयम्। ततश्च नायमप्रस्तुतप्रशंसाविषयः। यत्र पुनः कारणस्य प्रस्तुतत्वे कार्यमप्रस्तुतं वर्ण्यते तत्र स्पष्टैवाप्रस्तुतप्रशंसा यथा- ‘इन्दुर्लिप्त इवाञ्जनेन’ इत्यादौ। अत्र हि इन्द्वादयः स्फुटमेवाप्राकरणिकाः। तत्प्रतिच्छन्दभूतानां मुखादीनां प्राकरणिकत्वात्। तेनात्रेन्द्वादिगते नाञ्जनलिप्तत्वादिना अप्रस्तुतेन कार्येण प्रस्तुतं मुखादिगतं सौन्दर्यं सहृदयाह्लादकारि गम्यते इत्यत्राप्रस्तुतप्रशंसा।एवं च यत्र वाच्योऽर्थोऽर्थान्तरं तादृशमेव स्वोपस्कारकत्वेनागूरयति तत्र पर्यायोक्तम्। यत्र पुनः स्वात्मानमेवाप्रस्तुतत्वात्प्रस्तुतमर्थान्तरं प्रति समर्पयति तत्राप्रस्तुतप्रशंसेति निर्णयः। ततश्चानया प्रक्रियया

     ‘राजन्राजसुता न पाठयति मां देव्योऽपि तूष्णीं स्थिताः
     कुब्जे भोजय मां कुमारसचिवैर्नाद्यापि संभुज्यते।
     इत्थं राजशुकस्तवारिभवने मुक्तोऽध्वगैः पञ्जरा-
     च्चित्रस्थानवलोक्य शून्यवलभावेकैकमाभाषते॥’

इत्यत्र पर्यायोक्तमेव बोध्यम्। अन्ये तु दण्डयात्रोद्यतं त्वां बुद्ध्वा त्वदरयः पलाय्य गता इति कारणरूपस्यैवार्थस्य प्रस्तुतत्वात्कार्यरूपोऽर्थोऽप्रस्तुत एव राजशुकवृत्तान्तस्याप्रस्तुतत्वात्प्रस्तुतार्थं प्रति स्वात्मानं समर्पयतीत्यप्रस्तुतप्रशंसैवात्र न्याय्येति वर्णयन्ति। सर्वथा पर्यायोक्ताप्रस्तुतप्रशंसयोर्विषयविभागस्तु निरूपित एवेति स्थितम्। एतानि साधर्म्योदाहरणानि। वैधर्म्येण यथा-

     ‘धन्याः खलु वने वाताः कह्लारस्पर्शशीतलाः।
     राममिन्दीवरश्यामं ये स्पृशन्त्यनिवारिताः।।’

अत्र वाता धन्या इत्यप्रस्तुतादर्थादहमधन्य इति वैधर्म्येण प्रस्तुतोऽर्थः प्रतीयते। वाच्यस्य संभव उक्तान्येवोदाहरणानि। असंभवे यथा-

     ‘कस्त्वं भोः कथयामि दैवहतकं मां विद्धि शाखोटकं
     वैराग्यादिव वक्षि साधु विदितं कस्मादिदं कथ्यते।
     वामेनात्र वटस्तमध्वगजनः सर्वात्मना सेवते
     न च्छायापि परोपकारकृतये मार्गस्थितस्यापि मे॥’

अत्राचेतनेन सह प्रश्नोत्तरिका नोपपन्नेति वाच्यस्यासंभव एव। प्रस्तुतं प्रति तात्पर्यात्प्रमुख एव तदध्यारोपेण प्रतीतिरिति युज्यत एवैतत्। उभयरूपत्वे यथा-

     ‘अन्तश्छिद्राणि भूयांसि कण्टका बहवो बहिः।
     कथं कमलनालस्य मा भूवन्भङ्गुरा गुणाः॥’

अत्र वाच्येऽर्थे कण्टकानां भङ्गुरीकरणे हेतुत्वं संभवि च्छिद्राणां त्वसंभवीत्युभयरूपत्वम्। प्रस्तुतस्य तात्पर्येण प्रतीतेस्तदध्यारोपात्तत्र संगतमेवैतदिति नासमीचीनं किंचित्। एतदेव च श्लेषगर्भायामस्यामुदाहरणम्। तदत्र सामान्यविशेषत्वेन कार्यकारणत्वेन सारूप्येण च यद्भेदपञ्चकमुद्दिष्टं तत्र द्वयोः सामान्यविशेषयोः कार्यकारणयोश्च यदा वाच्यत्वं भवति तदार्थान्तरन्यासाविर्भावः। सरूपयोस्तु वाच्यत्वे दृष्टान्तः। अप्रस्तुतस्य वाच्यत्वे प्रस्तुतस्य गम्यत्बे सर्वथाप्रस्तुतप्रशंसेति निर्णयः। उक्तन्यायेन प्राप्तावसरमर्थान्तरन्यासमाह- सामान्यविशेषभावकार्यकारणभावाभ्यां निर्दिष्टप्रकृतसमर्थनमर्थान्तरन्यासः। निर्दिष्टस्याभिहितस्य समर्थनार्हस्य प्रकृतस्य समर्थकात्पूर्वं पश्चाद्वा निर्दिष्टस्य यत्समर्थनमुपपादनं न त्वपूर्वत्वेन प्रतीतिरनुमानरूपा सोऽर्थान्तरन्यासः। तत्र सामान्यं विशेषस्य विशेषो वा सामान्यस्य समर्थक इति द्वौ भेदौ। तथा कार्यं कारणस्य कारणं वा कार्यस्य समर्थकमित्यपि द्वौ भेदौ। तत्र भेदचतुष्टये प्रत्येकं साधर्म्यवैधर्म्याभ्यां भेदद्वयेऽष्टौ भेदाः। हिशब्दाभिधानानभिधानाभ्यां समर्थकपूर्वोपन्यासोत्तरोपन्यासाभ्यां च भेदान्तरसंभवेऽपि न तद्गणना सहृदयहृदयहारिणी। वैचित्र्यस्याभावात्। तस्माद्भेदाष्टकमेवेहोट्टङ्कितम्। क्रमेण यथा-

     ‘अनन्तरत्नप्रभवस्य यस्य हिमं न सौभाग्यविलोपि जातम्।
     एको हि दोषो गुणसंनिपाते निमज्जतीन्दोः किरणेप्विवाङ्कः॥’
     लोकोत्तरं चरितमर्पयति प्रतिष्ठां
     पुंसां कुलं नहि निमित्तमुदात्ततायाः।
     वातापितापनमुनेः कलशात्प्रसूति-
     र्लीलायितं पुनरमुद्रसमुद्रपानम्॥’
     ‘सहसा विदधीत न क्रियामविवेकः परमापदां पदम्।
     वृणते हि विमृष्यकारिणं गुणलुब्धाः स्वयमेव संपदः॥’

अत्र सहसाविधानाभावस्य विमृष्यकारित्वरूपस्य च कारणस्य संपद्वरणं कार्यं साधर्म्येण समर्थकम्। तस्यैवैतत्कार्यविरुद्धत्वमापत्पदत्वम्। सहसाविधानाभाव

     विरुद्धाविवेककार्यं वैधर्म्येण समर्थकम्।
     ‘पृथ्वि स्थिरा भव भुजंगम धारयैनां
     त्वं कूर्मराज तदिदं द्वितयं दधीथाः।
     दिक्कुञ्जराः कुरुत तत्त्रिंतये दिधीर्षां
     देवः करोति हरकार्मुकमाततज्यम्॥’

अत्र हरकार्मुकाततज्यीकरणं पृथ्वीस्थैर्यादिप्रवर्तकत्वे कारणं समर्थकत्वेनोक्तम्। वैधर्म्येण सामान्यविशेषभावो यथा-

     ‘अहो हि मे बह्वपराधमायुषा यदप्रियं वाच्यमिदं मयेदृशम्।
     त एव धन्याः सुहृदां पराभवं जगत्यदृष्ट्वैव हि ये क्षयं गताः॥’

अत्रायुःकर्तृकापराद्धत्वाक्षिप्तस्याधन्यत्वस्यायुर्विरुद्धक्षयगतिप्रयुक्तं धन्यत्वं विरुद्धं सामान्यरूपतया समर्थकत्वेनोक्तम्। कार्यकारणतायां वैधर्म्येणोदाहृतम्। हिशब्दाभिहित-त्वानभिहितत्वादिभेदाः स्वयमेव बोद्धव्याः। चारुत्वातिशयाभावान्नेह प्रदर्शिताः। एवमप्रस्तुतप्रशंसानुषङ्गायातमर्थान्तरमुक्त्वा गम्यमानप्रस्तावागतं पर्यायोक्त- मुच्यते- गम्यस्यापि भङ्ग्यन्तरेणाभिधानं पर्यायोक्तम्। यदेव गम्यत्वं तस्यैवाभिधाने पर्यायोक्तम्। गम्यस्य सतः कथमभिधानमिति चेत्, गम्यापेक्षया प्रकारान्तरेणाभिधानस्याभावात्। नहि तस्यैव तदैव तयैव विच्छित्त्या गम्यत्वं वाच्यत्वं च संभवति। अतः कार्यमुखद्वारेणाभिधानम्। कार्यादेरपि तत्र प्रस्तुतत्वेन वर्णनार्हत्वात्। अत एवाप्रस्तुतप्रशंसातो भेदः। एतच्च वितत्याप्रस्तुत- प्रशंसाप्रस्तावे निर्णीतमिति तत एवावधार्यम्। उदाहरणम्-

     ‘स्पृष्टास्ता नन्दने शच्याः केशसंभोगलालिताः।
     सावज्ञं पारिजातस्य मञ्जर्यो यस्य सैनिकैः॥’
     अत्र हयग्रीवस्य कार्यमुखेन स्वर्गविजयो वर्णितः। प्रभावातिशयप्रतिपादनं च।
     कारणादिव कार्यादपीति कार्यमपि वर्णनीयमेवेति पर्यायोक्तस्यायं विषयः।

गम्यत्वविच्छित्तिप्रस्तावाद्व्याजस्तुतिमाह- स्तुतिनिन्दाभ्यां निन्दास्तुत्योर्गम्यत्वे व्याजस्तुतिः। यत्र स्तुतिरभिधीयमानापि प्रमाणान्तराद्बाधितस्वरूपा निन्दायां पर्यवस्यति तत्रासत्यत्वाद्व्याजरूपा स्तुतिरित्यनुगमेन तावदेका व्याजस्तुतिः। यत्रापि निन्दाशब्देन प्रतिपाद्यमाना पूर्ववद्बाधितरूपा स्तुतिः पर्यवसिता भवति¬ सा द्वितीया व्याजस्तुतिः। व्याजेन निन्दामुखेन स्तुतिरिति कृत्वा। स्तुतिनिन्दारूपत्वस्य विच्छित्तिविशेषस्य भावादप्रस्तुतप्रशंसातो भेदः। क्रमेण यथा-

     ‘हे हेलाजितबोधिसत्त्व वचसां किं विस्तरैस्तोयधे
     नास्ति त्वत्सदृशः परः परहिताधाने गृहीतव्रतः।
     तृप्यत्पान्थजनोपकारघटनावैमुख्यलब्धायशो-
     भारप्रोद्वहने करोषि कृपया साहायकं यन्मरोः॥’
     अत्र विपरीतलक्षणया वाच्यवैपरीत्यप्रतीतिः।
     ‘इन्दोर्लक्ष्म त्रिपुरजयिनः कण्ठपीठी मुरारि-
     र्दिङ्नागानां मदजलमपीभाञ्जि गण्डस्थलानि।
     अद्याप्युर्वीवलयतिलक श्यामलिम्नानुलिप्ता-
     न्युद्भासन्ते वद धवलितं किं यशोभिस्त्वदीयैः॥’

अत्र धवलताहेतुयशोविषयानव क्लृप्तिप्रतिपादनेन ‘विशेषप्रतिषेधे शेपाभ्यनुज्ञानम्’ इति न्यायात्कतिपयपदार्थवर्जं समस्तवस्तुधवलताकारित्वं नृपयशसः प्रतीयते।

     ‘किं वृत्तान्तैः परगृहगतैः किं तु नाहं समर्थ-
     स्तूष्णीं स्थातुं प्रकृतिमुखरो दाक्षिणात्यस्वभावः।
     गेहे गेहे विपणिषु तथा चत्वरे पानगोष्ठ्या-
     मुन्मत्तेव भ्रमति भवतो वल्लभा हन्त कीर्तिः॥’

इत्यत्र प्रक्रान्तापि स्तुतिपर्यवसायिनी निन्दा हन्त कीर्तिरिति भणित्या

     उन्मूलितेति न प्ररोहं गमितेति श्लिष्टमेतदुदाहरणम्।

गम्यत्वमेव प्रकृतं विशेषविषयत्वेनोररीकृत्याक्षेपालंकार उच्यते- उक्तवक्ष्यमाणयोः प्राकरणिकयोर्विशेषप्रतीत्यर्थं निषेधाभास आक्षेपः। इह प्राकरणिकोऽर्थः प्राकरणिकत्वादेव वक्तुमिष्यते तथाविधस्य विधानार्हस्य निषेधः कर्तुं न युज्यते। स कृतो बाधितस्वरूपत्वान्निषेधायत इति निषेधाभासः सम्पन्न:। तस्यैतस्य करणं प्रकृतगतत्वेन विशेषप्रतिपत्त्यर्थम्। अन्यथा गजस्नानतुल्यं स्यात्। स चाभासमानोऽपि निषेधस्तत्रोक्तस्य वा स्यात् आसूत्रिताभिधानत्वेन वक्ष्यमाणस्य वा स्यात्। इत्याक्षेपस्य द्वयी गतिः। तत्रोक्तविषयत्वेन कैमर्थक्यपरमालोचनमाक्षेपः। वक्ष्यमाणविषयत्वेनानयन रूपमागूरणमाक्षेपः। एवं चार्थभेदादाक्षेपशब्दस्य द्वावाक्षेपाविति वदन्ति। तत्रोक्तविषये यस्यैवेष्टस्य निषेधस्तस्यैवाक्षेपः। वक्ष्यमाणविषये त्विष्टस्य निषेधः। इष्टसंबन्धिनस्त्वन्यस्य सामान्यरूपस्य विशेषः। तेनात्र लक्षणभेदः। विशेषस्य चात्र शब्दानुपात्तत्वाद्गम्यत्वम्। तत्रोक्तविषय आक्षेपे क्वचिद्वस्तु निषिध्यते क्वचिद्वस्तुकथनमिति द्वौ भेदौ। वक्ष्यमाणविषये तु वस्तुकथनमेव निषिध्यते। तच्च सामान्यप्रतिज्ञायां क्वचिद्विशेषनिष्ठत्वेन निषिध्यते क्वचित्पुनरंशोक्तावंशान्तर गतत्वेनेत्यत्रापि द्वौ भेदौ। तदेवमस्य चत्वारो भेदाः। शब्दसाम्यनिबन्धनं सामान्यविशेषभावमवलम्ब्य चात्र प्रकारिप्रकारभावप्रकल्पनम्। क्रमेण यथा-

     बालअ णाहं दूई तीअ पिओसि त्ति ण मह वावारो।
     सा मरइ तुज्झ अयसो एअं धम्मक्खरं भणिमो॥’
     ‘प्रसीदेति ब्रूयामिदमसति कोपे न घटते
     करिष्याम्येवं नो पुनरिति भवेदभ्युपगमः।’
     न मे दोषोऽस्तीति त्वमिदमपि हि ज्ञास्यसि मृषा
     किमेतस्मिन्वक्तुं क्षममिति न वेद्मि प्रियतमे॥’
     सुहअ विलम्बसु थोअं जाव इमं विरहकाअरं हिअअम्।
     संठविऊण भणिस्सं अहवा वोलेसु किं भणिमो॥
     ‘ज्योत्स्ना तमः पिकवचः क्रकचस्तुषारः
     क्षारो मृणालवलयानि कृतान्तदन्ताः।
     सर्वं दुरन्तमिदमद्य शिरीषमृद्वी
     सा नूनमाः किमथवा हतजल्पितेन॥’

आद्ये उदाहरणद्वये यथाक्रमं वस्तुनिषेधेन भणितिनिषेधेन चोक्तविषय आक्षेपः। तत्र चोक्तस्य दूतीत्वस्य वस्तुनो निषेधमुखेनैव वास्तवत्वादिर्विशेषः। तथा भण्यमानस्य प्रसादस्य निषेधमुखेनैव कोपोपरागनिवर्तनेनावश्यस्वीकार्यत्वं विशेषः। उत्तरस्मिन्पुनरुदाहरणद्वये यथाक्रमं सामान्यद्वारेणेष्टस्यांशोक्तावप्यंशान्तरस्य स्वरूपेण च भणितिनिषेधे वक्ष्यमाणविषय आक्षेपः। तत्र च वक्ष्यमाणस्येष्टस्य भणितिसमिति- प्रतिज्ञातस्य सातिशयात्कोपजनकत्वादिर्विशेषः। तथा चांशोक्तावंशान्तरस्य म्रियत इति प्रतिपाद्यस्याशक्यवचनीयत्वादिर्विशेषः। एवं च क्षिपे इष्टार्थस्तस्य निषेधः निषेधस्यानुपपद्यमानत्वादसत्यत्वं विशेषप्रतिपादनं चेति चतुष्टयमुपयुज्यते। तेन न निषेधविधिः न विहितनिषेधः। किंतु निषेधेन विधेराक्षेपः। निषेधस्यासत्यत्वा- द्विधिपर्यवसानात्। विधिना तु निषेधोऽस्य भेदत्वेन वक्ष्यते। तथा च हर्षचरिते- ‘अनुरूपो देव्याइत्यात्मसंभावना’ इत्यादौ, तथा ‘यामीति न स्नेहसदृशं’ इत्यादावुक्तविषय आक्षेपः। ‘केवलं बाल इति सुतरामपरित्याज्योऽस्मि। रक्षणीय इति भवद्भुजपञ्जरमेव रक्षास्थानम्’ इत्यादावाक्षेपबुद्धिर्न कार्या। बालत्वादेरुक्तस्य निषेधत्वेनाविवक्षितत्वात्। प्रत्युतात्र बाल्यादिपरित्यागनिषेधकत्वेन प्रतीयते। तेन नायमाक्षेपः। कस्तर्ह्ययं विच्छित्तिप्रकारोऽलंकार इति चेत्, व्याघाताख्यस्यालंकारस्यायं द्वितीयो भेदो वक्ष्यते।

