अस्वप्रकाशरूपं दृश्यत्वम्

विकिपुस्तकानि तः

प्र.- अस्वप्रकाशरूपं दृश्यत्वं स्पष्टीकुरुत।
उ.-स्वप्रकाशत्वं नाम स्वापरोक्षे स्वव्यतिरिक्तानपेक्षत्वम्।एतदर्थं प्रमाणमेषा श्रुति:- यत्साक्षादपरोक्षाद् ब्रह्म ।ब्रह्म साक्षादपरोक्षम् इति अन्यानधीन-अपरोक्षत्ववत्। अत: प्रपञ्च: पराधीन-अपरोक्षत्ववान्।अन्यानधीन-अपरोक्षत्व-निरूपितभेदवत्त्वं दृश्यत्वम्। धर्माधर्मादय: नित्यपरोक्षा:।अत: तत्र नातिव्याप्ति:। घटादय: अन्याधीन-अपरोक्षा:। अत: तत्र नातिव्याप्ति:।
आक्षेप:-
यथा घटे अन्यानधीन-अपरोक्षत्वभेद: वर्तते तथा ब्रह्मणि अपि वर्तते।स एवम्- अन्यानधीन-अपरोक्षत्वम् ईश्वरे जीवे च वर्तेते । तथा ब्रह्मणि ईश्वरभेद: जीवभेद: च वर्तेते।अत: ब्रह्मणि अन्यानधीन-अपरोक्षत्वभेद: वर्तते।तेन तत्र दृश्यत्वमापतितम्।मिथ्यात्वाभाववति ब्रह्मणि दृश्यत्वहेतो: सत्त्वात् व्यभिचारदोष:।
समाधानम्
- ब्रह्मणि ईश्वरभेद: कल्पित:।
आक्षेप: -
भवतु। परं भवन्मते सर्वे भेदा: कल्पिता: एव, न पारमार्थिका:।
समा.-
ब्रह्मणि य: ईश्वरभेद: वर्तते, तस्य प्रतियोगी ईश्वर:।प्रतियोगितावच्छेदको धर्म: ईश्वरत्वम्।
अन्यानधीन-अपरोक्षत्वभेदे भेदस्य प्रतियोगी ब्रह्म।तत्र प्रतियोगितावच्छेदको धर्म: अन्यानधीनापरोक्षत्वम्।
ईश्वरस्य एतद्धर्मावच्छिन्नप्रतियोगिकभेद: ब्रह्मणि नास्ति।अत: तत्र दृश्यत्वरूपहेतु: नास्ति।

लघूत्तरप्रश्ना: