अष्टांगहृदय शारीरस्थान
- १ गर्भावक्रान्तिशारीराध्याय:
- २ गर्भव्यापद्विध्यध्याय:
- ३ अङ्गविभागशारीराध्याय:
- ४ मर्मविभागशारीराध्याय:
- ५ विकृतिविज्ञानीयाध्याय:
- ६ दूतादिविज्ञानीयाध्याय:
शारीरस्थान-पदच्छेदान्वयार्थसहितम्
अध्याय 01
[सम्पाद्यताम्]शुद्धे शुक्रार्तवे सत्-त्वः स्व-कर्म-क्लेश-चोदितः ।
गर्भः संपद्यते युक्ति-वशाद् अग्निर् इवारणौ ॥ १ ॥
१.१bv स्व-कर्म-फल-नोदितः
बीजात्मकैर् महा-भूतैः सूक्ष्मैः सत्-त्वानुगैश् च सः ।
मातुश् चाहार-रस-जैः क्रमात् कुक्षौ विवर्धते ॥ २ ॥
तेजो यथार्क-रश्मीनां स्फटिकेन तिरस्-कृतम् ।
नेन्धनं दृश्यते गच्छत् सत्-त्वो गर्भाशयं तथा ॥ ३ ॥
कारणानुविधायि-त्वात् कार्याणां तत्-स्व-भाव-ता ।
नाना-योन्य्-आकृतीः सत्-त्वो धत्ते ऽतो द्रुत-लोह-वत् ॥ ४ ॥
अत एव च शुक्रस्य बाहुल्याज् जायते पुमान् ।
रक्तस्य स्त्री तयोः साम्ये क्लीबः शुक्रार्तवे पुनः ॥ ५ ॥
वायुना बहु-शो भिन्ने यथा-स्वं बह्व्-अपत्य-ता ।
वि-योनि-विकृताकारा जायन्ते विकृतैर् मलैः ॥ ६ ॥
मासि मासि रजः स्त्रीणां रस-जं स्रवति त्र्य्-अहम् ।
वत्सराद् द्वा-दशाद् ऊर्ध्वं याति पञ्चाशतः क्षयम् ॥ ७ ॥
पूर्ण-षो-डश-वर्षा स्त्री पूर्ण-विंशेन संगता ।
शुद्धे गर्भाशये मार्गे रक्ते शुक्रे ऽनिले हृदि ॥ ८ ॥
वीर्य-वन्तं सुतं सूते ततो न्यूनाब्दयोः पुनः ।
रोग्य् अल्पायुर् अ-धन्यो वा गर्भो भवति नैव वा ॥ ९ ॥
वातादि-कुणप-ग्रन्थि-पूय-क्षीण-मलाह्वयम् ।
बीजा-समर्थं रेतो-ऽस्रं स्व-लिङ्गैर् दोष-जं वदेत् ॥ १० ॥
१.१०cv प्रजा-समर्थं रेतो-ऽस्रं
रक्तेन कुणपं श्लेष्म-वाताभ्यां ग्रन्थि-संनिभम् ।
पूयाभं रक्त-पित्ताभ्यां क्षीणं मारुत-पित्ततः ॥ ११ ॥
कृच्छ्राण्य् एतान्य् अ-साध्यं तु त्रि-दोषं मूत्र-विट्-प्रभम् ।
कुर्याद् वातादिभिर् दुष्टे स्वौषधं कुणपे पुनः ॥ १२ ॥
धातकी-पुष्प-खदिर-दाडिमार्जुन-साधितम् ।
पाययेत् सर्पिर् अथ-वा विपक्वम् असनादिभिः ॥ १३ ॥
पलाश-भस्माश्मभिदा ग्रन्थ्य्-आभे पूय-रेतसि ।
परूषक-वटादिभ्यां क्षीणे शुक्र-करी क्रिया ॥ १४ ॥
स्निग्धं वान्तं विरिक्तं च निरूढम् अनुवासितम् ।
योजयेच् छुक्र-दोषार्तं सम्यग् उत्तर-वस्तिभिः ॥ १४+१ ॥
संशुद्धो विट्-प्रभे सर्पिर् हिङ्गु-सेव्यादि-साधितम् ।
पिबेद् ग्रन्थ्य्-आर्तवे पाठा-व्योष-वृक्षक-जं जलम् ॥ १५ ॥
१.१५bv हिङ्गु-सेव्याग्नि-साधितम्
पेयं कुणप-पूयास्रे चन्दनं वक्ष्यते तु यत् ।
गुह्य-रोगे च तत् सर्वं कार्यं सोत्तर-वस्तिकम् ॥ १६ ॥
शुक्रं शुक्लं गुरु स्निग्धं मधुरं बहलं बहु ।
घृत-माक्षिक-तैलाभं सद्-गर्भायार्तवं पुनः ॥ १७ ॥
१.१७av शुद्धं शुक्रं गुरु स्निग्धं
लाक्षा-रस-शशास्राभं धौतं यच् च विरज्यते ।
शुद्ध-शुक्रार्तवं स्वस्थं संरक्तं मिथुनं मिथः ॥ १८ ॥
स्नेहैः पुं-सवनैः स्निग्धं शुद्धं शीलित-वस्तिकम् ।
नरं विशेषात् क्षीराज्यैर् मधुरौषध-संस्कृतैः ॥ १९ ॥
१.१९dv मधुरौषध-साधितैः
नारीं तैलेन माषैश् च पित्तलैः समुपाचरेत् ।
क्षाम-प्रसन्न-वदनां स्फुरच्-छ्रोणि-पयो-धराम् ॥ २० ॥
१.२०cv क्षामां प्रसन्न-वदनां
स्रस्ताक्षि-कुक्षिं पुंस्-कामां विद्याद् ऋतु-मतीं स्त्रियम् ।
पद्मं संकोचम् आयाति दिने ऽतीते यथा तथा ॥ २१ ॥
ऋताव् अतीते योनिः सा शुक्रं नातः प्रतीच्छति ।
मासेनोपचितं रक्तं धमनीभ्याम् ऋतौ पुनः ॥ २२ ॥
१.२२bv शुक्रं नान्तः प्रतीच्छति
ईषत्-कृष्णं वि-गन्धं च वायुर् योनि-मुखान् नुदेत् ।
ततः पुष्पेक्षणाद् एव कल्याण-ध्यायिनी त्र्य्-अहम् ॥ २३ ॥
मृजालङ्कार-रहिता दर्भ-संस्तर-शायिनी ।
क्षैरेयं यावकं स्तोकं कोष्ठ-शोधन-कर्षणम् ॥ २४ ॥
१.२४dv कोष्ठ-शोधन-कर्शनम्
पर्णे शरावे हस्ते वा भुञ्जीत ब्रह्म-चारिणी ।
चतुर्थे ऽह्नि ततः स्नाता शुक्ल-माल्याम्बरा शुचिः ॥ २५ ॥
इच्छन्ती भर्तृ-सदृशं पुत्रं पश्येत् पुरः पतिम् ।
ऋतुस् तु द्वा-दश निशाः पूर्वास् तिस्रो ऽत्र निन्दिताः ॥ २६ ॥
१.२६dv पूर्वास् तिस्रश् च निन्दिताः
एका-दशी च युग्मासु स्यात् पुत्रो ऽन्यासु कन्यका ।
उपाध्यायो ऽथ पुत्रीयं कुर्वीत विधि-वद् विधिम् ॥ २७ ॥
१.२७bv स्यात् पुत्रो ऽन्य-त्र कन्यका
नमस्-कार-परायास् तु शूद्राया मन्त्र-वर्जितम् ।
अ-वन्ध्य एवं संयोगः स्याद् अपत्यं च कामतः ॥ २८ ॥
सन्तो ह्य् आहुर् अपत्यार्थं दम्-पत्योः संगतिं रहः ।
दुर्-अपत्यं कुलाङ्गारो गोत्रे जातं महत्य् अपि ॥ २९ ॥
१.२९bv दम्-पत्योः संगतं रहः १.२९cv दुर्-अपत्यं कुलाङ्गारं
इच्छेतां यादृशं पुत्रं तद्-रूप-चरितांश् च तौ ।
चिन्तयेतां जन-पदांस् तद्-आचार-परिच्छदौ ॥ ३० ॥
कर्मान्ते च पुमान् सर्पिः-क्षीर-शाल्य्-ओदनाशितः ।
प्राग् दक्षिणेन पादेन शय्यां मौहूर्तिकाज्ञया ॥ ३१ ॥
आरोहेत् स्त्री तु वामेन तस्य दक्षिण-पार्श्वतः ।
तैल-माषोत्तराहारा तत्र मन्त्र् अं प्रयोजयेत् ॥ ३२ ॥
१.३२av आरोहेत् स्त्री च वामेन
आहिर् अस्य् आयुर् असि सर्वतः प्रतिष्ठासि ॥ ३२+१अ ॥
१.३२+१av अहिर् असि सर्वतः प्रतिष्ठासि
धाता त्वां दधातु विधाता त्वां दधातु ॥ ३२+१ब् ॥
ब्रह्म-वर्चसा भवेति ॥ ३२+१च् ॥
१.३२+१cv ब्रह्म-वर्चसा भवेद् इति
ब्रह्मा बृहस्पतिर् विष्णुः सोमः सूर्यस् तथाश्विनौ ।
भगो ऽथ मित्रा-वरुणौ वीरं ददतु मे सुतम् ॥ ३३ ॥
सान्त्वयित्वा ततो ऽन्य-न्यं संविशेतां मुदान्वितौ ।
उत्ताना तन्-मना योषित् तिष्ठेद् अङ्गैः सु-संस्थितैः ॥ ३४ ॥
१.३४av सान्तयित्वा ततो ऽन्यो-ऽन्यं १.३४bv संवसेतां मुदान्वितौ
तथा हि बीजं गृह्णाति दोषैः स्व-स्थानम् आस्थितैः ।
लिङ्गं तु सद्यो-गर्भाया योन्या बीजस्य संग्रहः ॥ ३५ ॥
१.३५bv दोषैः स्व-स्थानम् आश्रितैः १.३५dv योन्यां बीजस्य संग्रहः
तृप्तिर् गुरु-त्वं स्फुरणं शुक्रास्रान्-अनु बन्धनम् ।
हृदय-स्पन्दनं तन्द्रा तृड् ग्लानी रोम-हर्षणम् ॥ ३६ ॥
अ-व्यक्तः प्रथमे मासि सप्ताहात् कलली-भवेत् ।
गर्भः पुं-सवनान्य् अत्र पूर्वं व्यक्तेः प्रयोजयेत् ॥ ३७ ॥
बली पुरुष-कारो हि दैवम् अप्य् अतिवर्तते ।
पुष्ये पुरुषकं हैमं राजतं वाथ-वायसम् ॥ ३८ ॥
कृत्वाग्नि-वर्णं निर्वाप्य क्षीरे तस्याञ्जलिं पिबेत् ।
गौरदण्डम् अपामार्गं जीवकर्षभ-सैर्यकान् ॥ ३९ ॥
पिबेत् पुष्ये जले पिष्टान् एक-द्वि-त्रि-समस्त-शः ।
क्षीरेण श्वेत-बृहती-मूलं नासा-पुटे स्वयम् ॥ ४० ॥
पुत्रार्थं दक्षिणे सिञ्चेद् वामे दुहितृ-वाञ्छया ।
पयसा लक्ष्मणा-मूलं पुत्रोत्पाद-स्थिति-प्रदम् ॥ ४१ ॥
नासयास्येन वा पीतं वट-शुङ्गाष्टकं तथा ।
ओषधीर् जीवनीयाश् च बाह्यान्तर् उपयोजयेत् ॥ ४२ ॥
१.४२bv वट-शृङ्गाष्टकं तथा
उपचारः प्रिय-हितैर् भर्त्रा भृत्यैश् च गर्भ-धृक् ।
नव-नीत-घृत-क्षीरैः सदा चैनाम् उपाचरेत् ॥ ४३ ॥
अति-व्यवायम् आयासं भारं प्रावरणं गुरु ।
अ-काल-जागर-स्वप्नं कठिनोत्कटकासनम् ॥ ४४ ॥
१.४४av अति-व्यवायं व्यायामं १.४४cv अ-काल-जागर-स्वप्न- १.४४dv
-कठिनोत्कटकासनम्
१.४४dv कठिनोत्कटुकासनम् १.४४dv -कठिनोत्कुटकासनम्
शोक-क्रोध-भयोद्वेग-वेग-श्रद्धा-विधारणम् ।
उपवासाध्व-तीक्ष्णोष्ण-गुरु-विष्टम्भि-भोजनम् ॥ ४५ ॥
१.४५cv उपवासादि-तीक्ष्णोष्ण-
रक्तं निवसनं श्वभ्र-कूपेक्षां मद्यम् आमिषम् ।
उत्तान-शयनं यच् च स्त्रियो नेच्छन्ति तत् त्यजेत् ॥ ४६ ॥
१.४६av रक्तं वि-वसनं श्वभ्र-
तथा रक्त-स्रुतिं शुद्धिं वस्तिम् आ-मासतो ऽष्टमात् ।
एभिर् गर्भः स्रवेद् आमः कुक्षौ शुष्येन् म्रियेत वा ॥ ४७ ॥
१.४७cv एवं गर्भः स्रवेद् आमः
वातलैश् च भवेद् गर्भः कुब्जान्ध-जड-वामनः ।
पित्तलैः खलतिः पिङ्गः श्वित्री पाण्डुः कफात्मभिः ॥ ४८ ॥
व्याधींश् चास्या मृदु-सुखैर् अ-तीक्ष्णैर् औषधैर् जयेत् ।
द्वितीये मासि कललाद् घनः पेश्य् अथ-वार्बुदम् ॥ ४९ ॥
पुं-स्त्री-क्लीबाः क्रमात् तेभ्यस् तत्र व्यक्तस्य लक्षणम् ।
क्षाम-ता गरिमा कुक्षेर् मूर्छा छर्दिर् अ-रोचकः ॥ ५० ॥
१.५०cv क्षाम-ता गरिमा कुक्षौ
जृम्भा प्रसेकः सदनं रोम-राज्याः प्रकाशनम् ।
अम्लेष्ट-ता स्तनौ पीनौ स-स्तन्यौ कृष्ण-चूचुकौ ॥ ५१ ॥
पाद-शोफो विदाहो ऽन्ये श्रद्धाश् च विविधात्मिकाः ।
मातृ-जं ह्य् अस्य हृदयं मातुश् च हृदयेन तत् ॥ ५२ ॥
१.५२av पाद-शोफो विदाहो ऽन्ने
संबद्धं तेन गर्भिण्या नेष्टं श्रद्धा-विमाननम् ।
देयम् अप्य् अ-हितं तस्यै हितोपहितम् अल्पकम् ॥ ५३ ॥
१.५३bv नेष्टं श्रद्धा-विधारणम् १.५३bv नेष्टं श्रद्धावमाननम्
श्रद्धा-विघाताद् गर्भस्य विकृतिश् च्युतिर् एव वा ।
व्यक्ती-भवति मासे ऽस्य तृतीये गात्र-पञ्चकम् ॥ ५४ ॥
१.५४av श्रद्धाभिघाताद् गर्भस्य
मूर्धा द्वे सक्थिनी बाहू सर्व-सूक्ष्माङ्ग-जन्म च ।
समम् एव हि मूर्धाद्यैर् ज्ञानं च सुख-दुःखयोः ॥ ५५ ॥
१.५५bv सर्व-सूक्ष्माङ्ग-जन्म तु १.५५dv विज्ञानं सुख-दुःखयोः
गर्भस्य नाभौ मातुश् च हृदि नाडी निबध्यते ।
यया स पुष्टिम् आप्नोति केदार इव कुल्यया ॥ ५६ ॥
१.५६cv यया पुष्टिम् अवाप्नोति
चतुर्थे व्यक्त-ताङ्गानां चेतनायाश् च पञ्चमे ।
षष्ठे स्नायु-सिरा-रोम-बल-वर्ण-नख-त्वचाम् ॥ ५७ ॥
सर्वैः सर्वाङ्ग-संपूर्णो भावैः पुष्यति सप्तमे ॥ ५८अब् ॥
गर्भेणोत्पीडिता दोषास् तस्मिन् हृदयम् आश्रिताः ॥ ५८च्द् ॥
कण्डूं विदाहं कुर्वन्ति गर्भिण्याः किक्किसानि च ॥ ५८एf ॥
नव-नीतं हितं तत्र कोलाम्बु-मधुरौषधैः ।
सिद्धम् अल्प-पटु-स्नेहं लघु स्वादु च भोजनम् ॥ ५९ ॥
चन्दनोशीर-कल्केन लिम्पेद् ऊरु-स्तनोदरम् ।
श्रेष्ठया वैण-हरिण-शश-शोणित-युक्तया ॥ ६० ॥
अश्वघ्न-पत्त्र-सिद्धेन तैलेनाभ्यज्य मर्दयेत् ।
पटोल-निम्ब-मञ्जिष्ठा-सुरसैः सेचयेत् पुनः ॥ ६१ ॥
दार्वी-मधुक-तोयेन मृजां च परिशीलयेत् ।
ओजो ऽष्टमे संचरति माता-पुत्रौ मुहुः क्रमात् ॥ ६२ ॥
तेन तौ म्लान-मुदितौ तत्र जातो न जीवति ।
शिशुर् ओजो-ऽन्-अवस्थानान् नारी संशयिता भवेत् ॥ ६३ ॥
१.६३bv स्याताम् अत्र न जीवति १.६३bv स्यातां जातो न जीवति
क्षीर-पेया च पेयात्र स-घृतान्वासनं घृतम् ।
मधुरैः साधितं शुद्ध्यै पुराण-शकृतस् तथा ॥ ६४ ॥
१.६४bv स-घृतान्वासनं हितम्
शुष्क-मूलक-कोलाम्ल-कषायेण प्रशस्यते ।
शताह्वा-कल्कितो वस्तिः स-तैल-घृत-सैन्धवः ॥ ६५ ॥
तस्मिंस् त्व् एकाह-याते ऽपि कालः सूतेर् अतः परम् ।
वर्षाद् विकार-कारी स्यात् कुक्षौ वातेन धारितः ॥ ६६ ॥
१.६६av तस्मिन्न् एकाह-याते ऽपि