     ‘तदिष्टस्य निषेध्यत्वमाक्षेपोक्तेर्निबन्धनम्।
     सौकर्येणान्यकृतये न निषेधकता पुनः॥’

इति पिण्डार्थः। इह तु-

     ‘साहित्यपाथोनिधिमन्थनोत्थं काव्यामृतं रक्षत हे कवीन्द्राः।
     यत्तस्य दैत्या इव लुण्ठनाय काव्यार्थचौराः प्रगुणीभवन्ति॥
     गृहन्तु सर्वे यदि वा यथेच्छं नास्ति क्षतिः कापि कवीश्वराणाम्।
     रत्नेषु लुप्तेषु बहुष्वमर्त्यैरद्यापि रत्नाकर एव सिन्धुः॥’

इति। तथा-

     ‘देया शिलापट्टकवाटमुद्रा श्रीखण्डशैलस्य दरीगृहेषु।
     वियोगिनीकण्टक एष वायुः कारागृहस्यास्तु चिरादभिज्ञ:॥
     बाणेन हत्त्वा मृगमस्य यात्रा निवार्यतां दक्षिणमारुतस्य।
     इत्यर्थनीयः शबराधिराजः श्रीखण्डपृथ्वीधरकंदरस्थः॥
     यद्वा मृषा तिष्ठतु दैन्यमेतन्नेच्छन्ति वैरं मरुता किराताः।
     केलिप्रसङ्गे शबराङ्गनानां स हि स्मरग्लानिमपाकरोति॥’

इति नाक्षेपबुद्धिः कार्या। विहितनिषेधो ह्ययम्। न चासावाक्षेपः। निषेधविधौ तस्य भावादित्युक्तत्वात्। चमत्कारोऽप्यत्र निषेधहेतुक एवेति नतद्भावमात्रेणाक्षेपबुद्धिः कार्या। अयं चाक्षेपो ध्वन्यमानोऽपि भवति। यथा-

     ‘गणिकासु विधेयो न विश्वासो वल्लभ त्वया।
     किं किं न कुर्वतेनर्थमिमा धनपरायणाः॥’

अत्र हि गणिकाया उक्तौ तद्दोषोक्तिप्रस्तावे नाहं गणिकेति प्रतीयते। न चासौ निषेध एव। गणिकात्वेनावस्थित(त)तयैव गणिकात्वस्य निषेधनात्। सोऽयं प्रस्खलद्रूपो निषेधाभासरूपो वक्त्र्या गणिकायाः शुद्धस्नेहनिबन्धनत्वेन धनविमुखत्वादौ विशेषे पर्यवस्यतीत्युक्तविषय आक्षेपध्वनिरयम्। न तु-

     ‘स वक्तुमखिलाञ्शक्तो हयग्रीवाश्रितान्गुणान्।
     योऽम्बुकुम्भैः परिच्छेदं कर्तुं शक्तो महोदधेः॥’

इत्याक्षेपध्वनावुदाहार्यम्। निषेधस्यैवात्र गम्यमानत्वात्। न निषेधाभासस्य। गुणानां वक्तुमशक्यत्व एवात्र तात्पर्यम्। तन्निमित्तक एवात्र चमत्कारो न निषेधाभासहेतुक इति नाक्षेपध्वनिधीरत्र कार्या। सर्वथेष्टनिषेधाभासस्य विध्युन्मुखस्याक्षेपत्वमिति स्थितम्। एवमिष्टनिषेधेनाक्षेपमुक्त्वा समानन्यायत्वादनिष्टविधिनाक्षेपमाह- अनिष्टविध्याभासश्च। यथेष्टस्येष्टत्वादेव निषेधोऽनुपपन्न एवमनिष्टस्याप्यनिष्टत्वादेव विधानं नोपपद्यते। तत्क्रियमाणं प्रस्खलद्रूपत्वान्निषेधे पर्यवस्यति। ततश्च विधेरुपकरणीभूतो निषेध इति विधिनायं निषेधोऽनिष्टविशेषपर्यवसायी। निषेधागूरणादाक्षेपो यथा-

     ‘गच्छ गच्छसि चेत्कान्त पन्थानः सन्तु ते शिवाः।
     ममापि जन्म तत्रैव भूयाद्यत्र गतो भवान्॥’

अत्र कयाचित्कान्तस्य प्रस्थानमात्मनोऽनिष्टमप्यनिराकरणमुखेन विधीयते। न चास्य विधिर्युक्तः। अनिष्टत्वात्। सोऽयं प्रस्खलद्रूपत्वेन निषेधमागूरयति। फलं चात्रानिष्टस्य प्रस्थानस्यासंविज्ञानपदनिबन्धनमत्यन्तपरिहार्यत्वप्रतिपादनम्।एतच्च ममापि तत्रैवेत्याशीःप्रतिपादनेनानिष्टपर्यवसायिना व्यञ्जितम्। यथा वा-

     ‘नो किंचित्कथनीयमस्ति सुभग प्रौढाः परं त्वादृशाः
     पन्थानः कुशला भवन्तु भवतः को मादृशामाग्रहः।
     किं त्वेतत्कथयामि संततरतक्लान्तिच्छिदस्तास्त्वया
     स्मर्तव्याः शिशिराः सहंसगतयो गोदावरीवीचयः॥’

अत्रानभिप्रेतमपि कान्तप्रस्थानं यदा प्रमुख एवाभ्युपगम्यमानं प्रतीयते़, तदायमनिष्टविधिराभासमानमाक्षेपाङ्गम् स्मर्तव्या इत्यनेन गमननिवृत्तिरेवोपोद्वलिता। तस्मादयमपि प्रकार आक्षेपस्य समानन्यायतयाभिनवत्वेनोक्तः। आक्षेपे इष्टनिषेधेऽनिष्टविधौ चानुपपद्यमानत्वाद्विरुद्धत्वमनुप्रविष्टम्। एतत्प्रस्तावेन विरोधगर्भोऽलंकारवर्गः प्रक्रियते। तत्रापि विरोधालंकारस्तावल्लक्ष्यते- विरुद्धाभासत्वं विरोधः। इह जात्यादीनां चतुर्णां पदार्थानां प्रत्येकं तन्मध्य एव सजातीयविजातीयाभ्यां विरोधिभ्यां संबन्धे विरोधः। स च समाधानं विना प्ररूढो दोषः। सतितु समाधाने प्रमुख एवाभासमानत्वाद्विरोधाभासः। तत्र जातिविरोधस्य जात्यादिभिः सह चत्वारो भेदाः। गुणस्य गुणादिभिः सह त्रयः। क्रियायाः क्रियाद्रव्याभ्यां सह द्वौ भेदौ।द्रव्यस्य द्रव्येण सहैकः। तदेवं दश विरोधभेदाः। तत्र दिङ्मात्रेणोदाहरणं यथा-

     ‘परिच्छेदातीतः सकलवचनानामविषयः
     पुनर्जन्मन्यस्मिन्ननुभवपथं यो न गतवान्।
     विवेकप्रध्वंसादुपचितमहामोहगहनो
     विकारः कोऽप्यन्तर्जडयति च तापं च कुरुते॥’

अत्र जडीकरणतापकरणयोः क्रिययोर्विरोधो वस्तुसौन्दर्येणाप्राप्तिपर्यवसानेन परिह्रियते। यथा-

     ‘अयं वारामेको निलय इति रत्नाकर इति
     श्रितोऽस्माभिस्तृष्णातरलितमनोभिर्जलनिधिः।
     क एवं जानीते निजकरपुटीकोटरगतं
     क्षणादेनं ताम्यत्तिमिमकरमापास्यति मुनिः॥’

अत्र जलनिधिः पीत इति द्रव्यक्रिययोर्विरोधो मुनिगतेन महाप्रभावत्वेन समाधीयते। एवमन्यदपि ज्ञेयम्। विविक्तविषयत्वेन चास्य दृष्टेः। श्लेषगर्भत्वे विरोधप्रतिभोत्पत्तिहेतो: श्लेष औद्भटानाम्। दर्शनान्तरे तु संकरालंकारः। यथा- ‘संनिहितवालान्धकारा भास्वन्मूर्तिश्च’ इत्यादौ विरोधिनोर्द्वयोरपि श्लिष्टत्वे। एकस्य तु श्लिष्टत्वे ‘कुपतिमपि कलत्रवल्लभम्’ इत्यादौ। एकविषयत्वे चायमिष्यते। विषयभेदे त्वसंगतिप्रभृतिर्वक्ष्यते। एवं विरोधमुक्त्वा विरोधमूला अलंकाराः प्रदर्श्यन्ते। तत्रापि कारणभावमूलत्वे विभावनां तावदाह- कारणाभावे कार्यस्योत्पत्तिर्विभावना। इह कारणान्वयव्यतिरेकानुविधानात्कार्यस्य कारणमन्तरेणासंभवः।अन्यथा विरोधो दुष्परिहरः स्यात्। यदि तु कयाचिद्भङ्ग्या तथाभाव उपनिबध्यते तदा विभावनाख्योऽलंकारः। विशिष्टतया कार्यस्य भावनात्। सा च भङ्गिर्विशिष्ट कारणाभावोपनिबन्धः। अप्रस्तुतं कारणं वस्तुतोऽस्तीति विरोधपरिहारः। कारणाभावेन चोपक्रान्तत्वाद्बलवता कार्यमेव बाध्यमानत्वेन प्रतीयते, न तु तेन कारणाभाव इत्यन्योन्यबाधकत्वानुप्राणिताद्विरोधालंकाराद्भेदः। एवं विशेषोक्तौ कार्याभावेन कारणसत्ताया एव बाध्यमानत्वमुन्नेयम्। येन सापि विरोधाद्भिन्ना स्यात्। इह च लक्षणे यद्यप्यन्यैः कारणपदस्थाने क्रियाग्रहणं कृतं तथापीह कारणपदमेव विहितम्। नहि सर्वैः क्रियाफलमेव कार्यमभ्युपगम्यते। वैयाकरणैरेव तथाभ्युपगमात्। अतो विशेषमनपेक्ष्य सामान्येन कारणपदमेवेह निर्दिष्टम्।यथा-

     ‘असंभृतं मण्डनमङ्गयष्टेरनासवाख्यं करणं मदस्य।
     कामस्य पुष्पव्यतिरिक्तमस्त्रं बाल्यात्परं साथ वयः प्रपेदे॥’

अत्र द्वितीये पादे मदस्य प्रसिद्धं यदासवाख्यं करणं तदभावेऽपि यौवनहेतुकत्वेनोपनिबन्धः कृतः। मदस्य च द्वैविध्येऽप्यभेदाध्यव सायादेकत्वमतिशयोक्त्या। सा चास्यामव्यभिचारिणीति न तद्बाधेनास्या उत्थानम्, अपि तु तदनुप्राणितत्वेन। इयं च विशेषोक्तिवदुक्तानुक्तनिमित्तभेदाद्द्विधैव। तत्रोक्तनिमित्तोदाहृता। अनुक्तनिमित्ता यथा-

     ‘अङ्गलेखामकाश्मीरसमालम्भनपिञ्जराम्।
     अनलक्तकताम्राभामोष्ठलेखां च बिभ्रतीम्॥’

अत्र सहजत्वं निमित्तं गम्यमानम्। असंभृतं मण्डनमिति, कामस्य पुष्पव्यतिरिक्तमस्त्रमिति च। अत्र विवदन्ते- इयमेव विभावनेति केचित्। संभरणस्य , पुष्पाणां च मण्डनमस्त्रं प्रत्यकारणत्वाद्वान्त(?)मेतत्। एकगुणहानौ विशेषोक्तिरित्यन्ये। रूपकमेवाधिरोपितवैशिष्ट्यमिति त्वपरे। आरोप्यमाणस्य प्रकृते संभवात्परिणाम इत्यद्यतनाः।विभावनां लक्षयित्वा तद्विपर्ययस्वरूपां विशेषोक्तिं लक्षयति- कारणसामग्र्ये कार्यानुत्पत्तिर्विशेषोक्तिः। इह समग्राणि कारणानि नियमेन कार्यमुत्पादयन्तीति प्रसिद्धम्। अन्यथा समग्रत्वस्यैवाभावप्रसङ्गात्।यत्तु सत्यपि सामग्र्ये न जनयन्ति कार्यं सा कंचिद्विशेषमभिव्यङ्क्तुं प्रयुज्यमाना विशेषोक्तिः। सा च द्विविधा- उक्तनिमित्तानुक्तनिमित्ता च। अचिन्त्यनिमित्ता त्वनुक्तनिमित्तैव। अनुक्तस्य च चिन्त्याचिन्त्यत्वेन द्वैविध्यात्। क्रमेण यथा-

     ‘कर्पूर इव दग्धोऽपि शक्तिमान्यो जने जने।
     नमोऽस्त्ववार्यवीर्याय तस्मै कुसुमधन्वने॥’
     ‘आहूतोऽपि सहायैरेमीत्युक्त्वा विमुक्तनिद्रोऽपि।
     गन्तुमना अपि पथिकः संकोचं नैव शिथिलयति॥’
     ‘स एकस्त्रीणि जयति जगन्ति कुसुमायुधः।
     हरतापि तनुं यस्य शंभुना न हृतं बलम्॥’

अत्र सत्यपि दाहलक्षणेऽविकले कारणेऽशक्तत्वाख्यस्य कार्यस्यानुत्पत्तिः शक्तिस्वरूपेणाविरुद्धेन धर्मेणोपनिबद्धा। अवार्यवीर्यत्वं चात्रोक्तनिमित्तम्। तथाह्वानादयः संकोचशिथिलीकारहेतव इति तेषु सत्स्वपि तस्यानुत्पत्तौ प्रियतमास्वप्नसमागमाद्यनुक्तं सच्चिन्त्यं निमित्तम्। तथा तनुहरणकारणे सत्यपि बलहरणस्य कार्यस्यानुत्पत्तौ निमित्तमनुक्तमप्यचिन्त्यमेव। प्रतीत्यगोचरत्वात्। कार्यानुत्पत्तिश्चात्र क्वचित्कार्य- विरोधोत्पत्त्या निबध्यते। एवं विभावनायामपि कारणाभावः कारणाविरुद्धमुखेन

     क्वचित्प्रतिपाद्यते। तथा च सति,
     ‘यः कौमारहरः स एव हि वरस्ता एव चैत्रक्षपा-
     स्तेचोन्मीलितमालतीसुरभयः प्रौढाः कदम्बानिलाः।’
     सा चैवास्मि तथापि चौर्यसुरतव्यापारलीलाविधौ
     रेवारोधसि वेतसीतरुतले चेतः समुत्कण्ठते॥’

इत्यत्र विभावनाविशेषोक्त्योः संदेहसंकरः। तथा ह्युत्कण्ठाकारणं विरुद्धं यः कौमारहर इत्यादि निबद्धमिति विभावना। तथा यः कौमारहर इत्यादेः कारणस्य कार्यं विरुद्धं चेतः समुत्कण्ठत इत्युत्कण्ठाख्यं निबद्धमिति विशेषोक्तिः। विरुद्धमुखेनोप- निबन्धात्केवलमस्पष्टत्वम्। साधकबाधकप्रमाणाभावाच्चात्र संदेहसंकरः। या तु ‘एकगुणहानिकल्पनायां साम्यदार्ढ्यं विशेषोक्तिः’ इति विशेषोक्तिर्लक्षिता सास्मिन्दर्शने रूपकभेद एवेति पृथङ्न वाच्या। अतिशयोक्तौ लक्षितायामपि कश्चित्प्रभेदः कार्यकारणभावप्रस्तावेनेहोच्यते- कार्यकारणयोः समकालत्वे पौर्वापर्यविपर्यये चातिशयोक्तिः। इह नियतपूर्वकालभावि कारणं नियतपश्चात्कालभावि कार्यमिति कार्यकारणयोर्लक्षणं प्रसिद्धम्। यदा तु विशेषप्रतिपादनाय तयोरेतद्रूपापगमः क्रियते तदातिशयोक्तिः।एतद्रूपापगमश्च कालसाम्यनिबन्धनः कालविपर्यासनिबन्धनश्चेति द्विधा भवन्नतिशयोक्तिमपि द्वैधे स्थापयति। क्रमेण यथा-

     ‘पश्यत्सूद्गतसान्द्रविस्मयरसप्रोत्फुल्लनीलोत्पलं
     भूपालेषु तवात्र सूक्ष्मनिशिते निस्त्रिंशधाराध्वनि।
     कीर्त्या च द्विषतः श्रिया च युगपद्राजन्यचूडामणे
     हेलानिर्गमनप्रवेशविधिना पश्येन्द्रजालं कृतम्॥’
      ‘पथि पथि शुकचञ्चूचारुरम्भाङ्कुराणां
     दिशि दिशि पवमानो वीरुधां लासकश्च।
     नरि नरि किरति द्राक्सायकान्पुष्पधन्वा
     पुरि पुरि च निवृत्ता मानिनीमानचर्चा॥’

