असुर-सुर-मुनीन्द्रै:...

विकिपुस्तकानि तः

मूलम्
असुर-सुर-मुनीन्द्रैरर्चितस्येन्दु-मौलेः।
ग्रथित-गुणमहिम्नो निर्गुणस्येश्वरस्य।।
सकल-गण-वरिष्ठः पुष्पदन्ताभिधानः।
रुचिरमलघुवृत्तैः स्तोत्रमेतच्चकार।। ३३।।

पदच्छेदः-
असुर-सुर-मुनीन्द्रैः अर्चितस्य इन्दु-मौलेः।ग्रथित-गुणमहिम्नः निर्गुणस्य ईश्वरस्य।।
सकल-गण-वरिष्ठः पुष्पदन्त-अभिधानः।रुचिरम् अलघुवृत्तैः स्तोत्रम् एतत् चकार।। ३३।।

अन्वयः-
सकल-गण-वरिष्ठः पुष्पदन्त-अभिधानः (कविः) असुर-सुर-मुनीन्द्रैः अर्चितस्य इन्दु-मौलेः ग्रथित-गुणमहिम्नः निर्गुणस्य ईश्वरस्य एतत् रुचिरम् स्तोत्रम् अलघुवृत्तैः चकार।। ३३।।

सरलार्थः-
सकलेषु शिवगणेषु मुख्यः पुष्पदन्तः।देवैः दानवैः मुनिभिः च पूजितः चन्द्रं मस्तके धारयन् यस्य गुणानां महिमा सर्वत्र वर्ण्यते, तादृशः निर्गुणः देवः शिवः।तादृशेन पुष्पदन्तकविना एतादृशस्य शिवस्य सुन्दरं स्तोत्रं दीर्घवृत्तैः निर्मितम्॥३३


शिवस्तोत्राणि      शिवमहिम्न: स्तोत्रं सपदच्छेदान्वयार्थम्
"https://sa.wikibooks.org/w/index.php?title=असुर-सुर-मुनीन्द्रै:...&oldid=6185" इत्यस्माद् प्रतिप्राप्तम्