असिद्धार्था नैव...

विकिपुस्तकानि तः

मूलम्
असिद्धार्था नैव क्वचिदपि सदेवासुरनरे।
निवर्तन्ते नित्यं जगति जयिनो यस्य विशिखाः।।
स पश्यन्नीश त्वामितरसुरसाधारणमभूत्।
स्मरः स्मर्तव्यात्मा न हि वशिषु पथ्यः परिभवः।। १५।।

पदच्छेदः-
असिद्धार्थाः न एव क्वचिद् अपि सदेव-असुर-नरे।निवर्तन्ते नित्यं जगति जयिनः यस्य विशिखाः।।
सः पश्यन् ईश त्वाम् इतर-सुर-साधारणम् अभूत्।स्मरः स्मर्तव्यात्मा न हि वशिषु पथ्यः परिभवः।।

अन्वयः
ईश, नित्यं सदेव-असुर-नरे क्वचिद् अपि जगति यस्य जयिनः विशिखाः असिद्धार्थाः न एव निवर्तन्ते ,सः स्मरः त्वाम् इतर-सुर-साधारणम् पश्यन् स्मर्तव्यात्मा अभूत्।हि वशिषु परिभवः पथ्यः न।। १५।।

सरलार्थः
हे ईश, जगति देवेषु असुरेषु नरेषु वा मदनस्य बाणाः नित्यविजयशालिनः सन्ति। ते कदापि विफलाः न प्रतिनिवर्तन्ते। सः मदनः त्वाम् इतरदेवैः सदृशं अमन्यत।तेन सः स्मृतिपथं गतवान् (मृतः) यतो हि मनोजयिनाम् अवमानः पथ्यः न भवति॥१५


शिवस्तोत्राणि   शिवमहिम्न: स्तोत्रं सपदच्छेदान्वयार्थम्
"https://sa.wikibooks.org/w/index.php?title=असिद्धार्था_नैव...&oldid=6170" इत्यस्माद् प्रतिप्राप्तम्