अहङ्कारतत्त्वम्
साङ्ख्यानां सर्गक्रमे महतः जायमानम् इदं तत्त्वम्।
कार्यकारणपरम्परा
[सम्पाद्यताम्]अहङ्कारस्य कारणम् -
[सम्पाद्यताम्]प्रकृतेर्महान् ततोऽहङ्कारः ...। सां.का.२२
मूलकारणम् | प्रकृतिः | |
---|---|---|
कार्यम् | महान् | कारणम् |
अहङ्कारः | कार्यम् |
एवम् अहङ्कारस्य कारणं महत्।
अहङ्कारस्य कार्यम्-
[सम्पाद्यताम्]...तस्माद् गणश्च षोडशकः।सां.का.२२
..... तस्माद् द्विविधः प्रवर्तते सर्गः।एकादशकश्च गणः तन्मात्रापञ्चकश्चैव।सां.का.२४
महान् | कारणम् | |
---|---|---|
कारणम् | अहङ्कारः | कार्यम् |
कार्यम् | षोडश तत्त्वानि (११ इन्द्रियाणि+५ तन्मात्राणि) |
अहङ्कारस्वरूपम्
[सम्पाद्यताम्]अभिमानोऽहङ्कारः .....। सा.का.२४
‘अहम्’ तथा ‘मम’ इति अहङ्कारस्य स्वरूपम्।मार्गे पतितं सर्पं दृष्ट्वा मनुष्यः पलायनम् आरभते।तदा अन्तःकरणे व्यापारः एवं भवति
अयं सर्पः इति निश्चयः ..... | बुद्धेः व्यापारः |
---|---|
अयं मम पीडाकरः..... | अहङ्कारव्यापारः |
अहम् इतः निवृत्तः भवामि..... | बुद्ध्यहङ्कारयोः व्यापारः |
अपरमुदाहरणं पश्यामः।मार्गे पतितं रजतखण्डं दृष्ट्वा कश्चित् तद् उद्धर्तुं प्रवृत्तः भवति।तदा अन्तःकरणे जायमानः व्यापारः ईदृशः
इदं रजतम् इति निश्चयः ..... | बुद्धेः व्यापारः |
---|---|
इदं मम सुखकरम् ..... | अहङ्कारव्यापारः |
अहम् इदम् उद्धरामि ..... | बुद्ध्यहङ्कारयोः व्यापारः |
एवं बुद्ध्या कृताः नैके अध्यवसायाः अहङ्कारपूर्वकाः सन्ति।
आयुर्वेदे अहङ्कारविचारः
[सम्पाद्यताम्]अधुना आयुर्वेदे अहङ्कारविषयकं विचारं पश्यामः।
इन्द्रियाणाम् उपादानकारणविषये साङ्ख्यायुर्वेदयोः मतभेदः विद्यते।एतस्य मतभेदस्य चर्चा सर्गक्रमप्रकरणे कृता।अत्र प्रसङ्गात् पुनः किञ्चित् क्रियते।
यद्यपि च सांख्ये आहंकारिकाणि इन्द्रियाणि यद् उक्तं सात्त्विक एकादशकः प्रवर्तते वैकृताद् अहंकाराद् इति तथापि मतभेदाद् भौतिकत्वम् इन्द्रियाणां ज्ञेयम् ..... । -चक्रपाणिः
इन्द्रियाणि भौतिकानि वा न वा इति अस्मिन् विषये साङ्ख्यायुर्वेदयोः यद् वैमत्यं दृश्यते, तदेवम्
साङ्ख्यशास्त्रे इन्द्रियाणि अहङ्कारजन्यानि मतानि ।अत्र आयुर्वेदे तु
एकैकाधिकयुक्तानि खादीनाम् इन्द्रियाणि तु। च.शा.१.२४
इति इन्द्रियाणां भूतजन्यत्वं प्रतिपाद्यते।एतयोः समञ्जनं कथं करणीयम् इति अग्रे इन्द्रियविवेचने विस्तरेण वक्ष्यते अतःअत्र न प्रपञ्च्यते।
इन्द्रियाणां भूतजन्यत्वं सुश्रुताचार्यः अपि अङ्गीकरोति