शस्तश् च नवमे मासि स्निग्धो मांस-रसौदनः ।
बहु-स्नेहा यवागूर् वा पूर्वोक्तं चानुवासनम् ॥ ६७ ॥
१.६७bv स्निग्ध-मांस-रसौदनः
तत एव पिचुं चास्या योनौ नित्यं निधापयेत् ।
वात-घ्न-पत्त्र-भङ्गाम्भः शीतं स्नाने ऽन्व्-अहं हितम् ॥ ६८ ॥
निः-स्नेहाङ्गी न नवमान् मासात् प्रभृति वासयेत् ।
प्राग् दक्षिण-स्तन-स्तन्या पूर्वं तत्-पार्श्व-चेष्टिनी ॥ ६९ ॥
पुं-नाम-दौर्हृद-प्रश्न-रता पुं-स्वप्न-दर्शिनी ।
उन्नते दक्षिणे कुक्षौ गर्भे च परिमण्डले ॥ ७० ॥
पुत्रं सूते ऽन्य-था कन्यां या चेच्छति नृ-संगतिम् ।
नृत्य-वादित्र-गान्धर्व-गन्ध-माल्य-प्रिया च या ॥ ७१ ॥
क्लीबं तत्-संकरे तत्र मध्यं कुक्षेः समुन्नतम् ।
यमौ पार्श्व-द्वयोन्नामात् कुक्षौ द्रोण्याम् इव स्थिते ॥ ७२ ॥
प्राक् चैव नवमान् मासात् सा सूति-गृहम् आश्रयेत् ।
देशे प्रशस्ते संभारैः संपन्नं साधके ऽहनि ॥ ७३ ॥
१.७३bv सूतिका-गृहम् आश्रयेत्
तत्रोदीक्षेत सा सूतिं सूतिका-परिवारिता ।
अद्य-श्वः-प्रसवे ग्लानिः कुक्ष्य्-अक्षि-श्लथ-ता क्लमः ॥ ७४ ॥
१.७४cv आसन्न-प्रसवे ग्लानिः
अधो-गुरु-त्वम् अ-रुचिः प्रसेको बहु-मूत्र-ता ।
वेदनोरूदर-कटी-पृष्ठ-हृद्-वस्ति-वङ्क्षणे ॥ ७५ ॥
योनि-भेद-रुजा-तोद-स्फुरण-स्रवणानि च ।
आवीनाम् अनु जन्मातस् ततो गर्भोदक-स्रुतिः ॥ ७६ ॥
अथोपस्थित-गर्भां तां कृत-कौतुक-मगलाम् ।
हस्त-स्थ-पुं-नाम-फलां स्व्-अभ्यक्तोष्णाम्बु-सेचिताम् ॥ ७७ ॥
१.७७dv स्व्-अक्ताम् उष्णाम्बु-सेचिताम्
पाययेत् स-घृतां पेयां तनौ भू-शयने स्थिताम् ।
आभुग्न-सक्थिम् उत्तानाम् अभ्यक्ताङ्गीं पुनः पुनः ॥ ७८ ॥
अधो नाभेर् विमृद्नीयात् कारयेज् जृम्भ-चङ्क्रमम् ।
गर्भः प्रयात्य् अवाग् एवं तल्-लिङ्गं हृद्-विमोक्षतः ॥ ७९ ॥
आविश्य जठरं गर्भो वस्तेर् उपरि तिष्ठति ।
आव्यो ऽभित्वरयन्त्य् एनां खट्वाम् आरोपयेत् ततः ॥ ८० ॥
१.८०cv आव्यो हि त्वरयन्त्य् एनां
अथ संपीडिते गर्भे योनिम् अस्याः प्रसारयेत् ।
मृदु पूर्वं प्रवाहेत बाढम् आ-प्रसवाच् च सा ॥ ८१ ॥
१.८१bv योनिम् अस्याः प्रसाधयेत्
हर्षयेत् तां मुहुः पुत्र-जन्म-शब्द-जलानिलैः ।
प्रत्यायान्ति तथा प्राणाः सूति-क्लेशावसादिताः ॥ ८२ ॥
धूपयेद् गर्भ-सङ्गे तु योनिं कृष्णाहि-कञ्चुकैः ।
हिरण्यपुष्पी-मूलं च पाणि-पादेन धारयेत् ॥ ८३ ॥
सुवर्चलां विशल्यां वा जराय्व्-अ-पतने ऽपि च ।
कार्यम् एतत् तथोत्क्षिप्य बाह्वोर् एनां विकम्पयेत् ॥ ८४ ॥
१.८४cv कार्यम् एतत् तथोत्कृष्य १.८४dv बाह्वोर् एतां विकम्पयेत्
कटीम् आकोटयेत् पार्ष्ण्या स्फिजौ गाढं निपीडयेत् ।
तालु-कण्ठं स्पृशेद् वेण्या मूर्ध्नि दद्यात् स्नुही-पयः ॥ ८५ ॥
भूर्ज-लाङ्गलिकी-तुम्बी-सर्प-त्वक्-कुष्ठ-सर्षपैः ।
पृथग् द्वाभ्यां समस्तैर् वा योनि-लेपन-धूपनम् ॥ ८६ ॥
१.८६dv योनि-धूपं च लेपनम्
कुष्ठ-तालीश-कल्कं वा सुरा-मण्डेन पाययेत् ।
यूषेण वा कुलत्थानां बाल्बजेनासवेन वा ॥ ८७ ॥
१.८७dv बिल्व-जेनासवेन वा
शताह्वा-सर्षपाजाजी-शिग्रु-तीक्ष्णक-चित्रकैः ।
स-हिङ्गु-कुष्ठ-मदनैर् मूत्रे क्षीरे च सार्षपम् ॥ ८८ ॥
तैलं सिद्धं हितं पायौ योन्यां वाप्य् अनुवासनम् ।
शतपुष्पा-वचा-कुष्ठ-कणा-सर्षप-कल्कितः ॥ ८९ ॥
१.८९bv योन्यां वा ह्य् अनुवासनम्
निरूहः पातयत्य् आशु स-स्नेह-लवणो ऽपराम् ।
तत्-सङ्गे ह्य् अनिलो हेतुः सा निर्यात्य् आशु तज्-जयात् ॥ ९० ॥
कुशला पाणिनाक्तेन हरेत् कॢप्त-नखेन वा ।
मुक्त-गर्भापरां योनिं तैलेनाङ्गं च मर्दयेत् ॥ ९१ ॥
मक्कल्लाख्ये शिरो-वस्ति-कोष्ठ-शूले तु पाययेत् ।
सु-चूर्णितं यव-क्षारं घृतेनोष्ण-जलेन वा ॥ ९२ ॥
धान्याम्बु वा गुड-व्योष-त्रि-जातक-रजो-ऽन्वितम् ।
अथ बालोपचारेण बालं योषिद् उपाचरेद् ॥ ९३ ॥
सूतिका क्षुद्-वती तैलाद् घृताद् वा महतीं पिबेत् ।
पञ्च-कोलकिनीं मात्राम् अनु चोष्णं गुडोदकम् ॥ ९४ ॥
वात-घ्नौषध-तोयं वा तथा वायुर् न कुप्यति ।
विशुध्यति च दुष्टास्रं द्वि-त्रि-रात्रम् अयं क्रमः ॥ ९५ ॥
१.९५bv यथा वायुर् न कुप्यति
स्नेहा-योग्या तु निः-स्नेहम् अमुम् एव विधिं भजेत् ।
पीत-वत्याश् च जठरं यमकाक्तं विवेष्टयेत् ॥ ९६ ॥
जीर्णे स्नाता पिबेत् पेयां पूर्वोक्तौषध-साधिताम् ।
त्र्य्-अहाद् ऊर्ध्वं विदार्य्-आदि-वर्ग-क्वाथेन साधिता ॥ ९७ ॥
हिता यवागूः स्नेहाढ्या सात्म्यतः पयसाथ-वा ।
सप्त-रात्रात् परं चास्यै क्रम-शो बृंहणं हितम् ॥ ९८ ॥
१.९८cv सप्त-रात्रात् परं चास्याः १.९८cv सप्त-रात्रात् परं वास्याः
द्वा-दशाहे ऽन्-अतिक्रान्ते पिशितं नोपयोजयेत् ।
यत्नेनोपचरेत् सूतां दुः-साध्यो हि तद्-आमयः ॥ ९९ ॥
१.९९bv पिशितं नैव योजयेत्
गर्भ-वृद्धि-प्रसव-रुक्-क्लेदास्र-स्रुति-पीडनैः ।
एवं च मासाद् अध्य्-अर्धान् मुक्ताहारादि-यन्त्रणा ॥ १०० ॥
गत-सूताभिधाना स्यात् पुनर् आर्तव-दर्शनात् ॥ १००ऊ̆अब् ॥
अध्याय 02
[सम्पाद्यताम्]गर्भिण्याः परिहार्याणां सेवया रोगतो ऽथ-वा ।
पुष्पे दृष्टे ऽथ-वा शूले बाह्यान्तः स्निग्ध-शीतलम् ॥ १ ॥
२.१bv सेवया रोगतो ऽपि वा
सेव्याम्भो-ज-हिम-क्षीरि-वल्क-कल्काज्य-लेपितान् ।
धारयेद् योनि-वस्तिभ्याम् आर्द्रार्द्रान् पिचु-नक्तकान् ॥ २ ॥
२.२cv धारयेद् वस्ति-योनिभ्याम्
शत-धौत-घृताक्तां स्त्रीं तद्-अम्भस्य् अवगाहयेत् ।
स-सिता-क्षौद्र-कुमुद-कमलोत्पल-केसरम् ॥ ३ ॥
लिह्यात् क्षीर-घृतं खादेच् छृङ्गाटक-कसेरुकम् ।
पिबेत् कान्ताब्-ज-शालूक-बालोदुम्बर-वत् पयः ॥ ४ ॥
शृतेन शालि-काकोली-द्वि-बला-मधुकेक्षुभिः ।
पयसा रक्त-शाल्य्-अन्नम् अद्यात् स-मधु-शर्करम् ॥ ५ ॥
रसैर् वा जाङ्गलैः शुद्धि-वर्जं चास्रोक्तम् आचरेत् ।
अ-संपूर्ण-त्रि-मासायाः प्रत्याख्याय प्रसाधयेत् ॥ ६ ॥
२.६bv -वर्जं वास्रोक्तम् आचरेत्
आमान्वये च तत्रेष्टं शीतं रूक्षोपसंहितम् ।
उपवासो घनोशीर-गुडूच्य्-अरलु-धान्यकाः ॥ ७ ॥
दुरालभा-पर्पटक-चन्दनातिविषा-बलाः ।
क्वथिताः सलिले पानं तृण-धान्यानि भोजनम् ॥ ८ ॥
२.८dv तृण-धान्यादि भोजनम्
मुद्गादि-यूषैर् आमे तु जिते स्निग्धादि पूर्व-वत् ।
गर्भे निपतिते तीक्ष्णं मद्यं सामर्थ्यतः पिबेत् ॥ ९ ॥
गर्भ-कोष्ठ-विशुद्ध्य्-अर्थम् अर्ति-विस्मरणाय च ।
लघुना पञ्च-मूलेन रूक्षां पेयां ततः पिबेत् ॥ १० ॥
पेयाम् अ-मद्य-पा कल्के साधितां पाञ्चकौलिके ।
बिल्वादि-पञ्चक-क्वाथे तिलोद्दालक-तण्डुलैः ॥ ११ ॥
मास-तुल्य-दिनान्य् एवं पेयादिः पतिते क्रमः ।
लघुर् अ-स्नेह-लवणो दीपनीय-युतो हितः ॥ १२ ॥
२.१२dv दीपनीय-युतो हि सः
दोष-धातु-परिक्लेद-शोषार्थं विधिर् इत्य् अयम् ।
स्नेहान्न-वस्तयश् चोर्ध्वं बल्य-दीपन-जीवनाः ॥ १३ ॥
संजात-सारे महति गर्भे योनि-परिस्रवात् ।
वृद्धिम् अ-प्राप्नुवन् गर्भः कोष्ठे तिष्ठति स-स्फुरः ॥ १४ ॥
उपविष्टकम् आहुस् तं वर्धते तेन नोदरम् ।
शोकोपवास-रूक्षाद्यैर् अथ-वा योन्य्-अति-स्रवात् ॥ १५ ॥
वाते क्रुद्धे कृशः शुष्येद् गर्भो नागोदरं तु तम् ।
उदरं वृद्धम् अप्य् अत्र हीयते स्फुरणं चिरात् ॥ १६ ॥
२.१६bv गर्भो नागोदरं तु तत्
तयोर् बृंहण-वात-घ्न-मधुर-द्रव्य-संस्कृतैः ।
घृत-क्षीर-रसैस् तृप्तिर् आम-गर्भांश् च खादयेत् ॥ १७ ॥
तैर् एव च सु-भिक्षायाः क्षोभणं यान-वाहनैः ।
लीनाख्ये निस्फुरे श्येन-गो-मत्स्योत्क्रोश-बर्हि-जाः ॥ १८ ॥
२.१८av तैर् एव च सु-तृप्तायाः
रसा बहु-घृता देया माष-मूलक-जा अपि ।
बाल-बिल्वं तिलान् माषान् सक्तूंश् च पयसा पिबेत् ॥ १९ ॥
स-मेद्य-मांसं मधु वा कट्य्-अभ्यङ्गं च शीलयेत् ।
हर्षयेत् सततं चैनाम् एवं गर्भः प्रवर्धते ॥ २० ॥
पुष्टो ऽन्य-था वर्ष-गणैः कृच्छ्राज् जायेत नैव वा ।
उदावर्तं तु गर्भिण्याः स्नेहैर् आशु-तरां जयेत् ॥ २१ ॥
योग्यैश् च वस्तिभिर् हन्यात् स-गर्भां स हि गर्भिणीम् ।
गर्भे ऽति-दोषोपचयाद् अ-पथ्यैर् दैवतो ऽपि वा ॥ २२ ॥
मृते ऽन्तर् उदरं शीतं स्तब्धं ध्मातं भृश-व्यथम् ।
गर्भा-स्पन्दो भ्रम-तृष्णा कृच्छ्राद् उच्छ्वसनं क्लमः ॥ २३ ॥
२.२३av मृते ऽन्तर् जठरं शीतं २.२३bv स्तब्धाध्मातं भृश-व्यथम्
अ-रतिः स्रस्त-नेत्र-त्वम् आवीनाम् अ-समुद्भवः ।
तस्याः कोष्णाम्बु-सिक्तायाः पिष्ट्वा योनिं प्रलेपयेत् ॥ २४ ॥
गुडं किण्वं स-लवणं तथान्तः पूरयेन् मुहुः ।
घृतेन कल्की-कृतया शाल्मल्य्-अतसि-पिच्छया ॥ २५ ॥
मन्त्रैर् योगैर् जरायूक्तैर् मूढ-गर्भो न चेत् पतेत् ।
अथापृच्छ्येश्वरं वैद्यो यत्नेनाशु तम् आहरेत् ॥ २६ ॥
२.२६cv अथ पृष्ट्वेश्वरं वैद्यो २.२६cv अथापृष्ट्वेश्वरं वैद्यो
हस्तम् अभ्यज्य योनिं च साज्य-शाल्मलि-पिच्छया ।
हस्तेन शक्यं तेनैव गात्रं च विषमं स्थितम् ॥ २७ ॥
२.२७dv गात्रं च विषम-स्थितम्
आञ्छनोत्पीड-संपीड-विक्षेपोत्क्षेपणादिभिः ।
आनुलोम्य समाकर्षेद् योनिं प्रत्य् आर्जवागतम् ॥ २८ ॥
२.२८cv आनुलोम्ये समाकर्षेद्
हस्त-पाद-शिरोभिर् यो योनिं भुग्नः प्रपद्यते ।
पादेन योनिम् एकेन भुग्नो ऽन्येन गुदं च यः ॥ २९ ॥
विष्कम्भौ नाम तौ मूढौ शस्त्र-दारणम् अर्हतः ।
मण्डलाङ्गुलि-शस्त्राभ्यां तत्र कर्म प्रशस्यते ॥ ३० ॥
वृद्धि-पत्त्रं हि तीक्ष्णाग्रं न योनाव् अवचारयेत् ।
पूर्वं शिरः-कपालानि दारयित्वा विशोधयेत् ॥ ३१ ॥
कक्षोरस्-तालु-चिबुक-प्रदेशे ऽन्य-तमे ततः ।
समालम्ब्य दृढं कर्षेत् कुशलो गर्भ-शङ्कुना ॥ ३२ ॥
२.३२av कक्षोरस्-तालु-चिबुके २.३२bv प्रदेशे ऽन्य-तमे ततः
अ-भिन्न-शिरसं त्व् अक्षि-कूटयोर् गण्डयोर् अपि ।
बाहुं छित्त्वांस-सक्तस्य वाताध्मातोदरस्य तु ॥ ३३ ॥
विदार्य कोष्ठम् अन्त्राणि बहिर् वा संनिरस्य च ।
कटी-सक्तस्य तद्-वच् च तत्-कपालानि दारयेत् ॥ ३४ ॥
यद् यद् वायु-वशाद् अङ्गं सज्जेद् गर्भस्य खण्ड-शः ।
तत् तच् छित्त्वाहरेत् सम्यग् रक्षेन् नारीं च यत्नतः ॥ ३५ ॥
२.३५cv तत् तच् छित्त्वाहरन् सम्यग्
गर्भस्य हि गतिं चित्रां करोति वि-गुणो ऽनिलः ।
तत्रान्-अल्प-मतिस् तस्माद् अवस्थापेक्षम् आचरेत् ॥ ३६ ॥
छिन्द्याद् गर्भं न जीवन्तं मातरं स हि मारयेत् ।
सहात्मना न चोपेक्ष्यः क्षणम् अप्य् अस्त-जीवितः ॥ ३७ ॥
योनि-संवरण-भ्रंश-मक्कल्ल-श्वास-पीडिताम् ।
पूत्य्-उद्गारां हिमाङ्गीं च मूढ-गर्भां परित्यजेत् ॥ ३८ ॥
अथा-पतन्तीम् अपरां पातयेत् पूर्व-वद् भिषक् ।
एवं निर्हृत-शल्यां तु सिञ्चेद् उष्णेन वारिणा ॥ ३९ ॥
दद्याद् अभ्यक्त-देहायै योनौ स्नेह-पिचुं ततः ।