पूर्वत्र प्रौढोक्तिनिर्मितेऽर्थे शत्रुश्रीप्रवेशः कीर्तिनिर्गमनस्य हेतुरिति भिन्नकाल- योस्तुल्यकालत्वं निबद्धम्। उत्तरत्र च माननिवृत्तिः स्मरशरप्रकिरणकार्येति तयोस्युल्यत्वेनोपपन्नं पौर्वापर्यं व्यत्ययेन निर्दिष्टमित्यतिशयोक्तिः। कार्यस्य चाशुभावाख्यो विशेषः प्रतिपाद्यते। तयोस्तु भिन्नदेशत्वेऽसंगतिः। तयोरिति कार्यकारणयोः। यद्देशमेव कारणं तद्देशमेव कार्यं दृष्टम्। नहि महानसस्थो वह्नि: पर्वतदेशस्थं धूमं जनयति। यदा त्वन्यदेशस्थं कारणमन्यदेशस्थं च कार्यमुपनिबध्यते तदोचितसंगतिनिवृत्तेरसंगत्याख्योऽलंकार। विरूद्धकार्यकारणभाव प्रस्तावादिह लक्ष्यते। यथा-

     ‘प्रायः पथ्यपराङ्मुखा विषयिणो भूपा भवन्त्यात्मना
     निर्दोषान्सचिवान्भजत्यतिमहांल्लोकापवादज्वरः।
     वन्द्याः श्लाघ्यगुणास्त एव विपिने संतोषभाजः परं
     बाह्योऽयं वरमेव सेवकजनो धिक्सर्वथा मन्त्रिणः॥’

अत्र पथ्यपराङ्मुखत्वमुपालम्भज्वरविषयत्वस्य भिन्नदेशो हेतुरित्यसंगतिः। एवम्-

     ‘सा बाला वयमप्रगल्भवचसः सा स्त्री वयं कातराः
     सा पीनोन्नतिमत्पयोधरभरं धत्ते सखेदा वयम्।
     साक्रान्ता जघनस्थलेन गुरुणा गन्तुं न शक्ता वयं
     दोषैरन्यसमाश्रितैरपटवो जाताः स्म इत्यद्भुतम्॥’

(इत्यत्र ज्ञेयम्) अत्र बाल्यनिमित्तमप्रगल्भवचनत्वमन्यदन्यच्च स्मरनिमित्त- कमित्यनयोरभेदाध्यवसायः। एवमन्यत्र ज्ञेयम्। विरूपकार्यानर्थयोरुत्पत्तिर्विरूपसंघटना च विषमम्। विरोधप्रस्तावेनेह लक्षणम्। तत्र कारणगुणप्रक्रमेण कार्यमुत्पद्यत इति प्रसिद्धौ यद्विरूपं कार्यमुत्पद्यमानं दृश्यते तदेकं विषमम्। तथा कंचिदर्थं साधयितुमुद्यतस्य न केवलं तस्यार्थस्याप्रतिलम्भो यावदनर्थप्राप्तिरपीति द्वितीयं विषमम्। अत्यन्ताननुरूपसंघटनयोर्विरूपयोश्च संघटनं तत्तृतीयं विषमम्। अननुरूपसंसर्गो हि विषमम्। क्रमेण यथा-

     ‘सद्यः करस्पर्शमवाप्य चित्रं रणे रणे यस्य कृपाणलेखा।
     तमालनीला शरदिन्दुपाण्डु यशस्त्रिलोकाभरणं प्रसूते॥’
     ‘तीर्थान्तरेषु मलपङ्कवतीर्विहाय
     दिव्यास्तनूस्तनुभृतः सहसा लभन्ते।
     वाराणसि त्वयि तु मुक्तकलेवराणां
     लाभोऽस्तु मूलमपि यात्यपुनर्भवाय॥’
     ‘अरण्यानी क्वेयं धृतकनकसूत्रः क्व स मृगः
     क्व मुक्ताहारोऽयं क्व च स पतगः क्वेयमबाला।
     क्व तत्कन्यारत्नं ललितमहिभर्तुः क्व च वयं
     स्वमाकूतं धाता निभृतनिभृतं कन्दलयति॥’

अत्र कृष्णवर्णाच्छुक्लवर्णोत्पत्तिः कलेवरात्यन्तापहारलक्षणानर्थान्तरोत्पत्तिरिति अत्यन्ताननुरूपाणां चारण्यादीनां परस्परं संघटनं क्रमेण मन्तव्यम्। केवल- मनर्थोत्पत्तिरत्र व्याजस्तुतिपर्यवसायिनीति शुद्धोदाहरण मप्यूह्यम्। यथा-

     ‘परहिअअं मग्गन्ती इआरिअं अत्तणोतए हिअअम्।
     अव्योल्लाहस्स कए मूलाओ विछेइआ जाआ॥’

इति तत्रोदाहार्यम्। तद्विपर्ययः समम्। विषमवैधर्म्यादिह प्रस्तावः। यद्यपि विषमस्य भेदत्रयमुक्तं तथापि तच्छब्देन संभवादन्त्यो भेदः परामृष्यते। पूर्वभेदद्वयविपर्ययस्यानलंकारत्वात्। अन्त्यभेद विपर्ययस्तु चारुत्वात्समाख्योऽलंकारः। स चाभिरूपान-भिरूपविषयत्वेन द्विविधः। आद्यो यथा-

     ‘त्वमेवं सौन्दर्या स च रुचिरतायाः परिचितः
     कलानां सीमान्तं परमिह युवामेव भजथः।
     अयि द्वन्द्वं दिष्ट्या तदिह सुभगे संवदति वा-
     मतः शेषं यत्स्याज्जितमिह तदानीं गुणितया॥’

अत्राभिरूपस्यैव नायकयुगलस्योचितं संघटनमाशंसितम्। द्वितीयो यथा-

     ‘चित्रं चित्रं बत बत महच्चित्रमेतद्विचित्रं
     जातो दैवादुचितरचनासंविधाता विधाता।’
     यन्निम्बानां परिणतफलस्फातिरास्वादनीया
     यच्चैतस्याः कवलनकलाकोविदः काकलोकः॥’

अत्रानभिरूपाणां निम्बानां काकानां च समागम आशंसितः। आनुरूप्यात्सम- त्वव्यपदेशः। विरोधमूलं विचित्रं लक्षयति- स्वविपरीतफलनिष्पत्तये प्रयत्नो विचित्रम्। यस्य हेतोर्यत्फलं तस्य यदा तद्विपरीतं भवति तदा तद्विपरीतफलनिष्पत्त्यर्थं कस्यचित्प्रयत्न उत्साहो विचित्रालंकारः। आश्चर्यप्रतीतिहेतुत्वात्। न चायं प्रथमो विषमालंकारप्रकारः। स्वनिषेधमुखेन वैपरीत्यप्रतीतेः। विपरीतप्रतीत्या तु स्वनिषेध- स्तस्य विषयः। यथा- ‘तमालनीला शरदिन्दुपाण्डु यशस्त्रिलोकाभरणं प्रसूते’ इत्यादि। इह त्वन्यथा प्रतीतिः। यथा-

     ‘घेत्तुं मुच्चइ अहरे अण्णन्तो वलइ पेक्खिउं दिट्ठी।
     घडिदुं विहडन्ति भुआ रआअ सरअम्भि वीसामो॥’
     अत्र मोचनवलनविघटनविश्रमाणां यथाक्रमं ग्रहणप्रेक्षणघटनरमणानि

विपरीतफलानि प्रयत्नविषयत्वेन निबद्धानि। यथा वा-

     ‘उन्नत्यै नमति प्रभुं प्रभुगृहान्द्रष्टुं बहिस्तिष्ठति
     स्वद्रव्यव्ययमातनोति जडधीरागामिवित्ताशया।
     प्राणान्प्राणितुमेव मुञ्चति रणे क्लिश्नाति भोगेच्छया
     सर्वं तद्विपरीतमेव कुरुते तृष्णान्धदृक्सेवकः॥’

अत्र विपरीतफलनिष्पादनप्रयत्नः सुज्ञानः। आश्रयाश्रयिणोरानुरूप्यमधिकम्। विरोधप्रस्तावादिह निर्देशः। अनानुरूप्यस्य विरोधोत्थापकत्वात्। तच्चानानुरूप्य- माश्रयस्य वैपुल्येऽप्याश्रितस्य परिमितत्वाद्वा भवति यद्वाश्रितस्य वैपुल्येऽप्याश्रयस्य परिमितत्वाद्वा स्यात्। क्रमेण यथा-

     ‘द्यौरत्र क्वचिदाश्रिता प्रविततं पातालमत्र क्वचि-
     त्क्वाप्यत्रैव धरा धराधरजलाधारावधिर्वर्तते।
     स्फीतस्फीतमहो नभः कियदिदं यस्येत्थमेवंविधै-
     र्दूरे पूरणमस्तु शून्यमिति यन्नामापि नास्तं गतम्॥’
     दोर्दण्डाञ्चितचन्द्रशेखरधनुर्दण्डावभङ्गोद्यत-
     ष्टांकारध्वनिरार्यबालचरितप्रस्तावनाडिण्डिमः।
     द्राक्पर्याप्तकपालसंपुटमितब्रह्माण्डभाण्डोदर-
     भ्राम्यत्पिण्डितचण्डिमा कथमहो नाद्यापि विश्राम्यति॥’

पूर्वत्र नभस आश्रयस्य वैपुल्येऽप्याश्रितानां द्युप्रभृतीनां पारिमित्यं चारुत्वहेतुः। उत्तरत्र तु टांकारध्वनेराश्रितस्य महत्त्वेऽपि ब्रह्माण्डस्याश्रयस्य स्तोकत्वम्। परस्परं क्रियाजननेऽन्योन्यम्। इहापि विरोधप्रस्ताव एव निर्देशकारणम्। परस्परजननस्य विरुद्धत्वात्। क्रियाद्वारकं यत्र परस्परोत्पादकत्वं न स्परूपनिबन्धनं स्वरूपस्य तथात्वोक्तिविरोधात् तत्रान्योन्याख्योऽलंकारः। यथा-

     ‘कण्ठस्य तस्याः स्तनबन्धुरस्य मुक्ताकपालस्य च निस्तलस्य।
     अन्योन्यशोभाजननाद्बभूव साधारणो भूषणभूष्यभावः॥’

अत्र शोभाक्रियामुखकं परस्परजननम्। अनाधारमाधेयमेकमनेकगोचरमशक्यवस्त्वन्तरकरणं विशेषः। इहाधारमन्तरेणाधेयं न वर्तत इति स्थितावपि यस्तत्परिहारेणाधेयस्योपनिबन्धः स एको विशेषः। यच्चैकं वस्तु परिमितं युगपदनेकधावर्तमानं क्रियते स द्वितीयो विशेषः। यच्च किंचिदारभमाणस्यासंभाव्यवस्त्वन्तरकरणं स तृतीयो विशेषः। आनुरूप्यपरिहाररूपविरोधप्रस्तावादिहोक्तिः। क्रमेण यथा-

     ‘दिवमप्युपयातानामाकल्पमनल्पगुणगणा येषाम्।
     रमयन्ति जगन्ति गिरः कथमिव कवयो न ते वन्द्याः॥’
     ‘प्रासादे सा पथि पथि च सा पृष्ठतः सा पुरः सा
     पर्यङ्के सा दिशि दिशि च सा तद्वियोगातुरस्य।
     हंहो चेतः प्रकृतिरपरा नास्ति ते कापि सा सा
     सा सा सा सा जगति सकले कोऽयमद्वैतवादः॥’
     ‘निमेषमपि यद्येकं क्षीणदोषे करिष्यसि।
     पदं चित्ते तदा शंभो किं न संपादयिष्यसि॥’

अत्र कवीनामाधाराणामभावेऽप्याधेयानां गिरामवस्थितिरन्यत्रभावो विषयार्थ इति विषयत्वेन तेषामाधारत्वम्, एकस्या एव योषितः प्रासादादौ युगपदवस्थानम्, तथा चित्तविषये पदकरणे प्रस्तुतेऽपि लोकोत्तरवस्तुसंपादनं क्रमेण ज्ञेयम्। यथासाधितस्य तथैवान्येनान्यथाकरणं व्याघातः। यं कंचिदुपायविशेषमवलम्ब्य केनचिद्यन्निष्पादितं तत्ततोऽन्येन केनचित्तत्प्रति- द्वन्द्विना तेनैवोपायविशेषेण यदन्यथा क्रियते स निष्पादित- वस्तुव्याहति- हेतुत्वाद्व्यानघातः।यथा-

     ‘दृशा दग्धं मनसिजं जीवयन्ति दृशैव याः।
     विरूपाक्षस्य जयिनीस्ता स्तुवे चारुलोचनाः॥’

अत्र दृष्टिलक्षणेनोपायेन स्मरस्य हरेण दाहविषयत्वं निष्पादितम्। मृगनयनाभिः पुनस्तेनैवोपायेन तस्य जीवनीयत्वं क्रियते। तच्च दाहविषयत्वस्य प्रतिपक्षभूतम्। तेन व्याघाताख्योऽयमलंकार:। सोऽपि व्यतिरेकनिमित्तत्वेनात्रोक्तः। विरूपाक्षस्य चारुलोचना इति व्यतिरेकगर्भावेव वाचकौ। जयिनीरिति व्यतिरेकोक्तिः। पूर्ववदिह प्रकरणं लक्षणम्। प्रकारान्तरेणाप्ययं भवतीत्याह- सौकर्येण कार्यविरुद्धक्रिया च व्याघात इत्येव। किंचित्कार्यं निष्पादयितुं संभाव्यमानः कारणविशेषस्तत्कार्यविरुद्ध निष्पादकत्वेन यत्समर्थ्यते सोऽपि संभाव्यमानकार्यव्याहतिनिबधनत्वाद्व्याघातः।कार्यविरुद्धनिष्पत्तिश्च कार्यापेक्षया सुकरा। तस्य कारणस्यात्यन्तं तदानुगुण्यात्। नत्वत्र कार्याभिमतस्य कार्यत्वाभावः। तद्विरुद्धस्यात्र सौकर्येण कार्यत्वात्। अत एव द्वितीयाद्विषमाद्भेदः। तत्र हि कार्यस्यानुत्पत्तिरनर्थस्य चोद्गमनम्। इह तु कार्यमकार्यमेव न भवति। तद्विरुद्धस्यानर्थस्य व्यतिरेकिणोऽप्यत्र सुष्ठुकार्यत्वात्। यथा हर्षचरिते राज्यवर्धनं प्रति श्रीहर्षोक्तिषु- ‘यदि बाल इति सुतरामपरित्याज्योऽस्मि। रक्षणीय इति भवद्भुजपञ्जरमेव रक्षास्थानम्’ इत्यादि। अत्र राज्यवर्धनेन श्रीहर्षाप्रस्थाने कार्ये बाल्यरक्षणीयत्वादि कारणत्वेन यत्संभावितं तत्प्रत्युत प्रस्थापनकारणत्वेन सुकरतया श्रीहर्षेण राज्यवर्धनस्य समर्थितमिति व्याघाताख्योऽलंकारः। एवं विरोधमूलानलंकारन्निर्णीय श्रृङ्खलाबन्धोपचिता अलंकारा लक्ष्यन्ते। तत्र- पूर्वस्य पूर्वस्योत्तरोत्तरहेतुत्वे कारणमाला। यदा पूर्वं पूर्वं क्रमेणोत्तरमुत्तरं प्रति हेतुत्वं भजते तदा कारणमाला- ख्योऽयमलंकारः। यथा-

     ‘जितेन्द्रियत्वं विनयस्य कारणं गुणप्रकर्षो विनयादवाप्यते।
     गुणप्रकर्षेण जनोऽनुरज्यते जनानुरागप्रभवा हि संपदः॥’

कार्यकारणक्रम एवात्र चारुत्वहेतुः। यथापूर्वं परस्यविशेषणतया स्थापनापोहने एकावली। यत्र पूर्वं पूर्वं प्रति क्रमेण परं परं विशेषणत्वमनुभवति स एकावल्यलंकारः। विशेषणत्वं च स्थापनेन निवर्तनेन वा।

     स्थापनेन यथा-‘पुराणि यस्यां सवराङ्गनानि वराङ्गना रूपपुरस्कृताङ्ग्यः।
     रूपं समुन्मीलितसद्विलासमस्त्रं विलासः कुसुमायुधस्य॥’

अत्र वराङ्गनाः पुराणां विशेषणं स्थापनीयत्वेन स्थितम्।एवं वराङ्गनानां रूपमित्यादि ज्ञेयम्। निवर्तनेन यथा-

     ‘न तज्जलं यन्न सुचारूपङ्कजं न पङ्कजं यन्न निलीनषट्पदम्।
     न षट्पदोऽसौ न जुगुञ्ज यः कलं न गुञ्जितं तन्न जहार यन्मनः॥’

अत्र जलस्य सुचारूपङ्कजत्वं विशेषणं निषेध्यत्वेन स्थितम्। एवं पङ्कजानां निलीनषट्पदत्वं ज्ञेयम्। पूर्वस्य पूर्वस्योत्तरोत्तरगुणावहत्वे मालादीपकम्। उत्तरोत्तरस्य पूर्वं पूर्वं प्रत्युत्कर्षहेतुत्वे एकावली। पूर्वस्य पूर्वस्योत्त- रोत्तरोत्कर्षनिबन्धनत्वे तु मालादीपकम्। मालात्वेन चारुत्वविशेषमाश्रित्य दीपकप्रस्तावोल्लङ्घनेनेह लक्षणं कृतम्। गुणावहत्वमुत्कर्षहेतुत्वम्। यथा-

     ‘संग्रामाङ्गनसंगतेन भवता चापे समारोपिते
     देवाकर्णय येन येन सहसा यद्यत्समासादितम्।
     कोदण्डेन शराः शरैररिशिरस्तेनापि भूमण्डलं
      तेन त्वं भवता च कीर्तिरतुला कीर्त्या च लोकत्रयम्॥’

अत्र कोदण्डादिभिः क्रमेण शरादीनामुत्कर्षो विहितः। समासादनलक्षण- क्रियानिबन्धनं च दीपकं दीपनक्रियाणामुत्तरोत्तरोम्भितत्वेन कृतम्। उत्तरोत्तरमुत्कर्षणमुदारः। पूर्वपूर्वापेक्षयोत्तरोत्तरस्योत्कर्षनि बन्धनत्वमुदाराख्योऽलंकारः।यथा-

