अहरहरनवद्यं ...

विकिपुस्तकानि तः

मूलम्
अहरहरनवद्यं धूर्जटेः स्तोत्रमेतत्।
पठति परमभक्त्या शुद्ध-चित्तः पुमान् यः।।
स भवति शिवलोके रुद्रतुल्यस्तथाऽत्र।
प्रचुरतर-धनायुः पुत्रवान् कीर्तिमांश्च।। ३४।।

पदच्छेदः -
अहः अहः अनवद्यं धूर्जटेः स्तोत्रम् एतत्।पठति परमभक्त्या शुद्ध-चित्तः पुमान् यः।।
सः भवति शिवलोके रुद्रतुल्यः तथा अत्र।प्रचुरतर-धन-आयुः पुत्रवान् कीर्तिमान् च।। ३४।।

अन्वयः-
यः पुमान् शुद्ध-चित्तः (सन्) धूर्जटेः एतत् अनवद्यं स्तोत्रम् अहः अहः परमभक्त्या पठति,सः शिवलोके रुद्रतुल्यः भवति तथा अत्र प्रचुरतर-धन-आयुः, पुत्रवान् कीर्तिमान्, च (भवति)।। ३४।।

सरलार्थः-
यः शुद्धचित्तः मनुष्यः शिवस्य एतद् निर्दोषं स्तोत्रं प्रतिदिनं परमभक्त्या पठति सः शिवलोके रुद्रतुल्यः भवति।इहलोके च सः विपुलं धनं प्राप्नोति, दीर्घम् आयुः प्राप्नोति, पुत्रान् लभते, कीर्तिम् अवाप्नोति॥३४


  शिवस्तोत्राणि     शिवमहिम्न: स्तोत्रं सपदच्छेदान्वयार्थम्
"https://sa.wikibooks.org/w/index.php?title=अहरहरनवद्यं_...&oldid=6186" इत्यस्माद् प्रतिप्राप्तम्