योनिर् मृदुर् भवेत् तेन शूलं चास्याः प्रशाम्यति ॥ ४० ॥
दीप्यकातिविषा-रास्ना-हिङ्ग्व्-एला-पञ्च-कोलकात् ।
चूर्णं स्नेहेन कल्कं वा क्वाथं वा पाययेत् ततः ॥ ४१ ॥
२.४१dv क्वाथं तां पाययेत् ततः
कटुकातिविषा-पाठा-शाक-त्वग्-घिङ्गु-तेजिनीः ।
तद्-वच् च दोष-स्यन्दार्थं वेदनोपशमाय च ॥ ४२ ॥
२.४२bv -शाक-त्वग्-घिङ्गु-तेजनीः
त्रि-रात्रम् एवं सप्ताहं स्नेहम् एव ततः पिबेत् ।
सायं पिबेद् अरिष्टं च तथा सु-कृतम् आसवम् ॥ ४३ ॥
शिरीष-ककुभ-क्वाथ-पिचून् योनौ विनिक्षिपेत् ।
उपद्रवाश् च ये ऽन्ये स्युस् तान् यथा-स्वम् उपाचरेत् ॥ ४४ ॥
पयो वात-हरैः सिद्धं दशाहं भोजने हितम् ।
रसो दशाहं च परं लघु-पथ्याल्प-भोजना ॥ ४५ ॥
स्वेदाभ्यङ्ग-परा स्नेहान् बला-तैलादिकान् भजेत् ।
ऊर्ध्वं चतुर्भ्यो मासेभ्यः सा क्रमेण सुखानि च ॥ ४६ ॥
बला-मूल-कषायस्य भागाः षट् पयसस् तथा ।
यव-कोल-कुलत्थानां दश-मूलस्य चैकतः ॥ ४७ ॥
निःक्वाथ-भागो भागश् च तैलस्य तु चतुर्-दशः ।
द्वि-मेदा-दारु-मञ्जिष्ठा-काकोली-द्वय-चन्दनैः ॥ ४८ ॥
२.४८bv तैलस्य च चतुर्-दशः
शारिवा-कुष्ठ-तगर-जीवकर्षभ-सैन्धवैः ।
कालानुसार्या-शैलेय-वचागुरु-पुनर्नवैः ॥ ४९ ॥
२.४९cv कालानुसारी-शैलेय- २.४९cv कालानुसार्य-शैलेय-
अश्वगन्धा-वरी-क्षीरशुक्ला-यष्टी-वरा-रसैः ।
शताह्वा-शूर्पपर्ण्य्-एला-त्वक्-पत्त्रैः श्लक्ष्ण-कल्कितैः ॥ ५० ॥
पक्वं मृद्व्-अग्निना तैलं सर्व-वात-विकार-जित् ।
सूतिका-बाल-मर्मास्थि-हत-क्षीणेषु पूजितम् ॥ ५१ ॥
२.५१dv -क्षत-क्षीणेषु पूजितम्
ज्वर-गुल्म-ग्रहोन्माद-मूत्राघातान्त्र-वृद्धि-जित् ।
धन्वन्तरेर् अभिमतं योनि-रोग-क्षयापहम् ॥ ५२ ॥
वस्ति-द्वारे विपन्नायाः कुक्षिः प्रस्पन्दते यदि ।
जन्म-काले ततः शीघ्रं पाटयित्वोद्धरेच् छिशुम् ॥ ५३ ॥
मधुकं शाक-बीजं च पयस्या सुरदारु च ।
अश्मन्तकः कृष्ण-तिलास् ताम्रवल्ली शतावरी ॥ ५४ ॥
२.५४bv पयस्यामरदारु च
वृक्षादनी पयस्या च लता सोत्पल-शारिवा ।
अनन्ता शारिवा रास्ना पद्मा च मधुयष्टिका ॥ ५५ ॥
२.५५bv लता चोत्पल-शारिवा २.५५dv पद्माथ मधुयष्टिका २.५५dv
पद्माह्व-मधुयष्टिका
२.५५dv पद्मकं मधुयष्टिका
बृहती-द्वय-काश्मर्य-क्षीरि-शुङ्ग-त्वचा घृतम् ।
पृश्निपर्णी बला शिग्रुः श्वदंष्ट्रा मधुपर्णिका ॥ ५६ ॥
२.५६av बृहती-द्वय-काश्मर्यः २.५६bv -क्षीरि-शृङ्ग-त्वचा घृतम् २.५६bv
क्षीरि-शुङ्ग-त्वचा घृतम्
शृङ्गाटकं बिसं द्राक्षा कसेरु मधुकं सिता ।
सप्तैतान् पयसा योगान् अर्ध-श्लोक-समापनान् ॥ ५७ ॥
क्रमात् सप्तसु मासेषु गर्भे स्रवति योजयेत् ।
कपित्थ-बिल्व-बृहती-पटोलेक्षु-निदिग्धिकात् ॥ ५८ ॥
२.५८dv -पटोलेक्षु-निदिग्धि-जैः
मूलैः शृतं प्रयुञ्जीत क्षीरं मासे तथाष्टमे ।
नवमे शारिवानन्ता-पयस्या-मधुयष्टिभिः ॥ ५९ ॥
योजयेद् दशमे मासि सिद्धं क्षीरं पयस्यया ।
अथ-वा यष्टिमधुक-नागरामरदारुभिः ॥ ६० ॥
अवस्थितं लोहितम् अङ्गनाया वातेन गर्भं ब्रुवते ऽन्-अभिज्ञाः ।
गर्भाकृति-त्वात् कटुकोष्ण-तीक्ष्णैः स्रुते पुनः केवल एव रक्ते ॥ ६१ ॥
गर्भं जडा भूत-हृतं वदन्ति मूर्तेर् न दृष्टं हरणं यतस् तैः ।
ओजो-ऽशन-त्वाद् अथ-वा-व्यवस्थैर् भूतैर् उपेक्ष्येत न गर्भ-माता ॥ ६२ ॥
अध्याय 03
[सम्पाद्यताम्]शिरो ऽन्तर्-आधिर् द्वौ बाहू सक्थिनीति समासतः ।
षड्-अङ्गम् अङ्गं प्रत्यङ्गं तस्याक्षि-हृदयादिकम् ॥ १ ॥
३.१bv सक्थिनी च समासतः
शब्दः स्पर्शश् च रूपं च रसो गन्धः क्रमाद् गुणाः ।
खानिलाग्न्य्-अब्-भुवाम् एक-गुण-वृद्ध्य्-अन्वयः परे ॥ २ ॥
३.२cv खानिलाग्न्य्-अम्बु-भूष्व् एक- ३.२dv -गुण-वृद्ध्यान्वयः परे
तत्र खात् खानि देहे ऽस्मिन् श्रोत्रं शब्दो विविक्त-ता ।
वातात् स्पर्श-त्वग्-उच्छ्वासा वह्नेर् दृग्-रूप-पक्तयः ॥ ३ ॥
आप्या जिह्वा-रस-क्लेदा घ्राण-गन्धास्थि पार्थिवम् ।
मृद्व् अत्र मातृ-जं रक्त-मांस-मज्ज-गुदादिकम् ॥ ४ ॥
पैतृकं तु स्थिरं शुक्र-धमन्य्-अस्थि-कचादिकम् ।
चैतनं चित्तम् अक्षाणि नाना-योनिषु जन्म च ॥ ५ ॥
३.५cv आत्म-जं चित्तं अक्षाणि
सात्म्य-जं त्व् आयुर् आरोग्यम् अन्-आलस्यं प्रभा बलम् ।
रस-जं वपुषो जन्म वृत्तिर् वृद्धिर् अ-लोल-ता ॥ ६ ॥
३.६av सात्म्य-जं चायुर् आरोग्यम्
सात्त्विकं शौचम् आस्तिक्यं शुक्ल-धर्म-रुचिर् मतिः ।
राजसं बहु-भाषि-त्वं मान-क्रुद्-दम्भ-मत्सरम् ॥ ७ ॥
३.७dv मान-क्रुद्-दम्भ-मत्सराः
तामसं भयम् अ-ज्ञानं निद्रालस्यं विषादि-ता ।
इति भूत-मयो देहस् तत्र सप्त त्वचो ऽसृजः ॥ ८ ॥
पच्यमानात् प्रजायन्ते क्षीरात् संतानिका इव ।
धात्व्-आशयान्तर-क्लेदो विपक्वः स्वं स्वम् ऊष्मणा ॥ ९ ॥
श्लेष्म-स्नाय्व्-अपराच्छन्नः कलाख्यः काष्ठ-सार-वत् ।
ताः सप्त सप्त चाधारा रक्तस्याद्यः क्रमात् परे ॥ १० ॥
३.१०अच् श्लेष्म-स्नाय्व्-अपरा-छन्नः ३.१०dv रक्तस्याधः क्रमात् परे
कफाम-पित्त-पक्वानां वायोर् मूत्रस्य च स्मृताः ।
गर्भाशयो ऽष्टमः स्त्रीणां पित्त-पक्वाशयान्तरे ॥ ११ ॥
कोष्ठाङ्गानि स्थितान्य् एषु हृदयं क्लोम फुप्फुसम् ।
यकृत्-प्लीहोण्डुकं वृक्कौ नाभि-डिम्बान्त्र-वस्तयः ॥ १२ ॥
३.१२bv हृदयं क्लोम फुप्फुसः ३.१२bv हृदयं क्लोम-फुप्फुसे
दश जीवित-धामानि शिरो-रसन-बन्धनम् ।
कण्ठो ऽस्रं हृदयं नाभिर् वस्तिः शुक्रौजसी गुदम् ॥ १३ ॥
३.१३dv वस्तिः शुक्रौजसी गुदः
जालानि कण्डराश् चाङ्गे पृथक् षो-डश निर्दिशेत् ।
षट् कूर्चाः सप्त सीवन्यो मेढ्र-जिह्वा-शिरो-गताः ॥ १४ ॥
३.१४cv षट् कूर्चाः सप्त सेवन्यो ३.१४cv षट् कूर्चाः सप्त सेविन्यो
शस्त्रेण ताः परिहरेच् चतस्रो मांस-रज्जवः ।
चतुर्-दशास्थि-संघाताः सीमन्ता द्वि-गुणा नव ॥ १५ ॥
३.१५av शस्त्रेणैताः परिहरेच्
अस्थ्नां शतानि षष्टिश् च त्रीणि दन्त-नखैः सह ।
धन्वन्तरिस् तु त्रीण्य् आह संधीनां च शत-द्वयम् ॥ १६ ॥
३.१६av अस्थ्नां शतानि षष्ठीनि
दशोत्तरं सहस्रे द्वे निजगादात्रि-नन्दनः ।
स्नाव्नां नव-शती पञ्च पुंसां पेशी-शतानि तु ॥ १७ ॥
३.१७cv स्नायोर् नव-शती पञ्च ३.१७dv पुंसां पेशी-शतानि च
अधिका विंशतिः स्त्रीणां योनि-स्तन-समाश्रिताः ।
दश मूल-सिरा हृत्-स्थास् ताः सर्वं सर्वतो वपुः ॥ १८ ॥
३.१८bv योनि-स्तन-समाश्रयाः
रसात्मकं वहन्त्य् ओजस् तन्-निबद्धं हि चेष्टितम् ।
स्थूल-मूलाः सु-सूक्ष्माग्राः पत्त्र-रेखा-प्रतान-वत् ॥ १९ ॥
भिद्यन्ते तास् ततः सप्त-शतान्य् आसां भवन्ति तु ।
तत्रैकैकं च शाखायां शतं तस्मिन् न वेधयेत् ॥ २० ॥
३.२०cv तत्रैकैक-त्र शाखायां
सिरां जालन्-धरां नाम तिस्रश् चाभ्यन्तराश्रिताः ।
षो-डश-द्वि-गुणाः श्रोण्यां तासां द्वे द्वे तु वङ्क्षणे ॥ २१ ॥
द्वे द्वे कटीक-तरुणे शस्त्रेणाष्टौ स्पृशेन् न ताः ।
पार्श्वयोः षो-डशैकैकाम् ऊर्ध्व-गां वर्जयेत् तयोः ॥ २२ ॥
३.२२dv ऊर्ध्व-गां वर्जयेत् सिराम्
द्वा-दश-द्वि-गुणाः पृष्ठे पृष्ठ-वंशस्य पार्श्वयोः ।
द्वे द्वे तत्रोर्ध्व-गामिन्यौ न शस्त्रेण परामृशेत् ॥ २३ ॥
३.२३bv पृष्ठ-वंशस्य पार्श्व-गे
पृष्ठ-वज् जठरे तासां मेहनस्योपरि स्थिते ।
रोम-राजीम् उभयतो द्वे द्वे शस्त्रेण न स्पृशेत् ॥ २४ ॥
चत्वारिंशद् उरस्य् आसां चतुर्-दश न वेधयेत् ।
स्तन-रोहित-तन्-मूल-हृदये तु पृथग् द्वयम् ॥ २५ ॥
अपस्तम्भाख्ययोर् एकां तथापालापयोर् अपि ।
ग्रीवायां पृष्ठ-वत् तासां नीले मन्ये कृकाटिके ॥ २६ ॥
विधुरे मातृकाश् चाष्टौ षो-डशेति परित्यजेत् ।
हन्वोः षो-डश तासां द्वे संधि-बन्धन-कर्मणी ॥ २७ ॥
३.२७bv षो-डशैताः परित्यजेत्
जिह्वायां हनु-वत् तासाम् अधो द्वे रस-बोधने ।
द्वे च वाचः-प्रवर्तिन्यौ नासायां चतुर्-उत्तरा ॥ २८ ॥
विंशतिर् गन्ध-वेदिन्यौ तासाम् एकां च तालु-गाम् ।
षट्-पञ्चाशन् नयनयोर् निमेषोन्मेष-कर्मणी ॥ २९ ॥
द्वे द्वे अपाङ्गयोर् द्वे च तासां षड् इति वर्जयेत् ।
नासा-नेत्राश्रिताः षष्टिर् ललाटे स्थपनी-श्रिताम् ॥ ३० ॥
तत्रैकां द्वे तथावर्तौ चतस्रश् च कचान्त-गाः ।
सप्तैवं वर्जयेत् तासां कर्णयोः षो-डशात्र तु ॥ ३१ ॥
द्वे शब्द-बोधने शङ्खौ सिरास् ता एव चाश्रिताः ।
द्वे शङ्ख-संधि-गे तासां मूर्ध्नि द्वा-दश तत्र तु ॥ ३२ ॥
एकैकां पृथग् उत्क्षेप-सीमन्ताधिपति-स्थिताम् ।
इत्य् अ-वेध्य-विभागार्थं प्रत्यङ्गं वर्णिताः सिराः ॥ ३३ ॥
अ-वेध्यास् तत्र कार्त्स्न्येन देहे ऽष्टा-नवतिस् तथा ।
संकीर्णा ग्रथिताः क्षुद्रा वक्राः संधिषु चाश्रिताः ॥ ३४ ॥
तासां शतानां सप्तानां पादो ऽस्रं वहते पृथक् ।
वात-पित्त-कफैर् जुष्टं शुद्धं चैवं स्थिता मलाः ॥ ३५ ॥
शरीरम् अनुगृह्णन्ति पीडयन्त्य् अन्य-था पुनः ।
तत्र श्यावारुणाः सूक्ष्माः पूर्ण-रिक्ताः क्षणात् सिराः ॥ ३६ ॥
प्रस्पन्दिन्यश् च वातास्रं वहन्ते पित्त-शोणितम् ।
स्पर्शोष्णाः शीघ्र-वाहिन्यो नील-पीताः कफं पुनः ॥ ३७ ॥
गौर्यः स्निग्धाः स्थिराः शीताः संसृष्टं लिङ्ग-संकरे ।
गूढाः सम-स्थिताः स्निग्धा रोहिण्यः शुद्ध-शोणितम् ॥ ३८ ॥
धमन्यो नाभि-संबद्धा विंशतिश् चतुर्-उत्तरा ।
ताभिः परिवृता नाभिश् चक्र-नाभिर् इवारकैः ॥ ३९ ॥
३.३९cv ताभिः परिवृतो नाभिश्
ताभिश् चोर्ध्वम् अधस् तिर्यग् देहो ऽयम् अनुगृह्यते ।
स्रोतांसि नासिके कर्णौ नेत्रे पाय्व्-आस्य-मेहनम् ॥ ४० ॥
स्तनौ रक्त-पथश् चेति नारीणाम् अधिकं त्रयम् ।
जीवितायतनान्य् अन्तः स्रोतांस्य् आहुस् त्रयो-दश ॥ ४१ ॥
प्राण-धातु-मलाम्भो-ऽन्न-वाहीन्य् अ-हित-सेवनात् ।
तानि दुष्टानि रोगाय विशुद्धानि सुखाय च ॥ ४२ ॥
स्व-धातु-सम-वर्णानि वृत्त-स्थूलान्य् अणूनि च ।
स्रोतांसि दीर्घाण्य् आकृत्या प्रतान-सदृशानि च ॥ ४३ ॥
आहारश् च विहारश् च यः स्याद् दोष-गुणैः समः ।
धातुभिर् वि-गुणो यश् च स्रोतसां स प्रदूषकः ॥ ४४ ॥
अति-प्रवृत्तिः सङ्गो वा सिराणां ग्रन्थयो ऽपि वा ।
वि-मार्गतो वा गमनं स्रोतसां दुष्टि-लक्षणम् ॥ ४५ ॥
३.४५dv स्रोतसां दुष्ट-लक्षणम्
बिसानाम् इव सूक्ष्माणि दूरं प्रविसृतानि च ।
द्वाराणि स्रोतसां देहे रसो यैर् उपचीयते ॥ ४६ ॥
व्यधे तु स्रोतसां मोह-कम्पाध्मान-वमि-ज्वराः ।
प्रलाप-शूल-विण्-मूत्र-रोधा मरणम् एव वा ॥ ४७ ॥
स्रोतो-विद्धम् अतो वैद्यः प्रत्याख्याय प्रसाधयेत् ।
उद्धृत्य शल्यं यत्नेन सद्यः-क्षत-विधानतः ॥ ४८ ॥
अन्नस्य पक्ता पित्तं तु पाचकाख्यं पुरेरितम् ।