     ‘जये धरित्र्याः पुरमेव सारं पुरे गृहं सद्मनि चैकदेशः।
     तत्रापि शय्या शयने वरस्त्री रत्नोज्ज्वला राज्यसुखस्य सारम्॥’

अत्र धरित्र्यपेक्षया पुरस्य सारत्वमेवं पुरापेक्षया तदेकदेशस्य गृहस्येत्यादि योजनीयम्। यथा-

     ‘राज्ये सारं वसुधा वसुंधरायां पुरं पुरे सौधम्।
     सौधे तल्पं तल्पे वराङ्गनानङ्गसर्वस्वम्॥’

अत्र राज्यापेक्षया वसुंधरायाः सारत्वमेवं वसुधापेक्षया तदेकदेशस्य पुरस्येत्यादि योजनीयम्। एवं श्रृङ्खलाविच्छित्त्यालंकाराः प्रतिपादिताः। अधुना तर्कन्यायाश्रयेणा लंकारद्वयमुच्यते।तत्र- तत्र इति क- पुस्तके नास्ति. हेतोर्वाक्यपदार्थता काव्यलिङ्गम्। यत्र हेतुः कारणरूपो वाक्यार्थगत्या विशेषणद्वारेण वा पदार्थगत्या लिङ्गत्वेन निबद्ध्यते तत्काव्यलिङ्गम्। तर्कवैलक्षण्यार्थं काव्यग्रहणम्। न ह्यत्र व्याप्तिपक्ष- धर्मतोप संहारादयः क्रियन्ते। वाक्यार्थगत्या च निबद्धोपनिबद्धस्य हेतुत्वम्। अन्यथार्थान्तरन्यासान्नास्यभेदः स्यात्। क्रमेण यथा-

     ‘यत्त्वन्नेत्रसमानकान्ति सलिले मग्नं तदिन्दीवरं
     मेघैरन्तरितः प्रिये तव मुखच्छायानुकारी शशी।
     येऽपि त्वद्गमनानुसारिगतयस्ते राजहंसा गता-
     स्त्वत्सादृश्यविनोदमात्रमपि मे दैवेन न क्षम्यते॥’
     ‘मृग्यश्च दर्भाङ्कुरनिर्व्यपेक्षास्तवागतिज्ञं समबोधयन्माम्।
     व्यापारयन्त्यो दिशि दक्षिणस्यामुत्पक्ष्मराजीनि विलोचनानि॥’

पूर्वत्र पादत्रयार्थोऽ नेकवाक्यार्थरूपः। चतुर्थपादार्थो हेतुत्वेनोपन्यस्तः। उत्तरत्र संबोधने ‘व्यापारयन्त्यः’ इति मृगीविशेषणत्वेनानेकः पदार्थो हेतुत्वेनोक्तः। एवमेकवाक्यार्थगत्वेन काव्यलिङ्गमुदाह्रियते। यथा-

     ‘मनीषिताः सन्ति गृहेषु देवतास्तपः क्व वत्से क्व च तावकं वपुः।
     पदं सहेत भ्रमरस्य पेलवं शिरीषपुष्पं न पुनः पतत्त्रिचणः॥’
     ‘यद्विस्मयस्तिमितमस्तमितान्यभाव-
     मानन्दमन्दममृतप्लवनादिवाभूत्।
     तत्संनिधौ तदधुना हृदयं मदीय-
     मङ्गारचुम्बितमिव व्यथमानमास्ते॥’

पूर्वत्र वरप्राप्तिहेतुभूततपोनिषेधस्य ‘मनीषिताः’ इति वाक्यार्थरूपो हेतुर्निर्दिष्टः। उत्तरत्र पुनः ‘अस्तमितान्यभावम्’ इत्यत्र विस्मयस्तिमितमिति विशेषणद्वारेण पदार्थः। साध्यसाधननिर्देशोऽनुमानम्। यत्र शब्दवृत्तेन पक्षधर्मान्वयव्यतिरेकवत्साधनं साध्यप्रतीतये निर्दिश्यते सोऽनुमानमलंकारः। विच्छित्तिविशेषश्चात्रार्थाश्रयणीयः। अन्यथा तर्कानुमानात्किं वैलक्षण्यम्। उदाहरणम्-

     ‘यथा रन्ध्रं व्योम्नश्चलजलदधूमः स्थगयति
     स्फुलिङ्गानां रूपं दधति च यथा कीटमणयः।
     यथा विद्युज्ज्वालो ज्वलनपरिपिङ्गाश्च ककुभ-
     स्तथा मन्ये लग्नः पथिकतरुखण्डे स्मरदवः॥’

अत्र धूमस्फुलिङ्गकपिलदिक्त्वानि वह्निलिङ्गानि त्रिरूपत्वाद्दवशब्दप्रतिपादितं वह्निं गमयतीत्यनुमानम्। रूपकमूलत्वेनालंकारान्तरभङ्गीकारेण विच्छित्त्याश्रयणात्त र्कानुमानवैलक्षण्यम्। क्वचित्तु शुद्धमपि भवति। यथा-

     ‘यत्रैता लहरीचलाचलदृशो व्यापारयन्ति भ्रुवं
     यत्तत्रैव पतन्ति संततममी मर्मस्पृशो मार्गणाः।
     तच्चक्रीकृतचापसञ्जितशरप्रेङ्खत्करः क्रोधनो
     धावत्यग्रत एव शासनधरः सत्यं सदासां स्मरः॥’

अत्र योषितां भ्रूव्यापारेण मार्गणपतनं स्मरपुरोगामित्वेऽसाध्येऽनलंकृतमेव साधनमिति शुद्धमनुमानम्। प्रौढोक्तिमात्रनिष्पन्नार्थनिष्ठत्वेन च विच्छित्तिविशेषा श्रयणाच्चारुत्वम्। अयमत्र पिण्डार्थः। इहास्ति प्रत्याय्यप्रत्यायकभावः। अस्ति च समर्थ्यसमर्थकभावः। तत्राप्रतीतप्रत्यायने प्रत्याय्यप्रत्यायकभावः। प्रतीतप्रत्यायने तु समर्थ्य- समर्थकभावः। तत्र प्रत्याय्यप्रत्यायकभावेऽनुमानम्। समर्थ्यसमर्थकभावे तु यत्र पदार्थो हेतुस्तत्र हेतुत्वेनोपादाने ‘नागेन्द्रहस्तास्त्वचि कर्कशत्वात्’ इत्यत्र न कश्चिदलंकारः यत्र तूपात्तस्य हेतुत्वं यथोदाहृते विषये ‘मृग्यश्च दर्भाङ्कुरनिर्व्यपेक्षाः’ इत्यादौ तत्रैव काव्यलिङ्गम्। यत्र तु वाक्यार्थो हेतुस्तत्र हेतुप्रतिपादकमन्तरेण हेतुत्वायोपन्यासे काव्यलिङ्गमेव। तटस्थत्वेनोपन्यस्तस्य हेतुत्वेनार्थान्तरन्यासः। एवं चास्यां प्रक्रियायां कार्यकारणवाक्यार्थयोर्हेतुत्वे काव्यलिङ्गमेव पर्यवस्यति। समर्थकवाक्यस्य सापेक्षत्वात्। ताटस्थ्याभावात्। ततश्च सामान्यविशेष भावोऽर्थान्तरन्यासस्य विषयः। यत्पुनरर्थान्तरन्यासस्य कार्यकारणगतत्वेन समर्थकत्वमुक्तम्, तदुक्तलक्षणकाव्य- लिङ्गमनाश्रित्य। तद्विषयत्वेन लक्षणान्तर स्यौद्भटैरनाश्रितत्वात्। तु यत्त्वन्नेत्रेत्यादिर्विविक्तो विषयः काव्यलिङ्गस्यार्थान्तर न्यासदर्शित इति कार्यकारणयोः समर्थ्यसमर्थकत्वमर्थान्तरन्यासस्य पूर्वं

     दर्शितमितीयती गमनिकाश्रयितव्या।

एवं तर्कन्यायमूलमलंकारद्वयमुक्त्वा काव्यन्यायमूला अलंकारा उच्यन्ते- उद्दिष्टानामर्थानां क्रमेणानूद्देशो यथासंख्यम्। ऊर्ध्वं निर्दिष्टा उद्दिष्टाः। पश्चान्निर्देशोऽनूद्देशः। स चार्थादर्थान्तरगतः संबन्धश्चात्र सामर्थ्यात्प्रतीयते। ऊर्ध्वं निर्दिष्टानामर्थानां पश्चान्निर्दिष्टैरर्थै: क्रमेण संबन्धो यथासंख्यमिति वाक्यार्थः। अन्ये त्विममलंकारं क्रमसंज्ञयाभिदधिरे। तच्च यथासंख्यं शाब्दमार्थं च द्विधा। शाब्दं यत्रासमस्तानां पादानामसमस्तैः पदैरर्थद्वारकः संबन्धः। तत्र क्रमसंबन्धस्यातिरोहितस्य प्रत्येयत्वात्। आर्थं तु यत्र समासः क्रियते तत्र समुदायस्य समुदायेन सह संबन्धस्य शाब्दत्वादर्थावगमपर्यावलोचनया त्ववगतः क्रमसंबन्ध: प्रतीयते। तथात्र यथासंख्यस्यार्थत्वम्। आद्यस्योदाहरणम्-

     ‘लावण्यौकसि सप्रतापगरिमण्यग्रेसरे त्यागिनां
     देव त्वय्यवनीभरक्षमभुजे निष्पादिते वेधसा।
     इन्दुः किं घटितः किमेष विहितः पूषा किमुत्पादितं
     चिन्तारत्नमहो वृथैव किममी सृष्टाः कुलक्ष्माभृतः॥’

अत्र लावण्यौकः प्रभृतीनामिन्द्वादिभिः क्रमसंबन्धस्याव्यवहितत्वेन प्रतीतेः। शाब्दं यथासंख्यं यथा-

     ‘कज्जलहिमकनकरुचः सुपर्णवृषहंसवाहनाः शं वः।
     जलनिधिगिरिकमलस्था हरिहरकमलासना ददतु॥’

अत्र कज्जलादीनां सुपर्णादिभिः संबद्धानां जलनिध्यादिभिः सह संबन्धो हरिप्रभृतिभिः संबन्धः श्रुत्या समुदायनिष्ठः प्रतीयते। अर्थानुगमानुसारेण त्ववयवानां क्रमसंबन्धावगतिरित्यार्थं यथासंख्यम्। एकमनेकस्मिन्ननेकमेकस्मिन्क्रमेण पर्यायः। क्रमप्रस्तावादिदमुच्यते। एकमाधेयमनेकस्मिन्नाधारे यत्तिष्ठति स एकः पर्यायः। नन्वेकमनेकगोचरमिति प्राक्तनेन लक्षणेन विशेषालंकारोऽत्रोक्तः। तत्किमर्थमिदमुच्यते इत्याशङ्क्योक्तम् - क्रमेणेति। इह च क्रमोपादानादर्थात्तत्र यौगपद्यप्रतीतिः। तेनास्य ततो विविक्तविषयत्वम्। तथा- एकस्मिन्नाधारेऽनेकमाधेयं यत्स द्वितीयः पर्यायः। नन्वत्र समुच्चयालंकारो वक्ष्यते इत्येतदर्थं क्रमेणेति योज्यम्। अत एव ‘गुणक्रियायौगपद्यं समुच्चयः’ इति समुच्चयलक्षणे यौगपद्यग्रहणम्। अत एव क्रमाश्रयणात्पर्याय इत्यन्वर्थमभिधानम्। विनिमयाभावात्परिवृत्तिवैलक्षण्यम्। तस्या हि विनिमयो लक्षणत्वेन वक्ष्यते। तत्रानेकोऽसंहतरूपः संहतरूपश्चेति द्विविधः। तच्च द्वैविध्यमाधाराधेयगतमिति चत्वारोऽस्य भेदाः। क्रमेणोदाहरणानि-

     नन्वाश्रयस्थितिरियं किल कालकूट
     केनोत्तरोत्तरविशिष्टपदोपदिष्टा।
     प्रागर्णवस्य हृदये वृषलक्ष्मणोऽथ
     कण्ठेऽधुना वससि वाचि पुनः खलानाम्॥’
     ‘विसृष्टरागादधरान्निवर्तितः स्तनाङ्गरागारुणिताच्च कन्दुकात्।
     कुशाङ्कुरादानपरिक्षताङ्गुलिः कृतोऽक्षयसूत्रप्रणयी तया करः॥’
     ‘निशासु भास्वत्कलनूपुराणां यः संचरोऽभूदभिसारिकाणाम्।
     नदन्मुखोल्काविचितामिषाभिः स वाह्यते राजपथः शिवाभिः॥’
     ‘यत्रैव मुग्धेति कृशोदरीति प्रियेति कान्तेति महोत्सवोऽभूत्।
     तत्रैव दैवाद्वदने मदीये पत्नीति भार्येति गिरश्चरन्ति॥’

अत्र कालकूटमेकमनेकस्मिन्नसंहते आश्रये क्रमेण स्थितिमन्निबद्धम्। करश्चैकोऽनेकस्मिन्संहते क्रमवान्। अधरकन्दुकयोर्निवृत्त्युपादानतया संहतत्वेन स्थितत्वात्। अभिसारिकाः शिवाश्चानेकस्वभावा असंहतरूपा एकस्मिन्नाश्रये राजपथे क्रमवर्तिन्यः। वचने चैकस्मिन्नाश्रये मुग्धत्वादिवर्गः पत्नीत्यादिवर्गश्च वर्गत्वादेव संहतरूपोऽनेकः क्रमवानुपनिबद्धः। समन्यूनाधिकानां समाधिकन्यूनैर्विनिमयः परिवृत्तिः। विनिमयोऽत्र किंचित्त्यक्त्वा कस्यचिदादानम्। समेन तुल्यगुणेन त्याज्यमानेन तादृशस्यैवादानम्। तथाधिकेनोत्कृष्टगुणेन दीयमानेन न्यूनस्य गुणहीनस्य परिग्रहः। एवं न्यूनेन हीनगुणेन त्याज्यमानेनाधिकगुणस्योत्कृष्टस्य स्वीकारः। तदेषा त्रिप्रकारा परिवृत्तिः। क्रमप्रतिभासंभवात्पर्यायानन्तरमस्या लक्षणम्। समपरिवृत्तिर्यथा-

     ‘उरो दत्त्वामरारीणां येन युद्धेष्वगृह्यत।
     हिरण्याक्षवधार्थेषु (?)यशः साकं जयश्रिया॥’ अत्रोरोयशसोस्तुल्यगुणत्वम्।अधिकपरिवृत्तिर्यथा-
     ‘किमित्यपास्याभरणानि
     यौवने धृतं त्वया वार्धकशोभि वल्कलम्।
     वद प्रदोषे स्फुटचन्द्रतारके विभावरी यद्यरुणाय कल्पते॥’
     अत्रोत्कृष्टगुणैराभरणैर्न्यूनगुणस्य वल्कलस्य परिवृत्तिः। न्यूनपरिवृत्तिर्यथा-
     ‘अस्य हि प्रवयसो जटायुषः स्वर्गिणः किमिव शोच्यते बुधैः।
     येन जर्जरकलेवरव्ययात्क्रीतमिन्दुकिरणोज्ज्वलं यशः॥’
     अत्र हीनगुणेन कलेवरेणोत्कृष्टगुणस्य यशसो विनिमयः।
     ‘दत्त्वा दर्शनमेते मत्प्राणा वरतनु त्वया क्रीताः।
     किं त्वपहरसि मनो यद्ददासि रणरणकमेतदसत्॥’

अत्राद्ये समपरिवृत्तिः। द्वितीयार्धे न्यूनपरिवृत्तिः। एकस्यानेकप्राप्तावेकत्र नियमनं परिसंख्या। एकानेकप्रस्तावादिह वचनम्। एकं वस्तु यदानेकत्र युगपत्संभाव्यते तदा तस्यैकत्रासंभाव्ये द्वितीयपरिहारेण नियमनं परिसंख्या।कस्यचित्परिवर्जनेन कुत्रचित्संख्यानं वर्णनीयत्वेन गणनं परिसंख्या। सा चैषा प्रश्नपूर्विका तदन्यथा वेति प्रथमं द्विधा। प्रत्येकं च वर्जनीयत्वेऽस्य शाब्दत्वार्थत्वाभ्यां द्वैविध्यमिति चतुःप्रभेदा:। क्रमेण। यथा-

     ‘किं भूषणं सुदृढमत्र यशो न रत्नं
     किं कार्यमार्यचरितं सुकृतं न दोषः।
     कि चक्षुरप्रतिहतं धिषणा न नेत्रं
     जानाति कस्त्वदपरः सदसद्विवेकम्॥’
     ‘किमासेव्यं पुंसां सविधमनवद्यं द्युसरितः
     किमेकान्ते ध्येयं चरणयुगलं कौस्तुभभृतः।
     किमाराध्यं पुण्यं किमभिलषणीयं च करुणा
     यदासक्त्या चेतो निरवधि विमुक्त्यै प्रभवति॥’
     ‘भक्तिर्भवे न विभवे व्यसनं शास्त्रे न युवतिकामास्त्रे।
     चिन्ता यशसि न वपुषि प्रायः परिदृश्यते महताम्॥’
     ‘कौटिल्यं कचनिचये करचरणाधरदलेपु रागस्ते।
     काठिन्यं कुचयुगले तरलत्वं नेत्रयोर्वसति॥’

अत्र चालौकिकं वस्तु गृह्यमाणं वस्त्वन्तरव्यवच्छेदे पर्यवस्यतीति व्यवच्छेद्यं वस्त्वन्तरशब्दमात्रं वेति नियमाभावः। अलौकिकत्वाभिप्रायेणैव क्वचित्प्रश्नपूर्वकं ग्रहणम्। यथा-