।
भौतिकानि चेन्द्रियाणि आयुर्वेदे वर्ण्यन्ते तथेन्द्रियार्थाः।सु.शा.१.१४
भूतोन्मादे दूष्यम् अहङ्कारः
[सम्पाद्यताम्]बुद्धितत्त्वस्य दुष्टिः पूर्वं दृष्टा।अहङ्कारः अपि दूष्यत्वेन अस्ति वा इति अत्र चिन्तयामः।
भूतोन्मादस्य स्वरूपम् एवं वर्णितम् –
अत्यात्मबल-वीर्य-पौरुष-पराक्रम-ग्रहण-धारण-स्मरण-ज्ञान-वचन-विज्ञानानि ...। - च.नि.७.१३
अत्यात्मशब्दो बलादिभिः प्रत्येकमभिसम्बध्यते।आत्मानम् अतिरिच्य इति अत्यात्म, तेन आत्म-अननुरूप-बलादियोगो भवति इत्यर्थः।– चक्रपाणिः
अमर्त्यवाग्विक्रमवीर्यचेष्टो ज्ञानादिविज्ञानबलादिभिर्यः।च.चि.९.१७
कथमत्र अहङ्कारस्य दूष्यत्वम् इति पश्यामः।
‘अहं गोपालः।‘अहं मनुष्यः।‘ ‘अहं कृषीवलः।‘इति एतत् अहङ्कारस्य स्वरूपम्।‘मम एतद् ज्ञानम्’। ‘मम एतद् बलम्’। ‘मम वचनम् ईदृशम्।‘ एतदपि अहङ्कारस्य एव स्वरूपम्।भूतोन्मादे अस्य दुष्टिः भवति, सा एवम्
देवादीनाम् अवमाननात् ते क्षुब्धाः भवन्ति।अथ ते देवादयः तं नरं प्रविशन्ति-
दर्पणादीन् यथा छाया शीतोष्णं प्राणिनो यथा ।स्वमणिं भास्करस्योस्रा यथा देहं च देहधृक् ।
विशन्ति च न दृश्यन्ते ग्रहास्तद्वच्छरीरिणम् ॥सु.उ.६०.१९
...अत्र छायादिदृष्टान्तचतुष्टयेन आद्यैर्हेतुभिः शरीरं क्षोभयित्वैवानुप्रविश्य लिङ्गैरात्मानं दर्शयन्ति इत्यर्थः।यथा देहं च देहधृगित्यनेन स्वमूर्तिमन्तर्निधाय विशन्तीति प्रदर्शितम्॥- सु.उ.६०.१९ डह्लणः
देवादीनाम् ग्रहाणाम् अनुचराः नरदेहं प्रविशन्ति तथा स्वलिङ्गानि दर्शयन्ति इति अर्थः। एते यदा नरदेहं प्रविशन्ति तदा तस्मिन् नरदेहे नरस्य अहङ्कारम् अभिभवन्ति स्वस्य अहङ्कारं संस्थापयन्ति च।अतः एव सः नरः ‘ अहं गोपालः’ ‘अहं मनुष्यः’ इत्यादिकं विस्मरति। तत्स्थाने ‘अहं देवः’ ‘अहं ब्रह्मराक्षसः’ इत्यादिकम् अभिमन्यते।तस्य तस्य ग्रहस्य वाचं वदति। तस्य तस्य ग्रहस्य विक्रमं दर्शयति।तस्य तस्य ग्रहस्य वीर्यं प्रकटयति।तस्य तस्य ग्रहस्य चेष्टाः आचरति।
यदा अयं नरः ग्रहमुक्तः भवति, तदा तस्य ग्रहस्य अहङ्कारात् मुक्तः भवति।तदानीं पुनः तस्य स्वस्य अहङ्कारः संस्थापितः भवति।अथ पुनः सः ‘अहं गोपालः’ ‘अहं मनुष्यः’ इत्यादिकम् अभिमानं प्रदर्शयति।
एवम् भूतोन्मादे अहङ्कारः अभिभूतः भवति।एषा एव अहङ्कारस्य दुष्टिः।
अस्याः दुष्टेः निराकरणाय युक्तिव्यापाश्रया, दैवव्यापाश्रया तथा सत्त्वावजयचिकित्सा च आयुर्वेदशास्त्रे उपदिष्टा।
साङ्ख्यायुर्वेदयोः