दोष-धातु-मलादीनाम् ऊष्मेत्य् आत्रेय-शासनम् ॥ ४९ ॥
वाम-पार्श्वाश्रितं नाभेः किञ्-चित् सूर्यस्य मण्डलम् ।
तन्-मध्ये मण्डलं सौम्यं तन्-मध्ये ऽग्निर् व्यवस्थितः ॥ ४९+१ ॥
जरायु-मात्र-प्रच्छन्नः काच-कोश-स्थ-दीप-वत् ॥ ४९+२अब् ॥
तद्-अधिष्ठानम् अन्नस्य ग्रहणाद् ग्रहणी मता ।
सैव धन्वन्तरि-मते कला पित्त-धराह्वया ॥ ५० ॥
आयुर्-आरोग्य-वीर्यौजो-भूत-धात्व्-अग्नि-पुष्टये ।
स्थिता पक्वाशय-द्वारि भुक्त-मार्गार्गलेव सा ॥ ५१ ॥
३.५१dv भुक्त-मार्गार्गलेव या
भुक्तम् आमाशये रुद्ध्वा सा विपाच्य नयत्य् अधः ।
बल-वत्य् अ-बला त्व् अन्नम् आमम् एव विमुञ्चति ॥ ५२ ॥
ग्रहण्या बलम् अग्निर् हि स चापि ग्रहणी-बलः ।
दूषिते ऽग्नाव् अतो दुष्टा ग्रहणी रोग-कारिणी ॥ ५३ ॥
यद् अन्नं देह-धात्व्-ओजो-बल-वर्णादि-पोषणम् ।
तत्राग्निर् हेतुर् आहारान् न ह्य् अ-पक्वाद् रसादयः ॥ ५४ ॥
अन्नं काले ऽभ्यवहृतं कोष्ठं प्राणानिलाहृतम् ।
द्रवैर् विभिन्न-संघातं नीतं स्नेहेन मार्दवम् ॥ ५५ ॥
३.५५bv कोष्ठे प्राणानिलाहृतम्
संधुक्षितः समानेन पचत्य् आमाशय-स्थितम् ।
औदर्यो ऽग्निर् यथा बाह्यः स्थाली-स्थं तोय-तण्डुलम् ॥ ५६ ॥
आदौ षड्-रसम् अप्य् अन्नं मधुरी-भूतम् ईरयेत् ।
फेनी-भूतं कफं यातं विदाहाद् अम्ल-तां ततः ॥ ५७ ॥
३.५७cv फेन-भूतं कफं यातं
पित्तम् आमाशयात् कुर्याच् च्यवमानं च्युतं पुनः ।
अग्निना शोषितं पक्वं पिण्डितं कटु मारुतम् ॥ ५८ ॥
भौमाप्याग्नेय-वायव्याः पञ्चोष्माणः स-नाभसाः ।
पञ्चाहार-गुणान् स्वान् स्वान् पार्थिवादीन् पचन्त्य् अनु ॥ ५९ ॥
यथा-स्वं ते च पुष्णन्ति पक्वा भूत-गुणान् पृथक् ।
पार्थिवाः पार्थिवान् एव शेषाः शेषांश् च देह-गान् ॥ ६० ॥
३.६०av यथा-स्वं ते च पुष्यन्ति
किट्टं सारश् च तत् पक्वम् अन्नं संभवति द्वि-धा ।
तत्राच्छं किट्टम् अन्नस्य मूत्रं विद्याद् घनम् शकृत् ॥ ६१ ॥
३.६१av किट्टं सारस् तथा पक्वम्
सारस् तु सप्तभिर् भूयो यथा-स्वं पच्यते ऽग्निभिः ।
रसाद् रक्तं ततो मांसं मांसान् मेदस् ततो ऽस्थि च ॥ ६२ ॥
३.६२dv मांसान् मेदो ऽस्थि मेदसः
अस्थ्नो मज्जा ततः शुक्रं शुक्राद् गर्भः प्रजायते ।
कफः पित्तं मलाः खेषु प्रस्वेदो नख-रोम च ॥ ६३ ॥
३.६३cv कफः पित्तं मलः खेषु
स्नेहो ऽक्षि-त्वग्-विषाम् ओजो धातूनां क्रम-शो मलाः ।
प्रसाद-किट्टौ धातूनां पाकाद् एवं द्वि-धर्च्छतः ॥ ६४ ॥
परस्-परोपसंस्तम्भाद् धातु-स्नेह-परम्-परा ।
के-चिद् आहुर् अहो-रात्रात् षड्-अहाद् अपरे परे ॥ ६५ ॥
मासेन याति शुक्र-त्वम् अन्नं पाक-क्रमादिभिः ।
संतता भोज्य-धातूनां परिवृत्तिस् तु चक्र-वत् ॥ ६६ ॥
वृष्यादीनि प्रभावेण सद्यः शुक्रादि कुर्वते ।
प्रायः करोत्य् अहो-रात्रात् कर्मान्यद् अपि भेषजम् ॥ ६७ ॥
३.६७bv सद्यः शुक्रं प्रकुर्वते
व्यानेन रस-धातुर् हि विक्षेपोचित-कर्मणा ।
युग-पत् सर्वतो ऽजस्रं देहे विक्षिप्यते सदा ॥ ६८ ॥
क्षिप्यमाणः ख-वैगुण्याद् रसः सज्जति यत्र सः ।
तस्मिन् विकारं कुरुते खे वर्षम् इव तोय-दः ॥ ६९ ॥
दोषाणाम् अपि चैवं स्याद् एक-देश-प्रकोपणम् ।
अन्न-भौतिक-धात्व्-अग्नि-कर्मेति परिभाषितम् ॥ ७० ॥
अन्नस्य पक्ता सर्वेषां पक्तॄणाम् अधिको मतः ।
तन्-मूलास् ते हि तद्-वृद्धि-क्षय-वृद्धि-क्षयात्मकाः ॥ ७१ ॥
तस्मात् तं विधि-वद् युक्तैर् अन्न-पानेन्धनैर् हितैः ।
पालयेत् प्रयतस् तस्य स्थितौ ह्य् आयुर्-बल-स्थितिः ॥ ७२ ॥
समः समाने स्थान-स्थे विषमो ऽग्निर् वि-मार्ग-गे ।
पित्ताभिमूर्छिते तीक्ष्णो मन्दो ऽस्मिन् कफ-पीडिते ॥ ७३ ॥
समो ऽग्निर् विषमस् तीक्ष्णो मन्दश् चैवं चतुर्-विधः ।
यः पचेत् सम्यग् एवान्नं भुक्तं सम्यक् समस् त्व् असौ ॥ ७४ ॥
३.७४dv भुक्तं सम्यक् समस् तु सः
विषमो ऽ-सम्यग् अप्य् आशु सम्यग् वापि चिरात् पचेत् ।
तीक्ष्णो वह्निः पचेच् छीघ्रम् अ-सम्यग् अपि भोजनम् ॥ ७५ ॥
३.७५av विषमो ऽ-सम्यग् एवाशु ३.७५bv सम्यग् एव चिरात् पचेत्
मन्दस् तु सम्यग् अप्य् अन्नम् उपयुक्तं चिरात् पचेत् ।
कृत्वास्य-शोषाटोपान्त्र-कूजनाध्मान-गौरवम् ॥ ७६ ॥
३.७६bv उपभुक्तं चिरात् पचेत्
शान्ते ऽग्नौ म्रियते युक्ते चिरं जीवत्य् अन्-आमयः ।
रोगी स्याद् विकृते मूलम् अग्नि-स्तम्भान् निरुच्यते ॥ ७६+१ ॥
३.७६+१dv अग्नि-स्तम्भान् निरूप्यते
सह-जं काल-जं युक्ति-कृतं देह-बलं त्रि-धा ।
तत्र सत्-त्व-शरीरोत्थं प्राकृतं सह-जं बलम् ॥ ७७ ॥
वयः-कृतम् ऋतूत्थं च काल-जं युक्ति-जं पुनः ।
विहाराहार-जनितं तथोर्जस्-कर-योग-जम् ॥ ७८ ॥
देशो ऽल्प-वारि-द्रु-नगो जाङ्गलः स्व्-अल्प-रोग-दः ।
आनूपो विपरीतो ऽस्मात् समः साधारणः स्मृतः ॥ ७९ ॥
मज्ज-मेदो-वसा-मूत्र-पित्त-श्लेष्म-शकृन्त्य् असृक् ।
रसो जलं च देहे ऽस्मिन्न् एकैकाञ्जलि-वर्धितम् ॥ ८० ॥
पृथक् स्व-प्रसृतं प्रोक्तम् ओजो-मस्तिष्क-रेतसाम् ।
द्वाव् अञ्जली तु स्तन्यस्य चत्वारो रजसः स्त्रियाः ॥ ८१ ॥
सम-धातोर् इदं मानं विद्याद् वृद्धि-क्षयाव् अतः ॥ ८२अब् ॥
शुक्रासृग्-गर्भिणी-भोज्य-चेष्टा-गर्भाशयर्तुषु ।
यः स्याद् दोषो ऽधिकस् तेन प्रकृतिः सप्त-धोदिता ॥ ८३ ॥
३.८३dv प्रकृतिः सप्त-धा स्मृता
विभु-त्वाद् आशु-कारि-त्वाद् बलि-त्वाद् अन्य-कोपनात् ।
स्वातन्त्र्याद् बहु-रोग-त्वाद् दोषाणां प्रबलो ऽनिलः ॥ ८४ ॥
प्रायो ऽत एव पवनाध्युषिता मनुष्या दोषात्मकाः स्फुटित-धूसर-केश-गात्राः ।
शीत-द्विषश् चल-धृति-स्मृति-बुद्धि-चेष्टा-सौहार्द-दृष्टि-गतयो ऽति-बहु-प्रलापाः ॥ ८५ ॥
अल्प-वित्त-बल-जीवित-निद्राः सन्न-सक्त-चल-जर्जर-वाचः ।
नास्तिका बहु-भुजः स-विलासा गीत-हास-मृगया-कलि-लोलाः ॥ ८६ ॥
३.८६av अल्प-पित्त-कफ-जीवित-निद्राः ३.८६av अल्प-वित्त-कफ-जीवित-निद्राः
३.८६av अल्प-पित्त-बल-जीवित-निद्राः
मधुराम्ल-पटूष्ण-सात्म्य-काङ्क्षाः कृश-दीर्घाकृतयः स-शब्द-याताः ।
न दृढा न जितेन्द्रिया न चार्या न च कान्ता-दयिता बहु-प्रजा वा ॥ ८७ ॥
३.८७bv कृश-दीर्घाकृतयः स-शब्द-यानाः
नेत्राणि चैषां खर-धूसराणि वृत्तान्य् अ-चारूणि मृतोपमानि ।
उन्मीलितानीव भवन्ति सुप्ते शैल-द्रुमांस् ते गगनं च यान्ति ॥ ८८ ॥
३.८८av नेत्राणि वैषां खर-धूसराणि
अ-धन्या मत्सराध्माताः स्तेनाः प्रोद्बद्ध-पिण्डिकाः ।
श्व-शृगालोष्ट्र-गृध्राखु-काकानूकाश् च वातिकाः ॥ ८९ ॥
३.८९bv स्तेनाः प्रोद्वृत्त-पिण्डिकाः
पित्तं वह्निर् वह्नि-जं वा यद् अस्मात् पित्तोद्रिक्तस् तीक्ष्ण-तृष्णा-बुभुक्षः ।
गौरोष्णाङ्गस् ताम्र-हस्ताङ्घ्रि-वक्त्रः शूरो मानी पिङ्ग-केशो ऽल्प-रोमा ॥ ९० ॥
३.९०bv पित्तोद्रिक्तस् तीव्र-तृष्णा-बुभुक्षः
दयित-माल्य-विलेपन-मण्डनः सु-चरितः शुचिर् आश्रित-वत्सलः ।
विभव-साहस-बुद्धि-बलान्वितो भवति भीषु गतिर् द्विषताम् अपि ॥ ९१ ॥
मेधावी प्र-शिथिल-संधि-बन्ध-मांसो नारीणाम् अन्-अभिमतो ऽल्प-शुक्र-कामः ।
आवासः पलित-तरङ्ग-नीलिकानां भुङ्क्ते ऽन्नं मधुर-कषाय-तिक्त-शीतम् ॥ ९२ ॥
घर्म-द्वेषी स्वेदनः पूति-गन्धिर् भूर्य्-उच्चार-क्रोध-पानाशनेर्ष्यः ।
सुप्तः पश्येत् कर्णिकारान् पलाशान् दिग्-दाहोल्का-विद्युद्-अर्कानलांश् च ॥ ९३ ॥
तनूनि पिङ्गानि चलानि चैषां तन्व्-अल्प-पक्ष्माणि हिम-प्रियाणि ।
क्रोधेन मद्येन रवेश् च भासा रागं व्रजन्त्य् आशु विलोचनानि ॥ ९४ ॥
३.९४av तनूनि पिङ्गानि चलानि वैषां
मध्यायुषो मध्य-बलाः पिण्डिताः क्लेश-भीरवः ।
व्याघ्रर्क्ष-कपि-मार्जार-यक्षानूकाश् च पैत्तिकाः ॥ ९५ ॥
३.९५dv -वृकानूकाश् च पैत्तिकाः
श्लेष्मा सोमः श्लेष्मलस् तेन सौम्यो गूढ-स्निग्ध-श्लिष्ट-संध्य्-अस्थि-मांसः ।
क्षुत्-तृड्-दुःख-क्लेश-घर्मैर् अ-तप्तो बुद्ध्या युक्तः सात्त्विकः सत्य-संधः ॥ ९६ ॥
प्रियङ्गु-दूर्वा-शर-काण्ड-शस्त्र- गो-रोचना-पद्म-सुवर्ण-वर्णः ।
प्रलम्ब-बाहुः पृथु-पीन-वक्षा महा-ललाटो घन-नील-केशः ॥ ९७ ॥
मृद्व्-अङ्गः सम-सु-विभक्त-चारु-देहो बह्व्-ओजो-रति-रस-शुक्र-पुत्र-भृत्यः ।
धर्मात्मा वदति न निष्ठुरं च जातु प्रच्छन्नं वहति दृढं चिरं च वैरम् ॥ ९८
॥
३.९८av मृद्व्-अङ्गः सम-सु-विभक्त-चारु-वर्ष्मा
स-मद-द्वि-रदेन्द्र-तुल्य-यातो जल-दाम्भो-धि-मृदङ्ग-सिंह-घोषः ।
स्मृति-मान् अभियोग-वान् विनीतो न च बाल्ये ऽप्य् अति-रोदनो न लोलः ॥ ९९ ॥
३.९९bv जल-दाम्भो-धि-मृदङ्ग-शङ्ख-घोषः
तिक्तं कषायं कटुकोष्ण-रूक्षम् अल्पं स भुङ्क्ते बल-वांस् तथापि ।
रक्तान्त-सु-स्निग्ध-विशाल-दीर्घ- सु-व्यक्त-शुक्लासित-पक्ष्मलाक्षः ॥ १०० ॥
अल्प-व्याहार-क्रोध-पानाशनेहः प्राज्यायुर्-वित्तो दीर्घ-दर्शी वदान्यः ।
श्राद्धो गम्भीरः स्थूल-लक्षः क्षमा-वान् आर्यो निद्रालुर् दीर्घ-सूत्रः कृत-ज्ञः ॥ १०१
॥
३.१०१av अल्प-व्याहार-क्रोध-पानाशनेर्ष्यः ३.१०१bv प्राज्यायुर्-वृत्तो
दीर्घ-दर्शी वदान्यः
३.१०१cv श्राद्धो गम्भीरः स्थूल-लक्ष्यः क्षमा-वान् ३.१०१dv आर्यो निद्रालुर्
दीर्घ-सूत्री कृत-ज्ञः
ऋजुर् विपश्चित् सु-भगः सु-लज्जो भक्तो गुरूणां स्थिर-सौहृदश् च ।
स्वप्ने स-पद्मान् स-विहङ्ग-मालांस् तोयाशयान् पश्यति तोय-दांश् च ॥ १०२ ॥
३.१०२av ऋजुर् विपश्चित् सु-भगः स-लज्जो
ब्रह्म-रुद्रेन्द्र-वरुण-तार्क्ष्य-हंस-गजाधिपैः ।
श्लेष्म-प्रकृतयस् तुल्यास् तथा सिंहाश्व-गो-वृषैः ॥ १०३ ॥
प्रकृतीर् द्वय-सर्वोत्था द्वन्द्व-सर्व-गुणोदये ।
शौचास्तिक्यादिभिश् चैवं गुणैर् गुण-मयीर् वदेत् ॥ १०४ ॥
वयस् त्व् आ-षो-डशाद् बालं तत्र धात्व्-इन्द्रियौजसाम् ।
वृद्धिर् आ-सप्ततेर् मध्यं तत्रा-वृद्धिः परं क्षयः ॥ १०५ ॥
स्वं स्वं हस्त-त्रयं सार्धं वपुः पात्रं सुखायुषोः ।
न च यद् युक्तम् उद्रिक्तैर् अष्टाभिर् निन्दितैर् निजैः ॥ १०६ ॥
अ-रोमशासित-स्थूल-दीर्घ-त्वैः स-विपर्ययैः ।
सु-स्निग्धा मृदवः सूक्ष्मा नैक-मूलाः स्थिराः कचाः ॥ १०७ ॥
ललाटम् उन्नतं श्लिष्ट-शङ्खम् अर्धेन्दु-संनिभम् ।
कर्णौ नीचोन्नतौ पश्चान् महान्तौ श्लिष्ट-मांसलौ ॥ १०८ ॥
नेत्रे व्यक्तासित-सिते सु-बद्ध-घन-पक्ष्मणी ।
उन्नताग्रा महोच्छ्वासा पीनर्जुर् नासिका समा ॥ १०९ ॥
३.१०९bv सु-बद्धे घन-पक्ष्मणी
ओष्ठौ रक्ताव् अन्-उद्वृत्तौ महत्यौ नोल्बणे हनू ।
महद् आस्यं घना दन्ताः स्निग्धाः श्लक्ष्णाः सिताः समाः ॥ ११० ॥
जिह्वा रक्तायता तन्वी मांसलं चिबुकं महत् ।
ग्रीवा ह्रस्वा घना वृत्ता स्कन्धाव् उन्नत-पीवरौ ॥ १११ ॥