     ‘विलङ्घयन्ति श्रुतिवर्त्म यस्यां लीलावतीनां नयनोत्पलानि।
     विभर्ति यस्यामपि वक्रिमाणमेको महाकालजटार्धचन्द्रः॥’

यथा-‘चित्रकर्मसु वर्णसंकरो यतिषु दण्डग्रहणानि’ इत्यादि श्लेषसंपृक्तत्वमस्या अत्यन्तचारुत्वनिबन्धनम्। अत्र च नियमपरिसंख्ययोर्वाक्यवित्प्रसिद्धं लक्षणं नादरणीयमिति ख्यापनाय नियमनं परिसंख्येति सामानाधिकरण्येनोक्तिः। अत एव पाक्षिक्यपि प्राप्तिरत्र स्वीक्रियत इति युगपत्संभावनं प्रायिकम्। दण्डापूपिकयार्थान्तरापतनमर्थापत्तिः। दण्डापूपयोर्भावो दण्डापूपिका। ‘दण्डमनोज्ञादिभ्यश्च’ इति वुञ्। पृषोदरादित्वाच्च वृद्धभावः। यथा-अहमहमित्यादाविति केचित्। अन्ये तु दण्डपूपो विद्येते यस्यां नीतौ सा दण्डापूपिका नीतिः। एवमहं शक्तोऽहं शक्तोऽस्यामिति अहमहमिकेति- वन्मत्वर्थी- यष्टन्नित्याहुः। अपरे दण्डापूपाविव दण्डापूपिकेति इवे प्रकृताविति कनं वर्णयन्ति। अत्र हि मूषककर्तृकेण दण्डभक्षणेन तत्सहभाव्यपूपभक्षणमर्थात्सिद्धम्। एवं न्यायो दण्डापूपिकाशब्देनोच्यते। ततश्च यथा दण्डभक्षणादपूपभक्षणमर्थायातं तद्वत्कस्य-चिदर्थस्य निष्पत्तौ सामर्थ्यात्समानन्यायत्वलक्षणादर्थान्तरमापतति सार्थापत्तिः। न चेदमनुमानम्। समन्याय्यस्य संबन्धरूपत्वाभावात्। असंबन्धे चानुमानानुत्थानात्। अर्थापत्तिश्च वाक्यविदां न्याय इति तज्जातीयत्वेनेहाभिधानम्। इयं च द्विधा। प्राकरणिकादप्राकरणिकस्यार्थापतनमेकः प्रकारः। अप्राकरणिकात्प्राक रणिकस्यार्थापतनं द्वितीयः प्रकारः। आद्यो यथा-

     ‘पशुपतिरपि तान्यहानि कृच्छ्रादगमयदद्रिसुतासमागमोत्कः।
     कमपरमवशं न विप्रकुर्युर्विभुमपि तं यदमी स्पृशन्ति भावाः॥’

अत्र विभुवृत्तः प्राकरणिको लोकवृत्तान्तमप्राकरणिकमर्थादाक्षिपति। द्वितीयो यथा-

     ‘धृतधनुषि बाहुशालिनि शैला न नमन्ति यत्तदाश्चर्यम्।
     रिपुसंज्ञकेषु गणना केव वराकेषु काकेषु॥’

अत्र शैलवृत्तान्तोऽप्रामाणिको रिपुवृत्तान्तं प्राकरणिकमर्थादाक्षिपति। क्वचिन्न्यायसाम्ये निमित्तं श्लेषेण गम्यते-

     ‘अलंकारः शङ्काकरनरकपालं परिकरो
     विशीर्णाङ्को भृङ्गी वसु च वृष एको गतवयाः।
     अवस्थेयं स्थाणोरपि भवति सर्वामरगुरो-
     र्विधौ वक्रे मूर्ध्नि प्रभवति वयं के पुनरमी॥’

अत्र विधौ वक्रे इति श्लिष्टम्। अप्राकरणिकस्थाणुवृत्तान्तात्प्राकरणिकार्थापतनम्। तुल्यबलविरोधो विकल्पः। विरुद्धयोस्तुल्यप्रमाणविशिष्टत्वात्तुल्यबलयोरेकत्र युगपत्प्राप्तौ विरुद्धत्वादेव यौगपद्यासंभवे विकल्पः। औपम्यगर्भत्वाच्चात्र चारुत्वम्। यथा- ‘नमन्तु शिरांसि धनूंषि वा कर्णपूरीक्रियन्तामाज्ञा मौर्व्यो वा’ इत्यादि। अत्र प्रतिराजकार्ये नमने शिरसां धनुषां च तुल्यप्रमाणश्लिष्टत्वम्। संधिविग्रहौ चात्र क्रमेण तुल्यप्रमाणे। प्रतिराजविषयत्वेन स्पर्धया द्वयोरपि संभाव्यमानत्वात्। द्वौ चेमौ विरुद्धाविति तयोर्युगपत्प्रवृत्तिं प्राप्नुतश्चात्र युगपत्प्रकारान्तरस्यानाशङ्क्यत्वात्। ततश्च न्यायप्राप्तो विकल्पः। नमनकृतं च तयोः सादृश्यमित्यलंकारता। एवं कर्णपूरीक्रियन्तामित्यादौ योजनीयम्। औपम्यगर्भत्वाच्च क्वचिच्छ्लेषावलम्बेनाप्ययं दृश्यते।

     ‘भक्तिप्रह्वविलोकनप्रणयिनी नीलोत्पलस्पर्धिनी
     ध्यानालम्बनतां समाधिनिरतैर्नीते हितप्राप्तये।
     लावण्यस्य महानिधी रसिकतां लक्ष्मीदृशोस्तन्वती
     युष्माकं कुरुतां भवार्तिशमनं नेत्रे तनुर्वा हरेः॥’

अत्र नेत्रे तनुर्वेति विकल्पः। उत्तमत्वाच्च तुल्यप्रमाणं श्लिष्टत्वम्। न चात्र समुच्चये वाशब्दः। संभवन्त्यामपि गतौ महाकविव्यवहारे तथा प्रयोगाभावात्। ननु विरोधनिमित्तो विकल्पः कथं चात्र विरोधः। नैतत्। तनुमध्ये नेत्रयोः प्रविष्टत्वात्तयोः पृथगभिधानमेव (न) कार्यम्। कृतं च तत्स्पर्धिभावं गमयति। स्पर्धिभावश्च विरुद्धत्वम्। नेत्रे अथवा समस्तमेव शरीरमित्यर्थावगमे विरोधस्य सुप्रत्येयत्वात्। स चात्र श्लेषाच्छि्लष्टः। लिङ्गश्लेषस्य वचनश्लेषस्य चात्र दृष्टेः। तस्मात्समुच्चयप्रतिपक्षभूतो विकल्पाख्योऽलंकारः। पूर्वैरकृतविवेकोऽत्र दर्शित इत्यवगन्तव्यम्। गुणक्रियायौगपद्यंसमुच्चयः। गुणानां वैमल्यादीनां यौगपद्येनावस्थानम्, तथैव क्रियाणां च समुच्चयोऽलंकारः। विकल्पप्रतिपक्षेणास्य स्थितिः। क्रमेणं यथा-

     ‘विदलितसकलारिकुलं तव बलमिदमाशु विमलं च।
     प्रखलमुखानि नराधिप मलिनानि च तानि जातानि॥’
     ‘अयमेकपदे तथा वियोगः प्रियया चोपनतोऽतिदुःसहो मे।
     नववारिधरोदयादहोभिर्भवितव्यं च निरातपत्ररम्यैः॥’

एतद्विभिन्नविषयत्वेनोदाहरणम्।एकाधिकरणत्वेनाप्ययमलंकारो दृश्यते। यथा-

     ‘बिभ्राणा हृदये त्वया विनिहितं प्रेमाभिधानं नवं
     शल्यं यद्विदधाति सा विधुरिता साधो तदाकर्ण्यताम्।
     शेते शुष्यति ताम्यति प्रलपति प्रम्लायति भ्राम्यति
     प्रेङ्खत्युल्लिखति प्रणश्यति दलत्युन्मूर्छति त्रुट्यति॥’

एवं गुणसमुच्चयेऽप्युदाहार्यम्। केचित्पुनर्न केवलं गुणक्रियाणां व्यस्तत्वेन समुच्चयो यावत्समस्तत्वेनापि भवतीति वर्णयन्ति। उदाहरणम्-

     ‘न्यञ्चत्कुञ्चितमुन्मुखं हसितवत्साकूतमाकेकरं
     व्यावृत्तं प्रसरत्प्रसादि मुकुलं सप्रेमकम्पं स्थिरम्।
     उद्भ्रूभ्रान्तमपाङ्गवृत्ति विकचं मज्जत्तरङ्गोत्तरं
     चक्षुः सास्रु च वर्तते रसवशादेकैकमन्यक्रियम्॥’

अत्राकेकरादयो गुणशब्दा न्यञ्चदित्यादयः क्रियाशब्दा इति सामस्त्येन गुणक्रियायौगपद्यम्। प्रसादिसप्रेमेत्यादीनां समासकृत्तद्धितेषु संबन्धाभिधानमिति संबन्धस्य वाच्यत्वात्। तस्य च सिद्धरूपत्वेन गुणत्वाद्गुणशब्देन गुणयौगपद्यमिति द्रष्टव्यम्। एवमयं त्रिधा समुच्चयः। एकं समुच्चयं त्रिप्रकारभिन्नं लक्षयित्वा द्वितीयं लक्षयति- एकस्य सिद्धिहेतुत्वेऽन्यस्य तत्करत्वं च। समुच्चय इत्येव। यत्रैकः कस्यचित्कार्यस्य सिद्धिहेतुत्वेन प्रक्रान्तस्तत्रान्योऽपि यदि तत्स्पर्धया तत्सिद्धिं करोति तदायमपरः समुच्चयः। न चायं समाध्यलंकारेऽन्तर्भवति। तत्र ह्येकस्य कार्यं प्रति पूर्णं साधकत्वम्। अन्यस्तु कार्याय काकतालीयेनापतति तत्र समाधिर्वक्ष्यते। यत्र तु खलेकपोतिकया बहूनामवतारस्तत्रायं समुच्चयः। अतः सुमहान्भेदोऽनयोः। स एष समुच्चयः सद्योगेऽसद्योगे सदसद्योगे च भवतीति त्रिधा भिद्यते। सतः शोभनस्य सता शोभनेन समुच्चीयमानेन यथा-

     ‘कुलममलिनं भद्रा मूर्तिर्मतिः श्रुतिशालिनी
     भुजबलमलं स्फीता लक्ष्मीः प्रभुत्वमखण्डितम्।
     प्रकृतिसुभगा एते भावा अमीभिरयं जनो
     व्रजति नितरां दर्पं राजँस्त एव तवाङ्कुशाः॥’

अत्रामालिन्येन शोभनस्य कुलस्य मूर्त्यादिभिः शोभनैः समुच्च्यः। एकैकं च दर्पहेतुतायोग्यं तत्स्पर्धया निबद्धम्। यथा-

     ‘दुर्वाराः स्मरमार्गणाः प्रियतमो दूरे मनोऽत्युत्सुकं
     गाढं प्रेम नवं वयोऽतिकठिनाः प्राणाः कुलं निर्मलम्।
     स्त्रीत्वं धैर्यविरोधि मन्मथसुहृत्कालः कृतान्तोऽक्षमो
     नो सख्यश्चतुराः कथं नु विरहः सोढव्य इत्थं शठः॥’

अत्र दुर्वारत्वेनाशोभनानां स्मरमार्गणानां तादृशैरेव प्रियतमादूरत्वादिभिः समुच्चयः। नववयःप्रभृतीनां च यद्यपि स्वतः शोभनत्वम्, तथापि विरहविषयेनात्राशोभनत्वं ज्ञेयम्। सदसतः शोभनाशोभनस्य तादृशेन सदसता समुच्चीयमानेन योगो यथा-

     ‘शशी दिवसधूसरो गलितयौवना कामिनी
     सरो विगतवारिजं मुखमनक्षरं स्वाकृति।
     प्रभुर्धनपरायणः सततदुर्गतः सज्जनो
     नृपाङ्गणगतः खलो मनसि सप्त शल्यानि मे॥’

अत्र शशिनः स्वतः शोभनस्यापि दिवसधूसरत्वादशोभनत्वेन सदसतस्तादृशैरेव कामिनीप्रभृतिभिः समुच्चयः। नत्वत्र कश्चित्समुच्चीयमानः शोभनः। अन्यस्त्वशोभन इति सदसद्योगो व्याख्येयः। ननु नृपाङ्गनगतः खल इत्यशोभनोऽन्ये त्वशोभना इति कथं समुच्चीयमानस्य सतस्तादृशेनासता योगः। नैतत्। ‘नृपाङ्गनगतः खलः’ इति प्रत्युत प्रक्रमभङ्गाद्दुष्टमेव। न तु सौन्दर्यनिमित्तमित्युपेक्ष्यमेवैतत्। अत एवान्यैरेवमादौ सहचरभिन्नोऽर्थदुष्ट एवेत्युक्तम्। प्रकृते तु नृपाङ्गनगतत्वेन शोभनत्वं खलत्वेनाशोभनत्वमिति समर्थनीयम्। एवमपि विशेष्यस्य शोभनत्वं प्रक्रान्तम्। विशेषणस्य त्वशोभनत्वमिह त्वन्यथेति न सर्वथा निरवद्यम्। ननु ‘दुर्वाराः स्मरमार्गणाः’ इत्युक्तोदाहरणवत्कथं न सदसद्योगः। नैतत्। इह शोभनस्य सतोऽशोभनत्वमिति विवक्षा। तत्र त्वशोभनमेवैतदिति विवक्षितमित्यस्त्यनयोर्भेदः। अत एवैकत्रोपसंहृतं ‘मनसि सप्तशल्यानि’ इति। सुन्दरत्वेनान्तःप्रविष्टानामपि व्यथाहेतुत्वात्। अपरत्र तु ‘कथं सोढव्यः’ इति सर्वथा दुष्टत्वाभिप्रायेण। तस्मादस्ति प्रकारत्रयस्य विविक्तविषयत्वम्। कारणान्तरयोगात्कार्यस्य सुकरत्वं समाधिः। केनचिदारब्धस्य कार्यस्य कारणान्तरयोगात्सौकर्यं सम्यगाधानात्समाधिः। समुच्चयसादृश्यात्तदनन्तरमुपक्षेपः। तद्वैलक्षण्यं तु प्राक्प्रतिपादितमेव। उदाहरणम्-

     ‘मानमस्या निराकर्तुं पादयोर्मे पतिष्यतः।
     उपकाराय दिष्ट्येदमुदीर्णं घनगर्जितम्॥’

माननिराकरणे कार्ये पादपतनं हेतुः। तत्सौकर्यार्थं घनगर्जितस्य कारणान्तरस्य प्रक्षेपः। सौकर्यं चोपकारायेति पदे प्रकाशितम्। एवं बाह्यन्यायाश्रयिणोऽलंकारान्प्रतिपाद्याधुना लोकन्यायाश्रयिणोऽलंकारा उच्यन्ते। तत्र- प्रतिपक्षतिरस्काराशक्तौ तदीयस्य तिरस्कारः प्रत्यनीकम्। यत्र बलवतः प्रतिपक्षस्य दुर्बलेन प्रतिपक्षेण प्रतीकार: कर्तुं न शक्यते इति तत्संबन्धिनो दुर्बलस्य तं बाधितुं तिरस्कारः क्रियते तत्प्रत्यनीकम्। अनीकस्य सैन्यस्य प्रतिनिधिः प्रत्यनीकमुच्यते। तत्तुल्यत्वादिदमपि प्रत्यनीकमुच्यते। यथानीकेऽभियोक्तव्ये तत्रासामर्थ्यात्तत्प्रतिनिधिभूतमन्यदभियुज्यते। तद्वदिह प्रतिपक्षे विजेये तदीयस्य दुर्बलस्य तिरस्करणमित्यर्थः। प्रतिपक्षगतत्वेन बलवत्त्वख्यापनं प्रयोजनम्। यथा-

     ‘यस्य किंचिदपकर्तुमक्षमः कायनिग्रहगृहीतविग्रहः।
     कान्तवक्रसदृशाकृतिं कृती राहुरिन्दुमधुनापि बाधते॥’

अत्र राहोःसकाशाद्भगवान्बलवान्विपक्षः। तदीयः पुनर्वक्रसादृश्यमुखेन दुर्बलश्चन्द्रमाः तत्तिरस्काराद्भगवतः प्रकर्षावगतिः। उपमानस्याक्षेप उपमेयताकल्पनं वा प्रतीपम्। उपमेयस्यैवोपमानभारोद्वहनसामर्थ्यादुपमानस्य कैमर्थक्येनाक्षेप आलोचनं क्रियते तदेकं प्रतीपम्। उपमानप्रतिकूलत्वादुपमेयस्य प्रतीपमिति व्यपदेशः। यद्युपमानतया प्रसिद्धस्योपमानान्तरप्रतितिष्ठापयिषयानादरणार्थमुपमेयत्वं कल्प्यते तत्पूर्वोक्तगत्या द्वितीयं प्रतीपम्। क्रमेण यथा- ‘यत्र च प्रमदानां चक्षुरेव सहजं मुण्डमालामण्डनं भारस्तु कुवलयदलमाल्यानि’ इत्यादि। यथा वा-

     ‘लावण्यौकसि सप्रतापगरिमण्यग्रेसरे त्यागिनां
     देव त्वय्यवनीभरक्षमभुजे निष्पादिते वेधसा।
     इन्दुः किं घटितः किमेष विहितः पूषा किमुत्पादितं
     चिन्तारत्नमहो मुधैव किममी सृष्टाः कुलक्ष्माभृतः॥’

अत्र यथासंख्यमप्यस्तीति प्राक्प्रतिपादितम्।

     ए एहि दाव सुन्दरि कण्णं दाऊण सुणसु वअणिज्जम्।
     तुज्झ मुहेण किसोअरि चन्दो उअमिज्जइ जणेण॥’