उदरं दक्षिणावर्त-गूढ-नाभि समुन्नतम् ।
तनु-रक्तोन्नत-नखं स्निग्धं आ-ताम्र-मांसलम् ॥ ११२ ॥
दीर्घा-च्छिद्राङ्गुलि महत् पाणि-पादं प्रतिष्ठितम् ।
गूढ-वंशं बृहत् पृष्ठं निगूढाः संधयो दृढाः ॥ ११३ ॥
३.११३cv गूढ-वंशं महत् पृष्ठं
धीरः स्वरो ऽनुनादी च वर्णः स्निग्धः स्थिर-प्रभः ।
स्व-भाव-जं स्थिरं सत्-त्वम् अ-विकारि विपत्स्व् अपि ॥ ११४ ॥
उत्तरोत्तर-सु-क्षेत्रं वपुर् गर्भादि-नी-रुजम् ।
आयाम-ज्ञान-विज्ञानैर् वर्धमानं शनैः शुभम् ॥ ११५ ॥
इति सर्व-गुणोपेते शरीरे शरदां शतम् ।
आयुर् ऐश्वर्यम् इष्टाश् च सर्वे भावाः प्रतिष्ठिताः ॥ ११६ ॥
त्वग्-रक्तादीनि सत्-त्वान्तान्य् अग्र्याण्य् अष्टौ यथोत्तरम् ।
बल-प्रमाण-ज्ञानार्थं साराण्य् उक्तानि देहिनाम् ॥ ११७ ॥
३.११७bv अग्राण्य् अष्टौ यथोत्तरम्
सारैर् उपेतः सर्वैः स्यात् परं गौरव-संयुतः ।
सर्वारम्भेषु चाशा-वान् सहिष्णुः सन्-मतिः स्थिरः ॥ ११८ ॥
३.११८dv सहिष्णुः सु-मतिः स्थिरः
अन्-उत्सेकं अ-दैन्यं च सुखं दुःखं च सेवते ।
सत्-त्व-वांस् तप्यमानस् तु राजसो नैव तामसः ॥ ११९ ॥
३.११९cv सत्-त्व-वान् स्तभ्यमानस् तु
दान-शील-दया-सत्य-ब्रह्म-चर्य-कृत-ज्ञ-ताः ।
रसायनानि मैत्री च पुण्यायुर्-वृद्धि-कृद् गणः ॥ १२० ॥
अध्याय 04
[सम्पाद्यताम्]सप्तोत्तरं मर्म-शतं तेषाम् एका-दशादिशेत् ।
पृथक् सक्थ्नोस् तथा बाह्वोस् त्रीणि कोष्ठे नवोरसि ॥ १ ॥
पृष्ठे चतुर्-दशोर्ध्वं तु जत्रोस् त्रिंशच् च सप्त च ।
मध्ये पाद-तलस्याहुर् अभितो मध्यमाङ्गुलीम् ॥ २ ॥
तल-हृन् नाम रुजया तत्र विद्धस्य पञ्च-ता ।
अङ्गुष्ठाङ्गुलि-मध्य-स्थं क्षिप्रं आक्षेप-मारणम् ॥ ३ ॥
तस्योर्ध्वं द्व्य्-अङ्गुले कूर्चः पाद-भ्रमण-कम्प-कृत् ।
गुल्फ-संधेर् अधः कूर्च-शिरः शोफ-रुजा-करम् ॥ ४ ॥
जङ्घा-चरणयोः संधौ गुल्फो रुक्-स्तम्भ-मान्द्य-कृत् ।
जङ्घान्तरे त्व् इन्द्र-वस्तिर् मारयत्य् असृजः क्षयात् ॥ ५ ॥
४.५bv गुल्फो रुक्-स्तम्भ-षाण्ढ्य-कृत् ४.५bv गुल्फो रुक्-स्तम्भ-खाञ्ज्य-कृत्
४.५bv गुल्फो रुक्-स्तम्भ-जाड्य-कृत्
जङ्घोर्वोः संगमे जानु खञ्ज-ता तत्र जीवतः ।
जानुनस् त्र्य्-अङ्गुलाद् ऊर्ध्वम् आण्य्-ऊरु-स्तम्भ-शोफ-कृत् ॥ ६ ॥
उर्व्य् ऊरु-मध्ये तद्-वेधात् सक्थि-शोषो ऽस्र-संक्षयात् ।
ऊरु-मूले लोहिताक्षं हन्ति पक्षम् असृक्-क्षयात् ॥ ७ ॥
४.७cv ऊरु-मूले लोहिताख्यं
मुष्क-वङ्क्षणयोर् मध्ये विटपं षण्ढ-ता-करम् ।
इति सक्थ्नोस् तथा बाह्वोर् मणि-बन्धो ऽत्र गुल्फ-वत् ॥ ८ ॥
४.८bv विटिपं षण्ढ-ता-करम्
कूर्परं जानु-वत् कौण्यं तयोर् विटप-वत् पुनः ।
कक्षाक्ष-मध्ये कक्षा-धृक् कुणि-त्वं तत्र जायते ॥ ९ ॥
स्थूलान्त्र-बद्धः सद्यो-घ्नो विड्-वात-वमनो गुदः ।
मूत्राशयो धनुर्-वक्रो वस्तिर् अल्पास्र-मांस-गः ॥ १० ॥
एकाधो-वदनो मध्ये कट्याः सद्यो निहन्त्य् असून् ।
ऋते ऽश्मरी-व्रणाद् विद्धस् तत्राप्य् उभयतश् च सः ॥ ११ ॥
४.११dv तत्राप्य् उभयतश् च यः
मूत्र-स्राव्य् एकतो भिन्ने व्रणो रोहेच् च यत्नतः ।
देहाम-पक्व-स्थानानां मध्ये सर्व-सिराश्रयः ॥ १२ ॥
नाभिः सो ऽपि हि सद्यो-घ्नो द्वारम् आमाशयस्य च ।
सत्-त्वादि-धाम हृदयं स्तनोरः-कोष्ठ-मध्य-गम् ॥ १३ ॥
स्तन-रोहित-मूलाख्ये द्व्य्-अङ्गुले स्तनयोर् वदेत् ।
ऊर्ध्वाधो ऽस्र-कफापूर्ण-कोष्ठो नश्येत् तयोः क्रमात् ॥ १४ ॥
४.१४cv ऊर्ध्वाधो ऽसृक्-कफापूर्ण-
अपस्तम्भाव् उरः-पार्श्वे नाड्याव् अनिल-वाहिनी ।
रक्तेन पूर्ण-कोष्ठो ऽत्र श्वासात् कासाच् च नश्यति ॥ १५ ॥
४.१५cv रक्तस्य पूर्ण-कोष्ठो ऽत्र
पृष्ठ-वंशोरसोर् मध्ये तयोर् एव च पार्श्वयोः ।
अधो ऽंस-कूटयोर् विद्याद् अपालापाख्य-मर्मणी ॥ १६ ॥
तयोः कोष्ठे ऽसृजा पूर्णे नश्येद् यातेन पूय-ताम् ।
पार्श्वयोः पृष्ठ-वंशस्य श्रोणि-कर्णौ प्रति स्थिते ॥ १७ ॥
४.१७dv श्रोणि-कर्ण-प्रतिष्ठिते ४.१७dv श्रोणि-कर्णौ प्रतिष्ठितौ
वंशाश्रिते स्फिजोर् ऊर्ध्वं कटीक-तरुणे स्मृते ।
तत्र रक्त-क्षयात् पाण्दुर् हीन-रूपो विनश्यति ॥ १८ ॥
पृष्ठ-वंशं ह्य् उभयतो यौ संधी कटि-पार्श्वयोः ।
जघनस्य बहिर्-भागे मर्मणी तौ कुकुन्दरौ ॥ १९ ॥
४.१९av पृष्ठ-वंशस्योभयतो
चेष्टा-हानिर् अधः-काये स्पर्शा-ज्ञानं च तद्-व्यधात् ।
पार्श्वान्तर-निबद्धौ याव् उपरि श्रोणि-कर्णयोः ॥ २० ॥
आशय-च्छादनौ तौ तु नितम्बौ तरुणास्थि-गौ ।
अधः-शरीरे शोफो ऽत्र दौर्बल्यं मरणं ततः ॥ २१ ॥
४.२१av आशयाच्छादनौ तौ तु
पार्श्वान्तर-निबद्धौ च मध्ये जघन-पार्श्वयोः ।
तिर्यग् ऊर्ध्वं च निर्दिष्टौ पार्श्व-संधी तयोर् व्यधात् ॥ २२ ॥
४.२२bv मध्यौ जघन-पार्श्वयोः ४.२२cv निर्दिष्टौ पार्श्व-संधी तौ
४.२२dv तिर्यग् ऊर्ध्वं तयोर् व्यधात्
रक्त-पूरित-कोष्ठस्य शरीरान्तर-संभवः ।
स्तन-मूलार्जवे भागे पृष्ठ-वंशाश्रये सिरे ॥ २३ ॥
बृहत्यौ तत्र विद्धस्य मरणं रक्त-संक्षयात् ।
बाहु-मूलाभिसंबद्धे पृष्ठ-वंशस्य पार्श्वयोः ॥ २४ ॥
अंसयोः फलके बाहु-स्वाप-शोषौ तयोर् व्यधात् ।
ग्रीवाम् उभयतः स्नाव्नी ग्रीवा-बाहु-शिरो-ऽन्तरे ॥ २५ ॥
४.२५bv -स्वाप-शोषौ तयोर् व्यधे ४.२५bv -स्वाप-शोफौ तयोर् व्यधे ४.२५bv
-स्वाप-शोफौ तयोर् व्यधात्
स्कन्धांस-पीठ-संबन्धाव् अंसौ बाहु-क्रिया-हरौ ।
कण्ठ-नालीम् उभयतः सिरा हनु-समाश्रिताः ॥ २६ ॥
४.२६av स्कन्धांस-पीठ-बद्धार्थाव् ४.२६av स्कन्धांस-पीठ-बन्धार्थाव्
४.२६av स्कन्धांस-पीठ-संबद्धाव्
चतस्रस् तासु नीले द्वे मन्ये द्वे मर्मणी स्मृते ।
स्वर-प्रणाश-वैकृत्यं रसा-ज्ञानं च तद्-व्यधे ॥ २७ ॥
४.२७cv स्वर-प्रणाश-वैकृत्य- ४.२७cv स्वर-प्रणाशो वैकृत्यं ४.२७dv
-रसा-ज्ञानं च तद्-व्यधे
कण्ठ-नालीम् उभयतो जिह्वा-नासा-गताः सिराः ।
पृथक् चतस्रस् ताः सद्यो घ्नन्त्य् असून् मातृकाह्वयाः ॥ २८ ॥
कृकाटिके शिरो-ग्रीवा-संधौ तत्र चलं शिरः ।
अधस्-तात् कर्णयोर् निम्ने विधुरे श्रुति-हारिणी ॥ २९ ॥
४.२९bv -संधी तत्र चलं शिरः
फणाव् उभयतो घ्राण-मार्गं श्रोत्र-पथानुगौ ।
अन्तर्-गल-स्थितौ वेधाद् गन्ध-विज्ञान-हारिणौ ॥ ३० ॥
नेत्रयोर् बाह्यतो ऽपाङ्गौ भ्रुवोः पुच्छान्तयोर् अधः ।
तथोपरि भ्रुवोर् निम्नाव् आवर्ताव् आन्ध्यम् एषु तु ॥ ३१ ॥
अनु-कर्णं ललाटान्ते शङ्खौ सद्यो-विनाशनौ ।
केशान्ते शङ्खयोर् ऊर्ध्वम् उत्क्षेपौ स्थपनि पुनः ॥ ३२ ॥
भ्रुवोर् मध्ये त्रये ऽप्य् अत्र शल्ये जीवेद् अन्-उद्धृते ।
स्वयं वा पतिते पाकात् सद्यो नश्यति तूद्धृते ॥ ३३ ॥
जिह्वाक्षि-नासिका-श्रोत्र-ख-चतुष्टय-संगमे ।
तालून्य् आस्यानि चत्वारि स्रोतसां तेषु मर्मसु ॥ ३४ ॥
विद्धः शृङ्गाटकाख्येषु सद्यस् त्यजति जीवितम् ।
कपाले संधयः पञ्च सीमन्तास् तिर्यग्-ऊर्ध्व-गाः ॥ ३५ ॥
४.३५cv कपाल-संधयः पञ्च
भ्रमोन्माद-मनो-नाशैस् तेषु विद्धेषु नश्यति ।
आन्तरो मस्तकस्योर्ध्वं सिरा-संधि-समागमः ॥ ३६ ॥
४.३६cv अन्तरे मस्तकस्योर्ध्वं
रोमावर्तो ऽधिपो नाम मर्म सद्यो हरत्य् असून् ।
विषमं स्पन्दनं यत्र पीडिते रुक् च मर्म तत् ॥ ३७ ॥
मांसास्थि-स्नायु-धमनी-सिरा-संधि-समागमः ।
स्यान् मर्मेति च तेनात्र सु-तरां जीवितं स्थितम् ॥ ३८ ॥
बाहुल्येन तु निर्देशः षो-ढैवं मर्म-कल्पना ।
प्राणायतन-सामान्याद् ऐक्यं वा मर्मणां मतम् ॥ ३९ ॥
४.३९dv ऐक्यं वा मर्मणां स्मृतम्
मांस-जानि दशेन्द्राख्य-तल-हृत्-स्तन-रोहिताः ।
शङ्खौ कटीक-तरुणे नितम्बाव् अंसयोः फले ॥ ४० ॥
अस्थ्न्य् अष्टौ स्नाव-मर्माणि त्रयो-विंशतिर् आणयः ।
कूर्च-कूर्च-शिरो-ऽपाङ्ग-क्षिप्रोत्क्षेपांस-वस्तयः ॥ ४१ ॥
४.४१av अस्थ्न्य् अष्टौ स्नायु-मर्माणि
गुदापस्तम्भ-विधुर-शृङ्गाटानि नवादिशेत् ।
मर्माणि धमनी-स्थानि सप्त-त्रिंशत् सिराश्रयाः ॥ ४२ ॥
४.४२av गुदो ऽपस्तम्भ-विधुर-
बृहत्यौ मातृका नीले मन्ये कक्षा-धरौ फणौ ।
विटपे हृदयं नाभिः पार्श्व-संधी स्तनाधरे ॥ ४३ ॥
४.४३dv पार्श्व-संधी स्तनान्तरे
अपालापौ स्थपन्य् उर्व्यश् चतस्रो लोहितानि च ।
संधौ विंशतिर् आवर्तौ मणि-बन्धौ कुकुन्दरौ ॥ ४४ ॥
सीमन्ताः कूर्परौ गुल्फौ कृकाट्यौ जानुनी पतिः ।
मांस-मर्म गुदो ऽन्येषां स्नाव्नि कक्षा-धरौ तथा ॥ ४५ ॥
४.४५dv स्नाव्नी कक्षा-धरौ तथा
विटपौ विधुराख्ये च शृङ्गाटानि सिरासु तु ।
अपस्तम्भाव् अपाङ्गौ च धमनी-स्थं न तैः स्मृतम् ॥ ४६ ॥
विद्धे ऽजस्रम् असृक्-स्रावो मांस-धावन-वत् तनुः ।
पाण्डु-त्वम् इन्द्रिया-ज्ञानं मरणम् चाशु मांस-जे ॥ ४७ ॥
४.४७dv मरणम् वाशु मांस-जे
मज्जान्वितो ऽच्छो विच्छिन्नः स्रावो रुक् चास्थि-मर्मणि ।
आयामाक्षेपक-स्तम्भाः स्नाव-जे ऽभ्यधिकं रुजा ॥ ४८ ॥
४.४८dv स्नाव-जे ऽभ्यधिकं रुजः ४.४८dv स्नाव-जे ऽभ्यधिका रुजः ४.४८dv
स्नायु-गे ऽभ्यधिकं रुजा
यान-स्थानासना-शक्तिर् वैकल्यम् अथ वान्तकः ।
रक्तं स-शब्द-फेनोष्णं धमनी-स्थे वि-चेतसः ॥ ४९ ॥
सिरा-मर्म-व्यधे सान्द्रम् अजस्रं बह्व् असृक् स्रवेत् ।
तत्-क्षयात् तृड्-भ्रम-श्वास-मोह-हिध्माभिर् अन्तकः ॥ ५० ॥
वस्तु शूकैर् इवाकीर्णं रूढे च कुणि-खञ्ज-ता ।
बल-चेष्टा-क्षयः शोषः पर्व-शोफश् च संधि-जे ॥ ५१ ॥
नाभि-शङ्खाधिपापान-हृच्-छृङ्गाटक-वस्तयः ।
अष्टौ च मातृकाः सद्यो निघ्नन्त्य् एकान्-न-विंशतिः ॥ ५२ ॥
४.५२dv निघ्नन्त्य् एकोन-विंशतिः
सप्ताहः परमस् तेषां कालः कालस्य कर्षणे ।
त्रयस्-त्रिंशद्-अपस्तम्भ-तल-हृत्-पार्श्व-संधयः ॥ ५३ ॥
४.५३av सप्ताहः परमं तेषां
कटी-तरुण-सीमन्त-स्तन-मूलेन्द्र-वस्तयः ।
क्षिप्रापालाप-बृहती-नितम्ब-स्तन-रोहिताः ॥ ५४ ॥
कालान्तर-प्राण-हरा मास-मासार्ध-जीविताः ।
उत्क्षेपौ स्थपनी त्रीणि वि-शल्य-घ्नानि तत्र हि ॥ ५५ ॥
४.५५dv वि-शल्य-घ्नानि तत्र तु
वायुर् मांस-वसा-मज्ज-मस्तुलुङ्गानि शोषयेत् ।
शल्यापाये विनिर्गच्छन् श्वासात् कासाच् च हन्त्य् असून् ॥ ५६ ॥
फणाव् अपाङ्गौ विधुरे नीले मन्ये कृकाटिके ।
अंसांस-फलकावर्त-विटपोर्वी-कुकुन्दराः ॥ ५७ ॥
४.५७av फणाव् अपाङ्गौ विधुरौ
स-जानु-लोहिताक्षाणि-कक्षा-धृक्-कूर्च-कूर्पराः ।
वैकल्यम् इति चत्वारि चत्वारिंशच् च कुर्वते ॥ ५८ ॥
४.५८av स-जानु-लोहिताख्यानि-
हरन्ति तान्य् अपि प्राणान् कदा-चिद् अभिघाततः ।
अष्टौ कूर्च-शिरो-गुल्फ-मणि-बन्धा रुजा-कराः ॥ ५९ ॥
तेषां विटप-कक्षा-धृग्-उर्व्यः कूर्च-शिरांसि च ।
द्वा-दशाङ्गुल-मानानि द्व्य्-अङ्गुले मणि-बन्धने ॥ ६० ॥
४.६०bv -उर्वी-कूर्च-शिरांसि च
गुल्फौ च स्तन-मूले च त्र्य्-अङ्गुलं जानु-कूर्परम् ।
अपान-वस्ति-हृन्-नाभि-नीलाः सीमन्त-मातृकाः ॥ ६१ ॥
४.६१bv त्र्य्-अङ्गुलौ जानु-कूर्परौ ४.६१dv -नीला-सीमन्त-मातृकाः
कूर्च-शृङ्गाट-मन्याश् च त्रिंशद् एकेन वर्जिताः ।
आत्म-पाणि-तलोन्मानाः शेषाण्य् अर्धाङ्गुलं वदेत् ॥ ६२ ॥
पञ्चाशत् षट् च मर्माणि तिल-व्रीहि-समान्य् अपि ।
इष्टानि मर्माण्य् अन्येषां चतुर्-धोक्ताः सिरास् तु याः ॥ ६३ ॥
तर्पयन्ति वपुः कृत्स्नं ता मर्माण्य् आश्रितास् ततः ।
तत्-क्षतात् क्षत-जात्य्-अर्थ-प्रवृत्तेर् धातु-संक्षये ॥ ६४ ॥
४.६४cv तत्-क्षतात् क्षत-जात्य्-अर्थं ४.६४dv प्रवृत्तिर् धातु-संक्षये
वृद्धश् चलो रुजस् तीव्राः प्रतनोति समीरयन् ।
तेजस् तद् उद्धृतं धत्ते तृष्णा-शोष-मद-भ्रमान् ॥ ६५ ॥
स्विन्न-स्रस्त-श्लथ-तनुं हरत्य् एनं ततो ऽन्तकः ।
वर्धयेत् संधितो गात्रं मर्मण्य् अभिहते द्रुतम् ॥ ६६ ॥
छेदनात् संधि-देशस्य संकुचन्ति सिरा ह्य् अतः ।
जीवितं प्राणिनां तत्र रक्ते तिष्ठति तिष्ठति ॥ ६७ ॥
सु-विक्षतो ऽप्य् अतो जीवेद् अ-मर्मणि न मर्मणि ।
प्राण-घातिनि जीवेत् तु कश्-चिद् वैद्य-गुणेन चेत् ॥ ६८ ॥
अ-समग्राभिघाताच् च सो ऽपि वैकल्यम् अश्नुते ।
तस्मात् क्षार-विषाग्न्य्-आदीन् यत्नान् मर्मसु वर्जयेत् ॥ ६९ ॥
मर्माभिघातः स्व्-अल्पो ऽपि प्राय-शो बाधते-तराम् ।
रोगा मर्माश्रयास् तद्-वत् प्रक्रान्ता यत्नतो ऽपि च ॥ ७० ॥
४.७०cv रोगा मर्माश्रितास् तद्-वत्
अध्याय 05
[सम्पाद्यताम्]पुष्पं फलस्य धूमो ऽग्नेर् वर्षस्य जल-दोदयः ।
यथा भविष्यतो लिङ्गं रिष्टं मृत्योस् तथा ध्रुवम् ॥ १ ॥
आयुष्-मति क्रियाः सर्वाः स-फलाः संप्रयोजिताः ।
भवन्ति भिषजां भूत्यै कृत-ज्ञ इव भू-भुजि ॥ १+(१) ॥
क्षीणायुषि कृतं कर्म व्यर्थं कृतम् इवाधमे ।
अ-यशो देह-संदेहं स्वार्थ-हानिं च यच्छति ॥ १+(२) ॥
५.१+(२)च्व् आयासाद् देह-संदेहं
तर्हीदानीं गतासूनां लक्षणं संप्रचक्षते ।
विकृतिः प्रकृतेः प्राज्ञैः प्रदिष्टा रिष्ट-संज्ञया ॥ १+(३) ॥
५.१+(३)अव् तद् इदानीं गतासूनां
अरिष्टं नास्ति मरणं दृष्ट-रिष्टं च जीवितम् ।
अरिष्टे रिष्ट-विज्ञानं न च रिष्टे ऽप्य् अ-नैपुणात् ॥ २ ॥
के-चित् तु तद् द्वि-धेत्य् आहुः स्थाय्य्-अ-स्थायि-विभेदतः ।
दोषाणाम् अपि बाहुल्याद् रिष्टाभासः समुद्भवेत् ॥ ३ ॥
स दोषाणां शमे शाम्येत् स्थाय्य् अवश्यं तु मृत्यवे ।
रूपेन्द्रिय-स्वर-च्छाया-प्रतिच्छाया-क्रियादिषु ॥ ४ ॥
५.४av तद् दोषाणां शमे शाम्येत्
अन्येष्व् अपि च भावेषु प्राकृतेष्व् अ-निमित्ततः ।
विकृतिर् या समासेन रिष्टं तद् इति लक्षयेत् ॥ ५ ॥
केश-रोम-निर्-अभ्यङ्गं यस्याभ्यक्तम् इवेक्ष्यते ।
यस्यात्य्-अर्थं चले नेत्रे स्तब्धान्तर्-गत-निर्गते ॥ ६ ॥
जिह्मे विस्तृत-संक्षिप्ते संक्षिप्त-विनत-भ्रुणी ।
उद्भ्रान्त-दर्शने हीन-दर्शने नकुलोपमे ॥ ७ ॥
कपोताभे अलाताभे स्रुते लुलित-पक्ष्मणी ।
नासिकात्य्-अर्थ-विवृता संवृता पिटिकाचिता ॥ ८ ॥
उच्छूना स्फुटिता म्लाना यस्यौष्ठो यात्य् अधो ऽधरः ।
ऊर्ध्वं द्वितीयः स्यातां वा पक्व-जम्बू-निभाव् उभौ ॥ ९ ॥
दन्ताः स-शर्कराः श्यावास् ताम्राः पुष्पित-पङ्किताः ।
सहसैव पतेयुर् वा जिह्वा जिह्मा विसर्पिणी ॥ १० ॥
शूना शुष्का गुरुः श्यावा लिप्ता सुप्ता स-कण्टका ।
शिरः शिरो-धरा वोढुं पृष्ठं वा भारम् आत्मनः ॥ ११ ॥
हनू वा पिण्डम् आस्य-स्थं शक्नुवन्ति न यस्य च ।
यस्या-निमित्तम् अङ्गानि गुरूण्य् अति-लघूनि वा ॥ १२ ॥
विष-दोषाद् विना यस्य खेभ्यो रक्तं प्रवर्तते ।
उत्सिक्तं मेहनं यस्य वृषणाव् अति-निःसृतौ ॥ १३ ॥
अतो ऽन्य-था वा यस्य स्यात् सर्वे ते काल-चोदिताः ।
यस्या-पूर्वाः सिरा-लेखा बालेन्द्व्-आकृतयो ऽपि वा ॥ १४ ॥
५.१४bv सर्वे ते काल-नोदिताः
ललाटे वस्ति-शीर्षे वा षण् मासान् न स जीवति ।
पद्मिनी-पत्त्र-वत् तोयं शरीरे यस्य देहिनः ॥ १५ ॥
प्लवते प्लवमानस्य षण् मासास् तस्य जीवितम् ।
हरिताभाः सिरा यस्य रोम-कूपाश् च संवृताः ॥ १६ ॥
५.१६bv षण्-मासं तस्य जीवितम् ५.१६bv षण्-मासात् तस्य जीवितम् ५.१६bv षण्
मासांस् तस्य जीवितम्
सो ऽम्लाभिलाषी पुरुषः पित्तान् मरणम् अश्नुते ।
यस्य गो-मय-चूर्णाभं चूर्णं मूर्ध्नि मुखे ऽपि वा ॥ १७ ॥
स-स्नेहं मूर्ध्नि धूमो वा मासान्तं तस्य जीवितम् ।
मूर्ध्नि भ्रुवोर् वा कुर्वन्ति सीमन्तावर्तका नवाः ॥ १८ ॥
५.१८cv मूर्ध्नि भ्रुवोर् वा यस्य स्युः
मृत्युं स्वस्थस्य षड्-रात्रात् त्रि-रात्राद् आतुरस्य तु ।
जिह्वा श्यावा मुखं पूति सव्यम् अक्षि निमज्जति ॥ १९ ॥
५.१९bv त्रि-रात्राद् आतुरस्य च
खगा वा मूर्ध्नि लीयन्ते यस्य तं परिवर्जयेत् ।
यस्य स्नातानुलिप्तस्य पूर्वं शुष्यत्य् उरो भृशम् ॥ २० ॥
आर्द्रेषु सर्व-गात्रेषु सो ऽर्ध-मासं न जीवति ।
अ-कस्माद् युग-पद् गात्रे वर्णौ प्राकृत-वैकृतौ ॥ २१ ॥
तथैवोपचय-ग्लानि-रौक्ष्य-स्नेहादि मृत्यवे ।
यस्य स्फुटेयुर् अङ्गुल्यो नाकृष्टा न स जीवति ॥ २२ ॥
क्षव-कासादिषु तथा यस्या-पूर्वो ध्वनिर् भवेत् ।
ह्रस्वो दीर्घो ऽति वोच्छ्वासः पूतिः सुरभिर् एव वा ॥ २३ ॥
आप्लुतान्-आप्लुते काये यस्य गन्धो ऽति-मानुषः ।
मल-वस्त्र-व्रणादौ वा वर्षान्तं तस्य जीवितम् ॥ २४ ॥
५.२४cv मल-वस्त्र-व्रणाद्ये वा
भजन्ते ऽत्य्-अङ्ग-सौरस्याद् यं यूका-मक्षिकादयः ।
त्यजन्ति वाति-वैरस्यात् सो ऽपि वर्षं न जीवति ॥ २५ ॥
सततोष्मसु गात्रेषु शैत्यं यस्योपलक्ष्यते ।
शीतेषु भृशम् औष्ण्यं वा स्वेदः स्तम्भो ऽप्य् अ-हेतुकः ॥ २६ ॥
५.२६dv स्वेदः स्तम्भो ऽत्य् अ-हेतुकः
यो जात-शीत-पिटिकः शीताङ्गो वा विदह्यते ।
उष्ण-द्वेषी च शितार्तः स प्रेताधिप-गो-चरः ॥ २७ ॥
५.२७bv शीताङ्गो वातिदह्यते ५.२७bv शीताङ्गो वापि दह्यते
उरस्य् ऊष्मा भवेद् यस्य जठरे चाति-शीत-ता ।
भिन्नं पुरीषं तृष्णा च यथा प्रेतस् तथैव सः ॥ २८ ॥
५.२८bv जठरे वाति-शीत-ता
मूत्रं पुरीषं निष्ठ्यूतं शुक्रं वाप्सु निमज्जति ।
निष्ठ्यूतं बहु-वर्णं वा यस्य मासात् स नश्यति ॥ २९ ॥
घनी-भूतम् इवाकाशम् आकाशम् इव यो घनम् ।
अ-मूर्तम् इव मूर्तं च मूर्तं चा-मूर्त-वत् स्थितम् ॥ ३० ॥
तेजस्व्य् अ-तेजस् तद्-वच् च शुक्लं कृष्णम् अ-सच् च सत् ।
अ-नेत्र-रोगश् चन्द्रं च बहु-रूपम् अ-लाञ्छनम् ॥ ३१ ॥
५.३१av तेजस्य् अ-तेजस् तद्-वच् च ५.३१cv अ-नेत्र-रोगी चन्द्रं च
जाग्रद् रक्षांसि गन्धर्वान् प्रेतान् अन्यांश् च तद्-विधान् ।
रूपं व्य्-आकृति तत् तच् च यः पश्यति स नश्यति ॥ ३२ ॥
५.३२cv रूपं व्य्-आकृति तद्-वच् च
सप्तर्षीणां समीप-स्थां यो न पश्यत्य् अरुन्धतीम् ।
ध्रुवम् आकाश-गङ्गां वा स न पश्यति तां समाम् ॥ ३३ ॥
मेघ-तोयौघ-निर्घोष-वीणा-पणव-वेणु-जान् ।
शृणोत्य् अन्यांश् च यः शब्दान् अ-सतो न सतो ऽपि वा ॥ ३४ ॥
निष्पीड्य कर्णौ शृणुयान् न यो धुकधुका-स्वनम् ।
तद्-वद् गन्ध-रस-स्पर्शान् मन्यते यो विपर्ययात् ॥ ३५ ॥
५.३५bv न यो धुकधुक-स्वनम्
सर्व-शो वा न यो यश् च दीप-गन्धं न जिघ्रति ।
विधिना यस्य दोषाय स्वास्थ्याया-विधिना रसाः ॥ ३६ ॥
यः पांसुनेव कीर्णाङ्गो यो ऽङ्गे घातं न वेत्ति वा ।
अन्तरेण तपस् तीव्रं योगं वा विधि-पूर्वकम् ॥ ३७ ॥
५.३७av यो भस्मनेव कीर्णाङ्गो
जानात्य् अतीन्द्रियं यश् च तेषां मरणम् आदिशेत् ।
हीनो दीनः स्वरो ऽ-व्यक्तो यस्य स्याद् गद्गदो ऽपि वा ॥ ३८ ॥
सहसा यो विमुह्येद् वा विवक्षुर् न स जीवति ।
स्वरस्य दुर्-बली-भावं हानिं च बल-वर्णयोः ॥ ३९ ॥
रोग-वृद्धिम् अ-युक्त्या च दृष्ट्वा मरणम् आदिशेत् ।
अप-स्वरं भाषमाणं प्राप्तं मरणम् आत्मनः ॥ ४० ॥
श्रोतारं चास्य शब्दस्य दूरतः परिवर्जयेत् ।
संस्थानेन प्रमाणेन वर्णेन प्रभयापि वा ॥ ४१ ॥
५.४१av श्रोतारं तस्य शब्दस्य ५.४१av श्रोतारं वास्य शब्दस्य
छाया विवर्तते यस्य स्वप्ने ऽपि प्रेत एव सः ।
आतपादर्श-तोयादौ या संस्थान-प्रमाणतः ॥ ४२ ॥
छायाङ्गात् संभवत्य् उक्ता प्रतिच्छायेति सा पुनः ।
वर्ण-प्रभाश्रया या तु सा छायैव शरीर-गा ॥ ४३ ॥
भवेद् यस्य प्रतिच्छाया छिन्ना भिन्नाधिकाकुला ।
वि-शिरा द्वि-शिरा जिह्मा विकृता यदि वान्य-था ॥ ४४ ॥
तं समाप्तायुषं विद्यान् न चेल् लक्ष्य-निमित्त-जा ।
प्रतिच्छाया-मयी यस्य न चाक्ष्णीक्ष्येत कन्यका ॥ ४५ ॥
खादीनां पञ्च पञ्चानां छाया विविध-लक्षणाः ।
नाभसी निर्-मला-नीला स-स्नेहा स-प्रभेव च ॥ ४६ ॥
वाताद् रजो-ऽरुणा श्यावा भस्म-रूक्षा हत-प्रभा ।
विशुद्ध-रक्ता त्व् आग्नेयी दीप्ताभा दर्शन-प्रिया ॥ ४७ ॥
शुद्ध-वैडूर्य-वि-मला सु-स्निग्धा तोय-जा सुखा ।
स्थिरा स्निग्धा घना शुद्धा श्यामा श्वेता च पार्थिवी ॥ ४८ ॥
५.४८bv सु-स्निग्धा तोय-जा हि सा
वायवी रोग-मरण-क्लेशायान्याः सुखोदयाः ।
प्रभोक्ता तैजसी सर्वा सा तु सप्त-विधा स्मृता ॥ ४९ ॥
५.४९av वायव्या रोग-मरण-
रक्ता पीता सिता श्यावा हरिता पाण्डुरासिता ।
तासां याः स्युर् विकासिन्यः स्निग्धाश् च वि-मलाश् च याः ॥ ५० ॥
५.५०av रक्ता पीता सिता श्यामा
ताः शुभा मलिना रूक्षाः संक्षिप्ताश् चा-शुभोदयाः ।
वर्णम् आक्रामति च्छाया प्रभा वर्ण-प्रकाशिनी ॥ ५१ ॥
५.५१bv संक्षिप्ताश् चा-सुखोदयाः ५.५१dv प्रभा वर्ण-विकाशिनी
आसन्ने लक्ष्यते छाया विकृष्टे भा प्रकाशते ।
ना-च्छायो ना-प्रभः कश्-चिद् विशेषाश् चिह्नयन्ति तु ॥ ५२ ॥
नृणां शुभा-शुभोत्पत्तिं काले छाया-समाश्रयाः ।
निकषन्न् इव यः पादौ च्युतांसः परिसर्पति ॥ ५३ ॥
५.५३bv काले छाया-समाश्रिताः
हीयते बलतः शश्वद् यो ऽन्नम् अश्नन् हितं बहु ।
यो ऽल्पाशी बहु-विण्-मूत्रो बह्व्-आशी चाल्प-मूत्र-विट् ॥ ५४ ॥
५.५४dv बह्व्-आशी वाल्प-मूत्र-विट्
यो वाल्पाशी कफेनार्तो दीर्घं श्वसिति चेष्टते ।
दीर्घम् उच्छ्वस्य यो ह्रस्वं निःश्वस्य परिताम्यति ॥ ५५ ॥
ह्रस्वं च यः प्रश्वसिति व्याविद्धं स्पन्दते भृशम् ।
शिरो विक्षिपते कृच्छ्राद् यो ऽञ्चयित्वा प्रपाणिकौ ॥ ५६ ॥
यो ललाटात् स्रुत-स्वेदः श्लथ-संधान-बन्धनः ।
उत्थाप्यमानः संमुह्येद् यो बली दुर्-बलो ऽपि वा ॥ ५७ ॥
उत्तान एव स्वपिति यः पादौ विकरोति च ।
शयनासन-कुड्यादेर् यो ऽ-सद् एव जिघृक्षति ॥ ५८ ॥