अत्रोपमानत्वेन प्रसिद्धस्य चन्द्रमसो निकर्षार्थमुपमेयत्वं कल्पितम्। वदनस्य चोपमानत्वविवक्षात्र प्रयोजिका। क्वचित्पुनर्निष्पन्नमेवौपम्यमनादरकारणम्। यथा-

     ‘गर्वमसंवाह्यमिमं लोचनयुगलेन किं वहसि भद्रे।
     सन्तीदृशानि दिशि दिशि सरःसु ननु नीलनलिनानि॥’

अत्रोत्कर्षभाज उपमानस्य प्रादुर्भाव एव न्यक्कारकारणम्। अनेन न्यायेनोत्कृष्टगुणत्वाद्यदुपमानभावमपि न सहते तस्योपमाभावत्वकल्पितं प्रतीपमेव। यथा-

     ‘अहमेव गुरुः सुदारुणानामिति हालाहल तात मा स्म दृप्यः।
     सन्ति भवादृशानि भूयो भुवनेऽस्मिन्वचनानि दुर्जनानाम्॥’

अत्र हालाहलं प्रकृष्टदोषत्वादसंभाव्यमानोपमेयभावमप्युपमानत्वेन निबद्धम्। वस्तुना वस्त्वन्तरनिगूहनं मीलितम्। सहजेनागन्तुकेन वा लक्ष्मणा यद्वस्त्वन्तरेण वस्त्वन्तरं निगूह्यते तदन्वर्थाभिधानं मीलितम्। न चायं सामान्यालंकारः, तस्य हि साधारणगुणयोगाद्भेदानुपलक्षणं रूपम्। अस्य तूत्कृष्टगुणेन निकृष्टगुणस्य तिरोधानमिति महाननयोर्विशेषः। सहजेन यथा-

     अपाङ्गतरले दृशौ मधुरवक्रवर्णा गिरो
     विलासभरमन्थरा गतिरतीव कान्तं मुखम्।
     इति स्फुरितमङ्गकैर्मृगदृशां स्वतो लीलया
     यदत्र न मदोदयः कृतपदोऽपि संलक्ष्यते॥’

अत्र दृक्तारल्यादिना स्वाभाविकेन लक्ष्मणा मदोदयकृतं दृक्तारल्यादि तिरोधीयते। आगन्तुकेन यथा-

     ये कन्दरासु निवसन्ति सदा हिमाद्रे-
     स्त्वत्पातशङ्कितधियो विवशा द्विषस्ते।
     अप्यङ्गमुत्पुलकमुद्वहतां सकम्पं
     तेषामहो बत भियां न बुधोऽप्यभिज्ञः॥’

अत्र हिमाद्रिकन्दरानिवाससामर्थ्यप्रतिपन्नेन शैत्येन समुद्भावितावागन्तुकौ कम्परोमाञ्चौ भयकृतयोस्तयोस्तिरोधायकौ। तिरोधायकत्वादेव च मीलितव्यपदेशः। प्रस्तुतस्यान्येन गुणसाम्यादैकात्म्यं सामान्यम्। यत्र प्रस्तुतस्य वस्तुनोऽप्रस्तुतेन साधारणगुणयोगादैकात्म्यं भेदानध्यव- सायादेकरूपत्वं निबध्यते तत्समानगुणयोगात्सामान्यम्। न चेयमपह्नुतिः। किंचिन्निबध्य कस्यचिदप्रतिष्ठापनात्। यथा-

     ‘मलयजरजसा विलिप्ततनवो नवहारलताविभूषिताः
     सिततरदन्तपत्रकृतवक्ररुचो रुचिरामलांशुकाः।
     शशभृति विततधाम्नि धवलयति धरामविभाव्यतां गताः
     प्रियवसतिं प्रयान्ति सुखमेव निरस्तभियोऽभिसारिकाः॥

’अत्र मलयजरजसा विलेपनादीनां चन्द्रप्रभया सह ‘अविभाव्यतां गताः’ इत्यभेदप्रतीतिर्दर्शिता। स्वगुणत्यागादत्युत्कृष्टगुणस्वीकारस्तद्रुणः। यत्र परिमितगुणस्य वस्तु नः समीपवर्तिप्रकृष्टवस्तुगुणस्य स्वीकरणं स तद्गुणः। तस्योत्कृष्टगुणस्य गुणा अस्मिन्निति कृत्वा। न चेदं मीलितम्। तत्र हि प्रकृतं वस्तु वस्त्वन्तरेणाच्छादितत्वेन प्रतीयते, इह त्वनपह्नुतस्वरूपमेव प्रकृतम्। (यत्र परिमितगुणं वस्तु तस्य समीपवर्तिप्रकृष्टवस्तुगुणस्वीकारं कुरुते स तद्गुणः।) वस्त्वन्तरगुणोपरक्ततया प्रतीयत इत्यस्त्यनयोर्भेदः। यथा- ‘विभिन्नवर्णा

     गरुडाग्रजेन सूर्यस्य रथ्याः परितः स्फुरन्त्या।
     रत्नैः पुनर्यत्र रुचं रुचा स्वामानिन्यिरे वंशकरीरनीलैः॥’

अत्र रविरथाश्वानामरुणवर्णस्वीकारः। तस्यापि गारुत्मतमणिप्रभास्वीकार इति तद्गुणत्वम्। सति हेतौ तद्गुणाननुहारोऽतद्गुणः। तद्गुणप्रस्तावात्तद्विपर्ययरूपोऽतद्गुण उच्यते। इह न्यूनगुणस्य विशिष्टगुणपदार्थ- धर्मस्वीकारः प्रत्यासत्त्या न्याय्यः। यदा पुनरुत्कृष्टगुणपदार्थसन्निधानाख्ये हेतौ सत्यपि तद्रूपस्योत्कृष्टगुणस्याननुहरणं न्यूनगुणेनाननुवर्तनं भवति सोऽतद्गुणः। तस्योत्कृष्टगुणस्यास्मिन्गुणा न सन्तीति। यद्वा तस्याप्रकृतस्य रूपाननुपहारः सत्यननुहरणहेतौ सोऽतद्गुणः। तस्याप्रकृतस्य गुणा नास्मिन्सन्तीति कृत्वा। क्रमेण यथा-

     धवलो सि जह वि सुन्दर तह वि तुए मज्झ रञ्चिअं हिअअम्।
     राअभरिए वि हिअए सुहअ णिहित्तो ण रत्तो सि॥’
     ‘गाङ्गमम्बु सितमम्बु यामुनं कज्जलाभमुभयत्र मज्जतः।
     राजहंस तव सैव शुभ्रता चीयते न च न चापचीयते॥’