५.५८cv शयनासन-कुड्यादौ ५.५८dv यः सदैव जिघृक्षति
अ-हास्य-हासी संमुह्यन् यो लेढि दशन-च्छदौ ।
उत्तरौष्ठं परिलिहन् फूत्-कारांश् च करोति यः ॥ ५९ ॥
५.५९dv नोत्कारांश् च करोति यः
यम् अभिद्रवति च्छाया कृष्णा पीतारुणापि वा ।
भिषग्-भेषज-पानान्न-गुरु-मित्र-द्विषश् च ये ॥ ६० ॥
५.६०bv कृष्णा पीतारुणापि च
वश-गाः सर्व एवैते विज्ञेयाः सम-वर्तिनः ।
ग्रीवा-ललाट-हृदयं यस्य स्विद्यति शीतलम् ॥ ६१ ॥
उष्णो ऽपरः प्रदेशश् च शरणं तस्य देवताः ।
यो ऽणु-ज्योतिर् अनेकाग्रो दुश्-छायो दुर्-मनाः सदा ॥ ६२ ॥
पूर्व-रूपाणि सर्वाणि ज्वरादिष्व् अति-मात्रया ।
यं विशन्ति विशत्य् एनं मृत्युर् ज्वर-पुरः-सरः ॥ ६२.१+(१) ॥
बलिं बलि-भृतो यस्य प्रणीतं नोपभुञ्जते ।
निर्-निमित्तं च यो मेधां शोभाम् उपचयं श्रियम् ॥ ६३ ॥
५.६३av बलिं बलि-भुजो यस्य
प्राप्नोत्य् अतो वा विभ्रंशं स प्राप्नोति यम-क्षयम् ।
गुण-दोष-मयी यस्य स्वस्थस्य व्याधितस्य वा ॥ ६४ ॥
५.६४cv गुणा-गुण-मयी यस्य
यात्य् अन्य-था-त्वं प्रकृतिः षण् मासान् न स जीवति ।
भक्तिः शीलं स्मृतिस् त्यागो बुद्धिर् बलम् अ-हेतुकम् ॥ ६५ ॥
षड् एतानि निवर्तन्ते षड्भिर् मासैर् मरिष्यतः ।
मत्त-वद्-गति-वाक्-कम्प-मोहा मासान् मरिष्यतः ॥ ६६ ॥
नश्यत्य् अ-जानन् षड्-अहात् केश-लुञ्चन-वेदनाम् ।
न याति यस्य चाहारः कण्ठं कण्ठामयाद् ऋते ॥ ६७ ॥
प्रेष्याः प्रतीप-तां यान्ति प्रेताकृतिर् उदीर्यते ।
यस्य निद्रा भवेन् नित्या नैव वा न स जीवति ॥ ६८ ॥
५.६८cv यस्य निद्रा भवेन् नित्यं
वक्त्रम् आपूर्यते ऽश्रूणां स्विद्यतश् चरणौ भृशम् ।
चक्षुश् चाकुल-तां याति यम-राज्यं गमिष्यतः ॥ ६९ ॥
५.६९dv यम-राष्ट्रं गमिष्यतः
यैः पुरा रमते भावैर् अ-रतिस् तैर् न जीवति ।
सहसा जायते यस्य विकारः सर्व-लक्षणः ॥ ७० ॥
निवर्तते वा सहसा सहसा स विनश्यति ।
ज्वरो निहन्ति बल-वान् गम्भीरो दैर्घरात्रिकः ॥ ७१ ॥
स-प्रलाप-भ्रम-श्वासः क्षीणं शूनं हतानलम् ।
अ-क्षामं सक्त-वचनं रक्ताक्षं हृदि शूलिनम् ॥ ७२ ॥
स-शुष्क-कासः पूर्वाह्णे यो ऽपराह्णे ऽपि वा भवेत् ।
बल-मांस-विहीनस्य श्लेष्म-कास-समन्वितः ॥ ७३ ॥
५.७३av संशुष्क-कासः पूर्वाह्णे
रक्त-पित्तं भृशं रक्तं कृष्णम् इन्द्र-धनुष्-प्रभम् ।
ताम्र-हारिद्र-हरितं रूपं रक्तं प्रदर्शयेत् ॥ ७४ ॥
रोम-कूप-प्रविसृतं कण्ठास्य-हृदये सजत् ।
वाससो ऽ-रञ्जनं पूति वेग-वच् चाति भूरि च ॥ ७५ ॥
५.७५cv वाससो रञ्जनं पूति
वृद्धं पाण्डु-ज्वर-च्छर्दि-कास-शोफातिसारिणम् ।
कास-श्वासौ ज्वर-च्छर्दि-तृष्णातीसार-शोफिनम् ॥ ७६ ॥
यक्ष्मा पार्श्व-रुजानाह-रक्त-च्छर्द्य्-अंस-तापिनम् ।
छर्दिर् वेग-वती मूत्र-शकृद्-गन्धिः स-चन्द्रिका ॥ ७७ ॥
५.७७bv -रक्त-च्छर्द्य्-अङ्ग-तापिनम्
सास्र-विट्-पूय-रुक्-कास-श्वास-वत्य् अनुषङ्गिणी ।
तृष्णान्य-रोग-क्षपितं बहिर्-जिह्वं वि-चेतनम् ॥ ७८ ॥
५.७८dv बहिर्-जिह्वम् अ-चेतनम् ५.७८dv बहिर्-जिह्वं वि-चेतसम्
मदात्ययो ऽति-शीतार्तं क्षीणं तैल-प्रभाननम् ।
अर्शांसि पाणि-पन्-नाभि-गुद-मुष्कास्य-शोफिनम् ॥ ७९ ॥
५.७९dv -गुद-मुष्कादि-शोफिनम्
हृत्-पार्श्वाङ्ग-रुजा-छर्दि-पायु-पाक-ज्वरातुरम् ।
अतीसारो यकृत्-पिण्ड-मांस-धावन-मेचकैः ॥ ८० ॥
तुल्यस् तैल-घृत-क्षीर-दधि-मज्ज-वसासवैः ।
मस्तुलुङ्ग-मषी-पूय-वेसवाराम्बु-माक्षिकैः ॥ ८१ ॥
अति-रक्तासित-स्निग्ध-पूत्य्-अच्छ-घन-वेदनः ।
कर्बुरः प्रस्रवन् धातून् निष्-पुरीषो ऽथ-वाति-विट् ॥ ८२ ॥
तन्तु-मान् मक्षिकाक्रान्तो राजी-मांश् चन्द्रकैर् युतः ।
शीर्ण-पायु-वलिं मुक्त-नालं पर्वास्थि-शूलिनम् ॥ ८३ ॥
५.८३dv -तालं पर्वास्थि-शूलिनम् ५.८३dv -ताडं पर्वास्थि-शूलिनम्
स्रस्त-पायुं बल-क्षीणम् अन्नम् एवोपवेशयन् ।
स-तृट्-श्वास-ज्वर-च्छर्दि-दाहानाह-प्रवाहिकः ॥ ८४ ॥
५.८४bv अन्नम् एवोपवेशयेत्
अश्मरी शून-वृषणं बद्ध-मूत्रं रुजार्दितम् ।
मेहस् तृड्-दाह-पिटिका-मांस-कोथातिसारिणम् ॥ ८५ ॥
पिटिका मर्म-हृत्-पृष्ठ-स्तनांस-गुद-मूर्ध-गाः ।
पर्व-पाद-कर-स्था वा मन्दोत्साहं प्रमेहिणम् ॥ ८६ ॥
५.८६bv -स्तनांस-गुद-मूर्ध-जाः ५.८६cv पर्व-पाद-कर-स्थाश् च
सर्वं च मांस-संकोथ-दाह-तृष्णा-मद-ज्वरैः ।
विसर्प-मर्म-संरोध-हिध्मा-श्वास-भ्रम-क्लमैः ॥ ८७ ॥
५.८७av सर्वं च मांस-संकोच-
गुल्मः पृथु-परीणाहो घनः कूर्म इवोन्नतः ।
सिरा-नद्धो ज्वर-च्छर्दि-हिध्माध्मान-रुजान्वितः ॥ ८८ ॥
कास-पीनस-हृल्-लास-श्वासातीसार-शोफ-वान् ।
विण्-मूत्र-संग्रह-श्वास-शोफ-हिध्मा-ज्वर-भ्रमैः ॥ ८९ ॥
मूर्छा-छर्द्य्-अतिसारैश् च जठरं हन्ति दुर्-बलम् ।
शूनाक्षं कुटिलोपस्थम् उपक्लिन्न-तनु-त्वचम् ॥ ९० ॥
विरेचन-हृतानाहम् आनह्यन्तं पुनः पुनः ।
पाण्डु-रोगः श्वयथु-मान् पीताक्षि-नख-दर्शनम् ॥ ९१ ॥
५.९१av विरेचन-हतानाहम्
तन्द्रा-दाहा-रुचि-च्छर्दि-मूर्छाध्मानातिसार-वान् ।
अनेकोपद्रव-युतः पादाभ्यां प्रसृतो नरम् ॥ ९२ ॥
नारीं शोफो मुखाद् धन्ति कुक्षि-गुह्याद् उभाव् अपि ।
राजी-चितः स्रवंश् छर्दि-ज्वर-श्वासातिसारिणम् ॥ ९३ ॥
ज्वरातीसारौ शोफान्ते श्वयथुर् वा तयोः क्षये ।
दुर्-बलस्य विशेषेण जायन्ते ऽन्ताय देहिनः ॥ ९४ ॥
श्वयथुर् यस्य पाद-स्थः परिस्रस्ते च पिण्डिके ।
सीदतः सक्थिनी चैव तं भिषक् परिवर्जयेत् ॥ ९५ ॥
आननं हस्त-पादं च विशेषाद् यस्य शुष्यतः ।
शूयेते वा विना देहात् स मासाद् याति पञ्च-ताम् ॥ ९६ ॥
५.९६bv विशेषाद् यस्य शुष्यति
विसर्पः कास-वैवर्ण्य-ज्वर-मूर्छाङ्ग-भङ्ग-वान् ।
भ्रमास्य-शोफ-हृल्-लास-देह-सादातिसार-वान् ॥ ९७ ॥
५.९७cv भ्रमास्य-शोष-हृल्-लास-
कुष्ठं विशीर्यमाणाङ्गं रक्त-नेत्रं हत-स्वरम् ।
मन्दाग्निं जन्तुभिर् जुष्टं हन्ति तृष्णातिसारिणम् ॥ ९८ ॥
वायुः सुप्त-त्वचं भुग्नं कम्प-शोफ-रुजातुरम् ।
वातास्रं मोह-मूर्छाय-मदा-स्वप्न-ज्वरान्वितम् ॥ ९९ ॥
५.९९av वायुः सुप्त-त्वचं भग्नं
शिरो-ग्रहा-रुचि-श्वास-संकोच-स्फोट-कोथ-वत् ।
शिरो-रोगा-रुचि-श्वास-मोह-विड्-भेद-तृड्-भ्रमैः ॥ १०० ॥
घ्नन्ति सर्वामयाः क्षीण-स्वर-धातु-बलानलम् ।
वात-व्याधिर् अपस्मारी कुष्ठी रक्त्य् उदरी क्षयी ॥ १०१ ॥
गुल्मी मेही च तान् क्षीणान् विकारे ऽल्पे ऽपि वर्जयेत् ।
बल-मांस-क्षयस् तीव्रो रोग-वृद्धिर् अ-रोचकः ॥ १०२ ॥
यस्यातुरस्य लक्ष्यन्ते त्रीन् पक्षान् न स जीवति ।
वाताष्ठीलाति-संवृद्धा तिष्ठन्ति दारुणा हृदि ॥ १०३ ॥
तृष्णयानुपरीतस्य सद्यो मुष्णाति जीवितम् ।
शैथिल्यं पिण्डिके वायुर् नीत्वा नासां च जिह्म-ताम् ॥ १०४ ॥
५.१०४av तृष्णया तु परीतस्य
क्षीणस्यायम्य मन्ये वा सद्यो मुष्णाति जीवितम् ।
नाभि-गुदान्तरं गत्वा वङ्क्षणौ वा समाश्रयन् ॥ १०५ ॥
५.१०५av क्षीणस्यायस्य मन्ये वा
गृहीत्वा पायु-हृदये क्षीण-देहस्य वा बली ।
मलान् वस्ति-शिरो नाभिं विबध्य जनयन् रुजम् ॥ १०६ ॥
कुर्वन् वङ्क्षणयोः शूलं तृष्णां भिन्न-पुरीष-ताम् ।
श्वासं वा जनयन् वायुर् गृहीत्वा गुद-वङ्क्षणम् ॥ १०७ ॥
५.१०७dv गृहीत्वा गुद-वङ्क्षणौ
वितत्य पर्शुकाग्राणि गृहीत्वोरश् च मारुतः ।
स्तिमितस्यातताक्षस्य सद्यो मुष्णाति जीवितम् ॥ १०८ ॥
५.१०८av वितत्य पार्श्वकाग्राणि
सहसा ज्वर-संतापस् तृष्णा मूर्छा बल-क्षयः ।
विश्लेषणं च संधीनां मुमूर्षोर् उपजायते ॥ १०९ ॥
गो-सर्गे वदनाद् यस्य स्वेदः प्रच्यवते भृशम् ।
लेप-ज्वरोपतप्तस्य दुर्-लभं तस्य जीवितम् ॥ ११० ॥
प्रवाल-गुटिकाभासा यस्य गात्रे मसूरिकाः ।
उत्पद्याशु विनश्यन्ति न चिरात् स विनश्यति ॥ १११ ॥
मसूर-विदल-प्रख्यास् तथा विद्रुम-संनिभाः ।
अन्तर्-वक्त्राः किणाभाश् च विस्फोटा देह-नाशनाः ॥ ११२ ॥
कामलाक्ष्णोर् मुखं पूर्णं शङ्खयोर् मुक्त-मांस-ता ।
संत्रासश् चोष्ण-ताङ्गे च यस्य तं परिवर्जयेत् ॥ ११३ ॥
अ-कस्माद् अनुधावच् च विघृष्टं त्वक्-समाश्रयम् ।
यो वात-जो न शूलाय स्यान् न दाहाय पित्त-जः ॥ ११४ ॥
चन्दनोशीर-मदिरा-कुणप-ध्वाङ्क्ष-गन्धयः ।
शैवाल-कुक्कुट-शिखा-कुङ्कुमाल-मषी-प्रभाः ॥ ११४.१+(१) ॥
५.११४.१+(१)द्व् -नक्तमाल-मषी-प्रभाः ५.११४.१+(१)द्व् -कुन्द-शालि-मय-प्रभाः
अन्तर्-दाहा निर्-ऊष्मणः प्राण-नाश-करा व्रणाः ॥ ११४.१+(२)अब् ॥
कफ-जो न च पूयाय मर्म-जश् च रुजे न यः ।
अ-चूर्णश् चूर्ण-कीर्णाभो यत्राकस्माच् च दृश्यते ॥ ११५ ॥
रूपं शक्ति-ध्वजादीनां सर्वांस् तान् वर्जयेद् व्रणान् ।
विण्-मूत्र-मारुत-वहं कृमिणं च भगन्दरम् ॥ ११६ ॥
घट्टयञ् जानुना जानु पादाव् उद्यम्य पातयन् ।
यो ऽपास्यति मुहुर् वक्त्रम् आतुरो न स जीवति ॥ ११७ ॥
दन्तैश् छिन्दन् नखाग्राणि तैश् च केशांस् तृणानि च ।
भूमिं काष्ठेन विलिखन् लोष्टं लोष्टेन ताडयन् ॥ ११८ ॥
५.११८bv तैश् च केशांस् तृणानि वा
हृष्ट-रोमा सान्द्र-मूत्रः शुष्क-कासी ज्वरी च यः ।
मुहुर् हसन् मुहुः क्ष्वेडन् शय्यां पादेन हन्ति यः ॥ ११९ ॥
५.११९dv शय्यां पादेन हन्ति च
मुहुश् छिद्राणि विमृशन्न् आतुरो न स जीवति ।
मृत्यवे सहसार्तस्य तिलक-व्यङ्ग-विप्लवः ॥ १२० ॥
मुखे दन्त-नखे पुष्पं जठरे विविधाः सिराः ।
ऊर्ध्व-श्वासं गतोष्माणं शूलोपहत-वङ्क्षणम् ॥ १२१ ॥
शर्म चान्-अधिगच्छन्तं बुद्धि-मान् परिवर्जयेत् ।
विकारा यस्य वर्धन्ते प्रकृतिः परिहीयते ॥ १२२ ॥
५.१२२av शर्म वान्-अधिगच्छन्तं
सहसा सहसा तस्य मृत्युर् हरति जीवितम् ।
यम् उद्दिश्यातुरं वैद्यः संपादयितुम् औषधम् ॥ १२३ ॥
यतमानो न शक्नोति दुर्-लभं तस्य जीवितम् ।
विज्ञातं बहु-शः सिद्धं विधि-वच् चावचारितम् ॥ १२४ ॥
न सिध्यत्य् औषधं यस्य नास्ति तस्य चिकित्सितम् ।
भवेद् यस्यौषधे ऽन्ने वा कल्प्यमाने विपर्ययः ॥ १२५ ॥
अ-कस्माद् वर्ण-गन्धादेः स्वस्थो ऽपि न स जीवति ।
निवाते सेन्धनं यस्य ज्योतिश् चाप्य् उपशाम्यति ॥ १२६ ॥
आतुरस्य गृहे यस्य भिद्यन्ते वा पतन्ति वा ।
अति-मात्रम् अमत्राणि दुर्-लभं तस्य जीवितम् ॥ १२७ ॥
यं नरं सहसा रोगो दुर्-बलं परिमुञ्चति ।
संशय-प्राप्तम् आत्रेयो जीवितं तस्य मन्यते ॥ १२८ ॥
५.१२८cv संशयं प्राप्तम् आत्रेयो
कथयेन् न च पृष्टो ऽपि दुः-श्रवं मरणं भिषक् ।
गतासोर् बन्धु-मित्राणां न चेच्छेत् तं चिकित्सितुम् ॥ १२९ ॥
५.१२९av कथयेन् नैव पृष्टो ऽपि
यम-दूत-पिशाचाद्यैर् यत् परासुर् उपास्यते ।
घ्नद्भिर् औषध-वीर्याणि तस्मात् तं परिवर्जयेत् ॥ १३० ॥