पूर्वत्रातिरक्तहृदयसंपर्कान्नायकस्य धवलशब्दवाच्यस्य प्राप्तमपि रक्तत्वं न निष्पन्नमित्यतद्गुणः। उत्तरत्राप्रकृतस्य गाङ्गयामुनजलस्य संपर्केऽपि न तथा रूपत्वमित्ययमप्यतद्गुण एव। कार्यकारणभावस्य चात्राविवक्षणान्न विषमालंकारावकाशः। उत्तरात्प्रश्नोन्नयनमसकृदसंभाव्यमुत्तरं चोत्तरम्। यत्रानुपनिबध्यमानोऽपि प्रश्न उपनिबध्यमानादुत्तरादुन्नीयते तदेकमुत्तरम्। न चेदमनुमानम्। पक्षधर्मतादेरनुद्देशात्। यत्र च प्रश्नपूर्वकमसंभावनीयमुत्तरं तच्च न सकृत् तावन्मात्रे चारुत्वाप्रतीतेः। अतश्चासकृन्निबन्धे द्वितीयमुत्तरम्। न चेयं परिसंख्या। व्यवच्छेद्यव्यवच्छेदकपरत्वाभावात्। क्रमेण यथा- ‘एकाकिनी यदबला तरुणी तथाह- मस्मद्गृहे गृहपतिश्च गतो विदेशम्।कं याचसे तदिह वासमियं वराकी श्वश्रूर्ममान्धबधिरा ननु मूढ पान्थ॥’ का विसमा देवगई किं लद्धं जं जणो गुणग्गाही। किं सोक्खं सुकलत्तं किं दुक्खं जं खलो लोओ॥’ पूर्वत्र मम वासो दीयतामिति प्रश्न उत्तरादुन्नीयते। उत्तरत्र दैवगत्या- का विषमा दैवगति: किं लब्धं यज्जनो गुणग्रा‍ही। किं सौख्यं सुकलत्रं किं दु:खं यत्खलो लोक:।। इतिच्छाया. दिनिगूढत्वादसंभाव्यमसकृत्प्रश्नपूर्वकमुत्तरं निबद्धम्।इतः प्रभृति गूढार्थप्रतीतिपरालंकारलक्षणम्- संलक्षितसूक्ष्मार्थप्रकाशनं सूक्ष्मम्। इह सूक्ष्मः स्थूलमतिभिरसंलक्ष्यो योऽर्थः स यदा कुशाग्रमतिभिरिङ्गिताकाराभ्यां संलक्ष्यते तदा तस्य संलक्षितस्य विदग्धं प्रति प्रकाशनं सूक्ष्ममलंकारः। तत्रेङ्गिताद्यथा- ‘संकेतकालनसं विटं ज्ञात्वा विदग्धया। हसन्नेत्रार्पिताकूतं लीलापद्मं निमीलितम्॥’ अत्र संकेतकालाभिप्रायो विटसंबन्धिना भ्रूक्षेपादिना इङ्गितेन लक्षितः रजनिकालभाविना लीलापद्मनिमीलनेन प्रकाशितः। आकाराद्यथा-‘वक्रस्यन्दिस्वेदबिन्दुप्रबन्धैर्दृष्ट्वा भिन्नं कुङ्कुमं कापि कण्ठे।पुंस्त्वं तन्व्या व्यञ्जयन्ती वयस्या स्मित्वा पाणौ खड्गलेखां लिलेख॥’ अत्र स्वेदबिन्दुकृतकुङ्कुमरूपभिन्नेनाकारेण संलक्षितं पुरुषायितं पाणौ पुरुषोचितखड्गधारालिखनेन प्रकाशितम्। उद्भिन्नवस्तुनिगूहनं व्याजोक्तिः। 'यत्र निगूढं वस्तु कुतश्चिन्निमित्तादुद्भिन्नं प्रकटतां प्राप्तं सद्वस्त्वन्तरप्रक्षेपेण निगूह्यते अपलप्यते सा वस्त्वन्तरप्रक्षेपरूपस्य व्याजस्य वचनाद्व्याजोक्तिः। यथा- ‘शैलेन्द्रप्रतिपाद्यमानगिरिजाहस्तोपगूढोल्लस-द्रोमाञ्चादिविसंस्थुलाखिलविधिव्यासङ्गभङगाकुलः।हा शैत्यं तुहिनाचलस्य करयोरित्यूचिवान्सस्मितं शैलान्तःपुरमातृमण्डलगणैर्दृष्टोऽवताद्वः शिवः॥’अत्र रोमाञ्चादिनोद्भिन्नो रतिभावः शैत्यप्रक्षेपणेनापलपितः। यद्यप्यपह्नुतोऽपि सस्मितत्वख्यापनेन पुनरप्युद्भिन्नत्वेन प्रकाशितः। तथाप्यपलाप मात्रचिन्तया-स्यालंकारस्योल्लेखः। नन्वपह्नुतिग्रन्थे ‘यथा सादृश्याय योऽपह्नवः सापहुतिः, तथापह्नवायापि यत्सादृश्यं साप्यपह्नुतिः’ इति स्थापितम्। व्याजोक्तौ चोत्तरः प्रकारो विद्यते तत्कथमियमलंकारान्तरेण कथ्यते। सत्यम्। उद्भटसिद्धान्ता श्रयेणोत्तरत्रोक्तम्। न हि तन्मते व्याजोक्त्याख्यमलंकरणमस्ति। इह तु तस्य संभवाद्व्यतिरिक्तापह्नुतिरिति पृथगयमलंकारो निर्दिष्टः। अन्यथोक्तस्य वाक्यस्य काकुश्लेषाभ्यामन्यथा योजनं वक्रोक्तिः। उक्तिव्यपदेशसाम्याद्व्यजोक्त्यनन्तयरमस्या लक्षणम्। यद्वाक्यं केन चिदन्यथाभिप्रायेणोक्तं सदपरेण वक्रा काकुप्रयोगेण श्लेषप्रयोगेन वान्यथान्यार्थघटनया योज्यते तदुक्तिः सा वक्रोक्तिः। काकुप्रयोगेन यथा- ‘गुरूपरतन्त्रतया बत दूरतरं देशमुद्यतो गन्तुम्। अलिकुलकोकिलललिते नैष्यति सखि सुरभिसमयेऽसौ॥’अत्रैतद्वाक्यं नायिकया आगमननिषेधपरत्वेनोक्तम्। तत्संख्या काकुप्रयोगेण विधिपरतां प्रापितम्। काकुवशाद्विधिनिषेधयोर्विपरीतार्थसंक्रान्तिः। तत्र श्लेषोऽभङ्गसभङ्गत्वेनोभयमयत्वेन त्रिविधः। तत्राभङ्गश्लेषमुखेन यथा- अहो केनेदृशी बुद्धिर्दारुणा तव निर्मिता। त्रिगुणा श्रूयते बुद्धिर्न तु दारुमयी क्वचित्॥’अत्र दारुणेति प्रथमान्तं प्रक्रान्तं श्लेषभङ्ग्या तृतीयान्ततया संपादितम्। सभङ्गश्लेषमुखेन यथा-‘त्वं हालाहलभृत्करोषि मनसो मूर्च्छां समालिङ्गितो हालां नैव बिभर्मि नैव च हलं मुग्धे कथं हालिकः। सत्यं हालिकतैव ते समुचिता सक्तस्य गोवाहने वक्रोक्त्येति जितो हिमाद्रिसुतया स्मेरोऽवताद्वः शिवः॥’ उभयमुखेन यथा- ‘विजये कुशलस्त्र्यक्षो न क्रीडितुमहमनेन सह शक्ता।’विजये कुशलोऽस्मि न तु त्र्यक्षोऽक्षद्वयमिदं पाणौ॥किं मे दुरोदरेण प्रयातु यदि गणपतिर्न तेऽभिमतः।कः प्रद्वेष्टि विनायकमहिलोकः किं न जानासि॥चन्द्रग्रहणेन विना नास्मि रमे किं प्रतारयस्येवम्।देव्यै यदि रुचितमिदं नन्दिन्नाहूयतां राहुः॥हा राहौ शितदंष्ट्रे भयकृति निकटस्थिते रतिः कस्य।यदि नेच्छसि संत्यक्तः संप्रत्येषैव हाराहिः॥वसुरहितेन क्रीडा भवता सह कीदृशी न जिह्रेषि।किं वसुभिर्नमतोऽमून्सुरासुरान्नैव पश्यसि पुरः॥आरोपयसि मुधा किं नाहमभिज्ञा किल त्वदङ्कस्य।दिव्यं वर्षसहस्त्रं स्थित्वेति न युक्तमभिधातुम्॥ इति कृतपशुपतिपेलवपाशकलीलाप्रयुक्तवक्रोक्ति।हर्षवशतरलतारकमाननमव्याद्भवान्या वः॥’वक्रोक्तिशब्दश्चालंकारसामान्यवचनोऽपीहालंकारविशेषे संज्ञितः। सूक्ष्मवस्तुस्वभावयथावद्वर्णनं स्वभावोक्तिः। इह वस्तुस्वभाववर्णनमात्रं नालंकारः। तत्त्वे सति सर्वं काव्यमलंकारः स्यात्। न हि तत्काव्यमस्ति यत्र न वस्तुस्वभाववर्णनम्। तदर्थं सूक्ष्मग्रहणम्।सूक्ष्मः कवित्वमात्रस्य गम्यः। अत एव तन्निर्मित एव यो वस्तुस्वभावस्तस्य यथावदन्यूनानतिरिक्तत्वेन वर्णनं स्वभावोक्तिरलंकारः। उक्तिवाचोयुक्तिप्रस्तावादिह लक्षणम्। भाविकरसवदलंकाराभ्यामस्य भेदो भाविकप्रसङ्गेन निर्णेष्यते। यथा- ‘क्रेङ्कारो नखकोटिचञ्चुपुटकव्याघट्टनोट्टङ्कित-स्तन्व्याःकुन्तलकौतुकव्यतिकरे सीत्कारसीमन्तितः।पृष्टश्लिष्यदवामनस्तनभरोत्सेव्याङ्कपालीसुधा-सेकाकेकरलोचनस्य कृतिनः कर्णावतंसीभवेत्॥’ अतीतानागतयोः प्रत्यक्षायमाणत्वं भाविकम्। अतीतानागतयोर्भूतभाविनोरर्थयोरलौकिकत्वेनात्यद्भुतत्वाद्व्यस्तसंबन्धर- हितशब्दसंदर्भसमर्पितत्वाच्च प्रत्यक्षायमाणत्वं भाविकम्। कविगतो भाव आशयः श्रोतरि प्रतिबिम्बत्वेनास्तीति, भावो भावना वा पुनः पुनश्चेतसि निवेशनं सोऽत्रास्तीति। न चेयं भ्रान्तिः। भूतभाविनो भूतभावितयैव प्रकाशनात्। नापि रामोऽभूदितिवद्वस्तुमात्रम्। भूतभाविगतस्य प्रत्यक्षत्वादिगतस्य धर्मस्य स्फुटस्याधिकस्य प्रतिलम्भात्। नापीयमतिशयोक्तिः। अन्यस्यान्यतयाध्यवसायाभावात्। नहि भूतभाव्यभूतभावित्वेनाध्यवसीयते,अभूतभावि वा भूतभावित्वेनापि, प्रत्यक्षमप्रत्यक्षगतत्वेन, अप्रत्यक्षमपि प्रत्यक्षत्वेन।न हि प्रत्यक्षत्वं केवलं वस्तुधर्मः। प्रतिपत्त्यपेक्षयैव वस्तुनि तथाभावात्। यदाहुः- ‘तत्र यो ज्ञानप्रतिभासनात्मनोऽन्वयव्यतिरेकावनुकारयति स प्रत्यक्षः’ इति। केवलवस्तुप्रत्यक्षत्वे प्रतिपत्तुः सामग्री उपयुज्यते। सा च लोकयात्रायां चक्षुरादीन्द्रियस्वभावायोगिनामतीन्द्रियार्थदर्शने भावनारूपा। काव्यार्थविदां च भावना स्वभावैव। सा च भावना वस्तुगत्यात्यद्भुतत्वप्रयुक्ता। अत्यद्भुतानां च वस्तूनामादरप्रत्ययेन हृदि संधार्यमाणत्वात्। नापि भूतभाविनामप्रत्यक्षाणां प्रत्यक्षतयैव प्रतीतेरिवार्थगर्भीकारेणेयं प्रतीयमानोत्प्रेक्षा। तस्या अभिधानरूपाख्याध्यवसायस्वभावत्वात्। न ह्यप्रत्यक्षं प्रत्यक्षत्वेनाध्यवसीयते। किं तर्हि काव्यार्थविद्भि: प्रत्यक्षत्वेन दृश्यते इति। नापि वस्तुगता इवार्था उत्प्रेक्षाप्रयोजकाः। तस्या अभिमानरूपायाः प्रतिपत्तृधर्मत्वात्। यदाहुः- ‘अभिमानेन सा योक्तिर्ज्ञानधर्मसुखादिवत्’ इति च। काव्यविषये च प्रयोक्तापि प्रतिपत्तैव। नाप्यद्भुतदर्शनादतीता-नागतत्वप्रत्यक्षत्वप्रतीतेः काव्यलिङ्गमिदम्। लिङ्गलिङ्ग्यभावेन प्रतीत्यभावात्। योगिवत्प्रत्यक्षतया प्रतीतेः।नाप्ययं पुरः स्फुरद्रूपतया सचमत्कारं प्रतीते रसवदलंकारः। रत्यादिचित्तवृत्तीनां तदनुषक्ततया विभावादीनामपि साधारण्येन हृदयसंवादितया परमाद्वैतज्ञानवत्प्रतीतौ तस्य भावात्। इह च ताटस्थ्येन भूतभाविनां स्फुटत्वेन भिन्नसर्वज्ञवत्प्रतीतेः। स्फुटप्रतीत्युत्तरकालं तु साधारण्यप्रतीतौ स्फुटप्रतीतिनिमित्तक औत्तरकालिको रसवदलंकारः स्यात्। नापीयं सुन्दरवस्तुस्वभाववर्णनात्स्वभावोक्तिः। तस्यां लौकिकवस्तुगतसूक्ष्मधर्मवर्णने साधारण्येन हृदयसंवादसंभवात्।इह च लोकोत्तराणां वस्तूनां स्फुटतया ताटस्थेन प्रतीतौ क्वचित्तु लौकिकानामपि वस्तूनां स्फुटत्वेन भाविकस्वभावोक्त्योः समावेशः स्यात्। न च हृदयसंवादमात्रेण स्वभावोक्तिरसवदलंकारयोरभेदः। वस्तुसंवादरूपत्वात्स्वभावोक्तेः। चित्तवृत्तिसमाधिरूपत्वाच्च रसवदलंकारस्य। उभयसंवाददर्शनेऽपि समावेशोऽपि घटते। यत्र वस्तुगतसूक्ष्मधर्मवर्णनं स्यात्तत्र स्वभावोक्तिः, अन्यत्र तु रसवदलंकार एव।नाप्ययं शब्दानाकुलत्वहेतुकाज्झगित्यर्थसमर्पणात्प्रसादाख्यो गुणः। तस्य हि स्फुटास्फुटोभयवाच्यगतत्वेन झटिति समर्पणं रूपम्। अस्य झटिति समर्पकस्य सतः स्फुटत्वेन प्रतीतौ स्परूपप्रतिलम्भः। तस्मादयं सर्वोत्तीर्ण एवालंकारः। लक्ष्ये चायं प्रचुरप्रयोगो दृश्यते। यथा- ‘मुनिर्जयति योगीन्द्रो महात्मा कुम्भसंभवः। येनैकचुलुके दृष्टौ दिव्यौ तौ मत्स्यकच्छपौ॥’ यथा वा- हर्षचरितप्रारम्भे ब्रह्मसदसि वेदस्वरूपवर्णने। तत्र हि प्रत्यक्षमेव स्फुटत्वेन तदीयं रूपं दृश्यते। एवं तत्रैव मुनिक्रोधवर्णने, पुलिन्द वर्णनादौ ज्ञेयम्। अयं तु तत्र विचारलेशः संभवति- इह क्वचिद्वर्णनीयस्य वर्णनावशादेव प्रत्यक्षायमाणत्वम्। क्वचित्प्रत्यक्षायमाणस्यैव वर्णनम्। आद्यो यथोदाहृतं प्राक्।द्वितीयो यथा-‘अनातपत्रोऽप्ययमत्र लक्ष्यते सितातपत्रैरिव सर्वतो वृतः।अचामरोऽप्येष सतेव वीज्यते विलासबालव्यजनेन कोऽप्ययम्॥’इति।तत्र प्रथमप्रकारविषयोऽयमलंकारो न प्रकारान्तरगोचरः। कविसमर्पितानां धर्माणां ह्यलंकारत्वात्। न हिमांशुलावण्यादीनामिव वस्तुसन्निवेशिनाम्। अपि च ‘शब्दानाकुलता चेति तस्य हेतून्प्रचक्षते’ इति भामहीये, ‘वाचामनाकुलत्वेनापि भाविकम्’ इति चौद्भटलक्षणे व्यस्तसंबन्धरहितशब्दसंदर्भसमर्पितत्वं प्रत्यक्षायमाणत्वप्रतिपादकं कथं प्रयोजकीभवेत् यदि वस्तुसन्निवेशधर्मिगतत्वेनापि भाविकं स्यात्। तस्माद्वास्तवमेवमहत्त्वमुत्तरत्र प्रकारविषये वर्णितमिति नायभलंकारः। यदि तु वास्तवमेवात्र सौन्दर्यं कविनिबद्धं कविनिबद्धवक्तृनिबद्धं वा सकलवक्तृगोचरीभूतं स्वभावोक्तिवदलंकारतया वर्ण्यते तदायमपि प्रकारो नातीव दुःश्लिष्टः। अत एव ‘प्रत्यक्षा एव यत्रार्थाः क्रियन्ते भूतभाविनः। तद्भाविकम्’ इति, एवमन्यैर्भाविकलक्षणमकारि। स्वभावोक्त्यार किंचित्सादृश्यात्तदनन्तरमस्य लक्षणं कृतम्। समृद्धिमद्वस्तुवर्णनमुदात्तम्। स्वभावोक्तौ भाविके च यथावद्वस्तुवर्णनम्। तद्विपक्षत्वेनारोपितवस्त्वात्मन उदात्तस्यावसरः। तत्रासंभाव्यमानविभूतियुक्तस्य वस्तुनो वर्णनं कविप्रतिभोत्थापितमैश्वर्यलक्षणमुदात्तम्। यथा- ‘मुक्ताः केलिविसूत्रहारगलिताः संमार्जनीभिर्हृताः प्रातः प्राङ्गणसीम्नि मन्थरचलद्बालाङ्घ्रिलाक्षारुणाः। दूराद्दाडिमबीजशङ्कितधियः कर्षन्ति केलीशुका यद्विद्वद्भवनेषु भोजनृपतेस्तत्त्यागलीलायितम्॥’ अङ्गभूतमहापुरुषचरितं च। उदात्तशब्दसाम्यादिहाभिधानम्। महापुरुषाणामुदात्तचरितानामङ्गिभूतवस्त्वन्तराङ्गभावेनोपनिबध्यमानं चरितं चोदात्तम्। महापुरुषचरितस्योदात्तत्वात्। यथा-‘तदिदमरण्यं यस्मिन्दशरथवचनानुपालनव्यसनी।निवसन्बाहुसहायश्चकार रक्षःक्षयं रामः॥’अत्रारण्ये वर्णनीये रामचरितमङ्गत्वेन वर्णितम्। रसभावतदाभासतत्प्रशमानां निबन्धनेन रसवत्प्रेय ऊर्जस्विसमाहितानि। उदात्ते महापुरुषचरितस्य चित्तवृत्तिरूपत्वाच्चित्तवृत्तिविशेषस्वभावत्वाच्च रसादीनामिह तदलंकाराणां प्रस्तावः। अत एव चत्वारोऽलंकारा युगपल्लक्षिताः। तत्र विभावानुभावव्यभिचारिभिः प्रकाशितो रत्यादिश्चित्तवृत्तिविशेषो रसः। भावो विभावानुभावाभ्यां सूचितो निर्वेदादिस्त्रयस्त्रिशद्भेदाः। देवादिविषयश्च रत्यादिर्भावः।तदाभासो रसाभावो भावाभासश्च। आभासत्वमविषयप्रवृत्त्यानौचित्यम्। तत्प्रशम उक्तप्रकाराभ्यां निवर्तमानत्वेन प्रशाम्यदवस्था।तत्रापि रसस्य परविश्रान्तिरूपत्वात्सा न संभवति इति परिशिष्टभेदविषयो द्रष्टव्यः।एषामुपनिबन्धक्रमेण रसवदादयोऽलंकाराः। रसो विद्यते यत्र निबन्धे व्यापारात्मनि तद्रसवत्। प्रियतरं प्रेयो निबन्धनमेव द्रष्टव्यम्। एवमूर्जो बलं विद्यते यत्र तदपि निबन्धनमेव। अनौचित्यप्रवृत्तत्वादत्र बलयोगः। समाहितं परिहारः। स च प्रकृतत्वादुक्तभेदविषयः प्रशमापरपर्यायः। तत्र यस्मिन्दर्शने वाक्यार्थीभूता रसादयो रसवदाद्यलंकारः, तत्राङ्गभूतरसादिविषये रसवदाद्यलंकारः। द्वितीये उदात्तालंकारः। तन्मते त्वङ्गभूते रसादिविषये रसवदाद्यलंकाराः। अन्यस्य रसादिध्वनिना व्याप्तत्वात्तत्रोदात्तालंकारस्य विषयो नावशिष्यते। तद्विषयस्य रसवदादिना व्याप्तत्वम्। तत्र रसवत उदाहरणम्-‘किं हास्येन न मे प्रयास्यसि पुनः प्राप्तिश्चिराद्दर्शनं केयं निष्करुण प्रवासरुचिता केनासि दूरीकृतः।स्वप्नान्तेष्विति वो वदन्प्रियतमव्यासक्तकण्ठग्रहोबुद्ध्वा रोदिति रिक्तबाहुवलयस्तारं रिपुस्त्रीजनः॥’ एतन्मतद्वयेऽप्युदाहरणम्। वाक्यार्थीभूतोऽत्र करुणो रसः। अङ्गभूतस्तु विप्रलम्भश्रृङ्गारः। एवं रसान्तरेष्वप्युदाहार्यम्। प्रेयोऽलंकारादौ विशेषमनपेक्ष्योदाह्रियते। प्रेयोलंकारो यथा-‘गाढालिङ्गनवामनीकृतकुचप्रोद्भिन्न रोमोद्गमा सान्द्रस्वेदरसातिरेकविगलच्छ्रीमन्नितम्बाम्बरा। मा मा मानद माति मामलमिति क्षामाक्षरोल्लापिनी सुप्ता किं नु मृता नु किं मनसि मे लीना विलीना नु किम्॥’अत्र नायिकायां हर्षाख्यो व्यभिचारिभावः। यथा वा-‘त्वद्वक्त्रामृतपानदुर्ललितया दृष्ट्या क्व विश्रम्यतां त्वद्वाक्यश्रवणाभियोगपरयोः श्राव्यं कुतः कर्णयोः। एभिस्तत्परिरम्भनिर्भरतरैरङ्गैः कथं स्थीयतां कष्टं तद्विरहेण संप्रति वयं कृच्छ्रामवस्थां गताः॥’ अत्र चिन्ताख्यो व्यभिचारिभावः। एष एव च भावालंकारः। भावस्य चात्र स्थितिरूपतया वर्णनम्। शान्त्युदयावस्थे तु वक्ष्येते। ऊर्जस्वी यथा-‘दूराकर्षणमोहमन्त्र इव मे तन्नाम्नि जाते श्रुतिंचेतः कालकलामपि प्रकुरुते नावस्थितिं या विना। एतैराकुलितस्य विक्षततरैरङ्गैरनङ्गातुरैःसंपद्येत कदा तदाप्तिसुखमित्येतन्न विद्मि स्फुटम्॥’अत्र रावणस्याभिलाषको विप्रलम्भश्रृङ्गारः। औत्सुक्यं च व्यभिचारिभावः। अनौचित्येन प्रवृतौ समाहितं यथा- ‘अक्ष्णोः स्फुटास्रुकलुषोऽरुणिमानिलीनः शान्तं च सार्धमधरस्फुरणं भ्रुकुट्या। भावान्तरस्य तव चण्डि गतोऽपि रोषो नो गाढवामनतया प्रसरं ददाति॥’अत्र कोपस्य प्रशमः। एवमन्यत्राप्युदाहार्यम्। भावोदयो भावसंधिर्भावशबलता च पृथगलंकारः। उद्गमावस्था, संधिः द्वयोर्विरुद्धयोः स्पर्धित्वेनोपनिबन्धः, शबलता च बहूनां पूर्वोपमर्देन निबन्धः। एते च पृथाग्रसवदादिम्यो भिन्नालंकाराः। एतत्प्रतिपादनं चोद्भटादिभिरेषां पृथगलंकारत्वेनानिर्दिष्टत्वात्। अथ च संकरसंसृष्टिवैलक्षण्येन। एते च सर्वालंकाराः पृथक्केवलत्वेनालंकारा इति सर्वालंकारशेषत्वेनोक्तम्। संसृष्टिसंकरयोर्हि संपृक्ततयालंकाराणां स्थितिस्तद्वैलक्षण्य-प्रतिपादनमेतत्। तत्र भावोदयो यथा-‘एकस्मिञ्छयने विपक्षरमणीनामग्रहे मुग्धयासद्यः कोपपरिग्रहग्लपितया चाटूनि कुर्वन्नपि। आवेगादवधीरितः प्रियतमस्तूष्णीं स्थितस्तत्क्षणा-न्माभूत्सुप्त इवेत्यमन्दवलितग्रीवं पुनर्वीक्षितः॥’अत्रौत्सुक्यस्योदयः।भावसंधिर्यथा- ‘वामेन नारीनयनास्रधारां कृपाणधारामथ दक्षिणेन।उत्पुंसयन्नेकतरः करेण कर्तव्यमूढः सुभटो बभूव॥’ अत्र स्नेहाख्यरतिभावरणौत्सुक्ययोः संधिः। भावशबलता यथा- ‘क्वाकार्यं शशलक्ष्मणः क्व च कुलं भूयोऽपि दृश्येत सादोषाणां प्रशमाय नः श्रुतमहो कोपेऽपि कान्तं मुखम्। किं वक्ष्यन्त्यपकल्मषाः कृतघियः स्वप्नेऽपि सा दुर्लभाचेतः स्वास्थ्यमुपैहि कः खलु युवा धन्योऽधरं पास्यति॥’ अत्र वितर्कौत्सुक्यमतिस्मरणशङ्कादैन्यधृतिचिन्तानां भावानां शबलता। ‘क्वाकार्यं शशलक्ष्मणः क्व च कुलं भूयोऽपि दृश्येत सा दोषाणां प्रशमाय नः श्रुतमहो कोपेऽपि कान्तं मुखम्। किं वक्ष्यन्त्यपकल्मषाः कृतघियः स्वप्नेऽपि सा दुर्लभा चेतः स्वास्थ्यमुपैहि कः खलु युवा धन्योऽधरं पास्यति॥’ अत्र वितर्कौत्सुक्यमतिस्मरणशङ्कादैन्यधृतिचिन्तानां भावानां शबलता। तदेते चित्तवृत्तिगतत्वेनालंकारा दर्शिताः। अधुनैषां सर्वेषामलंकाराणां संश्लेषसमुत्थापितमलंकारद्वयमुच्यते।तत्र संश्लेषः संयोगन्यायेन समवायन्यायेन च द्विविधः। संयोगन्यायो यत्र भेदस्योत्कटतया स्थितिः। समवायन्यायो यत्र तस्यैवानुत्कटत्वेनावस्थानम्। तत्रोत्कटत्वेन स्थितौ तिलतण्डुलन्यायः, इतरत्र तु क्षीरनीरसादृश्यकम्। क्रमेणैतदुच्यते- उक्तालंकाराणां यथासंभवं यदि क्वचिद्वचनं स्यात्, तदा ते किं पृथक्त्वेन पर्यवसिताः, उत तदलंकारान्तरमेव किंचिदिति विचार्यते- तत्र यथा बाह्यालंकाराणां सौवर्णमणिमयप्रभृतीनां पृथक्चारुत्वहेतुत्वेऽपि संघटनाकृतं चारुत्वान्तरं जायते तद्वत्प्रकृतालंकाराणामपि संयोजने चारुत्वान्तरमुपलभ्यते। तेनालंकारान्तरप्रादुर्भावो न पृथक्पर्यवसानमिति निर्णयः। अलंकारान्तरत्वेऽपि च संयोगन्यायेन स्फुटावगमो भेदः। समवायन्यायेन वा स्फुटत्वावगम इति द्वैधम्। पूर्वत्र संसृष्टिः, उत्तरत्र संकरः। अत एव तिलतण्डुलन्यायः, क्षीरनीरन्यायश्च तयोर्यथार्थतामवगमयतः। तत्र तिलतण्डुलन्यायेन भवन्ती संसृष्टिस्त्रिधा। शब्दालंकारगतत्वेन, अर्थालंकारगतत्वेन, उभयालंकारगतत्वेन च। तत्र शब्दालंकारसंसृष्टिर्य़था-कुसुमसौरभलोभपरिभ्रमद्भ्रमरसंभ्रमसंभृतशोभया। वनितया विदधे कलमेखलाकलकलोऽलकलोलदृशान्यया॥’अत्रानुप्रासयमकयोर्विजातीययोः संसृष्टिः। अत्रैव ‘अलकलोलकलोल’ इति, तथा ‘कलोलकलोल’ इति सजातीययोर्यमकयोः संसृष्टिः। अर्थालंकारसंसृष्टिर्यथा-‘देवि क्षपा गलति चक्षुरमन्दतार- मुन्मीलयाशु नलिनीव संभृङ्गमब्जम्।एष त्वदाननरुचेव विलुण्ठ्यमानः पश्याम्बरं त्यजति निष्प्रतिभः शशाङ्कः॥’अत्र सजातीययोरूपमोत्प्रेक्षयोः संसृष्टिः।‘लिम्पतीव तमोऽङ्गानि वर्षतीवाञ्जनं नभः।असत्पुरुषसेवेव दृष्टिर्निष्फलतां गता॥’अत्रो-पमोत्प्रेक्षयोर्विजातीययोः संसृष्टिः। उभयसंसृष्टिर्यथा-‘आनन्दसुन्दरपुरंदरमुक्तमाल्यं मौलौ हठेन निहितं महिषासुरस्य। पादाम्बुजं भवतु मे विजयाय मञ्जु-मञ्जीरशिञ्जितमनोहरमम्बिकायाः॥’अत्रोपमानुप्रासयोः संसृष्टिः पादाम्बुजमित्यत्र ह्युपमाया मञ्जीरशिञ्जितयोगो व्यवस्थापकं प्रमाणम्। स हि रूपके प्रतिकूलः। पारिशेष्यादुपमां प्रसादयति। तदेवं संसृष्टिस्त्रिधा निर्णीता।अधुना क्षीरनीरन्यायेन संकर उच्यते- एषां तिलतण्डुलन्यायेन मिश्रत्वं संसृष्टिः। उक्तालंकाराणां यथासंभवं यदि क्वचिद्वचनं स्यात्, तदा ते किं पृथक्त्वेन पर्यवसिताः, उत तदलंकारान्तरमेव किंचिदिति विचार्यते- तत्र यथा बाह्यालंकाराणां सौवर्णमणिमयप्रभृतीनां पृथक्चारुत्वहेतुत्वेऽपि संघटनाकृतं चारुत्वान्तरं जायते तद्वत्प्रकृतालंकाराणामपि संयोजने चारुत्वान्तरमुपलभ्यते। तेनालंकारान्तरप्रादुर्भावो न पृथक्पर्यवसानमिति निर्णयः। अलंकारान्तरत्वेऽपि च संयोगन्यायेन स्फुटावगमो भेदः। समवायन्यायेन वा स्फुटत्वावगम इति द्वैधम्। पूर्वत्र संसृष्टिः, उत्तरत्र संकरः। अत एव तिलतण्डुलन्यायः, क्षीरनीरन्यायश्च तयोर्यथार्थतामवगमयतः। तत्र तिलतण्डुलन्यायेन भवन्ती संसृष्टिस्त्रिधा। शब्दालंकारगतत्वेन, अर्थालंकारगतत्वेन, उभयालंकारगतत्वेन च। तत्र शब्दालंकारसंसृष्टिर्य़था-कुसुमसौरभलोभपरिभ्रमद्भ्रमरसंभ्रमसंभृतशोभया। वनितया विदधे कलमेखलाकलकलोऽलकलोलदृशान्यया॥’अत्रानुप्रासयमकयोर्विजातीययोः संसृष्टिः। अत्रैव ‘अलकलोलकलोल’ इति, तथा ‘कलोलकलोल’ इति सजातीययोर्यमकयोः संसृष्टिः। अर्थालंकारसंसृष्टिर्यथा- ‘देवि क्षपा गलति चक्षुरमन्दतार-मुन्मीलयाशु नलिनीव संभृङ्गमब्जम्। एष त्वदाननरुचेव विलुण्ठ्यमानः पश्याम्बरं त्यजति निष्प्रतिभः शशाङ्कः॥’ अत्र सजातीययोरूपमोत्प्रेक्षयोः संसृष्टिः। ‘लिम्पतीव तमोऽङ्गानि वर्षतीवाञ्जनं नभः। असत्पुरुषसेवेव दृष्टिर्निष्फलतां गता॥’अत्रो-पमोत्प्रेक्षयोर्विजातीययोः संसृष्टिः। उभयसंसृष्टिर्यथा-आनन्दसुन्दरपुरंदरमुक्तमाल्यं मौलौ हठेन निहितं महिषासुरस्य।पादाम्बुजं भवतु मे विजयाय मञ्जु-मञ्जीरशिञ्जितमनोहरमम्बिकायाः॥’अत्रोपमानुप्रासयोः संसृष्टिः पादाम्बुजमित्यत्र ह्युपमाया मञ्जीरशिञ्जितयोगो व्यवस्थापकं प्रमाणम्। स हि रूपके प्रतिकूलः। पारिशेष्यादुपमां प्रसादयति। तदेवं संसृष्टिस्त्रिधा निर्णीता।अधुना क्षीरनीरन्यायेन संकर उच्यते- ते क क्षीरनीरन्यायेन तु संकरः। मिश्रत्व इत्येव। अनुत्कटभेदत्वमुत्कटभेदत्वं च संकरः। तच्च मिश्रत्वमङ्गाङ्गिभावेन संशयेन, एकवाचकानुप्रवेशेन च। त्रिधाभवत्संकरं त्रिभेदमुत्थापयति। क्रमेण यथा-‘अङ्गुलीभिरिव केशसंचयं संनियम्य तिमिरं मरीचिभिः।कुङ्मलीकृतसरोजलोचनं चुम्बतीव रजनीमुखं शशी॥’अत्राङगुलीभिरिवेत्युपमा, सैव सरोजलोचनमित्यस्या उपमायाः प्रसाधिका। रजनीमुखमिति श्लेषमूलातिशयोक्तिः। प्रारम्भवदनाख्ययोर्मुख्ययोरभेदातिशयात्। अत एव तयोरङ्गाङ्गिभावः। एवं च वाक्योक्तसमासोक्तिः। उपमाश्लेषानुगृहीता चातिशयोक्त-रुत्प्रेक्षया ‘चुम्बतीव’ इति प्रकाशिताया अनुग्राहिका। तद्बलेन तस्याः समुत्थानात्। सा च समुत्थापिता समुत्थापकानां चमत्कारितानिबन्ध नमित्यस्यङ्गाङ्गिभावः। यथा वा-‘त्रयीमयोऽपि प्रथितो जगत्सु यद्वारुणीं प्रत्यगमद्विवस्वान्।मन्येऽस्तशैलात्पतितोऽत एव विवेश शुद्ध्यै वडवाग्निमध्यम्॥’अत्र प्रथमार्धे विरोधोत्पत्तिहेतुः श्लेषः। दर्शनान्तरे तु विरोधश्लेषौ द्वावलंकारौ तदनुगृहीता द्वितीयेऽर्धे मन्येपदप्रकाशितोत्प्रेक्षा। अतश्चाङ्गाङ्गिभावः।तथा ह्यत्र यत्कारणमुत्प्रेक्षते तत्र विरोधश्लेषानुप्रवेशः। यच्चात्र कार्यमुत्प्रेक्षानिमित्तं तत्र पतितत्वाग्निप्रवेशौ वस्तुस्थित्या अन्यथास्थितावपि अन्यथाभूताभ्यां ताभ्यामभेदेनाध्यवसितौ ज्ञेयौ। तेनात्राङ्गाङ्गिभावः संकरः। न च विरोधोत्पत्तिहेतौ श्लेषे श्लेषस्य विरोधेन सहाङ्गाङ्गिभावः संकरः, उत्प्रेक्षाया वा निमित्तगतातिशयोक्त्या सहायंसंकरः, ताभ्यां विनातयोरनुत्थानात्। अतश्च निरवकाशत्वाद्बाधकत्वम्। न च मन्तव्यं विरोधमन्तरेणापि श्लेषो दृश्यते इति श्लेषस्य सावकाशत्वमिति। यतो न ब्रूमो विरोधमन्तरेण श्लेषो न भवतीति। किं तर्ह्यलंकारान्तरविविक्तो विषयः श्लेषस्य नास्तीति निरवकाशत्वात्तेषां बाधः। तन्मध्ये च विरोधोऽनुप्रविष्ट इति सोऽपि न बाध्यत इति न कश्चिद्दोषः। एवमर्थालंकारसंकर उक्तः। शब्दालंकारसंकरस्तु कैश्चिदुदाहृतो यथा-‘राजति तटीयमभिहतदानवरासातिपातिसारावनदा। गजता च यूथमविरतदानवरा सातिपाति सारा वनदा॥’ अत्र यमकानुलोमप्रतिलोमयोः शब्दालंकारयोः परस्परापेक्षत्वेनाङ्गाङ्गिसंकर इति। एतत्तु न सम्यगावर्जकम्। शब्दालंकारयोः शब्दवदुपकार्योपकारकत्वाभावेनाङ्गाङ्गिभावाभावात्। शब्दालंकारसंसृष्टिस्त्वत्र श्रेयसी। यथोदाहृतं पूर्वम्। यद्वा अत्र शब्दालंकारद्वयमेकवाचकानुप्रविष्टमिति तृतीयः संकरो ज्ञेयः। एवमेकः प्रकारो दर्शितो द्वितीयः प्रकारस्तु संदेहसंकराख्यः। यत्रान्यतरपरिग्रहे साधकं प्रमाणं नास्ति बाधकं वा प्रमाणं न विद्यते तत्र न्यायप्राप्तः संशय इति संदेहसंकरस्तत्र विज्ञेय। यथा-‘यः कौमारहरः स एव हि वरस्ता एव चैत्रक्षपा-स्ते चोन्मीलितमालतीसुरभयः प्रौढाः कदम्बानिलाः।सा चैवास्मि तथापि तत्र सुरतव्यापारलीलाविधौ रेवारोधसि वेतसीतरुतले चेतः समुत्कण्ठते॥’अत्र विभावनाविशेषोक्त्योः संदेहसंकरः। तथा ह्युत्कण्ठाकारणाभावे उत्कण्ठाया उत्पत्तौ विभावना। स च कारणाभावो ‘यः कौमारहरः’ इत्यादिना कारणविरुद्धमुखेन प्रतिपादितः। तथा च ‘यः कौमारहरः’ इत्याद्युत्कण्ठाकारणसद्भावेऽपि अनुत्कण्ठाया अनुत्पत्तौ विशेषोक्तिः। सा चानुत्पत्तिः ‘समुत्कण्ठते’ इति विरोधोत्पत्तिमुखेनोक्ता। अत एव द्वयोरप्यस्फुटत्वमन्यत्रोक्तम्। न चानयोः प्रत्येकं साधकबाधकप्रमाणयोग इति संदेहसंकरोऽयम्। यथा वा- ‘यद्वक्त्रचन्द्रे नवयौवनेन श्मश्रुच्छलादुल्लिखितश्चकास्ति।उद्दामरामादृढमानमुद्राविद्रावणो मन्त्र इव स्मरस्य॥’ अत्र वक्रं चन्द्र इवेति किमुपमा, उत वक्रमेव चन्द्र इति किं रूपकमिति संशयः। उभयथापि समासस्य भावात्। ‘उपमितं व्याघ्रादिभिः’ इत्युपमासमासः। व्याघ्रादीनामा-कृतिगणत्वात्। मयूरव्यंसकादित्वात्तु रूपकसमासः। मयूरव्यंसकादीनामा कृतिगणत्वात्। न चात्र क्वचित्साधकबाधकप्रमाणसद्भाव इति संदेहसंकरः। यत्र तु कस्यचित्परिग्रहं साधकं बाधकं वा प्रमाणं विद्यते तत्र नियतपरिग्रहः। तत्रानुकूल्यं साधकम्, प्रातिकूल्यं बाधकम्। तत्र साधकं यथाप्रसरद्बिन्दुनादाय शुद्धामृतमयात्मने। नमोऽनन्तप्रकाशाय शंकरक्षीरसिन्धवे॥’ अत्र शंकर एव क्षीरसिन्धुरिति रूपकस्यामृतमयत्वं साधकम्। तस्य शंकरापेक्षया क्षीरसिन्धावनुकूलत्वात्। उपमायास्तु न बाधकम्। शंकरेऽपि तस्योपचरितस्य संभवात्। यथा वा- ‘एतान्यवन्तीश्वरपारिजातजातानि तारापतिपाण्डुराणि।संप्रत्यहं पश्यत दिग्वधूनां यशःप्रसूनान्यवतंसयामि॥’ अत्रावतंसनं प्रसूनेष्वनुगुणमिति रूपकपरिग्रहेण साधकं प्रमाणम्। बाधकं यथा- ‘शरदीव प्रसर्पन्त्यां तस्य कोदण्डटांकृतौ। विनिद्रजृम्भितहरिर्विध्योदधिरजायत॥’ अत्र विन्ध्य उदधिरिवेत्युपमापरिग्रहे विनिद्रजृम्भितहरिरिति साधारणं विशेषणं बाधकं प्रमाणम्। ‘उपमितं व्याघ्रादिभिः सह सामान्याप्रयोगे इति वचनात्। उपमासमासे प्रतिकूलत्वात्। अतश्च पारिशेष्याद्रूपकपरिग्रहः। न तु शरदीवेत्युपमात्रोपमासाधकत्वेन विज्ञेया। न ह्याशेयेन पञ्चाशत्सिद्धिः। न ह्येकेनालंकारेणापक्रान्तेन निर्वाहः कर्तव्य इति राजाज्ञैषा। नापि धर्मसूत्रकारवचनम्। नाप्येष न्यायः। उत्तरोत्तरसाम्यप्रकर्षविवक्षणे प्रक्रान्तोपमापरित्यागेन रूपकनिर्वाहस्योचितत्वात्। विपर्ययस्तु दुष्ट एव। यथा- ‘येनेन्दुर्दहनं विषं मलयजं हारः कुठारायते। ’तस्मात्प्रकृते सामान्यप्रयोगे उपमापरिग्रहे बाधक इति मयूरव्यंसकेनाकृतिगणत्वाद्रूपकसमाश्रयेण रूपकमेव बोद्धव्यम्। एवं ‘भाष्याब्धिः क्वातिगम्भीरः’ इत्यादौ द्रष्टव्यम्। साधकबाधकाभावे तु संदेहसंकरः। यथोदाहृतम्। तृतीयस्तु प्रकार एकवाचकानुप्रवेशलक्षणः। यत्रैकस्मिन्वाचकेऽनेकालंकारानुप्रवेशः, न च संदेहः। यथा- ‘मुरारिनिर्गता नूनं नरके परिपन्थिनी।तवापि मूध्र्नि गङ्गेव चक्रधारा पतिष्यति॥’ अत्र मुरारिनिर्गतेति साधारणविशेषणहेतुका उपमा, नरकपरिपन्थिनीति श्लिष्टविशेषणसमुत्थश्चोपमाप्रतिभोत्पत्तिहेतुः श्लेषश्चैकस्मिन्निवशब्दे प्रविष्टौ, तस्योभयोपकारित्वात्। अत्र यथार्थश्लेषेण सहोपमायाः संकरस्तथा शब्दश्लेषेणापि सह दृश्यते यथा- ‘सत्पूरुषद्योतितरङ्गशोभिन्यमन्दमारब्धमृदङ्गवाद्ये। उद्यानवापीपयसीव यस्यामेणीदृशो नाटयगृहे रमन्ते॥’अत्र पयसीव नाट्यगृहे रमन्ते इत्येतावतैव समुचितोपमा निष्पन्ना। सत्पूरुषद्योतितरङ्ग इति शब्दश्लेषेण सहैकस्मिन्नेव शब्दे शब्दालंकारयोः पुनरेकवाचकानुप्रवेशेन संकरः पूर्वमुदाहृतः। ‘राजति तटीयम्’ इत्यादिना। एकवाचकानुप्रवेशेनैव चात्र संकीर्णत्वम्। अत एव व्यवस्थितत्वमन्यानुभाषितप्रयोजनकम्। तुल्यजातीययोरप्यलंकारयोरेकवाचकानुप्रवेशे संभवात्। शब्दार्थवर्त्यलंकारसंकरस्तु भट्टोद्भटप्रकाशितः संसृष्टावन्तर्भावित इति त्रिप्रकार एव संकर इह प्रदर्शितः। इदानीमुपसंहारसूत्रम्- एवमेतेशब्दार्थोभयालंकारा: संक्षेपतः सूत्रिताः। एवमिति पूर्वोक्तप्रकारपरामर्शः। एते इति प्रकान्तस्वरूपनिर्देशाः। सूत्रिता अलंकारसूत्रैः सूचिताः संक्षेपतः प्रकाशिताः।तत्र शब्दालंकारा यमकादयः। अर्थालंकारा उपमादयः। उभयालंकारा लाटानुप्रासादयः। संसृष्टिसंकरप्रकारयोरपि कयोश्चित्तद्रुपत्वात्। लोकवदाश्रयाश्रयिभावश्च तत्तदलंकारनिबन्धनम्। अन्वयव्यतिरेकौ तु तत्कार्यत्वे प्रयोजकौ। न तदलंकारत्वे। तदलंकारप्रयोजकत्वे तु श्रौतोपमादेरपि शब्दालंकारत्वप्रसङ्गात्। तस्मादाश्र-याश्रयिभावेनैव चिरंतनमतानुसृतिरिति भद्रम्॥ संपूर्णमिदमलंकारसर्वस्वम्।कृतिस्तत्रभवद्राजानकरुय्य(च) कस्य।

"https://sa.wikibooks.org/w/index.php?title=अलङ्कारसर्वस्वम्&oldid=4748" इत्यस्माद् पुनः प्राप्तिः