आयुर्-वेद-फलं कृत्स्नं यद् आयुर्-ज्ञे प्रतिष्ठितम् ।
रिष्ट-ज्ञानादृतस् तस्मात् सर्व-दैव भवेद् भिषक् ॥ १३१ ॥
मरणं प्राणिनां दृष्टम् आयुः-पुण्योभय-क्षयात् ।
तयोर् अप्य् अ-क्षयाद् दृष्टं विषमा-परिहारिणाम् ॥ १३२ ॥
अध्याय 06
[सम्पाद्यताम्]पाषण्डाश्रम-वर्णानां स-वर्णाः कर्म-सिद्धये ।
त एव विपरीताः स्युर् दूताः कर्म-विपत्तये ॥ १ ॥
दीनं भीतं द्रुतं त्रस्तं रूक्षा-मङ्गल-वादिनम् ।
शस्त्रिणं दण्डिनं षण्ढं मुण्ड-श्मश्रु-जटा-धरम् ॥ २ ॥
६.२cv शस्त्रिणं दण्डिनं खण्डं ६.२dv मुण्ड-श्मश्रुं जटा-धरम्
६.२dv मुण्डं श्मश्रु-जटा-धरम्
अ-मङ्गलाह्वयं क्रूर-कर्माणं मलिनं स्त्रियम् ।
अनेकं व्याधितं व्यङ्गं रक्त-माल्यानुलेपनम् ॥ ३ ॥
तैल-पङ्काङ्कितं जीर्ण-वि-वर्णार्द्रैक-वाससम् ।
खरोष्ट्र-महिषारूढं काष्ठ-लोष्टादि-मर्दिनम् ॥ ४ ॥
६.४dv काष्ठ-लोहादि-मर्दिनम्
नानुगच्छेद् भिषग् दूतम् आह्वयन्तं च दूरतः ।
अ-शस्त-चिन्ता-वचने नग्ने छिन्दति भिन्दति ॥ ५ ॥
जुह्वाने पावकं पिण्डान् पितृभ्यो निर्वपत्य् अपि ।
सुप्ते मुक्त-कचे ऽभ्यक्ते रुदत्य् अ-प्रयते तथा ॥ ६ ॥
६.६dv रुदत्य् अ-प्रयते ऽथ-वा
वैद्ये दूता मनुष्याणाम् आगच्छन्ति मुमूर्षताम् ।
विकार-सामान्य-गुणे देशे काले ऽथ-वा भिषक् ॥ ७ ॥
दूतम् अभ्यागतं दृष्ट्वा नातुरं तम् उपाचरेत् ।
स्पृशन्तो नाभि-नासास्य-केश-रोम-नख-द्वि-जान् ॥ ८ ॥
६.८cv स्पृशन्तो नाभि-नासाक्षि-
गुह्य-पृष्ठ-स्तन-ग्रीवा-जठरानामिकाङ्गुलीः ।
कार्पास-बुस-सीसास्थि-कपाल-मुसलोपलम् ॥ ९ ॥
६.९bv -जठरानामिकाङ्गुलि
मार्जनी-शूर्प-चैलान्त-भस्माङ्गार-दशा-तुषान् ।
रज्जूपानत्-तुला-पाशम् अन्यद् वा भग्न-विच्युतम् ॥ १० ॥
६.१०dv अन्यद् वा भग्न-विद्युतम्
तत्-पूर्व-दर्शने दूता व्याहरन्ति मरिष्यताम् ।
तथार्ध-रात्रे मध्याह्ने संध्ययोः पर्व-वासरे ॥ ११ ॥
षष्ठी-चतुर्थी-नवमी-राहु-केतूदयादिषु ।
भरणी-कृत्तिकाश्लेषा-पूर्वार्द्रा-पैत्र्य-नैरृते ॥ १२ ॥
यस्मिंश् च दूते ब्रुवति वाक्यम् आतुर-संश्रयम् ।
पश्येन् निमित्तम् अ-शुभं तं च नानुव्रजेद् भिषक् ॥ १३ ॥
तद् यथा विकलः प्रेतः प्रेतालङ्कार एव वा ।
छिन्नं दग्धं विनष्टं वा तद्-वादीनि वचांसि वा ॥ १४ ॥
६.१४bv प्रेतालङ्कार एव च
रसो वा कटुकस् तीव्रो गन्धो वा कौणपो महान् ।
स्पर्शो वा विपुलः क्रूरो यद् वान्यद् अपि तादृशम् ॥ १५ ॥
६.१५cv स्पर्शो वा विपुल-क्रूरो
तत् सर्वम् अभितो वाक्यं वाक्य-काले ऽथ-वा पुनः ।
दूतम् अभ्यागतं दृष्ट्वा नातुरं तम् उपाचरेत् ॥ १६ ॥
हाहा-क्रन्दितम् उत्क्रुष्टम् आक्रुष्टं स्खलनं क्षुतम् ।
वस्त्रातप-त्र-पाद-त्र-व्यसनं व्यसनीक्षणम् ॥ १७ ॥
चैत्य-ध्वजानां पात्राणां पूर्णानां च निमज्जनम् ।
हतान्-इष्ट-प्रवादाश् च दूषणं भस्म-पांसुभिः ॥ १८ ॥
पथश् छेदो ऽहि-मार्जार-गोधा-सरट-वानरैः ।
दीप्तां प्रति दिशं वाचः क्रूराणां मृग-पक्षिणाम् ॥ १९ ॥
कृष्ण-धान्य-गुडोदश्विल्-लवणासव-चर्मणाम् ।
सर्षपाणां वसा-तैल-तृण-पङ्केन्धनस्य च ॥ २० ॥
क्लीब-क्रूर-श्व-पाकानां जाल-वागुरयोर् अपि ।
छर्दितस्य पुरीषस्य पूति-दुर्-दर्शनस्य च ॥ २१ ॥
निः-सारस्य व्यवायस्य कार्पासादेर् अरेर् अपि ।
शयनासन-यानानाम् उत्तानानां तु दर्शनम् ॥ २२ ॥
६.२२dv उत्तानानां च दर्शनम्
न्युब्जानाम् इतरेषां च पात्रादीनाम् अ-शोभनम् ।
पुं-संज्ञाः पक्षिणो वामाः स्त्री-संज्ञा दक्षिणाः शुभाः ॥ २३ ॥
प्रदक्षिणं खग-मृगा यान्तो नैवं श्व-जम्बुकाः ।
अ-युग्माश् च मृगाः शस्ताः शस्ता नित्यं च दर्शने ॥ २४ ॥
चाष-भास-भरद्वाज-नकुल-च्छाग-बर्हिणः ।
अ-शुभं सर्व-थोलूक-बिडाल-सरटेक्षणम् ॥ २५ ॥
प्रशस्ताः कीर्तने कोल-गोधाहि-शश-जाहकाः ।
न दर्शने न विरुते वानरर्क्षाव् अतो ऽन्य-था ॥ २६ ॥
धनुर् ऐन्द्रं च लालाटम् अ-शुभं शुभम् अन्यतः ।
अग्नि-पूर्णानि पात्राणि भिन्नानि वि-शिखानि च ॥ २७ ॥
दध्य्-अ-क्षतादि निर्गच्छद् वक्ष्यमाणं च मङ्गलम् ।
वैद्यो मरिष्यतां वेश्म प्रविशन्न् एव पश्यति ॥ २८ ॥
दूताद्य् अ-साधु दृष्ट्वैवं त्यजेद् आर्तम् अतो ऽन्य-था ।
करुणा-शुद्ध-संतानो यत्नतस् तम् उपाचरेत् ॥ २९ ॥
६.२९dv यत्नतः समुपाचरेत्
दध्य्-अ-क्षतेक्षु-निष्पाव-प्रियङ्गु-मधु-सर्पिषाम् ।
यावकाञ्जन-भृङ्गार-घण्टा-दीप-सरो-रुहाम् ॥ ३० ॥
दूर्वार्द्र-मत्स्य-मांसानां लाजानां फल-भक्षयोः ।
रत्नेभ-पूर्ण-कुम्भानां कन्यायाः स्यन्दनस्य च ॥ ३१ ॥
नरस्य वर्धमानस्य देवतानां नृपस्य च ।
शुक्लानां सु-मनो-वाल-चामराम्बर-वाजिनाम् ॥ ३२ ॥
शङ्ख-साधु-द्वि-जोष्णीष-तोरण-स्वस्तिकस्य च ।
भूमेः समुद्धतायाश् च वह्नेः प्रज्वलितस्य च ॥ ३३ ॥
मनो-ज्ञस्यान्न-पानस्य पूर्णस्य शकटस्य च ।
नृभिर् धेन्वाः स-वत्साया वडबायाः स्त्रिया अपि ॥ ३४ ॥
जीवञ्जीवक-सारङ्ग-सारस-प्रियवादिनाम् ।
हंसानां शतपत्त्राणां बद्धस्यैक-पशोस् तथा ॥ ३५ ॥
रुचकादर्श-सिद्धार्थ-रोचनानां च दर्शनम् ।
गन्धः सु-सुरभिर् वर्णः सु-शुक्लो मधुरो रसः ॥ ३६ ॥
गो-पतेर् अनुकूलस्य स्वनस् तद्-वद् गवाम् अपि ।
मृग-पक्षि-नराणां च शोभिनां शोभना गिरः ॥ ३७ ॥
६.३७av गो-पतेर् अनुलोमस्य
छत्त्र-ध्वज-पताकानाम् उत्क्षेपणम् अभिष्टुतिः ।
भेरी-मृदङ्ग-शङ्खानां शब्दाः पुण्याह-निःस्वनाः ॥ ३८ ॥
वेदाध्ययन-शब्दाश् च सुखो वायुः प्रदक्षिणः ।
पथि वेश्म-प्रवेशे च विद्याद् आरोग्य-लक्षणम् ॥ ३९ ॥
इत्य् उक्तं दूत-शकुनं स्वप्नान् ऊर्ध्वं प्रचक्षते ।
स्वप्ने मद्यं सह प्रेतैर् यः पिबन् कृष्यते शुना ॥ ४० ॥
६.४०bv स्वप्नान् ऊर्ध्वं प्रचक्ष्यते ६.४०bv स्वप्नान् ऊर्ध्वं प्रवक्ष्यते
स मर्त्यो मृत्युना शीघ्रं ज्वर-रूपेण नीयते ।
रक्त-माल्य-वपुर्-वस्त्रो यो हसन् ह्रियते स्त्रिया ॥ ४१ ॥
६.४१av स मर्त्यो मृत्युना तूर्णं
सो ऽस्र-पित्तेन महिष-श्व-वराहोष्ट्र-गर्दभैः ।
यः प्रयाति दिशं याम्यां मरणं तस्य यक्ष्मणा ॥ ४२ ॥
लता कण्टकिनी वंशस् तालो वा हृदि जायते ।
यस्य तस्याशु गुल्मेन यस्य वह्निम् अन्-अर्चिषम् ॥ ४३ ॥
जुह्वतो घृत-सिक्तस्य नग्नस्योरसि जायते ।
पद्मं स नश्येत् कुष्ठेन चण्डालैः सह यः पिबेत् ॥ ४४ ॥
स्नेहं बहु-विधं स्वप्ने स प्रमेहेण नश्यति ।
उन्मादेन जले मज्जेद् यो नृत्यन् राक्षसैः सह ॥ ४५ ॥
अपस्मारेण यो मर्त्यो नृत्यन् प्रेतेन नीयते ।
यानं खरोष्ट्र-मार्जार-कपि-शार्दूल-शूकरैः ॥ ४६ ॥
यस्य प्रेतैः शृगालैर् वा स मृत्योर् वर्तते मुखे ।
अपूप-शष्कुलीर् जग्ध्वा विबुद्धस् तद्-विधं वमन् ॥ ४७ ॥
न जीवत्य् अक्षि-रोगाय सूर्येन्दु-ग्रहणेक्षणम् ।
सूर्या-चन्द्रमसोः पात-दर्शनं दृग्-विनाशनम् ॥ ४८ ॥
मूर्ध्नि वंश-लतादीनां संभवो वयसां तथा ।
निलयो मुण्ड-ता काक-गृध्राद्यैः परिवारणम् ॥ ४९ ॥
तथा प्रेत-पिशाच-स्त्री-द्रविडान्ध्र-गवाशनैः ।
सङ्गो वेत्र-लता-वंश-तृण-कण्टक-संकटे ॥ ५० ॥
श्वभ्र-श्मशान-शयनं पतनं पांसु-भस्मनोः ।
मज्जनं जल-पङ्कादौ शीघ्रेण स्रोतसा हृतिः ॥ ५१ ॥
नृत्य-वादित्र-गीतानि रक्त-स्रग्-वस्त्र-धारणम् ।
वयो-ऽङ्ग-वृद्धिर् अभ्यङ्गो विवाहः श्मश्रु-कर्म च ॥ ५२ ॥
पक्वान्न-स्नेह-मद्याशः प्रच्छर्दन-विरेचने ।
हिरण्य-लोहयोर् लाभः कलिर् बन्ध-पराजयौ ॥ ५३ ॥
६.५३bv प्रच्छर्दन-विरेचनम्
उपानद्-युग-नाशश् च प्रपातः पाद-चर्मणोः ।
हर्षो भृशं प्रकुपितैः पितृभिश् चावभर्त्सनम् ॥ ५४ ॥
प्रदीप-ग्रह-नक्षत्र-दन्त-दैवत-चक्षुषाम् ।
पतनं वा विनाशो वा भेदनं पर्वतस्य च ॥ ५५ ॥
६.५५dv भेदनं पर्वतस्य वा
कानने रक्त-कुसुमे पाप-कर्म-निवेशने ।
चितान्ध-कार-संबाधे जनन्यां च प्रवेशनम् ॥ ५६ ॥
६.५६च्च् चिन्तान्ध-कार-संबाधे
पातः प्रासाद-शैलादेर् मत्स्येन ग्रसनं तथा ।
काषायिणाम् अ-सौम्यानां नग्नानां दण्ड-धारिणाम् ॥ ५७ ॥
रक्ताक्षाणां च कृष्णानां दर्शनं जातु नेष्यते ।
कृष्णा पापाननाचारा दीर्घ-केश-नख-स्तनी ॥ ५८ ॥
वि-राग-माल्य-वसना स्वप्ने काल-निशा मता ।
मनो-वहानां पूर्ण-त्वात् स्रोतसां प्रबलैर् मलैः ॥ ५९ ॥
दृश्यन्ते दारुणाः स्वप्ना रोगी यैर् याति पञ्च-ताम् ।
अ-रोगः संशयं प्राप्य कश्-चिद् एव विमुच्यते ॥ ६० ॥
दृष्टः श्रुतो ऽनुभूतश् च प्रार्थितः कल्पितस् तथा ।
भाविको दोष-जश् चेति स्वप्नः सप्त-विधो मतः ॥ ६१ ॥
६.६१dv स्वप्नः सप्त-विधः स्मृतः
तेष्व् आद्या निष्-फलाः पञ्च यथा-स्व-प्रकृतिर् दिवा ।
विस्मृतो दीर्घ-ह्रस्वो ऽति पूर्व-रात्रे चिरात् फलम् ॥ ६२ ॥
६.६२bv यथा-स्वं प्रकृतिर् दिवा ६.६२cv विस्मृतो दीर्घ-ह्रस्वो ऽपि ६.६२cv
विस्मृतो दीर्घ-ह्रस्वो वा
दृष्टः करोति तुच्छं च गो-सर्गे तद्-अहर् महत् ।
निद्रया वान्-उपहतः प्रतीपैर् वचनैस् तथा ॥ ६३ ॥
६.६३av दृष्टः करोति तुच्छं वा ६.६३cv निद्रया चान्-उपहतः
याति पापो ऽल्प-फल-तां दान-होम-जपादिभिः ।
अ-कल्याणम् अपि स्वप्नं दृष्ट्वा तत्रैव यः पुनः ॥ ६४ ॥
६.६४av याति पापो ऽप्य् अ-फल-तां
पश्येत् सौम्यं शुभं तस्य शुभम् एव फलं भवेत् ।
देवान् द्वि-जान् गो-वृषभान् जीवतः सुहृदो नृपान् ॥ ६५ ॥
साधून् यशस्विनो वह्निम् इद्धं स्वच्छान् जलाशयान् ।
कन्याः कुमारकान् गौरान् शुक्ल-वस्त्रान् सु-तेजसः ॥ ६६ ॥
६.६६cv कन्यां कुमारकान् गौरान्
नराशनं दीप्त-तनुं समन्ताद् रुधिरोक्षितम् ।
यः पश्येल् लभते यो वा छत्त्रादर्श-विषामिषम् ॥ ६७ ॥
६.६७av नराशनं दीप्त-तनुः ६.६७bv समन्ताद् रुधिरोक्षितः
शुक्लाः सु-मनसो वस्त्रम् अ-मेध्यालेपनं फलम् ।
शैल-प्रासाद-स-फल-वृक्ष-सिंह-नर-द्वि-पान् ॥ ६८ ॥
आरोहेद् गो-ऽश्व-यानं च तरेन् नद-ह्रदोद-धीन् ।
पूर्वोत्तरेण गमनम् अ-गम्यागमनं मृतम् ॥ ६९ ॥
६.६९bv तरेन् नद-महोद-धीन्
संबाधान् निःसृतिर् देवैः पितृभिश् चाभिनन्दनम् ।
रोदनं पतितोत्थानं द्विषतां चावमर्दनम् ॥ ७० ॥
६.७०av संकटान् निःसृतिर् देवैः ६.७०dv द्विषतां चापमर्दनम्
यस्य स्याद् आयुर् आरोग्यं वित्तं बहु च सो ऽश्नुते ।
मङ्गलाचार-संपन्नः परिवारस् तथातुरः ॥ ७१ ॥
६.७१bv वित्तं स बहु-शो ऽश्नुते
श्रद्-दधानो ऽनुकूलश् च प्रभूत-द्रव्य-संग्रहः ।
सत्-त्व-लक्षण-संयोगो भक्तिर् वैद्य-द्वि-जातिषु ॥ ७२ ॥
चिकित्सायाम् अ-निर्वेदस् तद् आरोग्यस्य लक्षणम् ।
इत्य् अत्र जन्म-मरणं यतः सम्यग् उदाहृतम् ॥ ७३ ॥
शरीरस्य ततः स्थानं शारीरम् इदम् उच्यते ॥ ७३ऊ̆अब् ॥